摩诃婆罗多 · 章 3.79
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.79.1
धनञ्जयोत्सुकास्ते तु वने तस्मिन्महारथाः ।
न्यवसन्त महाभागा द्रौपद्या सह कृष्णया ॥ ३.७९.१ ॥
那些渴望Dhanañjaya的大战车武士,极为幸运,与Kṛṣṇā(德劳帕蒂)一同居住在那片森林中。
3.79.2
धनं जयोत्सुकानां तु भ्रातॄणां कृष्णया सह ।
श्रुत्वा वाक्यानि विमना धर्मराजोप्यजायत ॥ ३.७९.२ ॥
听闻渴望胜利的兄弟们与Kṛṣṇā的话语,法王也心生忧虑。
3.79.3
अथापश्यन्महात्मानं देवर्षिं तत्र नारदम् ।
दीप्यमानं श्रिया ब्राह्म्या दीप्ताग्निसमतेजसम् ॥ ३.७९.३ ॥
那时,他们在那里看到了大德的天仙那罗陀,他因梵天的光辉而闪耀,光芒如同燃烧的火焰。
3.79.4
तमागतमभिप्रेक्ष्य भ्रातृभिः सह धर्मराट् ।
प्रत्युत्थाय यथान्यायं पूजां चक्रे महात्मने ॥ ३.७९.४ ॥
看到他到来,法王与兄弟们一起起身,依礼向这位大德致敬。
3.79.5
स तैः परिवृतः श्रीमान्भ्रातृभिः कुरुसत्तमः ।
विबभावतिदीप्तौजा देवैरिव शतक्रतुः ॥ ३.७९.५ ॥
被兄弟们环绕的那位光荣的库鲁之最,光辉耀眼,如同被诸神环绕的百祭者因陀罗。
3.79.6
यथा च वेदान्सावित्री याज्ञसेनी तथा पतीन् ।
न जहौ धर्मतः पार्थान्मेरुमर्कप्रभा यथा ॥ ३.७९.६ ॥
正如萨维德丽不舍吠陀,耶尊先尼依法不舍她的丈夫们——般的(公主)。阿周那之子们,如同日光不离弃须弥山。
3.79.7
अर्ध्यं पाद्यमथानीय त्वभ्यवायदच्युतः ।
नारदस्तु महातेजाः स्वस्त्यस्त्वित्यभ्यभाषत ॥ ३.७९.७ ॥
阿周那的同伴阿遮尤多(克利须那)取来迎接之水与洗足之水上前。然而大光明的那罗陀说道:"愿你吉祥。"
3.79.8
ततो युधिष्ठिरो राजा दृष्ट्वा देवर्षिसत्तमम् ।
यथार्हं पूजयामास विधिवत्कुरुनन्दनः ॥ ३.७९.८ ॥
于是,库鲁之喜的国王坚战见到诸天仙中最尊贵者,便依礼法与其相称地予以供养。
3.79.9
प्रतिगृह्य च तां पूजां नारदो भगवानृषिः ।
आश्वासयद्धर्मसुतं युक्तरूपमिवानघ ॥ ३.७९.९ ॥
那罗陀仙人接受了这份供养,慈悲的圣人便安慰法之子,仿佛这一切都理所应当,啊,无罪者。
3.79.10
उवाच च महात्मानं धर्मराजं युधिष्ठिरम् ।
ब्रूहि धर्मभृतां श्रेष्ठ केनार्थः किं ददानि ते ॥ ३.७९.१० ॥
他对伟大心灵的法王坚战说道:"持法者中最优秀的人啊,请说吧——你所求为何?我可以给你什么?"
3.79.11
अथ धर्मसुतो राजा प्रणम्य भ्रातृभिः सह ।
उवाच प्राञ्जलिर्भूत्वा नारदं देवसंमितम् ॥ ३.७९.११ ॥
于是法之子国王坚战与兄弟们一同顶礼,合掌而立,对与天神相等的那罗陀说道。
3.79.12
न्वयि तुष्टे महाभाग सर्वलोकाभिपूजिते ।
कृतमित्येव मन्येऽहं प्रसादात्तव सुव्रत ॥ ३.७९.१२ ॥
"大福德者啊,你已欢喜,被一切世界所敬重。凭你的恩典,我认为我的事已经成就了,啊,持守善誓者。"
3.79.13
यदि त्वहमनुग्राह्यो भ्रातृभिः सहितोऽनघ ।
संदेहं मे सुनिश्रेष्ठ तत्वतश्छेत्तुमर्हसि ॥ ३.७९.१३ ॥
无垢者啊,若我与诸兄弟蒙你垂怜,最优秀的智者啊,请你如实为我断除疑惑。
3.79.14
प्रदक्षिणां यः कुरुते पृथिवीं तीर्थतत्परः ।
किं फलं तस्य कार्त्स्न्येन तद्भवान्वक्तुमर्हति ॥ ३.७९.१४ ॥
一心致力于圣地、绕行大地之人,其全部果报是什么?请你能够说明。
3.79.15
शृणु राजन्नवहितो यथा भीष्मेण धीमता ।
पुलस्त्यस्य सकाशाद्वै सर्वमेतदुपश्रुतम् ॥ ३.७९.१५ ॥
国王啊,请专心聆听,正如智者毗湿摩从补罗底耶那里听到的一切。
3.79.16
पुरा भागीरथीतीरे भीष्मो धर्मभृतांवरः ।
पित्र्यं व्रतं समास्थाय न्यवसन्मुनिभिः सह ॥ ३.७९.१६ ॥
往昔,在婆吉罗提河岸,持法者中最优秀的毗湿摩受持祖先之誓,与诸仙人同住。
3.79.17
शुभे देशे तथा राजन्पुण्ये देवर्षिसेविते ।
गङ्गाद्वारे महाभाग देवगन्धर्वसेविते ॥ ३.७९.१७ ॥
国王啊,在吉祥神圣之地,在诸天仙所常至的恒河门,大福德者啊,那是诸天与乾达婆所常至之处。
3.79.18
स पितॄंस्तर्पयामास देवांश्च परमद्युतिः ।
ऋषींश्च तर्पयामास विधिदृष्टेन कर्मणा ॥ ३.७९.१८ ॥
这位至尊光明者既令祖先满足,也令诸神满足;并依照规定的仪轨,也令诸仙人满足。
3.79.19
कस्य चित्त्वथ कालस्य जपन्नेव महायशाः ।
ददर्शाद्भुतसंकाशं पुलस्त्यमृषिसत्तमम् ॥ ३.७९.१९ ॥
过了一段时间,他在念诵 japa 时,看见了如奇迹般光辉的仙人中最优秀者补罗斯底耶。
3.79.20
स तं दृष्ट्वोग्रतपसं दीप्यमानमिव श्रिया ।
प्रहर्षमतुलं लेभे विस्मयं परमं ययौ ॥ ३.७९.२० ॥
他见到这位苦行严厉、光辉照人的仙人,心中充满无比的喜悦,并陷入极大的惊异。
3.79.21
उपस्थितं महाभागं पूजयामास भारत ।
भीष्मो धर्मभृतां श्रेष्ठो विधिदृष्टेन कर्मणा ॥ ३.७९.२१ ॥
婆罗多之子啊!持守法者中最优秀的毗湿摩,依照规定的仪轨礼敬了前来的这位大福德者。
3.79.22
शिरसा चाघमादाय शुचिः प्रयतमानसः ।
नाम संकीर्तयामास तस्मिन्ब्रह्मर्षिसत्तमे ॥ ३.७९.२२ ॥
他以头顶受阿尔迦,心地清净专注,在那位最优秀的梵仙面前念出了自己的名字。
3.79.23
भीष्मोऽहमस्मि भद्रं ते दासोऽस्मि तव सुव्रत ।
तव संदर्शनादेव मुक्तोऽहं सर्वकिल्वपैः ॥ ३.७९.२३ ॥
"我是毗湿摩。愿你吉祥。啊,持善誓者!我是你的仆人。仅凭见到你,我便已脱离一切罪过。"
3.79.24
रएवमुक्त्वा महाराज भीष्मो धर्मभृतांवरः ।
वाग्यतः प्राञ्जलिर्भूत्वातूष्णीमासीद्युधिष्ठिर ॥ ३.७९.२४ ॥
大王尤indhishthira啊,毗湿摩——持守法者中最优秀者——如此说完,便收敛言语,合掌,默然而坐。
3.79.25
तं दृष्ट्वा नियमेनाथ स्वाध्यायाम्नायकर्शितम् ।
भीष्मं कुरुकुलश्रेष्ठं मुनिः प्रीतमनाऽभवत् ॥ ३.७९.२५ ॥
见到俱卢族最优秀的毗湿摩因苦行、自修与诵读吠陀而憔悴,仙人心中欢喜。
3.79.26
ततः स मधुरेणाथ स्वरेण सुमहातपाः ।
उवाच वाक्यं धर्मज्ञः पुलस्त्यः प्रीतमानसः ॥ ३.७९.२६ ॥
于是大苦行者、通晓法义的补罗斯底耶以甜美的声音、欢喜的心说出了这些话。