Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.80

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.80.1

अनेन तव धर्मज्ञ प्रश्रयेण दमेन च ।
सत्येन च महाभाग तुष्टोस्मि तव सुव्रत ॥ ३.८०.१ ॥

精通法者啊,因你的谦恭、克制与真实,我对你心生欢喜,大福者啊,持善誓者啊。

3.80.2

यस्येदृशस्ते धर्मोऽयं पितृवाक्याश्रितोऽनघ ।
तेन पश्यसि मां पुत्र प्रीतिश्च परमा त्वयि ॥ ३.८०.२ ॥

无罪者啊,你依从父亲之言的法便是如此;因此你得以见到我,孩子,我对你怀有至深的爱。

3.80.3

अमोघदर्शी भीष्माहं ब्रूहि किं करवाणि ते ।
यद्वक्ष्यसि कुरुश्रेष्ठ तस्य दाताऽस्मि तेऽनघ ॥ ३.८०.३ ॥

我,毕湿摩,目光从不落空——请说,我能为你做什么?库鲁之最啊,你所说的任何事,我都将赐予你,无罪者啊。

3.80.4

प्रीते त्वयि महाभाग सर्वलोकाभिपूजिते ।
कृतमित्येव मन्येऽहं यदहं दृष्टवान्प्रभुम् ॥ ३.८०.४ ॥

大福者啊,为万界所敬仰者,你既欢喜,我便认为我的事已成,因为我得见了主。

3.80.5

यदि त्वहमनुग्राह्यस्तव धर्मभृतांवर ।
संदेहं ते प्रवक्ष्यामि तन्मे त्वं छेत्तुमर्हसि ॥ ३.८०.५ ॥

若我值得你的恩惠,持法者中最优秀者啊,我将向你陈述我的疑惑,愿你为我解除它。

3.80.6

अस्ति मे भगवन्कश्चित्तीर्थानि प्रति संशयः ।
तमहं श्रोतुमिच्छामि तद्भवान्वक्तुमर्हति ॥ ३.८०.६ ॥

世尊啊,我对圣渡口心存一疑;我愿听闻,而你正宜为我宣说。

3.80.7

प्रदक्षिणां यः पृथिवीं करोत्यमरसन्निभ ।
किं फलं तस्य विप्रर्षे तन्मे ब्रूहि तषोधन ॥ ३.८०.७ ॥

你啊,如同不死者一般,绕行大地者,其果报是什么?婆罗门仙人啊,苦行的财富,请告诉我。

3.80.8

हन्त तेऽहंप्रवक्ष्यामि यदृषीणां परायणम् ।
तदेकाग्रमनास्तात शृणु तीर्थेषु यत्फलम् ॥ ३.८०.८ ॥

好吧,我将告诉你圣人们的最高归依。孩子,请以专一的心听闻圣渡口中的果报。

3.80.9

यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् ।
विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ॥ ३.८०.९ ॥

手足与心皆善加调伏、具有学问、苦行与名声的人,便能获得圣渡口的果报。

3.80.10

प्रतिग्रहादपावृत्तः संतुष्टो येन केनचित् ।
अहंकारनिवृत्तश्च स तीर्थफलमश्नुते ॥ ३.८०.१० ॥

远离受施、随所得而知足、脱离我慢的人,便能获得圣渡口的果报。

3.80.11

अकल्कको निरारम्भो लध्वाहारो जितेन्द्रियः ।
विमुक्तः सर्वपापेभ्यः स तीर्थफलमश्नुते ॥ ३.८०.११ ॥

无瑕、不作营为、少食、调伏诸根、远离一切罪恶的人,便能获得圣渡口的果报。

3.80.12

अक्रोधनश्च राजेन्द्र सत्यशीलो दृढव्रतः ।
आत्मोपमश्च भूतेषु स तीर्धफलमश्नुते ॥ ३.८०.१२ ॥

王中之王啊,无忿怒、性情诚实、誓愿坚固、视一切众生如己的人,便能获得圣渡口的果报。

3.80.13

ऋषिभिः क्रतवः प्रोक्ता देवेष्विह यथाक्रमम् ।
फलं चैव यथातत्त्वं प्रेत्य चेह च सर्वशः ॥ ३.८०.१३ ॥

诸仙人在此依次宣说了献给诸神的祭祀,并如实宣说其果报,无论死后还是今生,各方面皆然。

3.80.14

न ते शक्या दरिद्रेण यज्ञाः प्राप्तुं महीपते ।
बहूपकरणा यज्ञा नानासंभारविस्तराः ॥ ३.८०.१४ ॥

大地之主啊,这些祭祀贫穷者不能获得;祭祀需要许多器具,各种物料繁多。

3.80.15

प्राप्यन्ते पार्थिवैरेतैः समृद्धैर्वा नरैः क्वचित् ।
नार्थन्यूनोपकरणैरेकात्मभिरसंहतैः ॥ ३.८०.१५ ॥

这些有时只有国王或富裕之人才能获得,而缺乏财物和器具、孤身而无联合的人则不能。

3.80.16

यो दरिद्रैरपि विधिः शक्यः प्राप्तुं नरेश्वर ।
तुल्यो यज्ञफलैः पुण्यैस्तं निबोध युधांवर ॥ ३.८०.१६ ॥

人主啊,请听那即使贫穷者也能做到、功德与祭祀之果相等的仪轨,勇士中的最优者啊。

3.80.17

ऋषीणां परमं गुह्यमिदं भरतसत्तम ।
तीर्थाभिगमनं पुण्यं यज्ञैरपि विशिष्यते ॥ ३.८०.१७ ॥

薄罗多族中最优秀的人啊,这是诸仙人的至高秘密:前往圣地渡口之行是有功德的,它甚至胜过祭祀。

3.80.18

अनपोष्य त्रिरात्राणि तीर्थान्यनभिगम्य च ।
अदत्त्वा काञ्चनं गाश्च दरिद्रो नाम जायते ॥ ३.८०.१८ ॥

若不守持三夜斋戒,不前往圣渡,也不布施黄金与牛,便会生为贫穷之人。

3.80.19

अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा विपुलदक्षिणैः ।
न तत्फलमवाप्नोति तीर्थाभिगमनेन यत् ॥ ३.८०.१९ ॥

即使以丰厚的布施举行阿耆尼史多摩等祭祀,也得不到前往圣渡所得的果报。

3.80.20

सर्वतीर्थेषु राजेन्द्र तीर्थं त्रैलोक्यविश्रुतम् ।
पुष्करं नाम विख्यातं महाभागः समाविशेत् ॥ ३.८०.२० ॥

众王之王啊,在所有圣渡中,有一处名闻三界,名为布史卡罗;福德深厚者应当进入其中。

3.80.21

दशकोटिसहस्राणि तीर्थानां वै महामते ।
सान्निध्यं पुष्करे येषां त्रिसन्ध्यं कुरुनन्दन ॥ ३.८०.२१ ॥

大智者啊,千万亿的圣渡确实靠近布史卡罗;库鲁的欢喜啊,它们在三个黄昏时都在那里。

3.80.22

आदित्या वसवो रुद्राः साध्याश्च समरुद्गणाः ।
गन्धर्वाप्सरसश्चैव नित्यं सन्निहिता विभो ॥ ३.८०.२२ ॥

威严者啊,阿提提耶、婆苏、楼陀罗、萨陀耶,与摩录多群,以及乾闼婆和阿布沙罗,常在那里。

3.80.23

यत्र देवास्तपस्तप्त्वा दैत्या ब्रह्मर्षयस्तथा ।
तपोविशेषैर्बहुभिः स्थानान्यापुर्महौजसः।
दिव्ययोगा महाराज पुण्येन महताऽन्विताः ॥ ३.८०.२३ ॥

诸天神、阿修罗与梵仙们在此修苦行,以种种殊胜苦行,获得了各自的处所,他们德光威烈;大王啊,他们具有神圣瑜伽与大功德而到达此处。

3.80.24

मनसाभ्येतुकामस्य पुष्कराणि मनस्विनः ।
पूयन्ते सर्वपापानि नाकपृष्ठे च पूज्यते ॥ ३.८०.२४ ॥

对于心中愿意亲近布史卡罗的智者,一切罪业都得以清净,他甚至在天界之巅也受人尊崇。

3.80.25

तस्मिंस्तीर्थे महाभागो नित्यमेव पितामहः ।
उवास परमप्रीतो देवदानवसत्तमः ॥ ३.८०.२५ ॥

在那圣渡之处,大福的祖父,诸天与檀那婆中最优秀者,始终居住其中,极为喜悦。

3.80.26

पुष्करेषु महाभाग देवाः सर्पिगणाः पुरा ।
सिद्धिं समभिसंप्राप्ताः पुण्येन महताऽन्विताः ॥ ३.८०.२६ ॥

大福者啊,往昔在普什卡罗,诸神与蛇众因大功德而获得成就。

3.80.27

तत्राभिषेकं यः कुर्यात्पितृदेवांश्च तर्पयेत् ।
सर्वपापविनिर्मुक्तो ब्रह्मलोके च पूज्यते ॥ ३.८०.२७ ॥

若在彼处沐浴并以供水款待祖先与诸神,便脱离一切罪恶,在梵天界中也受到尊崇。

3.80.28

अप्येकं भोजयेद्विप्रं पुष्करारण्यमाश्रितः ।
तेनासौ कर्मणा भीष्म प्रेत् यचेह च मोदते ॥ ३.८०.२८ ॥

居于普什卡罗森林者,哪怕只供养一位婆罗门,婆罗多者啊,凭此功德,他在此世与死后都能欢喜。

3.80.29

शाकैर्मूलैः फलैर्वाऽपिचेन वर्तयते स्वयम् ।
तद्वै दद्याद्ब्राह्मणाय श्रद्धावाननसूयकः।
तेनैव प्राप्नुयात्प्राज्ञो हयमेधफलं नरः ॥ ३.८०.२९ ॥

自己以蔬菜、根茎或果实为食的人,应当以信心、无嫉妒之心把同样的食物供给婆罗门;凭此,智者便获得马祭的果报。

3.80.30

अपि वाऽप्युदपात्रेण ब्राह्मणान्स्वस्ति वाचयेत् ।
तेनापि पूजनेनाशु प्रेत्यानन्त्याय कल्पते ॥ ३.८०.३० ॥

或者以水器令婆罗门诵念吉祥祝福;以此供养,他死后也能迅速获得无尽之果。

3.80.31

ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वा राजसत्तम ।
न वै योनौ प्रजायन्ते स्नातास्तीर्थे महात्मनः ॥ ३.८०.३१ ॥

最好的君王啊,婆罗门、刹帝利、吠舍或首陀罗,若在大心者的圣渡口沐浴,便不再从胎中降生。

3.80.32

कार्तिक्यां तु विशेषेण योऽभिगच्छति पुष्करम् ।
फलं तत्राक्षयं तेन लभते भरतर्षभ ॥ ३.८०.३२ ॥

婆罗多的雄牛啊,在迦尔提迦月特别前往普什卡拉的人,在那里获得不灭的果报。

3.80.33

सायंप्रातः स्मरेद्यस्तु पुष्कराणि कृताञ्जलिः ।
उपस्पृष्टं भवेत्तेन सर्वतीर्थेषु भारत।
प्राप्नुयाच्च नरो लोकान्ब्रह्मणः सदनेऽक्षयान् ॥ ३.८०.३३ ॥

早晚合掌忆念诸普什卡的人,婆罗多啊,在一切圣渡口得到净化,并在梵天的居所获得不灭的世界。

3.80.34

जन्मप्रभृतियत्पापं स्त्रिया वा पुरुषस् वा ।
पुष्करे स्नातमात्रस्य सर्वमेव प्रणश्यति ॥ ३.८०.३४ ॥

无论女子或男子自出生以来所犯何罪,一旦在普什卡拉沐浴,一切都会灭尽。

3.80.35

यथा सुराणां सर्वेषामादिस्तु मधुसूदनः ।
तथैव पुष्करं राजंस्तीर्थानामादिरुच्यते ॥ ३.८०.३५ ॥

正如摩图苏德那是诸神之首,国王啊,普什卡拉也被称为诸圣渡口之首。

3.80.36

उष्य द्वादशवर्षाणि पुष्करे नियतः शुचिः ।
क्रतून्सर्वानवाप्नोति ब्रह्मलोकं स गच्छति ॥ ३.८०.३६ ॥

在普什卡拉自制清净居住十二年的人,获得一切祭祀的果报,并前往梵天界。

3.80.37

यस्तु वर्षशतं पूर्णमग्निहोत्रमुपासते ।
कार्तिकीं वा वसेदेकां पुष्करे सममेव तत् ॥ ३.८०.३७ ॥

若有人完整地供奉阿耆尼火祭一百年,或于迦尔提迦月在普什卡拉住宿一夜,其功德相同。

3.80.38

त्रीणि शृङ्गाणि शुभ्राणि त्रीणि प्रस्रवणानि च ।
पुष्कराण्यादिसिद्धानि न विद्मस्तत्र कारणम् ॥ ३.८०.३८ ॥

有三座明亮的山峰和三处泉源;普什卡拉自始便已成就——其原因我们并不知晓。

3.80.39

दुष्करं पुष्करं गन्तुं दुष्करं पुष्करे तपः ।
दुष्करं पुष्करे दानं वस्तुं चैव सुदुष्करम् ॥ ३.८०.३९ ॥

前往普什卡拉已是困难;在普什卡拉修苦行困难;在普什卡拉布施困难;而在那里居住则极为困难。

3.80.40

उष्य द्वादशरात्रं तु नियतो नियताशनः ।
प्रदक्षिणमुपावृत्य जम्बूमार्गं समाविशेत् ॥ ३.८०.४० ॥

在那里住满十二夜,自我克制、饮食有节,右绕之后,应当进入阎浮道。

3.80.41

जम्बूमार्गं समाक्श्यि देवर्षिपितृसेवितम् ।
अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति ॥ ३.८०.४१ ॥

完全进入阎浮道——诸天神、仙人与祖灵所常至之处——他便获得马祭的果报,并往毗湿奴的世界而去。

3.80.42

तत्रोष्य रजनीः पञ्च कषष्ठकालक्षमी नरः ।
न दुर्गतिमवाप्नोति विष्णुलोकं च गच्छति ॥ ३.८०.४२ ॥

在那里住满五夜,忍受那严苛之时的人,不会陷入恶趣,而往毗湿奴的世界而去。

3.80.43

तत्रगत्वा महाप्राज्ञः कुर्याच्छ्राद्धं दृढव्रतः ।
वाजपेयमवाप्नोति दुष्कृतं चास्य नश्यति ॥ ३.८०.४३ ॥

到达那里后,大智且立誓坚定者应行施食祭(śrāddha);他获得伐社佩亚祭的果报,其恶业亦被消除。

3.80.44

जम्बूमार्गादुपावृकत्यगच्छेत्स्थण्डिलकाश्रमम् ।
न दुर्गतिमवाप्नोति ब्रह्मलोकं च गच्छति ॥ ३.८०.४४ ॥

若从阎浮道转向,前往斯坦迪拉的修行处者,不会得到恶道,而往生梵天界。

3.80.45

आगस्त्यं सर आसाद्य पितृदेवार्चने रतः ।
त्रिरात्रोपोषितो राजन्नग्निष्टोमफलं लभेत् ॥ ३.८०.४५ ॥

到达阿伽斯提耶湖,专心祭拜祖先与诸神,禁食三夜,大王,即可获得火祭(阿耆尼舍多摩)之果报。

3.80.46

शाकवृत्तिः फलैर्वाऽपि कौमारं विन्दते पदम् ।
कण्वाश्रमं ततो गच्छेच्ध्रीजुष्टं लोकपूजितम् ॥ ३.८०.४६ ॥

即便以蔬果为食者,也能获得童子之位;之后应前往迦纳瓦的修行处,那里为吉祥天女所眷顾,受世间尊崇。

3.80.47

धर्मारण्यं हि तत्पुण्यमाद्यं च भरतर्षभ ।
यत्र प्रविष्टमात्रो वै सर्वपापैः प्रमुच्यते ॥ ३.८०.४७ ॥

那座法林最为圣洁,居首位,婆罗多族的雄牛啊;一经踏入,人便从一切罪恶中解脱。

3.80.48

अर्चयुत्वा पितॄन्देवान्नियतो नियताशनः ।
सर्वकामसमृद्धः स्याद्यज्ञस्य फलमश्नुते ॥ ३.८०.४८ ॥

供奉祖先与诸神,自制而节食,便能于一切所愿圆满,并享受祭祀的果报。

3.80.49

प्रदक्षिणं ततः कृत्वा ययातिपतनं व्रजेत् ।
हयमेधस्य यज्ञस्य फंल प्राप्नोति तत्र वै ॥ ३.८०.४९ ॥

随后右绕行礼,应前往耶耶提坠落之处。在那里,确实可获得马祭的果报。

3.80.50

महाकालं ततो गच्छेन्नियतो नियताशनः ।
कोटितीर्थमुपस्पृश्य हयमेधफलं लभेत् ॥ ३.८०.५० ॥

随后,应自我克制、饮食有节地前往大时(Mahākāla);在俱底渡口以水净身后,便可获得马祭的果报。

3.80.51

ततो गच्छेत धर्मज्ञः स्थाणोस्तीर्थमुमापतेः ।
नाम्ना भद्रवटं नाम त्रिषु लोकेषु विश्रुतम् ॥ ३.८०.५१ ॥

随后,通晓法者应前往湿婆(斯坦努)——乌玛之主的圣渡口;以跋陀罗伐吒之名,它在三界中闻名。

3.80.52

तत्राभिगम्य चेशानं गोसहस्रफलं लभेत् ।
महादेवप्रसादाच्च गाणपत्यं च विन्दति ॥ ३.८०.५२ ॥

在那里亲近伊舍那(湿婆)者,可获得布施千牛的果报;并因大天(摩诃提婆)的恩典,还能得到伽那波提耶(湿婆眷属之主)的境界。

3.80.53

समृद्धमसपत्नं च श्रिया युक्तं नरोत्तमः ।
राज्ञां चैवाधिपत्यं हि तत्र गत्वा समाप्नुयात् ॥ ३.८०.५३ ॥

人中之最,前往彼处者,将获得诸王的统治权——繁荣、无敌、并具足吉祥。

3.80.54

नर्मदां स समासाद्य नदीं त्रैलोक्यविश्रुताम् ।
तर्पयित्वा पितृन्देवानग्निष्टोमफलं लभेत् ॥ ३.८०.५४ ॥

抵达遍闻三界的纳尔马达河,向祖先与诸神行奉水之礼,便可获得阿耆尼输陀摩祭的果报。

3.80.55

दक्षिमं सिन्धुमासाद्य ब्रह्मचारी जितेन्द्रियः ।
अग्निष्टोममवाप्नोति विमानं चाधिरोहति ॥ ३.८०.५५ ॥

到达南方的信度河的梵行者、制服诸根的人,获得阿耆尼恭多姆祭的果报,并登上天车。

3.80.56

चर्मण्वतीं समासाद्य नियतो नियताशनः ।
रन्तिदेवाभ्यनुज्ञातमग्निष्टोमफलं लभेत् ॥ ३.८०.५६ ॥

到达遮摩那伐蒂河,克制而节食的人,应获得经罗檀提提婆许可的阿耆尼恭多姆祭之果。

3.80.57

ततो गच्छेत धर्मज्ञं हिमवत्सुतमर्बुदम् ।
पृथिव्यां यत्रवै छिद्रं पूर्वमासीद्युधिष्ठिर ॥ ३.८०.५७ ॥

然后,知法者啊,应前往喜马拉雅之子阿尔布达,那里古时大地曾有一道裂缝,般度之子啊。

3.80.58

तत्राश्रमो वसिष्ठस्य त्रिषु लोकेषु विश्रुतः ।
तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत् ॥ ३.८०.५८ ॥

那里有在三界闻名的仙人伐私咤的修道处;在那里住一夜,便可获得千头牛的果报。

3.80.59

पिङ्गतीर्थमुपस्पृश्य ब्रह्मचारी जितेन्द्रियः ।
कपिलानां नरश्रेष्ठ शतस् फलमश्नुते ॥ ३.८०.५९ ॥

在频伽渡口沐浴后,梵行且制服诸根的人,人中最胜者啊,享有迦毗罗牛果报的百倍。

3.80.60

ततो गच्छेत राजेन्द्र प्रभासं लोकविश्रुतम् ।
तीर्थं देवगणैः पूज्यमृषिभिश्च निषेवितम् ॥ ३.८०.६० ॥

然后,众王之主啊,应前往世间闻名的普拉巴沙,那是诸神所供奉、仙人所常至的圣渡口。

3.80.61

देवतानां मुखं वीर ज्वलनोऽनिलसारथिः ।
देवतानां मुखं वीर ज्वलनोऽनिलसारथिः ॥ ३.८०.६१ ॥

英雄啊,诸神的面容是火神,风为其御者。

3.80.62

तस्मिंस्तीर्थे नरः स्नात्वा शुचिः प्रयतमानसः ।
अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति मानवः ॥ ३.८०.६२ ॥

在那圣渡口沐浴,心地清净、意念专一的人,可获得阿格尼什托摩与阿提拉特拉祭祀的功德。

3.80.63

ततो गत्वा सरस्वत्याः सागरस्य च संगमे ।
गोसहस्रफलं तस्य स्वर्गलोकं च विन्दति।
प्रभया दीप्यते नित्यमग्निवद्भरतर्षभ ॥ ३.८०.६३ ॥

然后前往萨拉斯瓦蒂河与大海的汇合处,可获得千头牛的功德并到达天界。他永远像火一样光芒闪耀,婆罗多之牛啊。

3.80.64

वरदानं ततो गच्छेत्तीर्थं भरतसत्तम ।
विष्णोर्दुर्वाससा यत्र वरो दत्तो युधिष्ठिर।
प्रभासते यथा सोमः सोश्वमेधं च विन्दति ॥ ३.८०.६४ ॥

然后,婆罗多中最优秀者啊,应前往恩赐渡口,那里杜尔婆萨曾赐予毗湿奴一个恩惠,般度之子啊。它如月亮般照耀,并带来马祭的功德。

3.80.65

वरदानं ततो गच्छेत्तीर्थं भरतसत्तम ।
विष्णोर्दुर्वाससा यत्र वरो दत्तो युधिष्ठिर।
वरदाने नरः स्नात्वा गोसहस्रफंल लभेत् ॥ ३.८०.६५ ॥

然后,婆罗多中最优秀者啊,应前往恩赐渡口,那里杜尔婆萨曾赐予毗湿奴一个恩惠,般度之子啊。在恩赐处沐浴的人应获得千头牛的功德。

3.80.66

ततो द्वारवतीं गच्छेन्नियतो नियताशनः ।
पिण्डारके नरः स्नात्वा लभेद्बहुसुवर्णकम् ॥ ३.८०.६६ ॥

然后,应自持、节制饮食地前往德瓦拉瓦蒂。在平达拉伽沐浴的人应获得大量黄金。

3.80.67

तस्मिंस्तीर्थे महाभाग पद्मलक्षणलक्षिताः ।
अद्यापि मुद्रा दृश्यन्ते तदद्भुतमरिंदम ॥ ३.८०.६७ ॥

大福者啊,在那圣渡口,带有莲花标记的印记至今仍可见;此事奇妙,降伏敌人者啊。

3.80.68

त्रिशूलाङ्कानि पद्मानि दृश्यन्ते कुरुनन्दन ।
महादेवस्य सांनिध्यं तत्र वै पुरुषर्षभ ॥ ३.८०.६८ ॥

库鲁之喜啊,那里可见带三叉戟标记的莲花;人中之最啊,那里确有大天的临在。

3.80.69

सागरस्य च सिन्धोश्च संगमं प्राप्य दुर्लभम् ।
तीर्थे सलिलराजस्य स्नात्वा प्रयतमानसः ॥ ३.८०.६९ ॥

到达大海与信度河罕见的交汇处,在水王的那座圣渡口以专注的心沐浴。

3.80.70

तर्पयित्वा पितॄन्देवानृषींश्च भरतर्षभ ।
प्राप्नोति वारुणं लोकं दीप्यमानं स्वतेजसा ॥ ३.८०.७० ॥

婆罗多中的雄牛啊,以供水使祖先、诸神和仙人满足后,人便得以到达以自身光辉闪耀的伐楼那世界。

3.80.71

शङ्कुकर्णेश्वरं देवमर्चयित्वा युधिष्ठिर ।
अश्वमेधाद्दशगुणं प्रवदन्ति मनीषिणः ॥ ३.८०.७१ ॥

坚战啊,礼拜神祇商库迦尔纳湿伐罗者,智者宣称其功德是马祭的十倍。

3.80.72

प्रदक्षिणमुपावृत्य गच्छेत भरतर्षभ ।
तीर्थं कुरुवरश्रेष्ठ त्रिषु लोकेषु विश्रुतम् ॥ ३.८०.७२ ॥

婆罗多中的雄牛啊,应当右绕而行;库鲁中的最上者啊,此渡口在三界中闻名。

3.80.73

शमीति नाम्ना विख्यातं सर्वपापप्रणाशनम् ।
तत्रब्रह्मादयो देवा उपासन्ते महेश्वरम् ॥ ३.८०.७३ ॥

其名为舍弥,能灭一切罪恶。在那里,梵天等众神礼拜大自在天(摩呵湿伐罗)。

3.80.74

तत्रस्नात्वाऽर्चयित्वा च रुद्रं देवगणैर्वृतम् ।
जन्मप्रभृतियत्पापं तत्स्नातस्य प्रणश्यति ॥ ३.८०.७४ ॥

在那里沐浴并礼拜被诸神群所围绕的楼陀罗,沐浴者自出生以来所犯的一切罪过便都消灭。

3.80.75

शमी चात्रनरश्रेष्ठ सर्वदेवैरभिष्टुता ।
तत्र स्नात्वा नरव्याघ्र हयमेधमवाप्नुयात् ॥ ३.८०.७५ ॥

此处的舍弥,人中之最,也被诸神所赞颂。人中虎啊,在那里沐浴便能获得马祭之果。

3.80.76

गत्वा यत्रमहाप्राज्ञ विष्णुना प्रभविष्णुना ।
पुरा शौचं कृतंराजन्हत्वा दैवतकण्टकान् ॥ ३.८०.७६ ॥

大智者啊,前往那里——往昔,大能的毗湿奴在诛灭诸神之敌后曾在那里行净化礼,大王啊。

3.80.77

ततो गच्छेत धर्मज्ञ वसोर्धारामभिष्टुताम् ।
गमनादेवतस्यां हि हयमेधफलं लभेत् ॥ ३.८०.७७ ॥

随后,知法者啊,应当前往婆苏被赞颂的河流。仅仅前往那里,便能获得马祭的果报。

3.80.78

स्नात्वा कुरुवरश्रेष्ठ प्रयतात्मा समाहितः ।
तर्प्य देवान्पितॄंश्चैव विष्णुलोके महीयते ॥ ३.८०.७८ ॥

最优秀的俱卢之人啊,沐浴之后,以克制之心、专注之意,以供奉使诸神与祖灵满足,便能在毗湿奴的世界中受到尊崇。

3.80.79

तीर्थे चात्र सर पुण्यं वसूनां भरतर्षभ ।
तत्र स्नात्वा च पीत्वा च वसूनां संमतोभवेत् ॥ ३.८०.७९ ॥

婆罗多族的雄牛啊,这圣渡口有婆修的圣湖。在那里沐浴并饮水的人,将受到婆修的尊重。

3.80.80

सिन्धूत्तममिति ख्यातं सर्वपापप्रणाशनम् ।
तत्र स्नात्वा नरश्रेष्ठ लभेद्बहुसुवर्णकम् ॥ ३.८०.८० ॥

这被称为至上信度的圣地能消除一切罪孽。人中之杰啊,在那里沐浴的人将获得许多黄金。

3.80.81

ब्रह्मतीर्थं समासाद्य शुचिः शीलसमन्वितः ।
ब्रह्मलोकमवाप्नोति गतिं च परमां व्रजेत् ॥ ३.८०.८१ ॥

到达梵渡口,清净而具备良好德行的人,将获得梵界,并走向至高的归宿。

3.80.82

कुमारिकाणां शक्रस्य तीर्थं सिद्धनिषेवितम् ।
तत्र स्नात्वा नरः क्षिप्रं स्वर्गलोकमवाप्नुयात् ॥ ३.८०.८२ ॥

少女之圣渡口,属于帝释,为成就者所常至。人在那里沐浴,很快便能获得天界。

3.80.83

रेणुकायाश्च तत्रैव तीर्थं सिद्धनिषेवितम् ।
तत्र स्नात्वा भवेद्विप्रो निर्मलश्चन्द्रमा यथा ॥ ३.८०.८३ ॥

勒努卡的圣渡口也在那里,为成就者所常至。婆罗门在那里沐浴后,便如月亮般洁净无瑕。

3.80.84

अथ पञ्चनदं गत्वा नियतो नियताशनः ।
पञ्चयज्ञानवाप्नोति क्रमशो येऽनुकीर्तिताः ॥ ३.८०.८४ ॥

之后前往五河之地,克己节食,便能依次获得前面所述的五种祭祀。

3.80.85

ततो गच्छेत राजेन्द्र भीमायाः स्थानमुत्तमम् ।
तत्रस्नात्वा न योन्यां वै भवेद्भरतसत्तम ॥ ३.८०.८५ ॥

然后,诸王之主啊,应当前往跋提摩(Bhīmā)的殊胜之处。在那里沐浴者,婆罗多族中最优秀的人啊,必不再从母胎中生出。

3.80.86

देव्याः पुत्रो भवेद्राजंस्तप्तकुण्डलभूषणः ।
गवां शतसहस्रस्य फलं प्राप्नोति मानवः ॥ ३.८०.८६ ॥

大王啊,他将成为女神之子,以精炼金制成的耳环为饰。世人得到十万头牛的功德。

3.80.87

गिरिकुञ्जं समासाद्य त्रिषु लोकेषु विश्रुतम् ।
पितामहं नमस्कृत्य गोसहस्रफलं लभेत् ॥ ३.८०.८७ ॥

到达在三界闻名的山林,向祖父礼拜,便可获得千头牛的福报。

3.80.88

ततो गच्छेत धर्मज्ञ विमलं तीर्थमुत्तमम् ।
अद्यापि यत्रदृश्यन्ते मत्स्याः सौवर्णराजताः ॥ ३.८०.८८ ॥

然后,精通达摩的人啊,应当前往清净殊胜的圣渡口,那里至今仍可看见金色与银色的鱼。

3.80.89

तत्र स्नात्वा नरः क्षिप्रं वासवं लोकमाप्नुयात् ।
सर्वपापविशुद्धात्मा गच्छेत परमां गतिम् ॥ ३.८०.८९ ॥

在那里沐浴的人会迅速到达因陀罗的世界;自性洗净一切罪过,便可到达至高之境。

3.80.90

वितस्तां च समासाद्य संतर्प्य पितृदेवताः ।
नरः फलमवाप्नोति वाजपेयस्य भारत ॥ ३.८०.९० ॥

到达维塔斯塔河,使祖先与诸神满足,婆罗多啊,人便获得婆阇配耶祭祀的果报。

3.80.91

काश्मीरष्वेव नागस्य भवनं तक्षकस्य च ।
वितस्ताख्यमिति ख्यातं सर्वपापप्रमोचनम् ॥ ३.८०.९१ ॥

在迦湿弥罗正有龙王德叉迦的居所,那里有名为毗多斯塔的圣地,以能洗除一切罪业而闻名。

3.80.92

तत्रस्नात्वा नरो नूनं वाजपेयमवाप्नुयात् ।
सर्वपापविशुद्धात्मा गच्छेच्च परमां गतिम् ॥ ३.८०.९२ ॥

在那里沐浴的人必定获得婆阇跋耶祭的果报;其心灵洗净一切罪业,便能抵达至高之境。

3.80.93

ततो गच्छेत मलदां त्रिषु लोकेषु विश्रुताम् ।
पश्चिमायां तु संध्यायामुपस्पृश्य यथाविधि ॥ ३.८०.९३ ॥

此后应前往三界闻名的摩罗陀;在那里于西方黄昏时,依规矩漱口净身。

3.80.94

चरुं सप्तार्चिषे राजन्यथाशक्ति निवेदयेत् ।
पितॄणामक्षयं दानं प्रवदन्ति मनीषिणः ॥ ३.८०.९४ ॥

大王,应依自己的力量向七焰火神供献粥饭(炒饭);智者们说,供养祖先的布施是永不衰竭的。

3.80.95

ऋषयः पितरो देवा गन्धर्वाप्सरसां गणाः ।
गुह्यकाः किन्नरा यक्षाः सिद्धा विद्याधरा नराः ॥ ३.८०.९५ ॥

仙人、祖灵、诸神、乾闼婆与阿普莎罗斯的群众、古雅卡、紧那罗、夜叉、成就者、持明者,以及人类。

3.80.96

राक्षसा दितिजा रुद्रा ब्रह्मा च मनुजाधिप ।
नियतः परमां दीक्षामास्थायाब्दसहस्रिकीम् ॥ ३.८०.९६ ॥

罗刹、提提罗(阿修罗)、楼陀罗,以及梵天,大王啊,自制地持守最高的誓愿,历时千年。

3.80.97

विष्णोः प्रसादनं कुर्वंश्चरुं च श्रपयंस्तथा ।
सप्तभिः सप्तभिश्चैव ऋग्भिस्तुष्टाव केशवम् ॥ ३.८०.९७ ॥

为求毗湿奴的恩惠而行祭,并烹煮羹饭(caru),他以七七首颂诗赞颂毗湿奴(即羯舍婆)。

3.80.98

ददावष्टगुणैश्वर्यं तेषां तुष्टस्तु केशवः ।
यथाभिलषितानन्यान्कामान्दत्वा महीपते ॥ ३.८०.९८ ॥

羯舍婆欢喜,赐予他们八种德性的主权;啊,大地之主,又按他们所愿赐予其他欲望。

3.80.99

तत्रैवान्तर्दधे देवो विद्युदभ्रेषु वै यथा ।
नाम्ना सप्तचरुं तेन ख्यातं लोकेषु भारत ॥ ३.८०.९९ ॥

那位神灵便在那里隐没,如云中闪电;啊,婆罗多,因此这地方以“七羹饭”之名闻名于世。

3.80.100

गवां शतसहस्रेण राजसूयशतेन च ।
अश्वमेधसहस्रेण श्रेयान्सप्तार्चिषे चरुः ॥ ३.८०.१०० ॥

献给七焰火神的羹饭,胜过布施十万头牛、一百次王祭(Rājasūya)或一千次马祭(Aśvamedha)。

3.80.101

ततो निवृत्तो राजेन्द्र रुद्रं पदमथाविशेत् ।
अर्चयित्वामहादेवमश्वमेधफलं लभेत्। ॥ ३.८०.१०१ ॥

然后,啊,王中之王,应转身进入楼陀罗(Rudra)的住所;礼敬大天神之后,便可获得马祭的功德。

3.80.102

मणिमन्तं समासाद्य ब्रह्मचारी समाहितः ।
एकरात्रोपितो राजन्नग्निष्टोमफलं लभेत् ॥ ३.८०.१०२ ॥

到达摩尼曼特(Maṇimat)后,守戒专注的梵行者应在那里住一夜;啊,国王,他便得到火祭(Agniṣṭoma)的果报。

3.80.103

अथ गच्छेत राजेन्द्र देविकां लोकविश्रुतम् ।
प्रसूतिर्यत्र विप्राणां श्रूयते भरतर्षभ ॥ ३.८०.१०३ ॥

然后,王中之王啊,应前往遍闻于三界的提维卡河,据闻婆罗门在那里诞生,婆罗多之牛啊。

3.80.104

त्रिशूलपाणएः स्थानं च त्रिषु लोकेषु विश्रुतम् ।
देविकायां नरः स्नात्वा समभ्यर्च्य महेश्वरम् ॥ ३.८०.१०४ ॥

手持三叉戟者(湿婆)之处在三界闻名。人在提维卡河中沐浴,并恭敬礼拜大自在天后,

3.80.105

यथाशक्ति चरुं तत्र निवेद्य भरतर्षभ ।
सर्वकामसमृद्धस्य यज्ञस्य लभते फलम् ॥ ३.८०.१०५ ॥

婆罗多之牛啊,在那里依自己的能力献上一份恰鲁,便能获得满足一切愿望的祭祀之果。

3.80.106

कामाख्यं तत्र रुद्रस्य तीर्थं देवनिषेवितम् ।
तत्रस्नात्वा नरः क्षिप्रं सिद्धिं प्राप्नोति भारत ॥ ३.८०.१०६ ॥

那里有名为迦摩克亚的楼陀罗圣渡,诸天所常至。婆罗多啊,人在那里沐浴,便迅速获得成就。

3.80.107

यजनं याजनं चैवतथैव ब्रह्मबालुकम् ।
पुष्पाम्भश्च उपस्पृश्य न शोचेन्मरणं गतः ॥ ३.८०.१०७ ॥

祀场、施祭之处,以及梵天沙洲亦复如是。以花水漱口之后,不应为已逝者悲伤。

3.80.108

अर्धयोजनविस्तारां पञ्चयोजनमायताम् ।
एतां हि देविकामाहुः पुण्यां देवर्षिसेविताम् ॥ ३.८०.१०८ ॥

宽半由旬,长五由旬——人们称此提维卡河为圣洁,为天仙所常至。

3.80.109

ततो गच्छेत धर्मज्ञ दीर्घसत्रं यथाक्रमम् ।
तत्र ब्रह्मादयो देवाः सिद्धाश्च परमर्षपः।
दीर्घसत्रमुपासन्ते दीक्षिता नियतव्रताः ॥ ३.८०.१०९ ॥

随后,知法者应按次序前往长期祭会。在那里,梵天等诸神、成就者与至上仙人,受戒并坚守誓愿,侍奉这场长久的祭会。

3.80.110

गमनादेव राजेन्द्र दीर्घसत्रमरिंदम ।
राजसूयाश्वमेधाभ्यां फलं प्राप्नोति भारत ॥ ३.८०.११० ॥

仅仅前往那里,王中之王啊,降伏敌人者啊,婆罗多啊,人便能获得王祭与马祭的果报。

3.80.111

ततो विनशनं गच्छेन्नियतो नियताशनः ।
गच्छत्यन्तर्हिता यत्रमेरुपृष्ठे सरस्वती ॥ ३.८०.१११ ॥

随后,自制且节制饮食者应前往毗那舍那,那里萨拉斯瓦蒂隐没地流淌于须弥山之背。

3.80.112

चमसेऽथ शिवोद्भेदे नागोद्भेदे च दृश्यते ।
तत्र स्नात्वा नरव्याघ्र द्योतते शशिवत्वदा।
स्नात्वा तु चमसोद्भेदे अग्निष्टोमफलं लभेत् ॥ ३.८०.११२ ॥

随后,在恰马萨、湿婆涌出处与龙涌出处可见圣地。在那里沐浴,人中之虎啊,人便如月亮般焕发光辉。在恰马索涌出处沐浴,便得到火祭的果报。

3.80.113

शिवोद्भेदे नरः स्नात्वा गोसहस्रफंल लभेत् ।
नागोद्भेदे नरः स्नात्वा नागलोकमवाप्नुयात् ॥ ३.८०.११३ ॥

在湿婆涌出处沐浴的人,获得千头牛的果报。在龙涌出处沐浴的人,得以到达龙界。

3.80.114

शशयानं च राजेन्द्रतीर्थमासाद्य दुर्लभम् ।
शतरूपप्रतिच्छन्नाः पुष्करा यत्र भारत ॥ ३.८०.११४ ॥

王中之王啊,抵达稀有的沙沙雅那圣渡口,婆罗多啊,那里的莲花以百种形态隐匿。

3.80.115

सरस्वत्यां महाराज शतं संवत्सरं च ते ।
दृश्यन्ते भरतश्रेष्ठ वृत्तां वै कार्तिकीं सदा ॥ ३.८०.११५ ॥

大王啊,百年之间,他们在萨罗私伐底河中显现;婆罗多中最优秀的人啊,他们常在迦尔提迦月圆之日举行。

3.80.116

तत्रस्नात्वा नरव्याघ्र द्योतते शशिवत्सदा ।
गोसहस्रफलं चैव प्राप्नुयाद्भरतर्षभ ॥ ३.८०.११६ ॥

人中猛虎啊,在那里沐浴后,人常如月亮般光辉;婆罗多中的公牛啊,他获得千头牛的功德。

3.80.117

कुमारकोटीमासाद्य नियतः कुरुनन्दन ।
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः ॥ ३.८०.११७ ॥

俱卢之喜啊,自制者到达俱摩罗俱提后,应在那里行灌顶沐浴,并专心供奉祖先与诸神。

3.80.118

गवामयुतमाप्नोति कुलं चैव समुद्धरेत् ।
ततो गच्छेत धर्मज्ञ रुद्रकोटिं समाहितः ॥ ३.८०.११८ ॥

他获得万头牛的功德,并拯救自己的家族;然后,知法者啊,应当专心前往楼陀罗俱提。

3.80.119

पुरा यत्र महाराज मुनिकोटिः समागता ।
हर्षेण महताऽऽविष्टा रुद्रदर्शनकाङ्क्षया ॥ ३.८०.११९ ॥

大王啊,往昔十千万位牟尼聚集之处,满怀大欢喜,渴望一睹楼陀罗的尊容。

3.80.120

अहंपूर्वमहंपूर्वं द्रक्ष्यामि वृषभध्वजम् ।
एवं संप्रस्थिता राजन्नृषयः किल भारत ॥ ३.८०.१२० ॥

“我要先见牛旗者,我先!”大王啊,婆罗多啊,诸仙就这样启程了。

3.80.121

ततो योगीश्वरेणापि योगमास्थाय भूपते ।
तेषां मन्युप्रणाशार्थमृषीणां भावितात्मनाम् ॥ ३.८०.१२१ ॥

于是瑜伽之主也修习瑜伽,大王啊,为了消除那些心灵清净的仙人的愤怒。

3.80.122

स्रष्टा कोटीस्तु रुद्राणामृषीणामग्रतः स्थिता ।
मया पूर्वतरं दृष्ट इतिते मेनिरे पृथक् ॥ ३.८०.१२२ ॥

楼陀罗的创造者在仙人面前显现,数以千万计(楼陀罗)。他们各自认为:“我先见到了他。”

3.80.123

तेषां तुष्टो महादेवो मुनीनां भावितात्मनाम् ।
भक्त्या परमया राजन्वरं तेषां प्रदिष्टवान् ॥ ३.८०.१२३ ॥

摩诃提婆对那些心灵清净的仙人感到满意。大王啊,他因他们至高的虔诚而欢喜,便赐予他们恩典。

3.80.124

अद्यप्रभृति युष्माकं धर्मवृद्धिर्भविष्यति ।
तत्रस्नात्वा नरव्याघ्र रुद्रकोट्यां नरः शुचिः ॥ ३.८०.१२४ ॥

从今天起,你们的法将增长。人中之虎啊,在那里的楼陀罗科提沐浴后,人便得清净。

3.80.125

अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् ।
ततो गच्छेत राजेन्द्र संगमं लोकविश्रुतम् ॥ ३.८०.१२५ ॥

人得马祠之果报,并拯救其家族。然后,王中之最啊,他应前往闻名于世的圣河汇合处。

3.80.126

सरस्वत्या महापुण्यं केशवं समुपासते ।
यत्रब्रह्माहयो देवा ऋषयश्च तपोधनाः ॥ ३.८०.१२६ ॥

那里是萨罗室伐底河的大福地,人们在那里礼拜克沙瓦;梵天、诸蛇、诸神及以苦行为财富的仙人都在那里礼拜他。

3.80.127

अभिगच्छन्ति राजेन्द्र चैत्रशुक्लचतुर्दशीम् ।
तत्रस्नात्वा नरव्याघ्र विन्देद्बहुसुवर्णकम्।
सर्वपापविशुद्धात्मा ब्रह्मलोकं च गच्छति ॥ ३.८०.१२७ ॥

大王之主啊,在吠舍月(Caitra)白半月的第十四日,人们前往那里。人中之虎啊,在那里沐浴者得到许多黄金,心灵洗净了一切罪过,便往梵界而去。

3.80.128

ऋषीणां यत्र सत्राणि समाप्तानि नराधिप ।
तत्रावसानमासाद्य गोसहस्रफलं लभेत् । ॥ ३.८०.१२८ ॥

人主啊,在诸仙人的祭祀法会已经圆满完成之处,到达那圆满之地,便能获得千牛之福。