摩诃婆罗多 · 章 3.77
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.77.1
प्रशान्ते तु पुरे हृष्टे संप्रवृत्ते महोत्सवे ।
महत्या सेनया राजा दमयन्तीमुपानयत् ॥ ३.७७.१ ॥
城市平静而欢欣,盛大的节庆开始时,国王率领庞大的军队将达摩衍蒂迎了过来。
3.77.2
पुण्यश्लोकं तु राज्यस्थं श्रुत्वा भीमो महीपतिः ।
मुदा परमया युक्तो बभूव भरतर्षभ ॥ ३.७७.२ ॥
闻知有圣名者已在其国中就位,国王毗摩满怀无上喜悦,婆罗多之雄牛啊。
3.77.3
अथ हृष्टमना राजा महत्या सेनया सह ।
सुतां प्रस्थापयामास पुण्यश्लोकाय धीमते ॥ ३.७७.३ ॥
于是国王心怀欢喜,率领庞大军队将女儿送往那位智慧、具圣名的人。
3.77.4
दमयन्तीमपि पिता सत्कृत्यपरवीरहा ।
प्रास्थापयदमेयात्मा भीमो भीमपराक्रमः ॥ ३.७७.४ ॥
敌方英雄的杀者、心意无量、威勇可怖的父亲毗摩,也以礼相待,遣送达摩衍蒂。
3.77.5
आगतायां तु वैदर्भ्यां सपुत्रायां नलो नृपः ।
वर्तयामास मुदितो दोवराडिव नन्दने ॥ ३.७७.५ ॥
维达尔婆公主携子到来后,国王那罗欢欣地居住,如同诸神之王在难陀园中一般。
3.77.6
तथा प्रकाशतां यातो जम्बूद्वीपे स राजसु ।
पुनः स्वे चावसद्राज्ये प्रत्याहृत्य महायशाः ॥ ३.७७.६ ॥
如此,他在闍浮洲诸王之中名声远扬;大名的那罗夺回自己的国土,又在其中居住。
3.77.7
ईजे च विविधैर्यज्ञैर्विधिवच्चाप्तदक्षिणैः ।
तथा त्वमपि राजेन्द्र ससुहृद्वक्ष्यसे चिरात् ॥ ३.७७.७ ॥
他依礼而行种种祭祀,施以丰厚的祭司酬礼。同样,王中之王啊,你也将与友人们在久远之后得到(福报)。
3.77.8
दुःखमेतादृशंप्राप्तो नलः परपुरंजयः ।
देवनेन नरश्रेष्ठ सभार्यो भरतर्षभ ॥ ३.७७.८ ॥
征服敌城的那罗,因赌博而与妻子一同陷入如此苦难,人中之杰啊,婆罗多族之雄牛啊。
3.77.9
एकाकिनैव सुमहन्नलेन पृथिवीपते ।
दुःखमासादितं घोरं प्राप्तश्चाभ्युदयः पुनः ॥ ३.७७.९ ॥
那罗独自忍受了极大而可怕的苦难,地上之主啊;此后他又重新获得了兴盛。
3.77.10
त्वं पुनर्भ्रातृसहितः कृष्णया चैव पाण्डव ।
कथाश्चापि समाकर्ण्य धर्ममेवानुचिन्तयन् ॥ ३.७७.१० ॥
啊,般度之子,你也将与兄弟们及黑天女一同,听闻这些故事之后,只思念法。
3.77.11
ब्राह्मणैश्च महाभागैर्वेदवेदाङ्गपारगैः ।
नित्यमन्वास्यसे राजंस्तत्र का परिदेवना ॥ ३.७७.११ ॥
你时常受到精通吠陀及其支分的大福德婆罗门侍奉,国王啊;在那里又有什么可悲叹的呢?
3.77.12
कर्कोटकस्य नागस् दमयन्त्या नलस्य च ।
ऋतुपर्णस्य राजर्षेः कीर्तनं कलिनाशनम् ॥ ३.७७.१२ ॥
歌颂龙蛇迦尔科塔卡、达摩衍蒂、那罗以及王仙利图波尔那,能够消除迦利(之恶)。
3.77.13
इतिहासमिमं चापि कलिनाशनमच्युत ।
शक्यमाश्वसितुं श्रुत्वा त्वद्विधेन विशांपते ॥ ३.७७.१३ ॥
阿周那啊,闻此能灭迦利之古史,如你之人亦可得以慰藉,人主啊。
3.77.14
अस्थिरत्वं च संचिन्त्य पुरुषार्थस् नित्यदा ।
तस्योदये व्यये चापि न चिन्तयितुमर्हसि ॥ ३.७७.१४ ॥
常思人之所为之无常,于其兴与衰,你不应忧虑。
3.77.15
श्रुत्वेतिहासं नृषते समाश्वसिहि मा शुचः ।
व्यसने त्वं महाराज न विषीदितुमर्हसि ॥ ३.७७.१५ ॥
人主啊,闻此古史,当自宽慰,勿复忧伤。大王啊,于灾厄之中,你不应自陷于悲伤。
3.77.16
विषमावस्थिते दैवे पौरुषेऽफलतां गते ।
विषादयन्ति नात्मानं सत्त्वापाश्रयिणो नराः ॥ ३.७७.१६ ॥
天命既已不利,人力又归于徒劳,然而依仗定力的人,不会使自己陷入忧伤。
3.77.17
ये चेदं कथयिष्यन्ति नलस् चरितं महत् ।
श्रोष्यन्ति चाप्यभीक्ष्णं वै नालक्ष्मीस्तान्भजिष्यति ॥ ३.७७.१७ ॥
凡讲说此那罗大传、时时听闻者,不幸(阿拉克舍弥)不会降临到他们身上。
3.77.18
अर्थास्तस्योपपत्स्यन्ते धन्यतां च गमिष्यति ।
इतिहासमिमं श्रुत्वा पुराणं शश्वदुत्तमम् ॥ ३.७७.१८ ॥
彼将得财利与所愿,并得福庆,闻此古史,乃永恒之至上古传。
3.77.19
पुत्रान्पौत्रान्पशूंश्चापि लभते नृषु चाग्र्यताम् ।
आरोग्यप्रीतिमांश्चैव भविष्ति न संशयः ॥ ३.७७.१९ ॥
他将获得儿子、孙子和牲畜,在人中居于首位,并且无疑将健康而喜乐。
3.77.20
भयात्रस्यसि यच्च त्वमाह्वयिष्यति मां पुनः ।
अक्षज्ञ इति तत्तेऽहं नाशयिष्यामि पार्थिव ॥ ३.७७.२० ॥
国王啊,你因恐惧而颤抖;若你再次向我挑战,说“我精通骰子”,我将为你毁去那份自夸。
3.77.21
वेदाक्षहृदयं कृत्स्नमहं सत्यपराक्रम ।
उपपद्यस्व कौन्तेय प्रसन्नोऽहं ब्रवीमि ते ॥ ३.७७.२१ ॥
真勇之人啊,我将把骰戏之学的全部精髓告诉你。昆提之子,安心吧;我心欢喜,对你说。
3.77.22
ततो हृष्टमना राजा बृहदश्वमुवाच ह ।
भगवन्नक्षहृदयं ज्ञातुमिच्छामि तत्त्वतः ॥ ३.७७.२२ ॥
于是国王心中欢喜,对布哈达什瓦说:“尊者啊,我想如实了解骰戏之学的精髓。”
3.77.23
कौन्तेयेनैवमुक्तस्तु बृहदश्वो महामुनिः ।
ततोऽक्षहृदयं प्रादात्पाण्डवाय महात्मने।
लब्ध्वा च पाण्डवो राजा विशोकः समपद्यत ॥ ३.७७.२३ ॥
昆提之子如此请求,大仙布哈达什瓦便将骰戏之学的精髓传给了那位大德的般度之子;般度王得之,便脱离了忧愁。
3.77.24
पुनरेव तु वक्ष्यामि यस्त्वत्तो दुःखितो नृपः ।
तं शृणुष्व महाराज सर्वदुःखापनुत्तये ॥ ३.७७.२४ ॥
然而我还要再说一遍:伟大的国王啊,请听那位因你而忧伤之王的故事,以消除一切苦难。
3.77.25
इक्ष्वाकूणां कुले जातो महात्मा पृथिवीपतिः ।
त्रिशङ्कुरिति विख्यातोराजराजो महाद्युतिः ॥ ३.७७.२५ ॥
在甘蔗王族中诞生了一位高尚的大地之主,名为三吠迦,诸王之王,光辉非凡。
3.77.26
हरिश्चन्द्रस्ततो जज्ञे गुणरत्नाकरो नृपात् ।
ततो विशेषैर्विविधैर्यज्ञैर्विपुलदक्षिणैः ॥ ३.७७.२६ ॥
此后,国王之子哈利什昌陀罗降生,他是德行珍宝的大海;他举行了种种特殊祭祀,布施丰厚。
3.77.27
स तु लोके वरः पुंसां पुण्यश्लोको महायशाः ।
सत्यवादी मधुरवाक्सत्येन बहुभाषिता ॥ ३.७७.२७ ॥
他是世间人中最优秀的,名声神圣而盛大;他说真话,言辞温和,因诚实而广受赞誉。
3.77.28
तस्य भार्याऽभवद्भूमौ सौशील्यसमलंकृता ।
उशीनरस्य राजर्षेर्दुहिता पुण्यलक्षणा ॥ ३.७७.२८ ॥
他在人间的妻子,以温顺庄重为饰,是王仙乌什那罗之女,具有吉祥的相貌。
3.77.29
स्वयंवरे महाभागं वरयामास भामिनी ।
हरिश्चन्द्रं समेतानां राज्ञां मद्ये पतिं विभुम् ॥ ३.७७.२९ ॥
在选婿大典上,这位光彩照人的女子在聚集的诸王之中,选择了大福德、有力量的哈利什昌陀罗为夫。
3.77.30
तया सह महीपालः सत्यवत्या मनोज्ञया ।
रेमे च सुचिरं कालं राजा राज्यमवाप्य च ॥ ३.७७.३० ॥
与那位可爱的萨蒂亚瓦蒂相伴,这位大地的守护者获得王国后,长久地享受着欢乐。
3.77.31
तस्यां देव्यां हरिश्चन्द्राज्जज्ञे राजीवलोचनः ।
पुत्रः पुण्यवतां श्रेष्ठो लोहिताश्व इति श्रुतः ॥ ३.७७.३१ ॥
哈里施昌德罗与那位王后生下一个莲花眼的儿子,他是善人中的最优者,名为洛希塔什瓦。
3.77.32
देव्या पुत्रेण सहितः पुण्यश्लोको महायशाः ।
वसिष्ठयाज्यो नृपतिरीजे शुण्यैर्महाध्वरैः ॥ ३.७७.३२ ॥
国王与王后及其子同在,他是功德闻名、大名远扬的人,以婆犀吒为祭司,以名为“舜耶”的大祭祀行祭。
3.77.33
एतस्मिन्नेव काले तु विश्वामित्रो दिवं गतः ।
पुरुहूतपुरीं रम्यामाजगामेन्द्रसेवया ॥ ३.७७.३३ ॥
就在此时,毗奢蜜多罗已升天,为侍奉因陀罗而来到了美丽的补卢呼多之城。
3.77.34
उपस्थाने च संवृत्ते देवेन्द्रस्य महात्मनः ।
आजगाम वसिष्ठोऽपि वामदेवसहायवान् ॥ ३.७७.३४ ॥
当伟大的因陀罗的集会召开时,婆犀吒也偕同伐摩提婆前来。
3.77.35
उपस्थाने च संवृत्ते सुखासीने पुरंदरे ।
वर्ण्यमानेषु च तदा सत्यवादिषु राजसु ॥ ३.७७.३५ ॥
集会召开,因陀罗安坐之时,人们正在赞颂那些说真话的诸王。
3.77.36
तस्यां संसदिसर्वस्माद्धरिश्चन्द्रोऽपि पप्रथे ।
यज्ञदानतपःशीलसत्यवाक्यदृझव्रतैः ॥ ३.७७.३६ ॥
在那集会中,哈里施昌德罗也因祭祀、布施、苦行、德行、真言与坚定的誓愿而超越众人,名声远扬。
3.77.37
वसिष्ठः परमप्रीतः स्वयाज्यपरिकीर्तनात् ।
तथापि विश्वामित्रस्तं न सेहे सत्यभूषितम् ॥ ३.७७.३७ ॥
婆私吒因其祭主受赞而极为欢喜;然而毗首密多罗却不能容忍这位以真实为庄严的人。
3.77.38
हरिश्चन्द्रं प्रति तदा विश्वामित्रवसिष्ठयोः ।
पणः कृतस्तदा पश्चाद्विश्वामित्रेण पार्थिवः ॥ ३.७७.३८ ॥
于是毗首密多罗与婆私吒之间就哈里什candra立下赌约;随后毗首密多罗以此赌注押在那位国王身上。
3.77.39
राज्याच्चापि सुखाच्चापि सहसा चावरोपितः ।
अवाप परमं दुःखं मरणादमनोहरम् ॥ ३.७७.३९ ॥
他骤然失去王国与幸福,遭受比死亡更令人痛苦的极大悲伤。
3.77.40
तच्छ्रुत्वा परमप्रीतो धर्मराजो युधिष्ठिरः ।
भ्रातृभिर्ब्राह्मणैश्चैव द्रौपद्या च समन्वितः।
विस्मयं परमं गत्वा साधुसाध्वित्यभाषत ॥ ३.७७.४० ॥
法王坚战听闻此事,极为欢喜,与诸兄弟、婆罗门及黑公主一同大为惊叹,说道:“善哉,善哉!”
3.77.41
ततो हरिश्चन्द्रकथां च सर्वे ।
श्रुत्वा तु राजा मनुजेन्द्रकेतुः।
विहाय शोकं विजहार भूयः ।
स्मरन्हरिश्चन्द्रमनन्तकीर्तिम् ॥ ३.७७.४१ ॥
随后众人听闻哈里什candra的故事;那位人主之旗的国王舍弃忧愁,再度欢愉,追念那名声无穷的哈里什candra。
3.77.42
कथामेवं तथा कृत्वा हरिश्चन्द्रनलाश्रयाम् ।
आमन्त्र्य पाण्डवान्सर्वान्बृहदश्वो जगाम ह।
उक्त्वा चाशु सरोऽगच्छदुपस्प्रष्टुं महातपाः ॥ ३.७७.४२ ॥
如此讲述了哈利商陀罗与那罗的故事,并向所有般度子孙告别后,大苦行者布利哈达叶娑离去;他很快便前往湖边漱口净身。
3.77.43
बृहदश्व गते पार्थमश्रौषीत्सव्यसाचिनम् ।
वर्तमनं तपस्युग्रे वायुभक्षं मनीषिणम् ॥ ३.७७.४३ ॥
布利哈达叶娑离去后,(坚战)听闻般度之子、智者萨维亚萨钦(阿周那)正在严酷的苦行之中,只以风为食。
3.77.44
ब्राह्मणएभ्यस्तपस्विभ्यः संपतद्भ्यस्ततस्ततः ।
तीर्थशैलवनेभ्यश्च समेतेभ्यो दृढव्रतः ॥ ३.७७.४४ ॥
从四处前来的婆罗门与苦行者那里,以及从圣渡口、山岳和森林聚集而来的人们那里,坚守誓愿的(坚战)听到了关于般度之子的消息。
3.77.45
इतिपार्थो महाबाहुर्दुरापं तप आस्थितः ।
न तथा दृष्टपूर्वोऽन्यः कश्चिदुग्रतपा इति ॥ ३.७७.४५ ॥
如此,大臂的般度之子(阿周那)已投身于难以企及的苦行;此前从未见过别的如此严酷的苦行者。
3.77.46
यथा धनंजयः पार्थस्तपस्वी नियतव्रतः ।
मुनिरेकचरः श्रीमान्धर्मो विग्रहवानिव ॥ ३.७७.४६ ॥
如同德行坚定的苦行者、独自游行的圣人、光辉的财主(阿周那)——仿佛法本身化身为人。
3.77.47
तं श्रुत्वा पाण्डवो राजंस्तप्यमानं महावने ।
अन्वशोचत कौन्तेयः प्रियं वै भ्रातरं जयम् ॥ ३.७७.४७ ॥
大王啊,般度之子、坤提之子听闻那位兄弟在大森林中苦行,便为他亲爱的兄弟阿周那(胜利者)而悲伤。
3.77.48
दह्यमानेन तु हृदा शरणार्थी महावने ।
ब्राह्मणान्विविधज्ञानान्पर्यपृच्छद्युधिष्ठिरः ॥ ३.७७.४८ ॥
心如火焚的坚战在大森林中寻求庇护,向精通各种知识的婆罗门们请教。
3.77.49
प्रतिगृह्याक्षहृदयं कुन्तीपुत्रो युधिष्ठिरः ।
आसीद्धृष्टमना राजन्भीमसेनादिभिर्युतः ॥ ३.७७.४९ ॥
大王啊,贡蒂之子坚战得到了骰子之秘,与阿毗摩西那等人一同心中欢喜。
3.77.50
स्वभ्रातॄन्सहितान्पश्यन्कुन्तीपुत्रो युधिष्ठिरः ।
अपश्यन्नर्जुनं तत्रबभूवाश्रुपरिप्लुतः ॥ ३.७७.५० ॥
坚战见兄弟们聚在一起,却不见阿周那在场,贡蒂之子便泪流满面。
3.77.51
संतप्यमानः कौन्तेयो भीमसेनमुवाच ह ।
कदा द्रक्ष्यामि वै भीम पार्तमत्र तवानुजम् ॥ ३.७७.५१ ॥
贡蒂之子悲痛地对阿毗摩西那说:"啊,毗摩,何时我才能在此见到你的幼弟般度之子阿周那?"
3.77.52
मत्कृते हि कुरुश्रेष्ठ तष्यते परमं तपः ।
तस्याक्षहृदयज्ञानमाख्यास्यामि कदा न्बहम् ॥ ३.७७.५२ ॥
库鲁族中最优秀的人啊,他为了我正承受着极大的苦修。我何时才能把骰子之秘的知识告诉他呢?
3.77.53
स हि श्रुत्वाऽक्षहृदयं समुपात्तं मया विभो ।
प्रहृष्टः पुरुषव्याघ्रो भविष्यति न संशयः ॥ ३.७७.५३ ॥
啊,强大者,他听到我所获得的骰子之心,那人中之虎必定欢喜,毫无疑问。