Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.76

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.76.1

स मासमुष्य कौन्तेय भीममामन्त्र्य नैषधः ।
पुरादल्पपरीवारो जगाम निषधान्प्रति ॥ ३.७६.१ ॥

住了一个月后,向昆蒂之子毗摩告别,尼沙陀王那罗带着少数随从离开城市,前往尼沙陀之地。

3.76.2

रथेनैकेन शुभ्रेण दन्तिभिः परिषोडशै ।
पञ्चाशद्भिर्हयैश्चैव षट्शतैश्च पदातिभिः ॥ ३.७६.२ ॥

随行有一辆光彩的战车、十六头象、五十匹马和六百名步兵。

3.76.3

स कम्पयन्निव महीं त्वरमाणो महापुरीम् ।
प्रविवेशाथ संरब्धस्तरसैव महामनाः ॥ ३.७६.३ ॥

他仿佛要撼动大地,急速进入那座大城;他怒气冲冲,却心胸宽广。

3.76.4

ततः पुष्करमासाद्य वीरसेनसुतो नलः ।
उवाच दीव्याव पुनर्बहुवित्तं मयाऽर्जितम् ॥ ३.७६.४ ॥

那时,维罗塞那之子那罗走近补湿迦罗,说:"我们再掷骰子吧;我已经积累了许多财富。"

3.76.5

दमयन्ती च यच्चान्यन्मम किंचन विद्यते ।
एष वै मम संन्यासस्तव राज्यंतु पुष्कर ॥ ३.७६.५ ॥

达摩衍蒂,以及我所拥有的其他一切——这便是我的赌注;而你,补湿迦罗,便以你的王国相赌。

3.76.6

पुनः प्रवर्ततां द्यूतमिति मे निश्चिता मतिः ।
एकपाणेन भद्रं ते प्राणयोश्च पणावहे ॥ ३.७६.६ ॥

"让掷骰的赌局重新开始吧——这是我坚定的决心。愿你只需一掷便得吉祥;让我们以性命为赌注。"

3.76.7

जित्वा परस्वमाहृत् राज्यंवा यदि वा वसु ।
प्रतिपाणः प्रदातव्यः प्राणो हि पणमुच्यते ॥ ३.७६.७ ॥

若赢得他人的财富、王国或其他珍宝,则须以相应的赌注回报;因为生命本身被称为赌注。

3.76.8

न चेद्वाञ्छसि तद्द्यूतं युद्धद्यूतं प्रवर्तताम् ।
द्वैरथेनास्तु वै शान्तिस्तव वा मम वा नृप ॥ ३.७६.८ ॥

若你不想要那场赌博,便让战争之赌博开始吧;国王啊,愿你我之间以单人决斗来求得和平。

3.76.9

वंशभोज्यमिदं राज्यमर्थितव्यं यथा तथा ।
येनकेनाप्युपायेन वृद्धानामिति शासनम् ॥ ३.७६.९ ॥

这个王国属于王族享用,应当不择手段、以任何办法去争取;这是长者的教诲。

3.76.10

द्वयोरेकतरे बुद्धिः क्रियतामद्य पुष्कर ।
कैतवेनाक्षवत्यां वा युद्धे वा नाम्यतां धनुः ॥ ३.७६.१० ॥

噢,补什卡罗,今天就在两者之中决定一件:以欺诈在掷骰游戏中,或在战斗中拉弓。

3.76.11

नैषधेनैवमुक्तस्तु पुष्करः प्रहसन्निव ।
ध्रुवमात्मजयं मत्वा प्रत्याह निषधाधिपम् ॥ ३.७६.११ ॥

纳伊沙陀王如此说后,补什卡罗仿佛笑着,认定自己必胜,便回答了纳伊沙陀之主。

3.76.12

दिष्ट्या त्वयाऽर्जितं वित्तं प्रतिपाणाय नैषध ।
दिष्ट्या च दुष्कृतंकर्म दमयन्त्याः क्षयं गतम् ॥ ३.७६.१२ ॥

纳伊沙陀啊,你幸运地赢得了作为回报赌注的财富;而达摩衍蒂的恶行也幸运地走向了毁灭。

3.76.13

दिष्ट्या वै प्रीसे राजन्मम लाभाय नैषध ।
पुनर्द्यूते च ते बुद्धिर्दिष्ट्या पुरुषसत्तम ॥ ३.७६.१३ ॥

国王啊,那罗之子啊,由于命运,我为自己的所得而欢喜。人中之最啊,由于命运,你的心又转向了赌博。

3.76.14

धनेनानेन वै भैमी जितेन समलंकृता ।
मामुपस्थास्यति व्यक्तं दिवि शक्रमिवाप्सराः ॥ ३.७६.१४ ॥

被这笔所赢的财富装饰的毗摩之女(达玛衍蒂)必定会侍奉我,如天上的阿普萨拉侍奉帝释天。

3.76.15

नित्यशो हि स्मरामि त्वां प्रतीक्षेऽपि च नैषध ।
देवने च मभ प्रीतिर्भवत्येवासुहृद्गणैः ॥ ३.७६.१५ ॥

那罗之子啊,我常常想念你,也在等待你。在赌博中,与敌人的众人在一起,我确实感到喜悦。

3.76.16

जित्वात्वद्य वरारोहां दमयन्तीमनिन्दिताम् ।
कतकृत्यो भविष्यामि सा हिमे नित्यशो हृदि ॥ ३.७६.१६ ॥

今天赢得那腰肢美好、无可指责的达玛衍蒂,我将完成心愿;她确实永远在我心中。

3.76.17

श्रुत्वा तु तस् ता वाचो बह्वबद्धप्रलापिनः ।
इयेष स शिरश्छेत्तुं खङ्गेन कुपितो नलः ॥ ३.७६.१७ ॥

那罗听到他那许多胡言乱语,愤怒起来,想用剑砍下他的头。

3.76.18

स्मयंस्तु रोषताम्राक्षस्तमुवाच नलो नृपः ।
पणावः किं व्याहरसे जितो न व्याहरिष्यसि ॥ ३.७६.१८ ॥

然而,国王那罗眼睛因愤怒而发红,微笑着对他说:"赌徒啊,你为何说话?你已经输了,不会再说话了。"

3.76.19

ततः प्रावर्तत द्यूतं पुष्करस्य नलस्य च ।
एकपाणेन भद्रं ते नलेन स पराजितः ॥ ३.७६.१९ ॥

于是普什卡罗与那罗开始了掷骰之戏。愿你安好,那罗一掷便击败了他。

3.76.20

स रत्नकोशनिचयैः प्राणेन पणितोपि च ।
जित्वा च पुष्करं राजा प्रहसन्निदमब्रवीत् ॥ ३.७६.२० ॥

国王那罗赢得了普什卡罗,连同堆积的珠宝库藏以及作为赌注的性命,于是笑着说了这些话。

3.76.21

मम सर्वमिदं राज्यमव्यग्रं हतकण्ठकम् ।
वैदर्भी न त्वया शक्या राजापशद वीक्षितम्।
तस्यास्त्वं सपरीवारो मूढ दासत्वमागतः ॥ ३.७६.२१ ॥

这整个王国如今属于我,无人扰乱,荆棘已除。卑贱的国王,你连毗达婆公主都无法见到。愚人,你连同你的全部随从,已沦为她的奴仆。

3.76.22

न त्वया तत्कृतंकर्म येनाहं विजितः पुरा ।
कलिना तत्कृतं कर्म त्वं च मूढ न बुध्यसे ॥ ३.७६.२२ ॥

我从前被击败所凭的那个行为,并非你所做。那是迦利所为,而你,愚人,并不明白。

3.76.23

नाहं परकृतं दोषं त्वय्याधास्ये कथंचन ।
यथासुखं वै जीवत्वंप्राणानवसृजामि ते ॥ ३.७६.२३ ॥

别人所犯的过错,我绝不会以任何方式归于你。你安然地活下去吧;我把你的性命还给你。

3.76.24

तथैव सर्वसंभारं स्वमंशं वितरामि ते ।
तथैव च मम प्रीतिस्त्वयि वीर न संशयः ॥ ३.७६.२४ ॥

同样,我也把你的全部财物和属于你的那一份归还给你。英雄啊,我对你的喜爱也依旧如此,这一点毫无疑问。

3.76.25

सौहार्दं चापि मे त्वत्तो न कदाचित्प्रहास्यति ।
पुष्कर त्वं हि मे भ्राता संजीव शरदः शतम् ॥ ३.७६.२५ ॥

我对你的情谊永不会断绝。补湿迦啊,你是我的兄弟;愿你活过百个秋天。

3.76.26

एवं नलः सान्त्वयित्वा भ्रातरं सत्यविक्रमः ।
वचनैस्तोषयामास परिष्वज्य पुनः पुनः ॥ ३.७६.२६ ॥

如此,以真勇著称的那罗安慰其弟,一再拥抱他,并以言辞使他欢喜。

3.76.27

सान्त्वितो नैषधेनैवं पुष्ररः प्रत्युवाच तम् ।
पुण्यश्लोकं तदा राजन्नभिवाद्य कृताञ्जलिः ॥ ३.७६.२७ ॥

被那伽夷如此安慰后,补湿迦回答那位以圣洁名声著称者;王啊,那时他合掌行礼,

3.76.28

कीर्तिरस्तु तवाक्षय्या जीव वर्षायुतं सुखी ।
यो मे वितरसि प्राणानधिष्ठानं च पार्थिव ॥ ३.७६.२८ ॥

愿你的名声永不磨灭;愿你快乐地活一万年,王啊,因为你赐给我生命与居所。

3.76.29

स तथा सत्कृतो राज्ञा मासमुष्य तदा नृपः ।
प्रययौ पुषरो हृष्टः स्वपुरं स्वजनावृतः ॥ ३.७६.२९ ॥

这位国王如此礼遇他,他停留了一个月;然后,欢喜的补湿迦在亲族环绕下返回自己的城邑。

3.76.30

महत्या सेनया सार्धंविनीतैः परिचारकैः ।
भ्राजमान इवादित्यो वपुषा पुरुषर्षभ ॥ ३.७६.३० ॥

率领庞大的军队和恭顺的侍从,身形如太阳般光辉,人中之牛啊。

3.76.31

प्रस्थाप्य पुष्करं राजा वित्तवन्तमनामयम् ।
प्रविवेश पुरं श्रीमानत्यर्थमुपशोभिताम् ॥ ३.७६.३१ ॥

国王先派遣富有而健康的布史迦罗,然后光辉地进入了装饰得极为华丽的城市。

3.76.32

प्रविश्य सान्त्वयामास पौरांश्च निषधाधिपः ।
हितेषु चैषां सततं पितेवावहितोऽभवत् ॥ ३.७६.३२ ॥

进入城市后,尼沙陀之主安慰了市民,并始终像父亲一样关注他们的福祉。

3.76.33

पौरा जानपदाश्चापि संप्रहृष्टतनूरुहाः ।
ऊचुः प्राञ्जलयः सर्वे सामात्यप्रमुखा जनाः ॥ ३.७६.३३ ॥

市民和乡民,因喜悦而汗毛竖起,全体合掌,以大臣为首,说道:

3.76.34

अद्यस्म निर्वृता राजन्पुरे जनपदेऽपि च ।
उपासितुं पुनः प्राप्ता देवा इव शतक्रतुम् ॥ ३.७६.३४ ॥

陛下啊!今日城中与乡野皆得安宁,仿佛诸天神又得以侍奉百祭之主因陀罗。