マハーバーラタ · 章 3.8
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.8.1
धतराष्ट्र महाप्राज्ञ निबोध वचनं मम ।
वक्ष्यामि त्वां कौरवाणां सर्वेषां हितमुत्तमम् ॥ ३.८.१ ॥
大いなる智者ドリタラーシュトラよ、わが言葉を聞け。クル族すべてにとっての最上の利益を汝に語ろう。
3.8.2
न मे प्रियं महाबाहो यद्गताः पाण्डवा वनम् ।
निकृत्त्या निकृताश्चैव दुर्योधनपुरोगमैः ॥ ३.८.२ ॥
大いなる腕を持つ者よ、パーンダヴァたちがドゥルヨーダナらの策略に欺かれて森へ行ったことは、私には好ましくない。
3.8.3
ते स्मरन्तः परिक्लेशान्वर्षे पूर्णे त्रयोदशे ।
विमोक्ष्यन्ति विषं क्रुद्धाः कौरवेयेषु भारत ॥ ३.८.३ ॥
彼らは受けた苦難を思い起こし、十三年目が満ちるとき、怒りに燃えてクル族の者どもに毒を放つであろう、バーラタよ。
3.8.4
तदयं किंनु पापात्मा तव पुत्रः सुमन्दधीः ।
पाण्डवान्नित्यसंक्रुद्धो राज्यहेतोर्जिघांसति ॥ ३.८.४ ॥
では、罪深い心をもち、ひどく愚かなあなたの息子は、パーンダヴァに常に怒りを抱き、王国のために彼らを殺そうとしているのだ。
3.8.5
वार्यतां साध्वयं मूढः शमं गच्छतु ते सुतः ।
वनस्थांस्तानयं हन्तुमिच्छन्प्राणान्विमोक्ष्यति ॥ ३.८.५ ॥
この迷える汝の息子は、よく制止され、平安を得るがよい。森に住む者を殺そうと望むことで、彼自身が命を落とすであろう。
3.8.6
यथाऽऽह विदुरः प्राज्ञो यथा भीष्मो यथा वयम् ।
यथा कृपश्च द्रोणश्च तथा साधु विधीयताम् ॥ ३.८.६ ॥
賢いヴィドゥラが言ったように、ビーシュマが言ったように、我らが言ったように、クリパとドローナが言ったように、そのように良く行われよ。
3.8.7
विग्रहो हि महाप्राज्ञ स्वजनेन विगर्हितः ।
अधर्म्यमयशस्यं च मा राजन्प्रतिपद्यथाः ॥ ३.८.७ ॥
大いなる智者よ、身内との争いは非難されるべきです。王よ、非法で不名誉な道に進んではなりません。
3.8.8
समीक्षा यादृशी ह्मस्य पाण्डवान्प्रति भारत ।
उपेक्ष्यमाणा सा राजन्महान्तमनयं व्रजेत् ॥ ३.८.८ ॥
バラタの子孫よ、彼のパーンダヴァへの態度がどのようなものであれ、それを放置すれば、王よ、大いなる破滅に至るでしょう。
3.8.9
अथवाऽयं सुमन्दात्मा वनं गच्छतु ते सुतः ।
पाण्डवैः सहितो राजन्नेक एवासहायवान् ॥ ३.८.९ ॥
あるいは、この愚かな心の息子を、パーンダヴァたちとともに森へ行かせなさい。王よ、彼は供も持たず、ただ一人で。
3.8.10
ततः संसर्गजः स्नेहः पुत्रस्य तव पाण्डवैः ।
यदि स्यात्कृतकृत्यस्त्वं भवेथाः पुरषर्षभ ॥ ३.८.१० ॥
もし、パーンダヴァたちとの交わりから生じた情愛が息子に芽生えるなら、人中の雄牛よ、あなたは目的を果たすでしょう。
3.8.11
अथवा जायमानस्य यच्छीलमनुजायते ।
श्रूयते तन्महाराज नामृतस्यापसर्पति ॥ ३.८.११ ॥
あるいは、偉大な王よ、生まれとともに生じた性質はついて回ると聞きます。それは不死の者から甘露が離れないように、離れ去ることはありません。
3.8.12
कथं वा मन्यते भीष्मो द्रोणोऽथ विदुरोपिवा ।
भवान्वाऽत्र परं कार्यं पुरा चार्थो निवर्तते ॥ ३.८.१२ ॥
ビーシュマ、ドローナ、あるいはヴィドゥラはこれをどう考えるか。あるいはあなた自身は?この件における最高の義務は何か、そして以前の目的のどれが退けられうるか。