Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.74

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.74.1

सर्वं विकारं दृष्ट्वा तु पुण्यश्लोकस्य धीमतः ।
आगत्य केशिनी क्षिप्रं दमयन्त्यै न्यवेदयत् ॥ ३.७४.१ ॥

克希妮见到了圣名远播的智者那罗的一切变化,便迅速返回,将此事禀告了达摩衍蒂。

3.74.2

दमयन्ती ततो भूयः प्रेषयामास केशिनीम् ।
मातुः सकाशं दुःखार्ता नलशङ्कासमुत्सुका ॥ ३.७४.२ ॥

达摩衍蒂因悲伤而痛苦,又因怀疑那罗而急切,于是再次派克希妮前往母亲处。

3.74.3

परीक्षितो मे बहुशो बाहुको नलशङ्कया ।
रूपे मे संशयस्त्वेकः स्वयमिच्छमि वेदितुम् ॥ ३.७४.३ ॥

因为怀疑他是那罗,我已多次考验过巴呼迦;关于他的容貌,我只有一个疑问,我想亲自弄清楚。

3.74.4

स वा प्रवेश्यतां मातर्मां वाऽनुज्ञातुमर्हसि ।
विदितं वाऽथवाऽज्ञातं पितुर्मे संविधीयताम् ॥ ३.७४.४ ॥

母亲,请让他进来,或者允许我前去;或者依照我父亲已知或未知的意愿加以安排。

3.74.5

एवमुक्ता तु वैदर्भ्या सा देवी भीममब्रवीत् ।
दुहितुस्तमभिप्रायमन्वजानात्स पार्थिवः ॥ ३.७४.५ ॥

维达尔毗(达摩衍蒂)这样说后,王后对毗摩说话;那位国王也同意了女儿的心愿。

3.74.6

सा चै पित्राऽभ्यनुज्ञाता मात्रा च भरतर्षभ ।
तयोर्नियोगात्कौरव्य केशिनीमिदमब्रवीत् ॥ ३.७४.६ ॥

婆罗多之牛啊,俱卢之裔啊!她得到父母的允许,遵照他们的吩咐,对克希妮说了这番话。

3.74.7

गच्छ केशिनि शीघ्रं त्वंबाहुकं पितृशासनात् ।
आनयस्व यथा माता त्वं तथा कुरु मे प्रियम् ॥ ३.७४.७ ॥

克舍尼,遵父命速去,把婆呼迦带来;照母亲所说,做我所喜欢的事。

3.74.8

गत्वा तु केशिनी शिघ्रं बाहुकं वाक्यमब्रवीत् ।
भीमस्य शासनात्सूतागताहं विद्धि बाहुक ॥ ३.७४.८ ॥

于是克舍尼迅速走到婆呼迦那里说:我是奉婆呼迦之命而来的;御者婆呼迦,你要知道。

3.74.9

प्रविश्यतां राजवेश्म इत्युक्तो भरतर्षभ ।
बाहुकस्तु चिरं ध्यात्वा केशिन्या सह भारत।
प्रविवेश महाबाहुर्दमयन्तीनिवेशनम् ॥ ३.७४.९ ॥

当被告知“请进入王宫”时,婆罗多的雄牛婆呼迦沉思良久;随后他与克舍尼一同,这位大臂者进入了达摩衍蒂的住所。

3.74.10

नलं प्रवेशयामास यत्रतस्याः प्रतिश्रयः ॥ ३.७४.१० ॥

他把那罗引到她住所的所在之处。

3.74.11

तां स्म दृष्ट्वैव सहसा दमयन्तीं नलो नृपः ।
आविष्टः शोकदुःखाभ्यां बभूवाश्रुपरिप्लुतः ॥ ३.७४.११ ॥

那罗王一见达摩衍蒂,立刻被悲伤与痛苦所攫住,泪流满面。

3.74.12

तं तु दृष्ट्वातथायुक्तं दमयन्ती नलं तदा ।
तीव्रशोकसमाविष्टा बभूव वरवर्णिनी ॥ ३.७४.१२ ॥

见那罗如此激动,肤色美丽的达摩衍蒂陷入了强烈的悲伤。

3.74.13

ततः काषायवसना जटिला मलपङ्किनी ।
दमयन्ती महाराज बाहुकं वाक्यमब्रवीत् ॥ ३.७४.१३ ॥

于是达摩衍蒂身着赭色衣,发结纠缠,满身尘垢,大王啊,对巴忽迦说了这些话。

3.74.14

पूर्वं दृष्टस्त्वया कश्चिद्धर्मज्ञो नाम बाहुक ।
सुप्तामुत्सृज्यविपिने गतो यः पुरुषः स्त्रियम् ॥ ३.७४.१४ ॥

巴忽迦啊,你是否曾见过一位名叫达摩阇那的人?他在森林里抛下熟睡的妻子而离去。

3.74.15

अनागसं प्रियां भार्यां विजने श्रममोहिताम् ।
अपहाय तु को गच्चेत्पुण्यश्लोकमृतेनलम् ॥ ३.७४.१५ ॥

除了以善名著称的那罗,谁会抛弃无辜而心爱的妻子,她在荒僻之地因疲倦而昏沉?

3.74.16

किमु तस्य मया बाल्यादपराद्धं महीपतेः ।
यो मामुत्सृज्य विपिने गतवान्निद्रयाऽर्दिताम् ॥ ३.७४.१६ ॥

我因年少无知,对那位君王犯了什么过错,以至于他在森林中丢下我这被睡意折磨的人而去?

3.74.17

साक्षाद्देवानपाहाय वृतो यः स पुरा मया ।
अनुव्रतामभिमतां पुत्रिणीं त्यक्तवान्कथम् ॥ ३.७४.१७ ॥

我曾当面拒绝诸神而选定的他,怎么能抛弃我这个忠贞、被爱、有子女的人呢?

3.74.18

अग्नौ पाणिगृहीता च हंसानां वचने स्थिताम् ।
भरिष्यामीति सत्यं तु प्रतिश्रुत्य क्व तद्गतम् ॥ ३.७४.१८ ॥

在火前握过我手的他,遵守天鹅之言的他,曾真诚许诺“我将养护你”的他,如今去了哪里?

3.74.19

दमयन्त्या ब्रुवन्त्यास्तु सर्वमेतदरिदम ।
शोकजं वारिनेत्राभ्यामसुखं प्रास्रवद्बहु ॥ ३.७४.१९ ॥

敌人的征服者啊,达摩衍蒂说这一切时,她含满泪水的眼中因悲伤而涌出许多痛苦的泪水。

3.74.20

अतीव कृष्णताराभ्यां रक्तान्ताभ्यां जलंतु तत् ।
परिस्रवन्नलो राजा शोकार्तइदमब्रवीत् ॥ ३.७४.२० ॥

那泪水从她极其乌黑的瞳仁和泛红的眼角流下时,被悲伤折磨的国王那罗说了这番话。

3.74.21

नलोऽहं विपुलश्रोणि त्वामुत्सृज्य यतो गतः ।
आविष्टः कलिना भद्रे तेन मोहवशं गतः ॥ ३.७४.२१ ॥

宽臀的女子啊,我是那罗;我抛弃你而离去,因为善良的人啊,我被迦利附身,陷入了迷惑之中。

3.74.22

मम राज्यं प्रनष्टं यन्नाहं तत्कृतवान्स्वयम् ।
कलिना तत्कृतं भीरु यच्च त्वामहमत्यजम् ॥ ३.७४.२२ ॥

我失去的王国,并非我自己所为;胆怯的女子啊,那是迦利所做;我抛弃你,也是迦利所做。

3.74.23

यत्त्वया धर्मकृच्छ्रे तु शापेनाभिहतः पुरा ।
वनस्थया दुःखितया शोचन्त्या मांदिवानिशम् ॥ ३.७४.२३ ॥

你在法的困厄之时,先前住在森林中,痛苦地日夜哀叹,以诅咒击打了我。

3.74.24

स मच्छरीरे त्वच्छापाद्दह्यमानोऽवसत्कलिः ।
त्वच्छापदग्धः सततं सोऽग्नावग्निरिवाहितः ॥ ३.७४.२४ ॥

那迦利在我的身体里,因你的诅咒而燃烧居住;他常被你的诅咒焚烧,如同放在火中的火一样留在那里。

3.74.25

मम च व्यवसायेन तपसा चैव निर्जितः ।
दुःखस्यान्तेन चानेन भवितव्यं हि नौ शुभे ॥ ३.७४.२५ ॥

他已被我的决心与苦行所征服;吉祥的女子啊,由此我们二人的苦难将会终结。

3.74.26

विमुच्य मां गतः पापस्ततोऽहमिह चागतः ।
त्वदर्थं विपुलश्रोणि न हि मेऽन्यत्प्रयोजनम् ॥ ३.७४.२६ ॥

那恶人将我抛弃而去,之后我来到这里。宽臀的女子啊,我是为你而来,我没有别的目的。

3.74.27

कथं नु नारी भर्तारमनुरक्तमनुव्रतम् ।
उत्सृज्य वरयेदन्यं यथा त्वं भीरु कर्हिचित् ॥ ३.७४.२७ ॥

女子怎能抛弃一位忠诚守誓、深爱她的丈夫,另择他人?胆怯的女子啊,你也绝不该如此。

3.74.28

दूताश्चरन्ति पृथिवीं कृत्स्नां नृपतिशासनात् ।
भैमी किल स्म भर्तारं द्वितीयं वरयिष्यति ॥ ३.७४.२८ ॥

依国王之命,使者遍行整个大地;据说毗摩之女将另择第二位夫婿。

3.74.29

स्वैरवृत्ता यथाकाममनुरूपमिवात्मनः ।
श्रुत्वैव चैवं त्वरितो भागस्वरिरुपस्थितः ॥ ३.७४.२९ ॥

她将随心所欲地行事,仿佛为自己选择了合适的夫婿。听到这些,我便急忙来到这里。

3.74.30

दमयन्ती तु तच्छ्रुत्वा नलस्य परिदेवितम् ।
प्राञ्जलिर्वेपमाना च भीता वचनमब्रवीत् ॥ ३.७४.३० ॥

然而达摩衍蒂听到那勇士纳罗的哀叹,双手合十,颤抖而惊恐地说出了这些话。

3.74.31

न मामर्हसि कल्याण पापेन परिशङ्कितुम् ।
मया हि देवानुत्सृज्य वृतस्त्वं निषधाधिप ॥ ३.७४.३१ ॥

善良的女子啊,你不应以罪过怀疑我。我舍弃诸神而选择了你,尼沙陀之主啊。

3.74.32

तवाभिगमनार्थं तु सर्वतो ब्राह्मणा गताः ।
वाक्यानि मम गाथाभिर्गायमाना दिशो दश ॥ ३.७४.३२ ॥

为了前往你那里,婆罗门们从四面八方出发,以诗句吟唱我的话语,遍行十方。

3.74.33

ततस्त्वां ब्राह्मणो विद्वान्पर्णादो नाम पार्थिव ।
अभ्यगच्छत्कोसलायामृतुपर्णनिवेशने ॥ ३.७४.३३ ॥

于是,国王啊,一位名叫般尔那陀的博学婆罗门来到科萨拉,到了黑图波尔那的住所见你。

3.74.34

तेन वाक्ये कृतेसम्यक्प्रतिवाक्ये तथा हृते ।
उपायोऽयंमया दृष्टो नैषधानयने तव ॥ ३.७४.३४ ॥

他的话已恰当说出,并得到了同样的回应时,我便想到了这个让尼沙陀王回来的办法。

3.74.35

त्वामृते नहि लोकेऽन्य एकाह्ना पृथिवीपते ।
समर्थो योजनशतं गन्तुमश्वैर्नराधिप ॥ ३.७४.३५ ॥

除了你,世上再无他人能在一日之内驾马行百由旬,人主啊。

3.74.36

तथापि मां महीपाल भजेतां चरणौ तव ।
स्पृशेयं तेन सत्येन पादावेतौ महीपते।
यथा नासत्कृतं किंचिन्मनसाऽपि चराम्यहम् ॥ ३.७४.३६ ॥

尽管如此,护持大地的君王啊,请让我侍奉您的双足。大地之主啊,我以那真实之名触碰您的双足,使我即使心中也不犯任何过失。

3.74.37

अयं चरति लोकेऽस्मिन्भूतसाक्षी सदागतिः ।
एष मे मुञ्चतु प्राणान्यदि पापं चराम्यहम् ॥ ३.७४.३७ ॥

此世之中作为众生见证、常行不息者——若我行恶,愿他夺去我的性命。

3.74.38

यथा चरति तिग्मांशुः परितो भुवनं सदा ।
स मुञ्चतु मम प्राणान्यदि पापं चराम्यहम् ॥ ३.७४.३८ ॥

如锐光之日恒行于世界之四方——若我行恶,愿他夺去我的性命。

3.74.39

चन्द्रमाः सर्वभूतानामन्तश्चरति साक्षिवत् ।
स मुञ्चतु मम प्राणान्यदि पापं चराम्यहम् ॥ ३.७४.३९ ॥

月亮如见证者般行于一切众生之内——若我行恶,愿他夺去我的性命。

3.74.40

एते देवास्त्रयः कृत्स्नं त्रैलोक्यं धारयन्ति वै ।
विब्रुवन्तु यथा सत्यमेतद्देवास्त्यजन्तु माम् ॥ ३.७४.४० ॥

此三神确实承载整个三界——若此为真,愿诸神言明,并弃我而去。

3.74.41

एवमुक्ते ततो वायुरन्तरिक्षादभाषत ।
नैषा कृतवती पापं नल सत्यं ब्रवीमि ते ॥ ३.७४.४१ ॥

言毕,风神自空中言道:那罗啊,她并未行恶;我向你说的是真话。

3.74.42

राजञ्शीलनिधिः स्फीतो दमयन्त्या सुरक्षितः ।
साक्षिणो रक्षिणश्चास्या वयं त्रीन्परिवत्सरान् ॥ ३.७४.४२ ॥

大王啊,达摩衍蒂是德行的丰饶宝藏,受到妥善守护;我们三年来一直是她的见证者与守护者。

3.74.43

उपायो विहितश्चायं त्वदर्थमतुलोऽनया ।
न ह्येकाह्ना शतं गन्ता त्वामृतेऽन्यः पुमानिह ॥ ३.७४.४३ ॥

这一无与伦比的计策是她为你而设的;此处除你之外,无人能在一日之内行走百由旬。

3.74.44

उपपन्ना त्वया भैमी त्वं च भैम्या महीपते ।
नात्र शङ्का त्वया कार्या संगच्छ सह भार्यया ॥ ३.७४.४४ ॥

大地之主啊,婆殷弥适合你,你也适合婆殷弥。此事你不应有疑虑;去与你的妻子团聚吧。

3.74.45

तथा ब्रुवति वायौ तु पुष्पवृष्टिः पपात ह ।
देवदुन्दुभयो नेदुर्ववौ च पवनः शिवः ॥ ३.७४.४५ ॥

风如此说话时,花雨纷纷落下,天界的鼓声响起,吉祥的微风开始吹拂。

3.74.46

तदद्भुतमयं दृष्ट्वा नलो राजाऽथ भारत ।
दमयन्त्यां विशङ्कां तामुपाकर्षदरिंदमः ॥ ३.७४.४६ ॥

婆罗多之子啊,见此奇异景象,制敌的国王那罗对婆殷弥生起了疑心。

3.74.47

ततस्तद्वस्त्रमरजः प्रावृणोद्वसुधाधिपः ।
संस्मृत्य नागराजं तं ततो लेभे स्वकं वपुः ॥ ३.७४.४७ ॥

于是大地之主披上那块洁净的布,忆起蛇王,重新得回了自己的原形。

3.74.48

स्वरूपिणं तु भर्तारं दृष्ट्वा भीमसुता तदा ।
प्राक्रोशदुच्चैरालिङ्ग्य पुण्यश्लोकमनिन्दिता ॥ ३.७४.४८ ॥

婆殷弥见丈夫恢复了本来面目,这位无瑕的毗摩之女拥抱了这位圣名卓著者,高声哭喊起来。

3.74.49

भैमीमपि नलो राजा भ्राजमानो यथा पुरा ।
सस्वजे स्वसुतौ चापि यथावत्प्रत्यनन्दत ॥ ३.७४.४९ ॥

国王那罗如往昔般光彩照人,也拥抱了婆摩之女(达摩衍蒂),并依礼欢喜地拥抱了他的两个儿子。

3.74.50

ततः स्वोरसि विन्यस्य वक्रं तस्य शुभानना ।
परीता तेन दुःखेन निशश्वासायतेक्षणा ॥ ३.७४.५० ॥

于是,那位面容秀美、眼睛明亮的女子将他的脸贴在自己胸前,被那悲痛所笼罩,长叹了一口气。

3.74.51

तथैव मलदिग्धाङ्गीं परिष्वज्य शुचिस्मिताम् ।
सुचिरं पुरुषव्याघ्रस्तस्थौ शोकपरिप्लुतः ॥ ३.७४.५१ ॥

同样,他拥抱着身上沾满尘垢、笑容纯洁的她,被悲痛淹没的人中之虎站立了许久。

3.74.52

ततः सर्वं यथावृत्तं दमयन्त्या नलस्य च ।
भीमायाकथयत्प्रीत्या वैदर्भ्या जननी नृप ॥ ३.७४.५२ ॥

于是,大王啊,毗达婆国的达摩衍蒂之母满怀爱意地将达摩衍蒂与那罗所经历的一切,按其本来的样子,告诉了婆摩。

3.74.53

ततोऽब्रवीन्महाराजः कृतशौचमहंनलम् ।
दमयन्त्या सहोपेतं कल्ये द्रष्टा सुखोषितम् ॥ ३.७४.५३ ॥

于是大王对已经沐浴净身、与达摩衍蒂一同前来、夜里安然度过的那罗说话;而那清晨所见之人……

3.74.54

ततस्तौ सहितौ रात्रिं कथयन्तौ पुरातनम् ।
वने विचरितं सर्वमूषतुर्मुदितौ नृप ॥ ३.७४.५४ ॥

于是二人一同度过夜晚,讲述往昔以及在森林中漫游的一切,欢喜地留在那里,大王啊。

3.74.55

गृहे भीमस्य नृपतेः परस्परसुखैषिणौ ।
वसेतां हृष्टसंकल्पौ वैदर्भी च नलश् ह ॥ ३.७४.५५ ॥

在国王婆摩的宫中,彼此祈求对方的幸福,心怀欢喜的决意,毗陀婆之女与那罗同住。

3.74.56

स चतुर्थे ततो वर्षे संगम्य सह भार्यया ।
सर्वकामैः सुसिद्धार्थो लब्धवान्परमां मुदम् ॥ ३.७४.५६ ॥

之后第四年,他与妻子重逢,一切愿望圆满,获得了至高的喜乐。

3.74.57

दमयन्त्यपि भर्तारमासाद्याप्यायिता भृशम् ।
अर्धसंजातसस्येव तोयं प्राप्य वसुंधरा ॥ ३.७४.५७ ॥

达摩衍蒂也得到丈夫,大为振作,如半生的庄稼之地得到水润。

3.74.58

सैवं समेत्य व्यपनीय तन्द्रां ।
शान्तज्वरा हर्षविवृद्धसत्त्वा।
रराज भैमी समवाप्तकामा ।
शीतांशुना रात्रिरिवोदितेन ॥ ३.७४.५८ ॥

如此重聚,疲惫消除,热病平息,心因喜悦而增长,毗摩之女得偿所愿,光彩照人,如同升起的月亮照耀夜晚。