Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.81

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.81.1

ततो गच्छेत राजेन्द्र कुरुक्षेत्रमभिष्टुतम् ।
पापेभ्योविप्रमुच्यन्ते तद्गताः सर्वजन्तवः ॥ ३.८१.१ ॥

王中之王啊,应当前往被赞颂的俱卢之野。所有到那里的生灵都能脱离罪恶。

3.81.2

कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम् ।
य एवं सततं ब्रूयात्सोऽपि पापैः प्रमुच्यते ॥ ३.८१.२ ॥

若有人常常这样说:'我要前往俱卢之野,我要住在俱卢之野',他也能脱离罪恶。

3.81.3

पांसवोऽपिकुरुक्षेत्रे वायुना समुदीरिताः ।
अपिदुष्कृतकर्माणं नयन्ति परमां गतिम् ॥ ३.८१.३ ॥

俱卢之野中被风扬起的尘埃,也能将作恶之人引向至高的归宿。

3.81.4

दक्षिणेन सरस्वत्या दृषद्वत्युत्तरेण च ।
ये वसन्ति कुरुक्षेत्रे ते वसन्ति त्रिविष्टपे ॥ ३.८१.४ ॥

居住在俱卢之野、萨拉斯瓦蒂河以南、德里沙德瓦蒂河以北的人,便住在天界。

3.81.5

तत्र मासं वसेद्धीरः सरस्वत्यां युधांवर ।
यत्रब्रह्मादयो देवा ऋषयः सिद्धचारणाः ॥ ३.८१.५ ॥

勇士中的最优者啊,坚定之人应当在萨拉斯瓦蒂河畔住上一月,那里居住着以梵天为首的诸神、仙人、悉陀与遮罗那。

3.81.6

गन्धर्वाप्सरसो यक्षाः पन्नगाश्च महीपते ।
ब्रह्मक्षेत्रं महापुण्यमभिगच्छन्ति भारत ॥ ३.८१.६ ॥

乾闼婆、阿普萨拉斯、夜叉与蛇众也都前往那极具功德的梵天之域,啊地上之王,婆罗多的后裔。

3.81.7

मनसाऽप्यभिकामस्य कुरुक्षेत्रं युधांवर ।
पापानि विप्रणश्यन्ति ब्रह्मलोकं च गच्छति ॥ ३.८१.७ ॥

最勇猛的战士啊!即使只在心中向往俱卢之野的人,罪业也会彻底消除,他将往生梵天世界。

3.81.8

गत्वा हि श्रद्धया युक्तः करुक्षेत्रं कुरूद्वह ।
राजसूयाश्वमेधाभ्यां फलमाप्नोति मानवः ॥ ३.८१.८ ॥

俱卢族的最优者啊!怀着信心前往俱卢之野的人,将获得王祭和马祭的果报。

3.81.9

ततश्च मन्तुकं राजन्द्वारपालं महाबलम् ।
यक्षं समभिवाद्यैव गोसहस्रफलं लभेत् ॥ ३.८१.९ ॥

国王啊,然后,若恭敬地向守门的大力夜叉曼图卡致敬,便能获得布施千头牛的果报。

3.81.10

ततो गच्छेत धर्मज्ञ विष्णो स्थानमनुत्तमम् ।
सततं नाम राजेन्द्र यत्रसन्निहितो हरिः ॥ ३.८१.१० ॥

精通法的人啊,此后应前往毗湿奴最殊胜之处,名为“恒常”,王中之王啊,那里哈里常住。

3.81.11

तत्रस्नात्वाऽर्चयित्वा च त्रिलोकप्रभवं हरिम् ।
अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति ॥ ३.८१.११ ॥

在那里沐浴,礼拜三界之源哈里,便能获得马祭的果报,往生毗湿奴世界。

3.81.12

ततः परिप्लवं गच्छेत्तीर्थं त्रैलोक्यविश्रुतम् ।
अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति भारत ॥ ३.८१.१२ ॥

接着应前往三界闻名的圣渡口“帕里普拉瓦”;婆罗多的后裔啊,人可获得阿格尼什托马与阿提罗陀祭的果报。

3.81.13

पृथिवीतीर्थमासाद्य गोसहस्रफलं लभेत् ।
ततः शालूकिनी गत्वा तीर्थसेवी नराधिप ॥ ३.८१.१३ ॥

到达地之圣渡口,可得千牛之功德。然后前往沙卢吉尼,人主啊,侍奉圣渡者得到同样的功德。

3.81.14

दशाश्वमेधे स्नात्वा च तदेव फलमाप्नुयात् ।
सर्पदर्वीं समासाद्य नागानां तीर्थमुत्तमम् ॥ ३.८१.१४ ॥

在十次马祭中沐浴,可得同样的功德。到达蛇窟,即诸龙的殊胜圣渡口,

3.81.15

अग्निष्टोममवाप्नोति नागलोकं च विन्दति ।
ततो गच्छेत धर्मज्ञ द्वारपालमरुन्तुकम् ॥ ३.८१.१५ ॥

得阿耆尼stoma之果,并证入龙界。然后,知法者啊,应往守门者阿伦图卡处去。

3.81.16

तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत् ।
ततः पञ्चनदं गत्वा नियतो नियताशनः ॥ ३.८१.१६ ॥

在彼处停留一夜,可得千牛之功德。然后前往五河,自制且饮食有节,

3.81.17

कोटितीर्थमुपस्पृश्य हयमेधफंल लभेत् ।
अश्विनोस्तीर्थमासाद्य रूपवानमिजायते ॥ ३.८१.१७ ॥

在俱提圣渡以水净身,可得马祭之果。到达双马童的圣渡口,便生而容貌俊美。

3.81.18

ततो गच्छेत धर्मज्ञ वाराहं तीर्थमुत्तमम् ।
विष्णुर्वाराहरूपेण पूर्वं यत्र स्थितो विभुः ॥ ३.८१.१८ ॥

然后,知法者啊,应往殊胜的野猪圣渡口,往昔遍在之主毗湿奴曾以野猪之形驻于此处。

3.81.19

तत्रस्नात्वा नरश्रेष्ठ अग्निष्टोमफलं लभेत् ।
ततो जयन्त्यां राजेन्द्र सोमतीर्थं समाविशेत् ॥ ३.८१.१९ ॥

人中之最,在那里沐浴后,可获得阿耆尼ostoma祭祀的果报。然后,王中之王啊,应在阇衍蒂进入月亮圣渡。

3.81.20

स्नात्वा फलमवाप्नोति राजसूयस्य मानवः ।
एकहंसे नरः स्नात्वा गोसहस्रफलं लभेत् ॥ ३.८१.२० ॥

人沐浴后,便得王祭(罗阇苏耶)的果报。在独鹅处沐浴的人,应得千牛之果报。

3.81.21

शतशौचं समासाद्य तीर्थसेवी नराधिप ।
पौण्डरीकमवाप्नोति कृतशौचो भवेच्च सः ॥ ३.८१.२१ ॥

人主啊,得百次净化,于圣渡修行者得白莲祭之果报;已净化者亦如是。

3.81.22

ततो मुञ्जवटं नाम स्थाणोः स्थानं महात्मनः ।
उपोष्य रजनीमेकां गाणपत्यमवाप्नुयात् ॥ ३.८१.२२ ॥

其次是名为文札伐吒的大德湿婆(斯塔努)之住所。在那里禁食一夜,便可得迦那钵提侍从之位。

3.81.23

तत्रैव च महाराज यक्षिणी लोकविश्रुता ।
तां चाभिगम्यराजेन्द्र सर्वान्कामानवाप्नुयात् ॥ ३.८१.२३ ॥

就在那里,大王啊,有一位闻名世间的夜叉女。接近她,王中之王啊,便可获得一切所愿。

3.81.24

कुरुक्षेत्रस् तद्द्वारं विश्रुतं भरतर्षभ ।
प्रदक्षिणमुपावृत्य तीर्थसेवी समाहितः ॥ ३.८१.२४ ॥

婆罗多之牛啊,库鲁之野的那道门户是有名的。修圣渡者应心神专注,右绕而行。

3.81.25

संमिते पुष्कराणां च स्नात्वाऽर्च्य पितृदेवताः ।
जामदग्न्येन रामेण कृतं तत्सुमहात्मना ॥ ३.८१.२५ ॥

在普什卡罗人的圣渡口沐浴并供奉祖先与诸神,此事由伟大的贾玛达格尼之子罗摩所为。

3.81.26

कृतकृत्यो भवेद्राजन्नश्वमेधं च विन्दति ।
ततो रामह्रदानार्च्छेत्तीर्थसेवी समाहितः ॥ ३.८१.२६ ॥

大王,如此行者便完成所应做之事,并获得马祭的功德;此后应专心于圣渡口,心神专一地供奉罗摩之湖。

3.81.27

तत्ररामेण राजेनद्रतरसा दीप्ततेजसा ।
क्षत्रमुत्साद् वीरेण ह्रदाः पञ्च निवेशिताः ॥ ३.८१.२७ ॥

大王啊,那里光辉炽烈的英雄罗摩迅速灭绝了刹帝利族,并建立了五个湖。

3.81.28

पूरयित्वा नरव्याघ्र रुधिरेणेति नः श्रुतम् ।
पितरस्तर्पिताः सर्वे तथैव प्रपितागहाः ॥ ३.८१.२८ ॥

人中之虎啊,我们听说他以血充满了它们,于是所有祖先得到满足,曾祖父辈也同样如此。

3.81.29

ततस्ते पितरः प्रीता राममूचुर्नराधिप ।
रामराम महाभाग प्रीताः स्म तव भार्गव ॥ ३.८१.२९ ॥

于是那些祖先欢喜地对罗摩说:人主啊,罗摩,罗摩,大福的婆利古后裔啊,我们因你而欢喜。

3.81.30

अनया पितृभक्त्या च विक्रमेण च ते विभो ।
वरं वृणीष्व भद्रं ते किमिच्छसि महाद्युते ॥ ३.८१.३० ॥

凭着你对祖先的虔诚与勇武,愿你吉祥,威力无边的人啊;请选择一个恩赐——光辉的人啊,你想要什么?

3.81.31

एवमुक्तः स राजेन्द्र राम प्रहरतांवरः ।
अब्रवीत्प्राञ्जलिर्वाक्यं पितॄन्स गगने स्थितान् ॥ ३.८१.३१ ॥

被如此称呼后,王中之王啊,战士中最优秀的罗摩双手合十,对站在天空中的祖先们说出了这些话。

3.81.32

भवन्तो यदि मे प्रीता यद्यनुग्राह्यता मयि ।
पितृप्रसादादिच्छेयं तपःस्वाध्ययनं पुनः ॥ ३.८१.३२ ॥

尊者们啊,如果你们对我心生喜悦,并认为我值得你们的恩惠,那么凭祖先的恩典,我愿再次修习苦行与吠陀研习。

3.81.33

यच्च रोषाभिभूतेन क्षत्रमुत्सादितं मया ।
ततश्च पापान्मुच्येयं युष्माकं तेजसाऽप्यहम् ॥ ३.८१.३३ ॥

也愿我因你们的光辉,从我怒火所迷、灭绝刹帝利之种的罪恶中解脱。

3.81.34

ह्रदाश्च तीर्थभूता मे भवेयुर्भुवि विश्रुताः ।
एतच्छ्रुत्वा शुभं वाक्यं रामस्य पितरस्तदा ॥ ३.८१.३४ ॥

愿这些湖泊在大地上成为圣地,并以我的名字闻名。罗摩的这些吉祥之言被祖先们听到后,那时

3.81.35

प्रत्यूचुः परमप्रीता रामं हर्पसमन्विताः ।
तपस्ते वर्धतां भूयः पितृभक्त्या विशेषतः ॥ ३.८१.३५ ॥

祖先们非常欢喜,充满喜悦,对罗摩答道:“愿你的苦行日益增长,尤其是因为你对祖先的孝敬。”

3.81.36

यच्च रोपाभिभूतेन क्षत्रमुत्सादितं त्वया ।
ततश्च पापान्मुक्तस्त्वं पातितास्ते स्वकर्मभिः ॥ ३.८१.३६ ॥

你因愤怒所迷而灭绝刹帝利,你便已从罪恶中解脱;因为他们是因自己的行为而堕落的。

3.81.37

ह्रदाश्च तव तीर्थत्वं गमिष्यन्ति न संशयः ।
ह्रदेषु तेषु यः स्नात्वा पितॄन्संतर्पयिष्यति ॥ ३.८१.३७ ॥

那些池塘必将成为你的圣渡口,毫无疑问。在那些池中沐浴、令祖先满足的人

3.81.38

पितरस्तस् वै प्रीता दास्यन्ति भुवि दुर्लभम् ।
ईप्सितं च मनःकामं स्वर्गलोकं च शाश्वतम् ॥ ३.८१.३८ ॥

祖先欢喜,将在人间赐予稀有之物、心中所愿,以及永恒的天界

3.81.39

एवं दत्त्वा वरान्राजन्रामस्य पितरस्तदा ।
आमन्त्र्य भारग्वं प्रीत्या तत्रैवान्तर्हितास्ततः ॥ ३.८१.३९ ॥

如此,大王,祖先赐予罗摩诸般恩惠后,便亲切地召呼婆employ耆,并就在那里隐没了

3.81.40

एवं रामह्रदाः पुण्या भार्गवस्य महात्मनः ।
स्नात्वा ह्रहेषु रामस्य ब्रह्मचारी शुचिव्रतः ॥ ३.८१.४० ॥

如此是伟大的婆employ耆的圣罗摩池;在罗摩池中沐浴,梵行者,持守清净戒

3.81.41

राममभ्यर्च्य राजेन्द्र लभेद्बहु सुवर्णकम् ।
वंशमूलकमासाद्य तीर्थसेवी कुरूद्वह ॥ ३.८१.४१ ॥

王中之王啊,礼拜罗摩者应获得大量黄金;抵达宗系根源的圣渡口,库鲁之最啊,侍奉圣渡口者

3.81.42

स्ववंशमुद्धरेद्राजन्स्नात्वा वै वंशमूलके ।
कायशोधनमासाद्य तीर्थं भरतसत्तम
शरीरशुद्धिः स्नातस्य तस्मिंस्तीर्थे न संशयः। ॥ ३.८१.४२ ॥

大王,在宗系根源处沐浴,当提升自己的宗族;婆罗多之最啊,抵达净身圣渡口,于其中沐浴者身体得以清净,此无疑问

3.81.43

शरीरशुद्धिः स्नातस्य तस्मिंस्तीर्थे न संशयः ।
शुद्धदेहश्च संयाति युभाँल्लोकाननुत्तमान् ॥ ३.८१.४३ ॥

在那圣渡口沐浴者,身体得以清净,此无疑问。身体清净后,他便往那无上的诸世界而去。

3.81.44

ततो गच्छेत धर्मज्ञ तीर्थं त्रैलोक्यविश्रुतम् ।
लोका यत्रोद्धृताः पूर्वं विष्णुना प्रभविष्णुना ॥ ३.८१.४४ ॥

其次,知法者啊,应前往那在三界闻名的圣渡口,往昔威力无边的毗湿奴曾在那里救度诸世界。

3.81.45

लोकोद्धारं समासाद्य तीर्थं त्रैलोक्यपूजितम् ।
स्नात्वा तीर्थवरे राजँल्लोकानुद्धरते स्वकान् ॥ ३.८१.४५ ॥

君王啊,到达那救度诸世界、受三界供养的圣渡口,在最殊胜的渡口沐浴,人便能救度自己的诸世界。

3.81.46

श्रीतीर्थं च समासाद्य स्नात्वा नियतमानसः ।
अर्चयित्वा पितॄन्देवान्विन्दते श्रियमुत्तमाम् ॥ ३.८१.४६ ॥

到达吉祥渡口,以专注之心沐浴,礼拜祖先与诸神之后,人便获得至上的吉祥。

3.81.47

कपिलातीर्थमासाद्य ब्रह्मचारी समाहितः ।
तत्र स्नात्वाऽर्चयित्वा च पितॄन्स्वान्दैवतान्यपि ॥ ३.८१.४७ ॥

到达迦毗罗渡口,梵行者心神专注,在那里沐浴,并礼拜自己的祖先与诸神之后……

3.81.48

कपिलानां सहस्रस्य फलंविन्दति मानवः ।
सूर्यतीर्थं समासाद्य स्नात्वा नियतमानसः ॥ ३.८१.४८ ॥

人得到千头迦毗罗牛布施的果报。到达太阳渡口,以专注之心沐浴……

3.81.49

अर्चयित्वा पितॄन्देवानुपवासपरायणः ।
अग्निष्टोममवाप्नोति सूर्यलोकं च गच्छति ॥ ३.८१.४९ ॥

敬拜祖先与诸神,专心守斋的人,可获得阿格尼什托摩祭的功德,并前往太阳界。

3.81.50

गवां भगवनासाद्य तीर्थसेवी यथाक्रमम् ।
तत्राभिषेकं कुर्वाणो गोसहस्रफलं लभेत् ॥ ३.८१.५० ॥

到达牛之圣渡口,依次行朝圣侍奉,在那里沐浴者,可获得千头牛的功德。

3.81.51

शङ्खिनीतीर्थमासाद्य तीर्थसेवी कुरूद्वह ।
देव्यास्तीर्थे नरः स्नात्वा लभते रूपमुत्तमम् ॥ ३.८१.५१ ॥

库鲁族中最优秀者啊!到达螺号河渡口,侍奉诸圣渡口,在女神的渡口沐浴者,得到至上的容貌。

3.81.52

ततो गच्छेत राजेन्द्रद्वारपालमरुन्तुकम् ।
तच्च तीर्थं सरस्वत्यां यक्षेन्द्रस्य महात्मनः ॥ ३.८१.५२ ॥

然后,王中之王啊,应前往守门者阿伦图卡处;那是萨拉斯瓦蒂河上伟大夜叉王的圣渡口。

3.81.53

तत्रस्नात्वा नरो राजन्नग्निष्टोमफलं लभेत् ।
ततो गच्छेत राजेन्द्र ब्रह्मावर्तं नरोत्तमः ॥ ३.८१.५३ ॥

在那里沐浴的人,王啊,应获得阿格尼什托摩祭的功德;然后,王中之王啊,最优秀的人应前往梵天之地。

3.81.54

ब्रह्मावर्ते नरः स्नात्वा ब्रह्मलोकमवाप्नुयात् ।
ततो गच्छेत राजेन्द्र सुतीर्थकमनुत्तमम् ॥ ३.८१.५४ ॥

在梵天之地沐浴的人应获得梵天界;然后,王中之王啊,应前往无上的善渡口苏提尔塔卡。

3.81.55

तत्रसन्निहिता नित्यं पितरो दैवतैः सह ।
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः ॥ ३.८१.५५ ॥

祖先与诸神常住于彼处。在那里应行沐浴灌顶之礼,专心供奉祖先与诸神。

3.81.56

अश्वमेधमावाप्नोति पितृलोकं च गच्छति ।
ततोम्बुमत्यां धर्मज्ञ सुतीर्थकमनुत्तमम् ॥ ३.८१.५६ ॥

他获得马祭之果,往生祖先之界。其后,知法者啊,在阿恭摩提有无上的善妙圣渡。

3.81.57

कोशेश्वरस्य तीर्थेषु स्नात्वा भरतसत्तम ।
सर्वव्याधिविनिर्मुक्तो ब्रह्मलोके महीयते ॥ ३.८१.५७ ॥

婆罗多族最优者啊,在俱舍自在主的圣渡沐浴之后,人便脱离一切疾病,并在梵天界受到尊崇。

3.81.58

मातृतीर्थं च तत्रैव यत्रस्नातस्य भारत ।
प्रजा विवर्धते राजन्न तन्वीं श्रियमश्नुते ॥ ३.८१.५८ ॥

就在那里也有母亲圣渡,凡在那里沐浴者,子嗣增长。大王啊,他不会得到微薄的福运。

3.81.59

ततः शीतवनं गच्छेन्नियतो नियताशनः ।
तीर्थं तत्रमहाराज महदन्यत्र दुर्लभम् ॥ ३.८१.५९ ॥

其后,应当克制自己、节制饮食,前往寒林。大王啊,那里有一处圣渡,在别处极为罕见。

3.81.60

पुनाति गमनादेव कुलमेकं नराधिप ।
केशानभ्युक्ष् वै तस्मिन्पूतो भवति भारत ॥ ३.८१.६० ॥

人主啊,仅仅前往那里,便能使一个家族得到净化。婆罗多啊,在那里以水洒于头发之上,人便清净。

3.81.61

तीर्थं तत्र महाराज श्वानलोमापहं स्मृतम् ।
यत्र विप्रा नरव्याघ्र विद्वांसस्तीर्थतत्पराः ॥ ३.८१.६१ ॥

大王,那里有名为“去狗毛”的圣渡口。人中虎啊,那里住着专心于圣渡口的博学婆罗门。

3.81.62

गतिं गच्छन्ति परमां स्नात्वा भरतसत्तम ।
श्वानलोमापनयने तीर्थे भरतसत्तम ॥ ३.८१.६२ ॥

婆罗多中最优秀者啊,在那里沐浴者得至最高之境;在那能除去狗毛的圣渡口,婆罗多中最优秀者啊。

3.81.63

प्राणायामैर्निर्हरन्ति स्वलोमानि द्विजोत्तमाः ।
पूतात्मानश्च राजेन्द्रप्रयान्ति परमां गतिम् ॥ ३.८१.६३ ॥

最优秀的再生者以调息法去除自身的体毛;王中之王啊,灵魂清净者得至最高之境。

3.81.64

दशाश्वमेधिकं चैव तस्मिंस्तीर्थे महीपते ।
तत्र स्नात्वा नरव्याघ्र गच्छेत परमां गतिम् ॥ ३.८१.६४ ॥

地上之主啊,那圣渡口具有十次马祭的功德。人中虎啊,在那里沐浴者应当得至最高之境。

3.81.65

ततो गच्छेत राजेन्द्र मानुषं लोकविश्रुतम् ।
यत्र कृष्णमृगा राजन्व्याधेन परिपीडिताः ॥ ३.८१.६५ ॥

大王啊,然后应前往世间闻名的“人”圣地,那里,大王,黑羚羊曾被猎人折磨。

3.81.66

विगाह्य तस्मिन्सरसि मानुषत्वमुपागताः ।
तस्मिंस्तीर्थे नरः स्नात्वा ब्रह्मचारी समाहितः ॥ ३.८१.६६ ॥

它们潜入那湖中,得以获得人身。在那圣渡口沐浴之人,应当修持梵行,心意专一。

3.81.67

सर्वपापविशुद्धात्मा स्वर्गलोके महीयते ।
मानुषस्य तु पूर्वेण क्रोशमात्रे महीपते ॥ ३.८१.६७ ॥

灵魂完全洗清一切罪孽者,在天界受人尊崇。地上之主啊,在人之东方一克罗舍之处(它位于那里)。

3.81.68

आपगा नाम विख्याता नदीसिद्धनिषेविता ।
श्यामाकभोजनं तत्रयः प्रयच्छति मानवः ॥ ३.८१.६८ ॥

名为阿帕迦的著名河流,为河流与成就者所常至。在那里,人若供奉小米之食

3.81.69

देवान्पितॄन्समुद्दिश्य तस्य धर्मफलं महत् ।
एकस्मिन्भोजिते विप्रे कोटिर्भवति भोजिता ॥ ३.८१.६९ ॥

为诸神与祖先而行,其功德之果甚大。若供养一位婆罗门,则等同供养千万人。

3.81.70

तत्रस्नात्वाऽर्चयित्वा च पितृन्वै दैवतानि च ।
उषित्वा रजनीमेकामग्निष्टोमफलं लभेत् ॥ ३.८१.७० ॥

在那里沐浴,供奉祖先与诸神,并留宿一夜,即可获得阿耆尼输姆祭祀之果。

3.81.71

ततो गच्छेत राजेन्द्र ब्रह्मणः स्थानमुत्तमम् ।
ब्रह्मोदुम्बरमित्येव प्रकाशं भुवि भारत ॥ ३.८१.७१ ॥

然后,王中之王啊,应前往梵天的至上之所,在世间以梵无花果之名闻名,婆罗多之后啊。

3.81.72

तत्रसप्तर्षिकुण्डेषु स्नातस् यनरपुङ्गव ।
केदारे चैवराजेन्द्रकपिञ्जलमहामुनेः ॥ ३.८१.७२ ॥

在那里,于七仙之池沐浴,王中之杰啊,于迦达罗,王中之王啊,以及大仙迦皮嫩遮之处……

3.81.73

ब्रह्माणमधिगत्वा च शुचिः प्रयतमानसः ।
सर्वपापविशुद्धात्मा ब्रह्मलोकं प्रपद्यते ॥ ३.८१.७३ ॥

亲近梵天,心地清净、意志专一,灵魂洗净一切罪过的人,便能抵达梵天之界。

3.81.74

कपिञ्जलस्य केदारं समासाद्य सुदुर्लभम् ।
अन्तर्धानमवाप्नोति तपसा दग्धकिल्विषः ॥ ३.८१.७४ ॥

抵达甚难到达的迦皮ñjala之沼泽,以苦行焚尽罪过者,便获得隐身之能。

3.81.75

ततो गच्छेत राजेन्द्र शङ्करं लोकविश्रुतम् ।
कृष्णपक्षे चतुर्दश्यामभिगम्य वृषध्वजम् ॥ ३.८१.७५ ॥

然后,王中之王啊,应前往世间闻名的湿婆,在暗半月的第十四日亲近牛旗神。

3.81.76

लभेत सर्वकामान्हि स्वर्गलोकं च गच्छति ।
तिस्रः कोट्यस्तु तीर्थानां शङ्करे कुरुनन्दन ॥ ३.८१.७६ ॥

他得到一切愿望,并前往天界。库鲁之欢喜者啊,在湿婆之地有三千万圣地。

3.81.77

रुद्रकोट्यां तथा कूपे ह्रदेषु च महीपते ।
शुद्धास्पदं च तत्रैव तीर्थं भरतसत्तम ॥ ३.८१.७७ ॥

在楼陀罗之千万中,在井中,也在池塘中;王啊,就在那里有纯净圣地,婆罗多之最者啊。

3.81.78

तत्रस्नात्वाऽर्चयित्वा च दैवतानि पितॄनथ ।
न दुर्गतिमवाप्नोति वाजपेयं च विन्दति ॥ ३.८१.७८ ॥

在那里沐浴,礼敬诸神与祖先,便不会堕入恶道,并获得婆阇毗耶祭的果报。

3.81.79

किंदाने च नरः स्नात्वा किंजप्ये च महीपते ।
अप्रमेयमवाप्नोति दानं जप्यं च भारत ॥ ३.८१.७९ ॥

大地之主啊,沐浴之人以何种布施、何种诵持,能获得无量之果?婆罗多啊,以布施与诵持。

3.81.80

कलश्यां वार्युपस्पृश्य श्रद्दधानो जितेन्द्रियः ।
अग्निष्टोमस् यज्ञस्य फलं प्राप्नोति मानवः ॥ ३.८१.८० ॥

以净瓶之水漱口,怀着信心、克制诸根的人,获得阿耆尼突摩祭的果报。

3.81.81

शंकरस्य तु पूर्वेण नारदस्य महात्मनः ।
तीर्थं कुरुकुलश्रेष्ठ अजानन्तेति विश्रुतम् ॥ ३.८१.८१ ॥

在湿婆之东,伟大的那罗陀附近,库鲁族之最优者啊,那圣渡处名为阿遮难多,广为人知。

3.81.82

तत्रतीर्थे नरः स्नात्वा प्राणानुत्सृज्य भारत ।
नारदेनाभ्यनुज्ञातो लोकान्प्राप्नोत्यनुत्तमानन् ॥ ३.८१.८२ ॥

在那圣渡处沐浴,婆罗多啊,舍弃生命之气,得到那罗陀的允许,人便获得至上的诸界。

3.81.83

शुक्लपक्षे दशम्यां च पुण्डरीकं समाविशेत् ।
तत्र स्नात्वा नरो राजन्पौण्डरीकफलं लभेत् ॥ ३.८१.८३ ॥

在白半月的第十日,应入于白莲圣渡;在那里沐浴,国王啊,人便获得白莲之果。

3.81.84

ततस्त्रिविष्टपं गच्छेत्रिषु लोकेषु विश्रुतम् ।
तत्र वैतरणी पुण्या नदी पापप्रणाशिनी ॥ ३.८१.८४ ॥

此后应前往三界闻名的三天界;那里有圣河毗多兰尼,能灭除罪恶。

3.81.85

तत्र स्नात्वाऽर्चयित्वा च शूलपाणिं वृषध्वजम् ।
सर्वपापविशुद्धात्मा गच्छेत परमां गतिम् ॥ ३.८१.८५ ॥

在那里沐浴并礼拜持三叉戟、以牛为旗的湿婆,身心洗净一切罪孽者,应当获得至上的归宿。

3.81.86

ततो गच्छेत राजेन्द्र फलकीवनमुत्तमम् ।
तत्र देवाः सदा राजन्फलकीवनमाश्रिताः ॥ ३.८१.८६ ॥

随后,王中之王啊,应前往殊胜的法拉key森林;那里,大王,诸神始终居住在法拉key森林中。

3.81.87

तपश्चरन्ति विपुलं बहुवर्षसहस्रकम् ।
दृषद्वत्यां नरः स्नात्वा तर्पयित्वा च देवताः ॥ ३.८१.८७ ॥

他们修行广大的苦行,历经数千年。人在德瑞沙德瓦蒂河中沐浴,并以供水礼敬诸神……

3.81.88

अग्निष्टोमातिरात्राभ्यां फलं विन्दति भारत ।
तीर्ते च सर्वदेवानां स्नात्वा भरतसत्तम ॥ ३.८१.८८ ॥

婆罗多啊,依阿耆尼输摩与阿提罗特罗祭祀,便可得其果报;在诸神的圣渡口沐浴之后,婆罗多中的至上者啊。

3.81.89

गोसहस्रस्य राजेन्द्र फलं विन्दति मानवः ।
पाणिस्वाते नरः स्नात्त्वा तर्पयित्वा च देवताः ॥ ३.८१.८९ ॥

王中之王啊,人得千头牛布施之果;人在盘尼斯瓦塔沐浴,并以供水礼敬诸神……

3.81.90

अग्निष्टोमातिरात्राभ्यां फलं विन्दति भारत ।
राजसूयमावाप्नोति ऋषिलोकं च विन्दति ॥ ३.८१.९० ॥

婆罗多啊,依阿耆尼输摩与阿提罗特罗祭祀,便可得其果报;他得以行王祭(罗阇苏耶),并得到仙人之界。

3.81.91

ततो गच्छेत राजेन्द्र मिश्रकं तीर्थमुत्तमम् ।
तत्र तीर्थानि राजेन्द्र मिश्रितानि महात्मना ॥ ३.८१.९१ ॥

然后,王中之王啊,应前往殊胜的圣渡口弥希罗迦。在那里,王中之王啊,有大德所合并的圣渡口。

3.81.92

व्यासेन नृपशार्दूल द्विजार्थमिति नः श्रुतम् ।
सर्वतीर्थेषु स स्नाति मिश्रके स्नाति यो नरः ॥ ३.८१.९२ ॥

王中之虎啊,我们听说毗耶娑为再生者如此说过:在弥希罗迦沐浴的人,就是在一切圣渡口沐浴。

3.81.93

ततो व्यासवनं गच्छेन्नियतो नियताशनः ।
मनोजवे नरः स्नात्वा गोसहस्रफलं लभेत् ॥ ३.८१.९३ ॥

然后,自制且饮食有节的人应前往毗耶娑林。在意速(Manojava)沐浴的人,可获得千头牛的果报。

3.81.94

गत्वा मधुवटीं चैव देव्याः स्थानं नरः शुचिः ।
तत्र स्नात्वाऽर्चयित्वा च पितॄन्देवांश्च पूरुषः ॥ ३.८१.९४ ॥

到达蜜泉(Madhuvaṭī)女神之地,纯净之人在那里沐浴,并礼敬祖先与诸神。

3.81.95

स देव्या समनुज्ञातो गोसहस्रफलं लभेत् ।
कौशिक्याः संगमे यस्तु दृषद्वत्याश्च भारत ॥ ३.८१.९५ ॥

蒙女神允许后,他可获得千头牛的果报。婆罗多啊,在憍尸迦河与德利沙德瓦蒂河的汇合处沐浴者亦然。

3.81.96

स्नाति वै नियताहार सर्वपापैः प्रमुच्यते ।
ततो व्यासस्थली नाम यत्रव्यासेन धीमता ॥ ३.८१.९६ ॥

饮食有节而沐浴之人,可脱离一切罪恶。其次有名为毗耶娑之地(Vyāsasthalī),智慧的毗耶娑在那里。

3.81.97

पुत्रशोकाभितप्तेन देहत्यागे कृता मतिः ।
ततो देवैस्तु राजेन्द्र पुनरुत्थापितस्तदा ॥ ३.८१.९७ ॥

他因失子之痛而煎熬,决意舍弃身体;此时,王中之王啊,诸神又将他扶起。

3.81.98

अभिगत्वा स्थलीं तस्य गोसहस्रफलं लभेत् ।
किंदत्तं कूपमासाद्य तिलप्रस्थं प्रदाय च ॥ ३.८१.९८ ॥

前往那圣地者,得千牛之福;到达井边并布施一普拉斯塔芝麻者,亦得同样的福报。

3.81.99

गच्छेत परमां सिद्धिमृणैर्मुक्तः कुरूद्वह ।
वेदीतीर्थे नरः स्नात्वा गोसहस्रफलं लभेत् ॥ ३.८१.९९ ॥

摆脱债务之人,啊,库鲁之最,当得至上成就;在吠迪圣渡口沐浴者,得千牛之福。

3.81.100

अहस्छ सुदिनं चैव द्वे तीर्थे लोकविश्रुते ।
तयोः स्नात्वा नरव्याघ्र सूर्यलोकमवाप्नुयात् ॥ ३.८१.१०० ॥

世间有两处著名的圣渡口,名为阿哈斯与苏迪那;人中猛虎啊,在两者中沐浴者得至太阳界。

3.81.101

मृगधूमं ततो गच्छेत्रिषु लोकेषु विश्रुतम् ।
तत्राभिषेकं कुर्वीत गङ्गायां नृपसत्तम ॥ ३.८१.१०१ ॥

然后应前往三界闻名的鹿烟之地;在那里,王中之最啊,应在恒河中行灌顶沐浴。

3.81.102

अर्चयित्वा महादेवमश्वमेधफलं लभेत् ।
देव्यास्तीर्थे नरः स्नात्वा गोसहस्रफलं लभेत् ॥ ३.८१.१०२ ॥

礼拜大天神摩诃提婆之后,可得马祭之果;在女神圣渡口沐浴者,得千牛之福。

3.81.103

ततो वामनकं गच्छेत्रिषु लोकेषु विश्रुतम् ।
तत्रविष्णुपदे स्नात्वा अर्चयित्वा च वामनम् ॥ ३.८१.१०३ ॥

接着应前往三界闻名的伐摩那迦;在那里于毗湿奴足迹处沐浴,并礼拜伐摩那。

3.81.104

सर्वपापविशुद्धात्मा विष्णुलोकं स गच्छति ।
कुलपुने नरः स्नात्वा पुनाति स्वकुलं ततः ॥ ३.८१.१०४ ॥

灵魂洗净一切罪恶者往毗湿奴界去。在拘罗补那沐浴的人,随后也净化自己的家族。

3.81.105

पवनस्य ह्रदे स्नात्वा मरुतां तीर्थमुत्तमम् ।
तत्रस्नात्वा नख्याघ्र विष्णुलोके महीयते ॥ ३.८१.१०५ ॥

在风神之池沐浴,于诸摩录多的殊胜圣地;在那里沐浴后,人中虎啊,他在毗湿奴界受到尊崇。

3.81.106

अमराणां ह्रदे स्नात्वा समभ्यर्च्यामराधिपम् ।
अमराणां प्रभावेन स्वर्गलोके महीयते ॥ ३.८१.१०६ ॥

在诸天神之池沐浴,并如法礼拜诸天之主,凭诸天神的威力,他在天界受到尊崇。

3.81.107

शालिहोत्रस्य तीर्थे च शालिशूर्पे यथाविधि ।
स्नात्वा नरवरश्रेष्ठ गोसहस्रफलं लभेत् ॥ ३.८१.१०७ ॥

依仪轨在舍利霍special圣地与舍利殊尔巴沐浴,人中最尊贵者啊,便得千牛布施之果。

3.81.108

श्रीकुञ्जं च सरस्वत्यास्तीर्थं भरतसत्तम ।
तत्र स्नात्वा नरश्रेष्ठ अग्निष्टोमफलं लभेत् ॥ ३.८१.१०८ ॥

还有萨拉斯瓦蒂的吉祥丛林圣地,婆罗多中最优秀者啊;在那里沐浴,人中最尊贵者啊,便得火祭(阿耆尼史多摩)之果。

3.81.109

ततो नैमिपकुञ्जं च समासाद्य कुरूद्वह ।
ऋषयः किल राजेन्द्र नैमिषेयास्तपस्विनः ॥ ३.८१.१०९ ॥

随后抵达奈弥沙·昆迦,库鲁之杰,王中之王,居于奈弥沙的苦行仙人们(在那里)。

3.81.110

तीर्थयात्रां पुरस्कृत्य कुरुक्षेत्रं गताः पुरा ।
तत्र तीर्थे नरः स्नात्वा वाजिमेधफलं लभेत्।
ततः कुञ्जः सरस्वत्याः कृतो भरतसत्तम ॥ ३.८१.११० ॥

以朝圣为先,他们昔日前往库鲁原。在那里,于该渡口沐浴的人可获得马祭之果。然后,婆罗多之最,萨罗斯瓦蒂的昆迦被建成。

3.81.111

ऋपीणामवकाशः स्याद्यथा तुष्टिकरो महान् ।
कन्यातीर्थे नरः स्नात्वागोसहस्रफलं लभेत् ॥ ३.८१.१११ ॥

对于仙人们而言,那里有一个使人满足的大休憩处。在少女渡口沐浴的人可获得千牛之果。

3.81.112

ततो गच्छेत धर्मज्ञ कन्यातीर्थमनुत्तमम् ।
कन्यातीर्थे नरः स्नात्वा अग्निष्टोमफलं लभेत् ॥ ३.८१.११२ ॥

然后,法之知者,应前往无上的少女渡口。在少女渡口沐浴的人可获得火祭(阿耆尼终摩)之果。

3.81.113

ततो गच्छेत राजेन्द्र ब्रह्मणस्तीर्थमुत्तमम् ।
तत्रवर्णावरः स्नात्वा ब्राह्मण्यं लभते नरः ॥ ३.८१.११३ ॥

然后,王中之王,应前往梵天的殊胜渡口。在那里,即便是下层种姓之人,沐浴之后也能获得婆罗门性。

3.81.114

ब्राह्मणश्च विशुद्धात्मा गच्छेत परमां गतिम् ।
ततो गच्छेन्नरश्रेष्ठ सोमतीर्थमनत्तमम् ॥ ३.८१.११४ ॥

心灵清净的婆罗门应达到至高之境。然后,人中之最,应前往无上的苏摩渡口。

3.81.115

तत्र स्नात्वा नरो राजन्सोमलोकमवाप्नुयात् ।
सप्तसारस्वतं तीर्थं ततो गच्छेन्नराधिप ॥ ३.८१.११५ ॥

在那里沐浴的人,大王,将获得月神的世界。然后应前往七萨罗私伐底渡口,人主啊。

3.81.116

यत्र मङ्कणकः सिद्धो महर्षिर्लोकविश्रुतः ।
पुरा मङ्कणको राजन्कुशाग्रेणेति नःश्रुतम् ॥ ३.८१.११६ ॥

在那里,名闻世间的大仙人、成就者曼迦纳迦曾居住。大王,我们曾听说,往昔曼迦纳迦以一根拘舍草的尖端……

3.81.117

क्षतः किल करे राजंस्तस्य शाकरसोऽस्रवत् ।
स वै शाकरसं दृष्ट्वा हर्षाविष्टः प्रनृत्तवान् ॥ ३.८१.११७ ॥

大王,他的手受了伤,从中流出了蔬菜汁。他看到这蔬菜汁,心中充满喜悦,便起舞了。

3.81.118

ततस्तस्मिन्प्रनृत्ते तु स्थावरं जङ्गमं च यत् ।
प्रनृत्तमुभयं वीर तेजसा तस्य मोहितम् ॥ ३.८१.११८ ॥

那时他起舞,凡不动与能动之物,英雄啊,都被他的威光所迷惑而一同起舞。

3.81.119

ब्रह्मादिभिः सुरै राजनृषिभिश्च तपोधनैः ।
क्षिप्तो वै महादेव ऋषेरर्थे नराधिप ॥ ३.८१.११९ ॥

梵天等诸神及以苦行为财富的仙人们,人主啊,为了那位仙人而推请大天。

3.81.120

नायं नृत्येद्यथा देव तथा न्वं कर्तुमर्हसि ।
तं प्रनृत्तं समासाद्य हर्षाविष्टेन चेतसा।
सुराणां हितकामार्थमृषिं देवोऽभ्यभाषत ॥ ३.८१.१२० ॥

“神啊,你不应当像这个人那样起舞。”大神走近正在起舞的他,心怀喜悦,为了诸天神的福祉,对仙人说道。

3.81.121

भोभो महर्षे धर्मज्ञ किमर्थं नृत्यते भवान् ।
हर्षस्थानं किमर्थं वा तवाद्य मुनिपुङ्गव ॥ ३.८१.१२१ ॥

伟大的仙人,明法者啊,你为何起舞?或者今日你欢喜的缘由是什么,最优秀的仙人?

3.81.122

ऋषिरुवाच ।
तपस्विनो धर्मपथे स्थितस्य द्विजसत्तम।
किं न पश्यसि मे ब्रह्मन्कराच्छाकरसं स्रुतम् ॥ ३.८१.१२२ ॥

仙人说:二生者中最优秀的婆罗门啊,你难道没看见,我这行于法道的苦行者手中滴落的糖汁吗?

3.81.123

यं दृष्ट्वाऽहं प्रनृत्तोऽहं हर्षेण महताऽन्वितः ।
तं प्रहस्याब्रवीद्देव ऋषिं रागेण मोहितम् ॥ ३.८१.१२३ ॥

我见到他便满怀大喜而起舞,那神明笑着对被爱欲迷惑的仙人说道。

3.81.124

अहं तु विस्मयं विप्र न गच्छामीति पश्य माम् ।
एवमुक्त्वा नरश्रेष्ठ महादेवेन धीमता ॥ ३.८१.१२४ ॥

“我啊,婆罗门,并不会感到惊异;看看我吧。”人中最优秀者啊,智慧的大天如此说罢。

3.81.125

अङ्गुल्यग्रेण राजेन्द्रस्वाङ्गुष्ठस्ताडितोऽनघ ।
ततो भस्म क्षताद्राजन्निर्गतं हिमसन्निभम् ॥ ३.८१.१२५ ॥

王中之王啊,无罪者啊,他以指尖,即自己的大脚趾敲击;然后,国王啊,从伤口中涌出了如雪般的灰烬。

3.81.126

तद्दृष्ट्वा व्रीडितो राजन्स मुनिः पादयोर्गतः ।
नान्यद्देवात्परं मेने रुद्रात्परतरं महत् ॥ ३.८१.१२६ ॥

国王啊,仙人见此羞愧,俯伏在他的脚下。他不认为神明之外还有更高的,也不认为有比楼陀罗更伟大的。

3.81.127

सुरासुरस्य जगतो गतिस्त्वमसि शूलधृत् ।
त्वया सर्वमिदं सृष्टं त्रैलोक्यं सचराचरम् ॥ ३.८१.१२७ ॥

你是诸天与阿修罗及世界的归依,手持三叉戟者。整个三界,连同动与不动之物,皆由你所造。

3.81.128

त्वमेव सर्वान्ग्रससि पुनरेव युगक्षये ।
देवैरपि न शक्यस्त्वं परिज्ञातुं कुतो मया ॥ ३.८१.१२८ ॥

在劫末,唯有你再次吞噬一切。诸天尚不能知你,我又怎能知晓?

3.81.129

त्वयि सर्वे प्रदृश्यन्ते सुरा ब्रह्मादयोऽनघ ।
सर्वस्त्वमसि लोकानां कर्ताकारयिता च ह ॥ ३.८१.१२९ ॥

无垢者啊,梵天等诸神皆显现于你之中。你是诸世界的创造者,也是使其被造之人。

3.81.130

त्वत्प्रसादात्सुराः सर्वे निवसन्त्यकुतोभयाः ।
एवं स्तुत्वा महादेवमृषिर्वचनमब्रवीत् ॥ ३.८१.१३० ॥

凭你的恩典,诸天皆无所畏惧地安居。如此赞颂大天之后,仙人说了这些话。

3.81.131

त्वत्प्रसादान्महादेव तपो मे न क्षरेत वै ।
ततो देवः प्रहृष्टात्मा ब्रह्मर्षिमिदमब्रवीत् ॥ ३.८१.१३१ ॥

大天啊,愿凭你的恩典,我的苦行永不衰退。于是,心中欢喜的天神对梵仙说了这些话。

3.81.132

तपस्ते वर्धतां विप्र मत्प्रसादात्सहस्रशः ।
आश्रमे चेह वत्स्यामि त्वया सह महामुने ॥ ३.८१.१३२ ॥

婆罗门啊,凭我的恩典,愿你的苦行增长千倍。大仙啊,我将在此与你同住于你的净修林中。

3.81.133

सप्तसारस्वते स्नात्वा अर्चयिष्यन्ति ये तु माम् ।
न तेषां दुर्लभं किंचिदिह लोके परत्र च ॥ ३.८१.१३३ ॥

凡在七条萨罗室伐底河中沐浴并礼拜我者,无论今世或来世,都没有难以得到的东西。

3.81.134

सारस्वतं च ते लोकं गमिष्यन्ति न संशयः ।
एवमुक्त्वा महादेवस्तत्रैवान्तरधीयत ॥ ३.८१.१३४ ॥

他们必定前往萨罗室伐多的世界。说完这些,大天神便就地隐没了。

3.81.135

ततस्त्वौशनसं गच्छेत्रिषु लोकेषु विश्रुतम् ।
यत्रब्रह्मादयो देवा ऋषयश्च तपोधनाः ॥ ३.८१.१३५ ॥

之后应前往在三界中闻名的乌尚那斯圣地,那里有以梵天为首的诸神和苦行富足的仙人居住。

3.81.136

कार्तिकेयश्च भगवांस्त्रिसंध्यं किल भारत ।
सान्निध्यमकरोन्नित्यं भार्गवप्रियकाम्यया ॥ ३.८१.१३६ ॥

婆罗多的后裔啊,吉祥的室建陀(迦尔提盖耶)也为了使婆利古后裔欢喜,每日于三时辰在那里显现其临在。

3.81.137

कपालमोचनं तीर्थं सर्वपापप्रमोचनम् ।
तत्र स्नात्वा नरव्याघ्र सर्वपापैः प्रमुच्यते ॥ ३.८१.१३७ ॥

迦婆罗摩茄那圣地能解脱一切罪业。人中之虎啊,在那里沐浴者可脱离一切罪业。

3.81.138

अग्नितीर्थं ततो गच्छेत्तत्र स्नात्वा नरर्षभ ।
अग्निलोकमवाप्नोति कुलं चैव सुमुद्धरेत् ॥ ३.८१.१३८ ॥

之后应前往火神圣地。人中之牛啊,在那里沐浴者可得火神之世界,并能使自己的家族得到妥善的救度。

3.81.139

विश्वामित्रस्य तत्रैव तीर्थं भरतसत्तम ।
तत्र स्नात्वा नरश्रेष्ठ ब्राह्मण्यमधिगच्छति ॥ ३.८१.१३९ ॥

婆罗多族中最优秀者啊,那里有毗首弥多罗的圣渡口。人中最优秀者啊,在那里沐浴者便获得婆罗门的地位。

3.81.140

ब्रह्मयोनिं समासाद्य शुचिः प्रयतमानसः ।
तत्र स्नात्वा नरव्याघ्र ब्रह्मलोकं प्रपद्यते ॥ ३.८१.१४० ॥

人中之虎啊,抵达梵天之胎,心地纯净、意志专一,在那里沐浴者便往生梵天世界。

3.81.141

पुनात्यासप्तमं चैव कुलं नास्त्यत्रसंशयः ।
ततो गच्छेत राजेन्द्र तीर्थं त्रैलोक्यविश्रुतम् ॥ ३.८१.१४१ ॥

它能净化家族直至七代,此事无疑。然后,王中之王啊,应前往名闻三界的圣渡口。

3.81.142

पृथूदकमिति ख्यातं कार्तिकेयस्य वै नृप ।
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः ॥ ३.८१.१४२ ॥

君王啊,那里有名为普利图达卡的圣渡口,属于迦尔提凯亚。在那里应行灌顶之沐浴,专心致力于供奉祖先与诸神。

3.81.143

अज्ञानाज्ज्ञानतो वाऽपिस्त्रिया वा पुरुषेण वा ।
यत्किंचिदशुभं कर्म कृतं मानुषबुद्धिना ॥ ३.८१.१४३ ॥

无论女人或男人,出于无知或明知故犯,凭着凡人的心智(人之脆弱)所做的任何不善之业——

3.81.144

तत्सर्वं नश्यते तत्र स्नातमात्रस्य भारत ।
अश्वमेधफलं चास्य स्वर्गलोकं च गच्छति ॥ ३.८१.१४४ ॥

婆罗多啊,只要在那里沐浴,一切罪业便被消除。他得到马祭的果报,并往生天界。

3.81.145

पुण्यमाहुः कुरुक्षेत्रं कुरुक्षेत्रात्सरस्वती ।
सरस्वत्याश्च तीर्थानि तीर्थेभ्यश् पृथूदकम् ॥ ३.८१.१४५ ॥

人们说库鲁之野是圣洁的;从库鲁之野而有萨拉斯瓦蒂河,萨拉斯瓦蒂河的圣渡口中,普利图达卡最为殊胜。

3.81.146

उत्तमे सर्वतीर्थानां यस्त्यजेदात्मनस्तनुम् ।
पृथूदके जप्यपरो नैव श्वो मरणं तपेत् ॥ ३.८१.१४६ ॥

在一切圣渡口中最殊胜的普利图达卡,专心诵持而舍弃自身之身者,明日不会遭受死亡之苦。

3.81.147

गीतं सनत्कुमारेण व्यासेन च महात्मना ।
वेदे च नियतं राजन्नभिगच्छेत्पृथूदकम् ॥ ३.८१.१४७ ॥

萨纳特库玛拉与大德毗耶娑曾如此宣说,吠陀中也有此说:大王啊,人应当前往普利图达卡。

3.81.148

पृथूदकात्तीर्थतमं नान्यत्तीर्थं कुरूद्वह ।
तन्मेध्यं तत्पवित्रं च पावनं च न संशयः ॥ ३.८१.१४८ ॥

库鲁之首啊,没有比普利图达卡更殊胜的圣渡口;它清净、能净化、神圣,此中无疑。

3.81.149

तत्रस्नात्वा दिवं यान्ति येऽपि पापकृतो नराः ।
पृथूदके नरश्रेष्ठ एवमाहुर्मनीषिणः ॥ ३.८१.१४९ ॥

即便是作恶之人,若在那里沐浴,也能升入天界——智者如此说,人中之最啊,在普利图达卡。

3.81.150

मधुस्रवं च तत्रैव तीर्थं भरतसत्तम ।
तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत् ॥ ३.८१.१५० ॥

婆罗多之最啊,就在那里还有名为摩度室罗婆的圣渡口;大王啊,在那里沐浴的人可获得布施千头牛的功德。

3.81.151

ततो गच्छेत राजेन्द्र तीर्थं देव्या यथाक्रमम् ।
सरस्वत्यारुणायाश्च संगमे लोकविश्रुते ॥ ३.८१.१५१ ॥

然后,王中之王啊,应依次前往女神的圣渡口,即在世间闻名的萨拉斯瓦蒂河与阿如那河的汇合处。

3.81.152

त्रिरात्रोपोषितः स्नात्वा मुच्यते ब्रह्महत्यया ।
अग्निष्टोमातिरात्राभ्यां फलं विन्दति मानवः ॥ ३.८१.१५२ ॥

三夜禁食并沐浴的人,可脱离杀害婆罗门的罪过,并获得阿格尼什托马与阿提拉特拉祭祀的果报。

3.81.153

आसप्तमं कुलं चैव पुनाति भरतर्षभ ।
अवतीर्णं च तत्रैव तीर्थं कुरुकुलोद्वह ॥ ३.८१.१५३ ॥

婆罗多之雄啊,它能使家族延续到第七代得到净化;库卢族的担当者啊,在那里下水沐浴于那圣渡口。

3.81.154

विप्राणामनुकम्पार्थं शार्ङ्गिणा निर्मिनं पुरा ।
व्रतोपनयनाभ्यां चाप्युपवासेन वाऽप्युत ॥ ३.८१.१५४ ॥

为怜悯婆罗门,持弓者(毗湿奴)往昔创造了此地;无论是通过誓愿与入门礼,还是通过禁食。

3.81.155

क्रियामन्त्रैश्च संयुक्तो ब्राह्मणः स्यान्न संशयः ।
क्रियामन्त्रविहीनोऽपि तत्र स्नात्वा नरर्षभ।
चीर्णव्रतो भवेद्विद्वान्दृष्टमेतत्पुरातनैः ॥ ३.८१.१५५ ॥

具备仪轨与咒语的人无疑成为婆罗门。人中之雄啊,即使缺乏仪轨与咒语的人,在那里沐浴并完成誓愿,也会成为有学问的人;这是古人所见。

3.81.156

समुद्राश्चापि चत्वारः समानीताश् दर्भिणा ।
तेषु स्नातो नरश्रेष्ठ न दुर्गतिमवाप्नुयात् ॥ ३.८१.१५६ ॥

四大海洋也由持吉祥草者达尔毗引到此处;人中之雄啊,在其中沐浴的人不会堕入恶道。

3.81.157

फलानि गोसहस्राणां चतुर्णां विन्दते च सः ।
ततो गच्छेत धर्मज्ञ तीर्थं शतसहस्रकम् ॥ ३.८१.१५७ ॥

他获得四千头牛的福报。然后,知法者啊,他应当前往价值十万的圣渡口。

3.81.158

साहस्रकं च तत्रैव द्वे तीर्थे लोकविश्रुते ।
उभयोर्हि नरः स्नात्वा गोसरस्रफंल लभेत् ॥ ३.८१.१५८ ॥

就在那里有两个闻名于世的圣渡口,功德增加千倍。在两者中沐浴的人,应得千头牛的福报。

3.81.159

दानं वाऽप्युपवासो वा सहस्रगुणितं भवेत् ।
ततो गच्छेत राजेन्द्र रेणुकातीर्थमुत्तमम् ॥ ३.८१.१५९ ॥

在那里,布施或斋戒会增加千倍。然后,王中之王啊,应当前往至上的雷努卡圣渡口。

3.81.160

तीर्ताभिषेकं कुर्वीत पितृदेवार्चने रतः ।
सर्वपापविशुद्धात्मा अग्निष्टोमफलं लभेत् ॥ ३.८१.१६० ॥

应在圣渡口沐浴,专心供奉祖先与诸神。灵魂洗净一切罪恶,便可获得阿耆尼输摩祭的福报。

3.81.161

विमोचनमुपस्पृश्य जितमन्युर्जितेन्द्रियः ।
प्रतिग्रहकृतैर्दोषैः सर्वैः स परिमुच्यते ॥ ३.८१.१६१ ॥

触摸了毗摩婆那渡口的水,制伏愤怒和感官的人,便彻底摆脱接受布施所生的一切过失。

3.81.162

ततः पञ्चवटीं गत्वा ब्रह्मचारी जितेन्द्रियः ।
पुण्येन महता युक्तः सतां लोके महीयते ॥ ३.८१.१६२ ॥

然后,前往般遮婆提的梵行者,制伏感官,具足大功德,便在善人的世界中受到尊崇。

3.81.163

यत्रयोगेश्वरः स्थाणुः स्वयमेव वृषध्वजः ।
तमर्चयित्वा देवेशं गमनादेव सिद्ध्यति ॥ ३.८१.१६३ ॥

在瑜伽之主、坚定的斯塔努、以牛为旗者亲自居住之处,礼拜此天神之主,仅凭前往那里便得成就。

3.81.164

तैजसं वारुणं तीर्थं दीप्यमानं स्वतेजसा ।
यत्र रब्रह्मादिभिर्दैर्वैर्ऋषिभिश्च तपोधनैः ॥ ३.८१.१६४ ॥

光芒自耀的火与水圣渡口,梵天及其他诸神与以苦行为财富的仙人居于此处。

3.81.165

सैनापत्येन देवानामभिषिक्तो गुहस्तदा ।
तैजसस्य तु पूर्वेण कुरुतीर्थं कुरूद्वह ॥ ३.८१.१६५ ॥

当时,古诃被任命为诸神的统帅。在火之圣渡口之东是俱卢渡口,俱卢之杰啊。

3.81.166

कुरुतीर्थे नरः स्नात्वा ब्रह्मचारी जितेन्द्रियः ।
सर्वपापविशुद्धात्मा ब्रह्मलोकं प्रपद्यते ॥ ३.८१.१६६ ॥

在俱卢渡口沐浴后,守梵行、调伏诸根的人,心灵洗清一切罪过,便得往梵天世界。

3.81.167

स्वर्गद्वारं ततो गच्छेन्नियतो नियताशनः ।
स्वर्गलोकमवाप्नोति ब्रह्मलोकं च गच्छति ॥ ३.८१.१६७ ॥

然后应前往天门,克制自身,饮食有节。他得生天界,也往梵天世界而去。

3.81.168

ततो गच्छेदनरकं तीर्थसेवी नराधिप ।
तत्र स्नात्वा नरो राजन्न दुर्गतिमवाप्नुयात् ॥ ३.८१.१६८ ॥

然后,人主啊,奉事圣渡的人应前往无地狱之处。大王,人在那里沐浴,便不会陷入恶趣。

3.81.170

तत्रब्रह्मा स्वयं नित्यं देवैः सह महीपते ।
सान्निध्यं तत्रराजेन्द्र रुद्रपत्न्याः कुरूद्वह।
अभिगम्य च तां देवीं न दुर्गतिमवाप्नुयात् ॥ ३.८१.१७० ॥

梵天自己常与诸神居于彼处,地上之主啊。彼处有楼陀罗之妻的临在,王中之王啊,俱卢中最杰出者。亲近那位女神者,不会遭遇厄运。

3.81.171

तत्रैव च महाराज विश्वेश्वरमुमापतिम् ।
अभिगम्य महादेवं मुच्यते सर्वकिल्विषैः ॥ ३.८१.१७१ ॥

在彼处,大王啊,亲近世界之主、乌玛之主的大天神者,便从一切罪恶中解脱。

3.81.172

नारायणं चाभिगम्य पद्मनाभमरिंदम ।
राजमानो महाराज विष्णुलोकं च गच्छति ॥ ३.८१.१७२ ॥

亲近那罗延、抵达莲花脐之主者,啊,降伏敌人者,大王啊,他光辉灿烂地前往毗湿奴的世界。

3.81.173

तीर्थेषु सर्वदेवानां स्नातः स पुरुषर्षभ ।
सर्वदुःखैः परित्यक्तो द्योतते शशिवन्नरः ॥ ३.८१.१७३ ॥

在一切神灵的圣渡口沐浴者,人中之牛啊,脱离一切苦难,便如月亮般光辉。

3.81.174

ततः स्वस्तिपुरं गच्छेत्तीर्थसेवी नराधिप ।
प्रदक्षिणमुपावृत्य गोसहस्रफलं लभेत् ॥ ३.८१.१७४ ॥

然后,人主啊,侍奉圣渡口的人应前往吉祥城。绕行之后,便得千头牛的果报。

3.81.175

पावनं तीर्थमासाद्य तर्पयेत्पितृदेवताः ।
अग्निष्टोमस्य यत्रस्य फलं प्राप्नोति भारत ॥ ३.८१.१७५ ॥

到达圣洁的渡口,应当供奉祖先与诸神。婆罗多之后啊,他得到火祭(阿格尼施托摩)的果报。

3.81.176

गङ्गाह्रदश्च तत्रैव कूपश्च भरतर्षभ ।
तिस्रः कोट्यस्तु तीर्थानां तस्मिन्कूपे महीपते ॥ ३.८१.१७६ ॥

婆罗多族的雄牛啊,那里有恒河池和一口井。大地之主啊,那口井中有三千万圣渡。

3.81.177

तत्र स्नात्वा नरो राजन्स्वर्गलोकं प्रपद्यते ।
आपगायां नरः स्नात्वा अर्चयित्वा महेश्वरम् ॥ ३.८१.१७७ ॥

大王啊,在那里沐浴的人得到天界;在河中沐浴并礼拜大自在天(湿婆)的人(也得到天界)。

3.81.178

गाणपत्यमवाप्नोति कुलं चैव समुद्धरेत् ।
ततः स्थाणुवटं गच्छेत्रिषु लोकेषु विश्रुतम् ॥ ३.८१.१७८ ॥

他获得伽纳帕蒂侍者的境界,也能拯救自己的家族。然后他应前往在三界闻名的斯塔奴伐吒(Sthāṇuvaṭa)。

3.81.179

तत्र स्नात्वा स्थितो रात्रिं रुद्रलोकमवाप्नयात् ।
बदरीकाननं गच्छेद्वसिष्ठस्याश्रमं गतः ॥ ३.८१.१७९ ॥

在那里沐浴并过一夜的人,应得到楼陀罗(Rudra)之界。到达蔽瑟吒(Vasiṣṭha)的修行处后,应前往枣树林。

3.81.180

बदरीं भक्षयेत्तत्र त्रिरात्रोपोषितो नरः ।
सम्यग्द्वादशवर्षाणि बदरीं भक्षयेत्तु यः ॥ ३.८१.१८० ॥

在那里禁食三夜后,人应食用枣果(badarī);同样,连续十二年正当地食用枣果的人也如此。

3.81.181

त्रिरात्रोपोषितस्तेन भवेत्तुल्यो नराधिप ।
इन्द्रमार्गं समासाद्य तीर्थसेवी नराधिप ॥ ३.८१.१८१ ॥

因此,他便与禁食三夜者相等。人主啊,到达因陀罗之路后,侍奉圣渡的人(得到因陀罗之界)。

3.81.182

अहोरात्रोपवासेन शक्रलोके महीयते ।
एकरात्रं समासाद्य एकरात्रोषितो नरः ॥ ३.८१.१८२ ॥

一昼夜禁食,人便在因陀罗的世界中受到尊崇。到达(那圣渡口)并在那里住宿一夜的人,(也能获得其果报)。

3.81.183

नियतः सत्यवादी च ब्रह्मलोके महीयते ।
ततो गच्छेत राजेन्द्र तीर्थं त्रैलोक्यविश्रुतम् ॥ ३.८१.१८३ ॥

克制自身、说真话的人在梵天世界中受到尊崇。然后,王中之王啊,应当前往那在三界闻名的圣渡口。

3.81.184

आदित्यस्याश्रमो यत्र तेजोराशेर्महात्मनः ।
तस्मिंस्तीर्थे नरः स्नात्वा पूजयित्वा विभावसुं ॥ ३.८१.१८४ ॥

在那圣渡口,光明之聚、伟大的阿迪提耶(太阳)的修行处所在之地,人沐浴并供奉毗婆娑(火神阿耆尼),(便得其果报)。

3.81.185

आदित्यलोकं व्रजति कुलं चैव समुद्धरेत् ।
सोमतीर्थे नरः स्नात्वा तीर्थसेवी नराधिप ॥ ३.८१.१८५ ॥

他前往太阳的世界,也能拯救自己的家族。在月神渡口沐浴后,王啊,常往圣渡口之人(得此果报)。

3.81.186

सोमलोकमवाप्नोति नरो नास्त्यत्रसंशयः ।
ततो गच्छेत धर्मज्ञ दधीचस्य महात्मनः ॥ ३.८१.१८६ ॥

人得到月神(苏摩)的世界,此无疑问。然后,知法者啊,应当前往大德达提昌(的圣渡口)。

3.81.187

तीर्थं पुण्यतमं राजन्पावनं लोकविश्रुतम् ।
यत्र सारस्वतो यातः सोङ्गिरास्तपसो निधिः ॥ ३.८१.१८७ ॥

王啊,此渡口最为有福、能清净,在世间闻名。萨拉斯瓦塔曾到此处,苦行之宝阿阳罗(安吉拉斯)也曾到此。

3.81.188

तस्मिस्तीर्थे नरः स्नात्वा वाजिमेधफलं लभेत् ।
सारस्वतीं गतिं चैव लभते नात्र संशयः ॥ ३.८१.१८८ ॥

在那圣地沐浴之人,可获马祭之果,并得萨拉斯瓦蒂之道,此事无疑。

3.81.189

ततः कन्याश्रमं गच्छेन्नियतो ब्रह्मचर्यवान् ।
त्रिरात्रोपोषितो राजन्नियतो नियताशनः ॥ ३.८१.१८९ ॥

然后,他应克己守持梵行,前往少女修道院,大王啊,斋戒三夜,饮食有节。

3.81.190

लभेत्कन्याशतं दिव्यं स्वर्गलोकं च गच्छति ।
ततो गच्छेत धर्मज्ञ तीर्थं सन्निहतीमपि ॥ ३.८१.१९० ॥

他将获得百位天女,并前往天界。然后,知法者啊,他还应前往名为萨尼哈提的圣地。

3.81.191

तत्रब्रह्मादयो देवा ऋषयश्च तपोधनाः ।
मासिमासि समायान्ति पुण्येन महाताऽन्विताः ॥ ३.८१.१९१ ॥

在那里,梵天等诸神与以苦行为财富的仙人,月月聚会,具足功德与大力。

3.81.192

सन्निहत्यामुपस्पृश्य राहुग्रस्ते दिवाकरे ।
अश्वमेधशतं तेन तत्रेष्टं शाश्वतं भवेत् ॥ ३.८१.१९२ ॥

在萨尼哈提以水漱口沐浴,于罗睺吞蚀太阳之时,便被视为在彼处举行了一百次马祭,其果报永恒不灭。

3.81.193

पृथिव्यां यानि तीर्थानि अन्तरिक्षचराणि च ।
नद्यो ह्रदास्तडागाश्च सर्वप्रस्रवणानि च ॥ ३.८१.१९३ ॥

大地上的一切圣地,以及在空中游行的圣地;河流、湖泊、池塘,以及一切泉源。

3.81.194

उदपानानि वाप्यश्च तीर्थान्यायतनानि च ।
निःसंशयममावास्यां समेष्यन्ति नराधिप ॥ ३.८१.१९४ ॥

水井、阶梯井、圣渡口与圣所——毫无疑问,人主啊,它们都将在新月之日聚集。

3.81.195

मासिमासि नरव्याघ्र सन्निहत्यां न संशयः ।
तीर्थसन्निहनादेव सन्निहत्येति विश्रुता ॥ ३.८१.१९५ ॥

人中之虎啊,每月的萨尼哈提亚无可置疑;正因圣渡口的汇聚,它才以“萨尼哈提亚”之名闻名。

3.81.196

तत्र स्नात्वा च पीत्वा च स्वर्गलोके महीयते ।
अमावास्यां तु तत्रैव राहुग्रस्ते रदिवाकरे ॥ ३.८१.१९६ ॥

在那里沐浴饮水的人,在天界受到尊崇;而在新月之日,当罗睺吞噬太阳时,也正在那里。

3.81.197

यः श्राद्धं कुरुते मर्त्यस्तस्य पुण्यफंल शृणु ।
अश्वमेधसहस्रस्य सम्यगिष्टस्य यत्फलम् ॥ ३.८१.१९७ ॥

请听那完成祖先祭礼之人的功德果报:它正是一千次如法举行的马祭所得的果报。

3.81.198

स्नात एव समाप्नोति कृत्वा श्राद्धं च मानवः ।
यत्किंचिद्दुष्कृतंकर्म स्त्रिया वा पुरुषेण वा ॥ ३.८१.१९८ ॥

沐浴之后并行祭祖之礼的人,立即便能获得此果;无论男女所造的任何恶业——

3.81.199

स्नातमात्रस्य तत्सर्वं नश्यते नात्र संशयः ।
पद्मवर्णेन याने ब्रह्मलोकं प्रपद्यते ॥ ३.८१.१९९ ॥

刚刚沐浴之人,那一切皆得消除——毫无疑问;乘坐莲花色的车辆,他抵达梵天之界。

3.81.200

अभिवाद्य ततो यक्षं द्वारपालं मचक्रुकम् ।
कोटितीर्थमुपस्पृश्य लभेद्बहुसुवर्णकम् ॥ ३.८१.२०० ॥

向守门夜叉麻恰库卡致敬后,在俱底渡口净身漱水,便可获得许多黄金。

3.81.201

गङ्गाह्रदश्च तत्रैव तीर्थं भरतसत्तम ।
तत्रस्नायीत धर्मज्ञ ब्रह्मचारी समाहितः ॥ ३.८१.२०१ ॥

那里也有一处名为恒河湖的圣渡口,婆罗多族最优秀者啊。知法者啊,在那里应保持梵行,心神专注地沐浴。

3.81.202

राजसूयाश्वमेधाभ्यां फलं विन्दति मानवः ।
पृथिव्यां नैमिषं तीर्थमन्तरिक्षे च पुष्करम् ॥ ३.८१.२०२ ॥

人可以获得王祭与马祭的果报:在大地上凭借奈弥沙圣渡口,在虚空中凭借普什卡拉。

3.81.203

त्रयाणामपि लोकानां कुरुक्षेत्रं विशिष्यते ।
पांसवोपि कुरुक्षेत्राद्वायुना समुदीरिताः ॥ ३.८१.२०३ ॥

在三界之中,俱卢之野最为殊胜;即便是被风从俱卢之野吹起的尘埃微粒,也(是神圣的)。

3.81.204

अपि दुष्कृतकर्माणं नयन्ति परमां गतिम् ।
दक्षिणेन सरस्वत्या उत्तरेण दृषद्वतीम् ॥ ३.८१.२०४ ॥

即便是造作恶业之人,它们也能引向至高的归宿——(那些地方)在萨拉斯瓦蒂河以南、德里沙德瓦蒂河以北。

3.81.205

ये वसन्ति कुरुक्षेत्रे तेवसन्ति त्रिविष्टपे ।
कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम्।
अप्येकां वाचमुत्सृज्य सर्वपापैः प्रमुच्यते ॥ ३.८१.२०५ ॥

居住在俱卢之野的人,便是居住在天界。即便只说一句话——“我将前往俱卢之野,我将住在俱卢之野”——人也能从一切罪恶中解脱。

3.81.206

ब्रह्मवेदी कुरुक्षेत्रं पुण्यं ब्रह्मर्षिसेवितम् ।
तस्मिन्वसन्ति ये मर्त्या न ते शोच्याः कथंचन ॥ ३.८१.२०६ ॥

梵祭坛库鲁之野神圣,为梵仙所游历。居于其中的凡人,无论如何都不值得悲悯。

3.81.207

तरन्तुकारन्तुकयोर्यदन्तरं ।
रामह्रदानां च मचक्रुकस्य च।
एतत्कुरुक्षेत्रसमन्तपञ्चकं ।
पितामहस्योत्तरवेदिरुच्यते ॥ ३.८१.२०७ ॥

塔兰吐与卡兰吐之间的地方,以及罗摩湖与摩恰克鲁卡之间的地方,这便是库鲁之野的三摩多般遮迦,被称为祖父的北祭坛。