摩诃婆罗多 · 章 3.84
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.84.1
भ्रातॄणां मतमाज्ञाय नारदस्य च धीमतः ।
पितामहसमं धौम्यं प्राह राजा युधिष्ठिरः ॥ ३.८४.१ ॥
国王坚战得知诸兄的意见和智者那罗陀的话后,对与祖父相当的达由弥说道。
3.84.2
मया स पुरुषव्याघ्रो जिष्णुः सत्यपराक्रमः ।
अस्त्रहेतोर्महाबाहुरमितात्मा विवासितः ॥ ३.८४.२ ॥
为了获得武器,我曾流放那位人中虎、胜利者、真正勇武、大臂、心量无限的阿周那。
3.84.3
स हि वीरोऽनुरक्तश् समर्थश्च तपोधनः ।
कृती च भृशमप्यस्त्रे वासुदेव इव प्रभुः ॥ ३.८४.३ ॥
他是英雄,忠诚而有能力,以苦行为财富;精通武器,是如婆苏提婆一般的强大主宰。
3.84.4
अहं ह्येतावुभौ ब्रह्मन्कृष्णावरिविघातिनौ ।
अभिजानामि विक्रान्तौ तथा व्यासः परन्तपौ ॥ ३.८४.४ ॥
婆罗门啊,我知道这两位克里希那,他们是击灭敌人的勇士、令敌人受苦的英雄;毗耶娑也如此知道。
3.84.5
त्रियुगौ पुण्डरीकाक्षौ वासुदेवधनंजयौ ।
नारदोऽपितथा वेद योष्यशंसत्सदा मम ॥ ३.८४.५ ॥
三时代的莲花眼者——婆苏提婆与达那阁耶;那罗陀也如此知道,并且总是向我讲述。
3.84.6
तथाऽहमपि जानामि नरनारायणावृषी ।
शक्तोऽयमित्यतो मत्वा मया स प्रेषितोऽर्जुनः ॥ ३.८४.६ ॥
同样,我也知道那两位仙人,那罗与那罗衍那。我想:“他有能力”,于是派遣了阿周那。
3.84.7
इन्द्रादनवरः शक्रं सुरसूनुः सुराधिपम् ।
द्रष्टुमस्त्राणि चादातुमिन्द्रादिति विवासितः ॥ ३.८४.७ ॥
这位不逊于因陀罗的天神之子,被如此派遣去拜见众神之主帝释天(因陀罗),并从因陀罗处获得武器。
3.84.8
भीष्मद्रोणावतिरथौ कृपो द्रौणिश्च दुर्जयः ।
धृतराष्ट्रस्य पुत्रेण सुधृताः सुमहाबलाः ॥ ३.८४.८ ॥
毗湿摩与德罗纳是大战车武士,还有克里帕,以及不可战胜的德罗纳之子,他们得到持国之子的良好支持,都极为强大。
3.84.9
सर्वे वेदविदः शूराः सर्वेऽस्त्रकुशलास्तथा ।
सर्वे महारथा मुख्याः सर्वे जितपरिश्रमाः।
योद्धुकामाश्च पार्थेन सततं ये महाबलाः ॥ ३.८४.९ ॥
他们都精通吠陀,是英雄,善于使用兵器;都是大战车武士,是领袖,战胜了疲劳;都是强大的人,始终渴望与帕尔塔(阿周那)交战。
3.84.10
स च दिव्यास्त्रवित्कर्णः सूतपुत्रो महारथः ।
योऽस्त्रवेगानिलबलः शरार्चिस्तलनिःस्वनः।
रजोधूमोऽस्त्रसंपातो धार्तराष्ट्रानिलोद्धतः ॥ ३.८४.१० ॥
还有那位大战车武士,御者之子迦尔纳,精通神圣武器——他的力量如兵器疾速之风,他的火焰是箭,他的声音是弓弦的铮鸣;尘土是他的烟,兵器的倾泻是他的骤雨,被持国之子们的风所煽动。
3.84.11
निसृष्ट इव कालेन युगान्तज्वलनो यथा ।
मम सैन्यमयं कक्षं प्रधक्ष्यति न संशयः ॥ ३.८४.११ ॥
如同时间所释放的劫末之火,他必定会焚毁我这片军队之林,毫无疑问。
3.84.12
तं स कुष्णानिलोद्धूतो दिव्यास्त्रज्वलनो महान् ।
श्वेतवाजिबलाकाभृद्गण्डीवेन्द्रायुधोल्बणः ॥ ३.८४.१२ ॥
阿周那——被克里希那之风煽动的神圣武器之大火,驾着白马,身披鹤鸟般的洁白,手持甘狄拔,即因陀罗之武器,令人畏惧。
3.84.13
संरब्धः शरधाराभिः सुधीप्तं कर्णपावकम् ।
उदीर्णोऽर्जुनमेघोऽयं शमयिष्यति संयुगे ॥ ३.८४.१३ ॥
这朵升起的阿周那之云,满怀愤怒,以箭雨在战场上扑灭那熊熊燃烧的迦尔纳之火。
3.84.14
स साक्षादेव सर्वाणि शक्रात्परपुरंजयः ।
दिव्यान्यस्त्राणि वीभत्सुर्यथावत्प्रतिपत्स्यते ॥ ३.८४.१४ ॥
这位攻克敌城者毗跋苏(阿周那)将亲自、依法从因陀罗那里获得一切神圣的武器。
3.84.15
अलं स तेषां सर्वेषामिति मे धीयते मतिः ।
नास्ति त्वतिक्रिया तस् रणेऽरीणां प्रतिक्रिया ॥ ३.८४.१५ ॥
依我之见,他足以对付他们所有人;战场上没有超越他的行动,敌人也无法对他作出有效的回应。
3.84.16
ते वयं पाण्डवं सर्वे गृहीतास्त्रमरिंदमम् ।
द्रष्टारो न हि बीभत्सुर्भारमुद्यम्य सीदति ॥ ३.८४.१६ ॥
我们都将看到那位手持武器、降伏敌人的般度之子;毗跋苏一旦担起重任,便不会动摇。
3.84.17
वयं तु तमृते वीरं वनेऽस्मिन्द्विपदांवर ।
अवधानं न गच्छामः काम्यके सह कृष्णया ॥ ३.८४.१७ ॥
人中之最!没有那位英雄,我们在这片森林、在迦摩耶迦,与黑公主一起,也无法专心。
3.84.18
भवानन्यद्वनं साधु बह्वन्नं फलवच्छुचि ।
आख्यातु रमणीयं च सेवितं पुण्यक्रमभिः ॥ ३.८४.१८ ॥
请说出另一片森林——好的、食物丰足、果实累累而洁净、令人愉悦、且为圣洁之人所常居的。
3.84.19
यत्रकंचिद्वयं कालं वसन्तः सत्यविक्रमम् ।
प्रतीक्षामोऽर्जुनं वरं वृष्टिकामा इवाम्बुदम् ॥ ३.८४.१९ ॥
我们将在此停留一段时间,等待真正勇武的殊胜阿周那,如同渴望降雨的人期待云朵。
3.84.20
विविधानाश्रमान्कांश्चिद्द्विजातिभ्यः प्रतिश्रुतान् ।
सरांसि सरितश्चैव रमणीयांश्च पर्वतान् ॥ ३.८४.२० ॥
婆罗门所许诺的各种隐修处,湖泊、河流以及可爱的山峦也请一并讲述。
3.84.21
आचक्ष्व न हि मे ब्रह्मन्रोचते तमृतेऽर्जुनम् ।
वनेऽस्मिन्काम्यके वासो गच्छामोऽन्यां दिशंप्रति ॥ ३.८४.२१ ॥
婆罗门啊,没有阿周那,我不愿听闻此事;我们就留在这座迦密耶迦林中,然后向另一个方向前行。