摩诃婆罗多 · 章 3.75
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.75.1
अथ तां व्युषितो रात्रिं नलो राजा स्वलंकृतः ।
वैदर्भ्या सहितः काल्यं ददर्श वसुधाधिपम् ॥ ३.७५.१ ॥
此后度过那夜,身着华饰的国王那罗与毗达婆女一同在清晨见到了大地之主。
3.75.2
ततोऽभिवादयामास प्रयतः श्वशुरं नलः ।
ततो नु दमयन्ती च ववन्दे पितरं शुभा ॥ ३.७५.२ ॥
随后那罗恭敬地向岳父致敬;接着吉祥的达摩衍蒂也向父亲行礼。
3.75.3
तं भीमः प्रतिजग्राह पुत्रवत्परया मुदा ।
यथार्हं पूजयित्वा च समाश्वासयत प्रभुः ॥ ३.७५.३ ॥
毗摩以至高的喜悦如接纳儿子般接待了他;这位主人依礼厚待之后,又加以安慰。
3.75.4
नलेन सहितां तत्रदमयन्तीं पतिव्रताम् ।
अनुजग्राह महता सत्कारेण क्षितीश्वरः ॥ ३.७५.४ ॥
在那里,大地之主也以隆重的礼遇恩待了与那罗同在的忠贞妻子达摩衍蒂。
3.75.5
तामर्हणां नलो राजा प्रतिगृह्य यथाविधि ।
परिचर्यां स्वकां तस्मै यथावत्प्रत्यवेदयत् ॥ ३.७५.५ ॥
国王那罗依照礼仪接受了那份礼遇,并如实地向他陈述了自己的侍奉。
3.75.6
ततो बभूव नमरे सुमहान्हर्षजः स्वनः ।
जनस्य संप्रहृष्टस्य नलं दृष्ट्वा तथाऽऽगतम् ॥ ३.७५.६ ॥
于是城中响起了巨大的欢呼声,民众因见那罗如此归来而极为欢喜。
3.75.7
अशोभयच्च नगरीं पताकाध्वजमालिनीम् ।
सिक्ताः सुमृष्टपुष्पाढ्या राजमार्गाः स्वलंकृताः ॥ ३.७५.७ ॥
他们装饰那座以旗幡和幢旗为花环的城市;王家大道洒过水,铺满打扫妥当的鲜花,装饰得十分华美。
3.75.8
द्वारिद्वारि च पौराणां पुष्पभङ्गः प्रकल्पितः ।
अर्चितानि च सर्वाणि देवतायतनानि च ॥ ३.७५.८ ॥
每道城门前,城中百姓都布置了花饰;所有神庙都受到了供奉。
3.75.9
ऋतुपर्णोऽपिशुश्राव बाहुकच्छद्मिनं नलम् ।
दमयन्त्या समायुक्तं जहृषे च नराधिपः ॥ ३.७५.९ ॥
国王里杜帕尔纳也听说,隐身于巴呼迦伪装之下的那罗已与达摩衍蒂重聚,这位人主欢喜不已。
3.75.10
तमानाय्य नलं राजा क्षमयामास पार्थिवः ।
स च तं क्षमयामास हेतुभिर्बुद्धिसंमितः ॥ ३.७५.१० ॥
国王将那罗请来,向他请求宽恕;那罗以道理与明智的言辞宽恕了他。
3.75.11
स सत्कृतोमहीपालो नैषधं विस्मिताननः ।
दिष्ट्या समेतो दारैः स्वैर्भवानित्यभ्यनन्दत ॥ ३.७५.११ ॥
受到礼遇的国王面带惊讶地对尼沙陀之子那罗说:“幸运的是,你已与自己的妻子重聚。”于是他向他道贺。
3.75.12
कच्चित्तु नापराधं ते कृतवानस्मि नैषध ।
अज्ञातवासे वसतो मद्गृहेवसुधाधिप ॥ ३.७५.१२ ॥
尼沙陀之子啊,地上的主啊,我是否在你于隐居期间住在我家时对你有过冒犯?
3.75.13
यदि वाऽबुद्धिपूर्वाणि यदि बुद्ध्याऽपि कानिचित् ।
मया कृतान्यकार्याणि तानि त्वं क्षन्तुमर्हसि ॥ ३.७५.१३ ॥
若我无意或有意做过一些不当之事,你应当宽恕它们。
3.75.14
न मेऽपराधं कृतवांस्त्वं स्वल्पमपि पार्थिव ।
कृतेऽपि च न मे कोपः क्षन्तव्यं हि मया तव ॥ ३.७५.१४ ॥
大王,你对我没有任何过错,哪怕是一点点。即便有过,我也不生气;我应当宽恕你。
3.75.15
पूर्वं ह्यापि सखा मेऽसि संबन्धी च जनाधिप ।
अत ऊर्ध्वं तु भूयस्त्वं प्रीतिमाहर्तुमर्हसि ॥ ३.७५.१५ ॥
人主啊,你从前就是我的朋友和亲属。因此从今以后,你应当重新赢回对我的情谊。
3.75.16
सर्वकामैः सुविहितैः सुखमस्म्युषितस्त्वयि ।
न तथा स्वगृहेराजन्यथा तव गृहे सदा ॥ ३.७५.१६ ॥
我的一切愿望都得到妥善安排,我在你这里过得很快乐。大王啊,我在自己家中也从未像在你家中那样快乐。
3.75.17
इदं चैव हयज्ञानं त्वदीयं मयि तिष्ठति ।
तदुपाकर्तुमिच्छामि मन्यसे यदि पार्थिव ॥ ३.७५.१७ ॥
这门你所有的驯马之术,如今存于我身中。大王啊,如果你认为可以,我愿将它还给你。
3.75.18
एवमुक्त्वा ददौ विद्यामृतुपर्णाय नैषधः ।
स च तां प्रतिजग्राह विधिदृष्टेन क्रमणा ॥ ३.७५.१८ ॥
说完这些话,尼沙陀之子那罗把那门学问传给了利图波尔那;利图波尔那则依照规定的次序接受了它。
3.75.19
गृहीत्वा चाश्वहृदयं प्रीतो भागस्वरिर्नृप ।
निषधाधिपतेश्चापि दत्ताऽक्षहृदयं नृपः।
सूतमन्यमुपादाय ययौ स्वपुरमेव ह ॥ ३.७५.१९ ॥
国王啊,欢喜的婆伽斯瓦利得到了马之心;尼沙陀之主也被授予了骰子之心。国王带着另一名御者,回到了自己的城市。
3.75.20
ऋतुपर्णे गते राजन्नलो राजा विशांपते ।
नगरे कुण्डिने कालं नातिदीर्गमिवावसत् ॥ ३.७५.२० ॥
国王啊,人民之主啊,利图帕尔纳离去之后,国王那罗在拘因迪那城居住,仿佛时间并不太长。