摩诃婆罗多 · 章 3.71
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.71.1
ततो विदर्भान्संप्राप्तं सायाह्ने सत्यविक्रमम् ।
ऋतुपर्णं जना राज्ञे भीमाय प्रत्यवेदयन् ॥ ३.७१.१ ॥
随后,黄昏时分,人们向国王毗摩报告,真勇的遮都波尔那已抵达毗达把。
3.71.2
स भीमवचनाद्राजा कुण्डिनं प्राविशत्पुरम् ।
नादयन्रथघोषेण सर्वाः स विदिशो दिशः ॥ ३.७१.२ ॥
遵从毗摩之言,国王驾着车声隆隆驶入俱头那城,使所有方位与旁方都回响不绝。
3.71.3
ततस्तं रथनिर्घोषं नलाश्वास्तत्र शुश्रुवुः ।
श्रुत्वा तु समहृष्यन्त पुरेव नलसन्निधौ ॥ ३.७१.३ ॥
那里,那罗的马听到了那车声;听闻之后,它们欢喜起来,仿佛就在城中、在那罗身边一般。
3.71.4
दमयन्ती तु शुश्राव रथघोषं नलस्य तम् ।
यथा मेघस्य नदतो गम्भीरं जलदागमे ॥ ३.७१.४ ॥
达摩衍蒂听到了那罗的车声,深沉如雨季来临时云层的雷鸣。
3.71.5
परं विस्मयमापन्ना श्रुत्वा नादं महास्वनम् ।
नलेन संगृहीतेषु पुरेव नलवाजिषु।
सदृशं रथनिर्घोषं मेने भैमी तथा हयाः ॥ ३.७१.५ ॥
听到那巨大的声响,毗摩之女大为惊异;她以为那车声与城中之声无异,就在那罗所御的马群之间。
3.71.6
प्रासादस्थाश्च शिखिनः शालास्थाश्चैव वारणाः ।
हयाश्च शुश्रुवुस्तस्य रथघोषं महीपतेः ॥ ३.७१.६ ॥
宫殿楼台上的孔雀,以及马厩中站立的象与马,都听到了那地上之主的车声。
3.71.7
तच्छ्रुत्वा रथनिर्घोषं वारणाः शिखिनस्तथा ।
प्रवेदुरुन्मुखा राजन्दृष्ट्वेव जलदोदयम् ॥ ३.७१.७ ॥
闻听那车辆的轰鸣,大象与孔雀,哦王者,仿佛看见雨云升起,都仰起头来鸣叫。
3.71.8
यथाऽसौ रथनिर्घोषः पूरयन्निव मेदिनीम् ।
ममाह्लादयते चेतो नल एव महीपतिः ॥ ३.७१.८ ॥
那车辆的轰鸣仿佛充满大地,使我的心欢喜;那必定是君主那罗。
3.71.9
अद्य नन्द्राभवक्रं तं न पश्यामि नलं यदि ।
असंख्येयगुणं वीरं विनङ्क्ष्यामि न संशयः ॥ ३.७१.९ ॥
若今日我见不到那位德行无数的英雄那罗,我必定灭亡,毫无疑问。
3.71.10
यदि वै तस्य वीरस्य हाह्वोर्नाद्याहमन्तरम् ।
प्रविशामि सुखस्पर्शं नभविष्याम्यसंशयम् ॥ ३.७१.१० ॥
若今日我不能进入那位英雄臂膀之间那令人愉悦的怀抱,我将不复存在,毫无疑问。
3.71.11
यदि मां मेघनिर्घोषो नोपगच्छति नैषधः ।
अद्य चामीकरप्रख्यं प्रवेक्ष्यामि हुताशनम् ॥ ३.७१.११ ॥
若那位声如雷鸣的那伽陀(那罗)不来到我这里,今日我将投入如黄金般光辉的火中。
3.71.12
यदि मां सिंहविक्रान्तो मत्तवारणविक्रमः ।
नाभिगच्छतिराजेन्द्रो विनङ्क्ष्यामि न संशयः ॥ ३.७१.१२ ॥
若那位步伐如狮、勇力如狂象的王中之王不来到我这里,我必定灭亡,毫无疑问。
3.71.13
न स्मराम्यनृतं किंचिन्न स्मराम्यपकारताम् ।
न च पर्युषितं वाक्यं स्वैरेष्वपि महात्मनः ॥ ३.७१.१३ ॥
我不记得那位大德者说过任何谎言,也不记得他做过任何伤害之事,即便是戏言中,他也从未说过空泛无用之语。
3.71.14
प्रभुः क्षमावान्वीरश्च दाता चाप्यधिको नृपैः ।
अहो नीचानुवर्ती च क्लीबवन्मम नैषध ॥ ३.७१.१४ ॥
他有能力、能忍耐、英勇,又慷慨,甚至胜过其他国王。唉!纳伊沙陀啊,如今他追随卑贱之人,对我而言竟如同阉人。
3.71.15
गुणांस्तस्य स्मरन्त्या मे तत्पराया दिवानिशम् ।
हृदयं दीर्यत इदं शोकात्प्रियविनाकृतम् ॥ ३.७१.१५ ॥
我日夜思念他的美德,心中只有他,如今与所爱分离,这颗心因悲痛而碎裂。
3.71.16
एवं विलपमाना सा नष्टसंज्ञेव भारत ।
आरुरोह महद्वेश्म पुण्यश्लोकदिदृक्षया ॥ ३.७१.१६ ॥
婆罗多啊,她如此哀哭,仿佛失去了知觉,为了想见那位圣名远扬之人,她登上了一座大殿。
3.71.17
ततो मध्यमकक्षायां ददर्श रथमास्थितम् ।
ऋतुपर्णं महीपालं सहवार्ष्णेयबाहुकम् ॥ ३.७१.१७ ॥
随后,她在中庭看见国王如衣婆那站在战车上,与婆尔什涅耶·巴呼迦在一起。
3.71.18
ततोऽवतीर्य वार्ष्णएयो बाहुकश्च रथोत्तमात् ।
हयांस्तानवमुच्याथ स्थापयामासतू रथम् ॥ ३.७१.१८ ॥
随后,婆尔什涅耶·巴呼迦从那辆上好的战车上下来,解开那些马,然后让战车停下。
3.71.19
सोऽवतीर्य रथोपस्थादृतुपर्णो नराधिपः ।
उपतस्थे महाराजं भीमं भीमपराक्रमम् ॥ ३.७१.१९ ॥
人主ṛtuparṇa从车座上下来,走到威武non勇的大王Bhīma面前。
3.71.20
तं भीमः प्रतिजग्राह पूजया परया मुदा ।
स तेन पूजितो राज्ञा ऋतुपर्णो नराधिपः ॥ ३.७१.२० ॥
Bhīma以最高的敬意与欢喜接待了他;人主ṛtuparṇa受到了大王Bhīma的礼遇。
3.71.21
स तत्र कुण्डिने रम्ये वसमानो महीपतिः ।
न च किंचित्तदाऽपश्यत्प्रेक्षमाणो मुहुर्मुहुः।
स तु राज्ञा समागम्य विदर्भपतिना तदा ॥ ३.७१.२१ ॥
这位大地之主住在美丽的Kuṇḍina,屡次张望,却那时什么也没有看见;随后与Vidarbha之王相见。
3.71.22
किं कार्यं स्वागतं तेऽस्तु राज्ञा पृष्टः स भारत ।
नाभिजज्ञे स नृपतिर्दुहित्रर्थे समागतम् ॥ ३.७१.२२ ॥
国王问道:“您有何事?欢迎光临。”婆罗多啊,那位人主并未认出这位为女儿而来的人。
3.71.23
ऋतुपर्णोपि राजा स धीमान्सत्यपराक्रमः ।
राजानं राजपुत्रं वा न स्म पश्यति कंचन ॥ ३.७१.२३ ॥
那位智慧且勇力真实的ṛtuparṇa王,也从不见任何国王或王子。
3.71.24
नैव स्वयंवरकथां न च विप्रसमागमम् ।
न चान्यं कंचिदारम्भं स्वयंवरविधिं प्रति ॥ ३.७१.२४ ॥
他既不知道择婿大会(svayaṃvara)的故事,也不知道婆罗门的聚会,以及与择婿之礼有关的任何其他安排。
3.71.25
ततो विगणयद्राजा मनसा कोसलाधिपः ।
आगतोस्मीत्युवाचैनं भवन्तमभिवादुकः ॥ ३.७१.२५ ॥
于是科萨拉之主在心中思量,对他说:“我来了,想要向您致敬。”
3.71.26
राजापि च स्मयन्भीमो मनसा समचिन्तयत् ।
अधिकं योजनशतं तस्यागमनकारणम्।
ग्रामान्बहूनतिक्रम्य नाध्यगच्छद्यथातथम् ॥ ३.७१.२६ ॥
国王毗摩也微笑着在心中思量:“他来的原因远在百由旬之外。”虽然经过了许多村庄,他却没有探明真正的原因。
3.71.27
अल्पकार्यं विनिर्दिष्टं तस्यागमनकारणम् ।
पश्चादुदर्के ज्ञास्याप्रि कारणं यद्भविष्यति ॥ ३.७१.२७ ॥
“他来的原因被说成只是小事。以后,将来,无论是什么,我都会知道真正的原因。”
3.71.28
नैतदेवं स नृपतिस्तं सत्कृत्य व्यसर्जयत् ।
विश्राम्यतामित्युवाच क्लान्तोसीति पुनःपुनः ॥ ३.७१.२८ ॥
“并非如此。”那位国王礼遇他并送他离去,一再说:“请休息,您已疲倦了。”
3.71.29
स सत्कृतः प्रहृष्टात्मा प्रीतः प्रीतेन पार्थिवः ।
राजप्रेष्यैरनुगतो दिष्टं वेश्म समाविशत् ॥ ३.७१.२९ ॥
那位国王受到礼遇,心中欢喜,在王的侍从陪同下,进入了为他安排的住处。
3.71.30
ऋतुपर्णे गते राजन्वार्ष्णेयसहिते नृपे ।
बाहुको रथमादाय रथशालामुपागमत् ॥ ३.७१.३० ॥
大王啊,当里图帕尔纳与伐尔什涅亚一同离去后,巴呼迦取了车,来到车库。
3.71.31
स मोचयित्वा तानश्वानुपचर्य च शास्त्रतः ।
स्वयं चैतान्समाश्वास्य रथोपस्थ उपाविशत् ॥ ३.७१.३१ ॥
他解开那些马,依照法则照料它们,并亲自安抚它们,然后坐在车座上。
3.71.32
दमयन्त्यपि शोकार्ता दृष्ट्वा भागस्वरिं नृपम् ।
सूतपुत्रं च वार्ष्णेयं बाहुकं च तथाविधम् ॥ ३.७१.३२ ॥
悲伤所苦的达摩衍蒂也看见了国王婆伽斯伐利、御者之子跋湿涅耶,以及那样的婆具迦。
3.71.33
चिन्तयामास वैदर्भी कस्यैष रथनिःस्वनः ।
नलस्येव महानासीन्न च पश्यामि नैषधम् ॥ ३.७१.३३ ॥
毗陀婆公主思忖道:“这是谁的车声?它宏大如那罗的车声,可我却看不见纳伊沙陀。”
3.71.34
वार्ष्णोयेन भवेन्नूनं विद्या सैवोपशिक्षिता ।
तेनाद्य रथनिर्घोषो नलस्येव महानभूत् ॥ ३.७१.३४ ॥
想必跋湿涅耶已很好地习得了那门技艺,因此今日他的车声变得如那罗的一般宏大。
3.71.35
कआहोस्विदृतुपर्णोऽपि यथा राजा नलस्यथा ।
यथाऽयंरथनिर्घोषो नैषधस्येव लक्ष्यते ॥ ३.७१.३५ ॥
这是国王利图波尔那吗?或者,如同那罗的一样,这车声听来仿佛是纳伊沙陀的。
3.71.36
एवं सा तर्कयित्वा तु दमयन्ती विशांपते ।
दूतीं प्रस्थापयामास नैषधान्वेषणे शुभा ॥ ३.७१.३६ ॥
人主啊,达摩衍蒂如此思量之后,便派遣一名女使去寻找纳伊沙陀。