摩诃婆罗多 · 章 3.70
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.70.1
स नदीः पर्वतांश्चैव वनानि च सरांसि च ।
अचिरेणातिचक्राम स्वेचरः खे चरन्निव ॥ ३.७०.१ ॥
他瞬间穿越河流、山峦、森林与湖泊,仿佛在天空中随意飞行。
3.70.2
तथा प्रयाते तु रथे तदा भागस्वरिर्नृपः ।
उत्तरीयमधोपश्यद्धष्टं परपुरंजयः ॥ ३.७०.२ ॥
战车这样疾驰而去时,征服敌城的国王跋伽斯瓦里看见自己的上衣落在下面。
3.70.3
ततः स त्वरमाणस्तु पटे निपतिते तदा ।
ग्रहीष्यामीति तं राजा नलमाह महामनाः ॥ ३.७०.३ ॥
这时布帛落下,心胸宽广的国王急忙对那罗说:“我要把它拿回来。”
3.70.4
निगृह्णीष्व महाबुद्धे हयानेतान्महाजवान् ।
वार्ष्णेयो यावदेनं मे पटमानयतामिह ॥ ३.७०.४ ॥
“大智者啊,请勒住这些疾驰的马,直到瓦尔什尼之子把我的布帛拿来。”
3.70.5
नलस्तं प्रत्युवाचाथ दूरे भ्रष्टः पटस्तव ।
योजनं समतिक्रान्तो नाहर्तुं शक्यते पुनः ॥ ३.७०.५ ॥
那罗回答他:“你的布帛已经落在远处,飞出了一由旬,不可能再取回来了。”
3.70.6
एवमुक्ते नलेनाथ नातिप्रीतमना नृपः ।
आससाद वने राजन्फलवन्तं बिभीतकम् ॥ ३.७०.६ ॥
那罗这样说后,国王心中并不十分欢喜,走向森林中一棵结满果实的毗毗多迦树。
3.70.7
तं दृष्ट्वा बाहुकं राजा त्वरमाणोऽभ्यभापत ।
ममापि सूत पश्य त्वं संख्याने परमं बलम् ॥ ३.७०.७ ॥
国王见到这位巴忽迦,急切地说:御者啊,你也看看我在计算上的至高本领。
3.70.8
सर्वः सर्वं न जानाति सर्वज्ञो नास्ति कश्चन ।
नैकत्र परिनिष्ठाऽस्ति ज्ञानस्य पुरुषे क्वचित् ॥ ३.७०.८ ॥
人人都不能知晓一切,也没有全知者;知识的究竟圆满,从不存在于某一个人身上。
3.70.9
वृक्षेऽस्मिन्यानि पर्णानि फलामेकं च बाहुक ।
पतितान्यपि यान्यत्रतत्रैकमधिकं कृतम् ॥ ३.७०.९ ॥
巴忽迦啊,这棵树上的叶子和果实,以及散落各处的,已被计算在内,而且多算了一个。
3.70.10
एवपत्राधिकं चात्र फलमेकं च बाहुक ।
फलकोट्यपि पत्राणां द्वयोरपि च शाखयोः।
प्रवक्ष्यामि फलान्यत्र यानि संख्यास्यते भवान् ॥ ३.७०.१० ॥
如此,这里叶子多了一片,果子也多了一个。巴忽迦啊,两根树枝上的叶子,我连千万之数也能说出;你在这里所要数的果实,我也说。
3.70.11
प्रचिनुह्यस्य शाखे द्वे याश्चाप्यन्याः प्रशाखिकाः ।
आभ्यां फलसहस्रे द्वे पञ्चोनं शतमेव च ॥ ३.७०.११ ॥
请数这棵树的两根大枝和其他小枝。这两根枝上有二千个果实,还有一百减五个。
3.70.12
ततो रथादवप्लुत्य राजानं बाहुकोऽब्रवीत् ।
परोक्षमिव मे राजन्कत्थसे शत्रुकर्शन ॥ ३.७०.१२ ॥
于是,巴忽迦从车上跳下,对国王说:大王啊,征服敌人者啊,你夸耀的仿佛是我看不见的东西。
3.70.13
प्रत्यक्षमेतत्कर्ताऽस्मि शातयित्वा विभीतकम् ।
अथ ते गणिते राजन्द्विजामाम्यपरोक्षताम् ॥ ३.७०.१३ ॥
此事就在眼前:我将砍下毗毗陀迦树,为你计数。那么,国王啊,你在计数上将获得那不隐之技。
3.70.14
प्रत्यक्षं ते महाराज् गणयिष्ये विभीतकम् ।
अहं हि नाभिजानामि भवेदेव नवेति वा ॥ ३.७०.१४ ॥
伟大的国王啊,在你面前我将数那毗毗陀迦树的果实。我不确定它们是九个还是别的数目。
3.70.15
संख्यास्यामि फलान्यस्य पशय्तस्ते जनाधिप ।
मुहूर्तमपि वार्ष्णेयो रश्मीन्यच्छतु वाजिनाम् ॥ ३.७०.१५ ॥
人主啊,你看着的时候,我将数它的果实。请让般尼族的后裔(Vārṣṇeya)暂时执掌马缰。
3.70.16
तमब्रवीन्नृपः सूतं नायं कालो विलम्बितुम् ।
बाहुकस्त्वब्रवीदेनं परं यत्नं समास्थितः ॥ ३.७०.१६ ॥
国王对那位御者说:「此时不宜拖延。」而巴胡迦竭尽全力回答了他。
3.70.17
प्रतीक्षस्व मुहूर्तं त्वमथवा त्वरते भवान् ।
एष याति शिवः पन्था याहि वार्ष्णेयसारथिः ॥ ३.७०.१७ ॥
请稍候一刻,还是你着急?这是吉祥之路;请与般尼族的后裔作御者前行。
3.70.18
अब्रवीदृतुपर्णस्तं सान्त्वयन्कुरुनन्दन ।
त्वभेव यन्ता नान्योस्ति पृथिव्यामपि बाहुक ॥ ३.७०.१८ ॥
于是利图巴尔那安慰他说:「库鲁族的喜悦啊,巴胡迦,大地上没有别的御者,只有你。」
3.70.19
त्वत्कृतेयातुमिच्छामि विदर्भान्हयकोविद ।
शरणं त्वांप्रपन्नोस्मि न विघ्नं कर्तुमर्हसि ॥ ३.७०.१९ ॥
精通马术者啊,我因你之故想前往毗达跋。我已投靠于你,你不应设障碍。
3.70.20
कामं च ते करिष्यामि यन्मां वक्ष्यसि बाहुक ।
विदर्भान्यदि यात्वाऽद्य सूर्यं दर्शयितासि मे। ॥ ३.७०.२० ॥
巴呼迦啊,你所吩咐的,我都欣然照办。若你今日便送我到毗达跋,便等于让我见到了太阳。
3.70.21
अथाब्रवीद्बाहुकस्तं संख्यायच बिभीतकम् ।
ततो विदर्भान्यास्यामि कुरुष्वैवं वचो मम ॥ ३.७०.२१ ॥
于是巴呼迦对他说:“你且数一数那棵毗毗陀迦树。然后我便去毗达跋;请照我的话去做。”
3.70.22
अकाम इव तं राजा गणयस्वेत्युवाच ह ।
एकदेशं च शाखायाः समादिष्टं मयाऽनघ ॥ ३.७०.२२ ॥
国王仿佛不情愿地对他说:“数吧。”而且,无罪者啊,请数我所指的那枝树枝的一部分。
3.70.23
गणयस्वाश्वतत्वज्ञ ततस्त्वंप्रीतिमावह ।
सोऽवतीर्य रथात्तूर्णं शातयामास तं द्रुमम् ॥ ३.७०.२३ ॥
精通马之真理者啊,你数吧,然后你便会欢喜。他迅速从车上下来,将那棵树砍倒。
3.70.24
ततः स विस्मयाविष्टो राजानमिदमब्रवीत् ।
गणयित्वायथोक्तानि तावन्त्येव फलानि तु ॥ ३.७०.२४ ॥
于是他满怀惊异地对国王说:“已经数过了,果实的数目正如所说的那样多。”
3.70.25
अत्युद्भुतमिदं राजन्दृष्टवानस्मि ते बलम् ।
श्रोतुमिच्छामि तां विद्यां ययैतज्ज्ञायते नृप ॥ ३.७०.२५ ॥
大王,我见到了你那极其奇妙的力量。大王,我希望听闻那使人得知此事的学问。
3.70.26
तमुवाच ततो राजा त्वरितो गमने नृप ।
विद्ध्यक्षहृदयज्ञं मां संख्याने च विशारदम् ॥ ३.७०.२६ ॥
于是国王急切地对他说:大王,你应知道我通晓骰子的内情,并精于计算。
3.70.27
बाहुकस्तमुवाचाथ देहि विद्याद्वयं च मे ।
मत्तोऽपि चाश्वहृदयं गृहाण पुरुपर्पभ ॥ ३.७०.२७ ॥
于是巴呼迦对他说:请把两门学问给我,并从我这里也取得马的内情,人中之最。
3.70.28
ऋतुपर्णस्ततो राजा बाहुकं कार्यगौरवात् ।
हयज्ञानस्य लोभाच् तं तथेत्यब्रवीद्वचः ॥ ३.७०.२८ ॥
于是国王如闻波那,因事情重大,又贪求马的学问,便对巴呼迦说了这话:「就这样吧。」
3.70.29
यथोक्तं त्वं गृहाणेदमक्षाणां हृदयं परम् ।
निक्षेपो मेऽश्वहृदयं त्वयि तिष्ठतु बाहुक।
एवमुक्त्वा ददौ विद्यामृतुपर्णो नलाय वै ॥ ३.७०.२९ ॥
如所说的那样,你接受这骰子的至上内情吧。我的马的内情就寄托在你那里吧,巴呼迦。如此说完,如闻波那便把那门学问传给了那罗。
3.70.30
तस्याक्षहृदयज्ञस्य शरीरान्निःसृतः कलिः ।
कर्कोटकविषं तीक्ष्णं मुखात्सततमुद्वमन्।
कलेस्तस्य तदार्तस्य शापाग्निः स विनिःसृतः ॥ ३.७०.३० ॥
从通晓骰子之心的那人身上走出了迦利,他不断从口中吐出迦尔科塔迦的猛烈毒液。从那受苦的迦利身上,迸出了诅咒之火。
3.70.31
सातेन कर्शितो राजादीर्घकालमनात्मवान् ॥ ३.७०.३१ ॥
国王被迦利的折磨所消耗,长久以来失去了自制。
3.70.32
तं भ्राम्तरूपं निःशोभं संक्लिष्टमकरोत्कलिः ।
ततो विषविमुक्तात्मा स्वंरूपमकरोत्कलिः।
तं शप्तुमैच्छत्कुपितो निषधाधिपतिर्नलः ।
ततो विषविमुक्तात्मा स्वंरूपमकरोत्कलिः।
तं शप्तुमैच्छत्कुपितो निषधाधिपतिर्नलः ॥ ३.७०.३२ ॥
他造出了形貌迷乱、失去光彩、备受折磨的迦利。随后,身心摆脱毒害的迦利恢复了自己的本相。愤怒的尼沙陀之主那罗欲诅咒他。随后,身心摆脱毒害的迦利恢复了自己的本相。愤怒的尼沙陀之主那罗欲诅咒他。
3.70.33
तमुवाच कलिर्भीतो वेपमानः कृताञ्जलिः ।
कोपं संयच्छ नृपते कीर्तिं दास्यामि ते पराम् ॥ ३.७०.३३ ॥
迦利惊恐颤抖,合掌对他说:国王啊,请克制你的愤怒;我将赐予你至高的名声。
3.70.34
इन्द्रसेनस्य जननी कुपिता माऽशपत्पुरा ।
यदा त्वया परित्यक्ता ततोऽहं भृशपीडितः ॥ ३.७०.३४ ॥
因陀罗森之母曾在愤怒中先前诅咒过我:当你被他抛弃时,我将极度痛苦。
3.70.35
अवसं त्वयि राजेन्द्र सुदुःखभपराजित ।
विषेण नागराजस्य दह्यमानो दिवानिशम् ॥ ३.७०.३५ ॥
啊,诸王之主,啊,无敌者!我在你之中极其痛苦地居住,昼夜被蛇王的毒所焚烧。
3.70.36
शरणं त्वां प्रपन्नोस्मि शृणु चेदं वचो मम ।
ये च त्वां मनुजा लोके कीर्तयिष्यन्त्यतन्द्रिताः।
मत्प्रत्सूतं भयं तेषां न कदाचिद्भविष्यति ॥ ३.७०.३६ ॥
我已投奔你为依靠;请听我这番话。世上那些不知疲倦地颂扬你之名的人,永远不会遭受由我所生的恐惧。
3.70.37
न तेषां मानसं किंचिच्छारीरं वाचिकं तथा ।
भविष्यति महाराज कीर्तयिष्यन्ति ये नलम्।
भयार्तं शरणं यातं यदि मां त्वं न शप्स्यसे ॥ ३.७०.३७ ॥
大王啊,凡赞颂那罗者,心中、身体或言语都不会遭受任何苦恼。若你不诅咒这个因恐惧而前来寻求庇护的我。
3.70.38
एवमुक्तो नलो राजा न्ययच्छत्कोपमात्मनः ।
ततो बीतः कलिः क्षिप्रं प्रविवेश विभीतकम्।
कलिस्त्वन्येन नो दृष्टः कथयन्नैषधेन वै ॥ ३.७०.३८ ॥
被如此称呼后,那罗王抑制了自己的愤怒。于是迦利迅速逃走,进入了毗毗咤迦树。当纳沙陀王说话时,没有别人看见迦利。
3.70.39
ततो गतत्वरो राजा नैषधः परवीरहा ।
संप्रनष्टे कलौ राजा संख्यायास्य फलान्युत ॥ ३.७०.३९ ॥
那时,迅速离去的纳沙陀王,那位杀死敌方英雄者,待迦利完全离去后,计算了它所带来的后果……
3.70.40
मुदा परमया युक्तस्तेजसाऽथ परेण वै ।
रथमारुह्य तेजस्वी प्रययौ जवनैर्हयैः ॥ ३.७०.४० ॥
那位充满无上喜悦与无上光辉的光耀之王,登上战车,驾着疾驰的骏马出发了。
3.70.41
बिभीतकश्चाप्रशस्तः संवृत्तः कलिसंश्रयात् ।
ततः प्रभृतिराजेन्द्र लोकेऽस्मिन्पाण्डुनन्दन ॥ ३.७०.४१ ॥
毗毗咤迦树因依附迦利而变得不吉祥。自那时起,王中之王啊,般度之子啊,此后在这个世界上便是如此。
3.70.42
हयोत्तभानुत्पततो द्विजानिव पुनः पुनः ।
नलः संचोदयामास प्रहृष्टेनान्तरात्मना ॥ ३.७०.४२ ॥
那罗握着马缰,如鸟般一次又一次地腾空飞驰,以欢悦的内心催动骏马前行。
3.70.43
विदर्भाभिमुखो राजा प्रययौ स महायशाः ।
नले तु समतिक्रान्ते कलिरप्यगमद्गृहम् ॥ ३.७०.४३ ॥
那罗离去之后,那位大名之王向毗达婆国而去;迦利也回到了自己的住所。
3.70.44
ततो गतज्वरो राजा नलोऽभूत्पृथिवीपतिः ।
विमुक्तः कलिना राजन्रूपमात्रवियोजितः ॥ ३.७०.४४ ॥
此后,摆脱了烦热的国王那罗成为大地之主。大王,他脱离了迦利的控制,只在外貌上有所分离。