Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.72

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.72.1

गच्छ केशिनि जानीहि क एष रथवाहकः ।
उपविष्टो रथोपस्थे विकृतो ह्रस्वबाहुकः ॥ ३.७२.१ ॥

克西尼啊,去打听一下,坐在车座上的这位御者是谁,他相貌丑陋,手臂短小。

3.72.2

अभ्येत्य कुशलं भद्रे मृदुपूर्वंसमाहिता ।
पृच्छेथाः पुरुषे ह्येनं यथातत्त्वमनिन्दिते ॥ ३.७२.२ ॥

吉祥的人啊,心平气和地走近,先温和地问候他的安好;无瑕的人啊,请如实地询问那位男子。

3.72.3

अत्र मे महती शङ्का भवेदेष नलो नृपः ।
यथाच मनसस्तुष्टिर्हृदयस्य च निर्वृतिः ॥ ३.७२.३ ॥

我心中有很大的疑虑:这位君王会不会就是那罗王?若是,我的心意便得满足,内心便得安宁。

3.72.4

ब्रूयाश्चैनं कथान्ते त्वं पर्णादवचनं यथा ।
प्रतिवाक्यं च सुश्रोणि बुद्ध्येथास्त्वमनिन्दिते ॥ ३.७२.४ ॥

美腰的人啊,谈话结束时,你把波那的话告诉他;无瑕的人啊,要留意他的回答。

3.72.5

एवं समाहिता गत्वा दूती बाहुकमब्रवीत् ।
दमयन्त्यपि कल्याणी प्रासादस्थाऽनव्वैक्षत ॥ ३.७२.५ ॥

就这样,使者心平气和地走到巴呼迦身边与他说话;吉祥的达马衍蒂也站在宫殿上观望。

3.72.6

स्वागतं ते मनुष्येन्द्र कुशलं ते ब्रवीम्यहम् ।
दमयन्त्या वचः साधु निबोध पुरुषर्षभ ॥ ३.७२.६ ॥

人中之主,欢迎你;我问候你的安好。人中之雄,请听达马衍蒂的善言。

3.72.7

कदा वै प्रस्थिता यूयं किमर्थमिह चागताः ।
तत्त्वं ब्रूहि यथान्यायं वैदर्भी श्रोतुमिच्छति ॥ ३.७२.७ ॥

你们何时启程,为何事来到此地?请依礼如实讲来,毗达婆国的公主想听。

3.72.8

श्रुतः स्वयंवरो राज्ञा कोसलेन महात्मना ।
द्वितीयो दमयन्त्या वै भविता श्व इति द्विजात् ॥ ३.७२.८ ॥

高尚的憍萨罗王从一位婆罗门那里听说:达摩衍蒂的第二次自选夫婿大典将于明日举行。

3.72.9

श्रुत्वैतत्प्रस्थितो राजा शतयोजनयायिभिः ।
हयैर्वातजवैर्मुख्यैरहमस्य च सारथिः ॥ ३.७२.९ ॥

国王听闻此事,便驾着能奔跑百由旬、疾如风的良马出发了;而我是他的御者。

3.72.10

अथ योसौ तृतीयो वः स कुतः कस्य वा पुनः ।
त्वं च कस्य कथं चेदंत्वयि कर्म समाहितम् ॥ ३.७२.१० ॥

你们中的第三人是谁,从何而来,属于谁?你又属于谁,这件事又是如何托付给你的?

3.72.11

पुण्यश्लोकस्य वै सूतो वार्ष्णेय इति विश्रतः ।
स नले विद्रुते भद्रेभागस्वरिमुपस्थितः ॥ ३.७२.११ ॥

那位圣名远扬者(纳拉)的御者,以瓦尔什涅耶之名闻名。善女啊,纳拉逃走后,他便入侍于巴伽斯伐丽。

3.72.12

अहमप्यश्वकुशलः सूतत्वे च प्रतिष्ठितः ।
ऋतुपर्णेन सारथ्ये भोजने च वृतः स्वयम् ॥ ३.७२.१२ ॥

我也精通驯马,并以御车为业。里图帕尔纳亲自聘我为御者与厨师。

3.72.13

अथ जानाति वार्ष्णेयः क्वनु राजा नलो गतः ।
कथं च त्वयि वा तेन कथितं स्यात्तु बाहुक ॥ ३.७२.१३ ॥

那么,这位vṛṣṇi后裔知道国王那罗去了哪里吗?或者他会如何告诉你,巴呼迦?

3.72.14

इहैव पुत्रौ निक्षिप्य नलस्य प्रियदर्शनौ ।
गतस्ततो यथाकामं नैष जानाति नैषधम् ॥ ३.७२.१४ ॥

他把那罗两个俊美的儿子留在这里,便随意往别处去了;这人并不认识尼沙陀人那罗。

3.72.15

न चान्यः पुरुषः कश्चिन्नलं वेत्ति यशस्विनि ।
गूढश्चरति लोकेऽस्मिन्नष्टरूपो महीपतिः ॥ ३.७२.१५ ॥

荣耀的女子啊,再没有别的人认识那罗;在这世上,那位地上之主隐秘地游走,面貌已经改变。

3.72.16

आत्मैव तु नलं वेद या चास्य तदनन्तरा ।
न हि वै स्वानि लिङ्गानि नलं शंसन्ति कर्हिचित् ॥ ३.७२.१६ ॥

只有他自己的本我认识那罗,其次是与他最亲近的人;他自己的标记从来不会显露那罗。

3.72.17

योसावयोध्यां प्रथमं गतोसौ ब्राह्मणस्तदा ।
इमानि नारीवाक्यानि कथयानः पुनःपुनः ॥ ३.७२.१७ ॥

那位先前前往阿逾陀的婆罗门,当时反复诵说这位女子的这些话。

3.72.18

क्वनु त्वं कितव च्छित्त्वा वस्त्रार्धं प्रस्थितो मम ।
उत्सृज्य विपिने सुप्तामनुरक्तां प्रियां प्रिय ॥ ३.७२.१८ ॥

赌徒啊,你去了哪里?割下我衣裳的一半,你动身离去,把在林中熟睡的、对你一往情深的爱妻抛下了,亲爱的!

3.72.19

सा वै यथा समादिष्टा तथाऽऽस्ते त्वत्प्रतीक्षिणी ।
दह्यमाना दिवारात्रौ वस्त्रार्धेनाभिसंवृता ॥ ३.७२.१९ ॥

她果然依照吩咐等待着你,日夜煎熬,身披半幅衣裳。

3.72.20

तस्या रुदनत्याः सततं तेन दुःखेन पार्थिव ।
प्रसादं कुरु मे वीर प्रतिवाक्यं वदस्व च ॥ ३.७२.२० ॥

她因那悲痛而不停哭泣。大王,英雄啊,请对我施以恩惠,并给予回答吧。

3.72.21

तस्यास्तत्प्रियमाख्यानं प्रवदस्व महामते ।
तदेव वाक्यं वैदर्भी श्रोतुमिच्छन्त्यनिन्दिता ॥ ३.७२.२१ ॥

智者啊,请把那句亲切的话告诉她;无瑕的毗达罗女正想听到这同样的话语。

3.72.22

एतच्छ्रुत्वा प्रतिवचस्तस्य दत्तं त्वया किल ।
यत्पुरा तत्पुनस्त्वत्तो वैदर्भी श्रोतुमिच्छति ॥ ३.७२.२२ ॥

听到这些,毗达罗女希望再从你这里听到你从前给她的回答。

3.72.23

एवमुक्तस्य केशिन्या नलस्य कुरुनन्दन ।
हृदयं व्यथितं चासीदश्रुपूर्णे च लोचने ॥ ३.७२.२३ ॥

克希尼如此说完,库卢之喜啊,那罗的心痛楚不已,双眼盈满泪水。

3.72.24

स निग्राह्यात्मनो दुःखं दह्यमानो महीपतिः ।
बाष्पसंदिग्धया वाचा पुनरेवेदमब्रवीत् ॥ ३.७२.२४ ॥

那国王抑制住自己的悲痛,内心如焚,以泪水哽咽的声音再次说出了这些话。

3.72.25

वैषम्यमपि संप्राप्ता गोपायन्ति कुलस्त्रियः ।
आत्मानमात्मना सत्यो जितः स्वर्गो न संशयः ॥ ३.७२.२५ ॥

即使陷入困境,贵族家的女子仍能自我守护;忠诚的女子凭自身之力赢得天堂,这毫无疑问。

3.72.26

रहिता भर्तृभिश्चापि न क्रुध्यन्ति कदाचन ।
प्राणांश्चारित्रकवचान्धारयन्ति वरस्त्रियः ॥ ३.७२.२६ ॥

即便与丈夫分离,优秀的女子也从不发怒;她们以良好的德行为铠甲,持守自己的生命。

3.72.27

विषमस्थेन मूढेन परिभ्रष्टसुखेन च ।
यत्सा तेन परित्यक्ता तत्रन क्रोद्धुमर्हति ॥ ३.७२.२७ ॥

他身陷不幸,迷惑而失去幸福,遗弃了她;所以她不应当生气。

3.72.28

प्राणयात्रां परिप्रेप्सोः शकुनैर्हतवाससः ।
आधिभिर्दह्यमानस्य श्यामा न क्रोद्धुमर्हति ॥ ३.७२.२८ ॥

对于那位为求生计而奔波、衣服被鸟儿夺去、被忧苦焚烧的丈夫,希亚玛不应当生气。

3.72.29

सत्कृताऽसत्कृता वाऽपि पतिं दृष्ट्वा तथाविधम् ।
राज्यभ्रष्टं श्रिया हीनं क्षिधितं व्यसनाप्लुतम् ॥ ३.७२.२९ ॥

无论她受尊敬还是受轻慢,看见丈夫处于这样的境地:失去王国、失去财富、饥饿、陷入困厄——

3.72.30

एवं ब्रुवाणस्तद्वाक्यं नलः परमदुर्मनाः ।
न बाष्पमशकत्सोढुं प्ररुरोद च भारत ॥ ३.७२.३० ॥

纳拉说着这番话,深感悲痛,无法忍住泪水,放声哭了起来,婆罗多啊。

3.72.31

ततः सा केशिनी गत्वा दमयन्त्यै न्यवेदयत् ।
तत्सर्वं कथितं चैव विकारं तस्य चैव तम् ॥ ३.७२.३१ ॥

于是Keśinī前往,把一切都告诉了Damayantī,并将他的烦乱也全部说了。