Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.85

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.85.1

तान्सर्वानुत्सुकान्दृष्ट्वा पाण्डवान्दीनचेतसः ।
अश्वासयंस्तथा धौम्यो बृहस्पतिसमोऽब्रवीत् ॥ ३.८५.१ ॥

见诸般遍布焦虑、心意沮丧的般度五子,如同祭司大师(布利诃娑帕提)一般的达乌摩尊者安慰他们,便如此说道。

3.85.2

ब्राह्मणानुमतान्पुण्यानाश्रमान्भरतर्षभ ।
दिशस्तीर्थानि शैलांश्च शृणु मे वदतोऽनघ ॥ ३.८५.२ ॥

婆罗多族中的雄牛啊,无罪者,请听我讲述那些得到婆罗门认可的圣洁林居处、诸方、圣渡口与山岳。

3.85.3

याञ्श्रुत्वा गदतो राजन्विशोको भवितासि ह ।
द्रौपद्या चानया सार्धं भ्रातृभिश्च नरेश्वर ॥ ३.८५.३ ॥

国王啊,听闻这些之后,你与德罗波蒂以及你的兄弟们,必将免于忧愁,人主啊。

3.85.4

श्रवणाच्चैव तेषां त्वं पुण्यमाप्स्यसि पाण्डव ।
गत्वा शतगुणं चैव तेभ्य एव नरोत्तम ॥ ३.८५.४ ॥

般度之子啊,仅凭听闻它们,你便能获得功德;人中最上者啊,亲往那些圣地,你将获得百倍的功德。

3.85.5

शृणु पूर्वां दिशं राजन्देवर्षिगणसेविताम् ।
रम्यां ते कथयिष्यामि युधिष्ठिर यथास्मृति ॥ ३.८५.५ ॥

国王啊,请听东方之方,那里有诸天仙众常常来往。尤提西提罗啊,我将依记忆为你讲述那可爱的地方。

3.85.6

तस्यां रदेवर्षिजुष्टायां नैमिषं नाम भारत ।
यत्रतीर्थानि देवानां पुण्यानि च पृथक् पृथक् ॥ ३.८५.६ ॥

婆罗多啊,在那被仙人们常常来往的方向,有一处名为奈弥沙的地方,那里有诸天各自的圣渡口。

3.85.7

यत्र सा गोमती पुण्या रम्या देवर्षिसेविता ।
यज्ञभूमिश्च देवानां शामित्रं च विवस्वतः ॥ ३.८५.७ ॥

那里有神圣而可爱的戈玛蒂河,诸天仙人常来此处;那里也有诸神的祭祀之地,以及毗婆娑婆的沙弥多罗之处。

3.85.8

तस्यां गिरिवरः पुण्यो गयो राजर्षिसत्कृतः ।
शिवं ब्रह्मसरो यत्रसेवितं त्रिदशर्षिभिः ॥ ३.८५.८ ॥

其中有圣洁的伽耶山,群山之首,受王仙们尊崇;那里有吉祥的梵湖,三十三天的仙人常来此处。

3.85.9

यदर्थे पुरुषव्याघ्र कीर्तयन्ति पुरातनाः ।
एष्टव्या बहवः पुत्रा यद्येकोपि गयां व्रजेत् ॥ ३.८५.९ ॥

人中猛虎啊!古人宣称众多儿子值得希望,正是为此:他们之中即使一人前往伽耶。

3.85.10

गौरीं वा वरयेत्कन्यां नीलं वा वृषमुत्सृजेत् ।
उत्तारयति संतत्या दश पूर्वान्दशावरान् ॥ ३.८५.१० ॥

或娶白肤之女,或放生一头蓝色的公牛;他借子孙之力,救度十位先祖与十位后裔。

3.85.11

महानदी च तत्रैव तथा गयशिरो नृप ।
यत्रासौ कीर्त्यते विप्रैरक्षय्यकरणो वटः ॥ ३.८५.११ ॥

那里有大河,还有伽耶首,王啊,婆罗门们在那里称颂那棵使事物不朽的榕树。

3.85.12

यत्रदत्तं पितृभ्योऽन्नमक्षय्यं भवति प्रभो ।
सा च पुण्यजला तत्र फल्गुनामा महानदी ॥ ३.८५.१२ ॥

啊主人,在那里供奉给祖先的食物变得不朽;那里还有那条圣水之大河,名叫法尔古。

3.85.13

बहुमूलफला चापि कौशिकी भरतर्षभ ।
विश्वामित्रोऽध्यगाद्यत्र ब्राह्मणत्वं तपोधनः ॥ ३.८५.१३ ॥

婆罗多之牛啊,那里还有富含根与果的考希基河,苦行为财富的毗首彌多罗在那里获得了婆罗门的地位。

3.85.14

गङ्गा यत्रनदी पुण्या यस्यास्तीरे भगीरथः ।
अयजत्तत्रबहुभिः क्रतुभिर्भूरिदक्षिणैः ॥ ३.८५.१४ ॥

那里有圣河恒河,婆吉罗陀在其岸边以丰厚的布施举行了许多祭祀。

3.85.15

पाञ्चालेषु च कौरव्य कथयन्त्युत्पलावतम् ।
विश्वामित्रोऽयजद्यत्र शक्रेण सह कौशिकः ॥ ३.८५.१५ ॥

居鲁之后啊,人们在般遮罗国谈论一处名为乌特帕罗跋多的地方,考希迦毗首彌多罗在那里与帝释天一同举行了祭祀。

3.85.16

यत्रानुवंशं भगवाञ्जामदग्न्यस्तथा जगौ ।
विश्वामित्रस्य तां दृष्ट्वा चिभूतिमतिमानुषीम् ॥ ३.८५.१६ ॥

尊者持斧罗摩(阇摩陀格尼之子)也在那里唱诵了谱系,因为他看见了毗首彌多罗超越常人的威光。

3.85.17

कान्यकुब्जेऽपिबत्सोममिन्द्रेण सह कौशिकः ।
ततः क्षत्रादपाक्रामद्ब्राह्मणोस्मीति चाब्रवीत् ॥ ३.८५.१७ ॥

在羯若鞠阇,考希迦也与帝释天一同饮用了苏摩;随后他离开刹帝利之位,说道:「我是婆罗门。」

3.85.18

पवित्रमृषिभिर्जुष्टं पुण्यं पावनमुत्तमम् ।
गङ्गायमुनयोर्वीर संगमं लोकविश्रुतम् ॥ ३.८५.१८ ॥

英雄啊,恒河与阎牟那河的汇合处——为仙人所常至,纯净、神圣、清净、至上——在世间闻名遐迩。

3.85.19

यत्रायजत भूतात्मा पूर्वमेव पितामहः ।
प्रयागमिति विख्यातं तस्माद्भरतसत्तम ॥ ३.८५.१९ ॥

昔日众生之灵的祖父在此举行祭祀,因此此地以“普拉雅加”之名闻名,婆罗多中最优秀者啊。

3.85.20

अगस्त्यस्य तु राजेन्द्र तत्राश्रमवरो नृप ।
तत्तथा तापसारण्यं तापसैरुपशोभितम् ॥ ३.८५.२० ॥

君王之主啊,那里有阿伽斯提亚卓越的修行处,国王啊;那片苦行者之林为苦行者所庄严。

3.85.21

हिरण्यबिन्दुः कथितो गिरौ कालञ्जरे महान् ।
आगस्त्यपर्वतोरभ्यः पुण्यो गिरिवः शिवः ॥ ३.८५.२१ ॥

据说在迦兰遮罗山上有伟大的希兰耶宾杜;靠近阿伽斯提亚山,有一座神圣吉祥的山。

3.85.22

महेन्द्रो नाम कौरव्य भार्गवस्य महात्मनः ।
अयजत्तत्रकौन्तेय पूर्वमेव पितामहः ॥ ३.८५.२२ ॥

库鲁的后裔啊,那里有名为摩亨陀罗的山,属于大德的婆利古后裔;贡蒂之子啊,那里昔日祖父曾举行祭祀。

3.85.23

यत्रभागीरथी पुण्यां सरस्यासीद्युधिष्ठिर ।
यत्र सा ब्रह्मशालेति पुण्याख्याता विशांपते।
धूतपाप्मभिराकीर्णा पुण्यं तस्याश्च दर्शनम् ॥ ३.८५.२३ ॥

般度之子坚战啊,圣河婆吉罗提曾在那湖中;那里被称为神圣的梵舍罗,人主啊。充满洗净罪孽的人,瞻仰之便有功德。

3.85.24

पवित्रो मङ्गलीयश्च ख्यातो लोके सनातनः ।
केदारश्च मतङ्गस्य महानाश्रम उत्तमः ॥ ३.८५.२४ ॥

能净化、吉祥,在世间永远闻名;还有摩滔伽的克达罗,是伟大而殊胜的修行处。

3.85.25

कुण्डोदः पर्वतो रम्यो बहुमूलफलोदकः ।
नैषधस्तृषितो यत्र जलं शर्म च लब्धवान् ॥ ३.८५.२५ ॥

库达陀山秀丽,富有根茎、果实与泉水。口渴的那罗(Naiṣadha)在那里得到了水与安宁。

3.85.26

यत्र देववनं पुण्यं तापसैरुपशोभितम् ।
बाहुदा च नदी यत्रनन्दा च गिरिमूर्धनि ॥ ३.८५.२६ ॥

那里有被苦行者装饰的神圣天林;在山顶有巴呼陀河与难陀河。

3.85.27

तीर्थानि सरितः शैलाः पुण्यान्यायतनानि च ।
प्राच्यां दिशि महाराज कीर्तितानि मया तव ॥ ३.८५.२७ ॥

大王啊,东方方位的圣渡口、河流、山岳与神圣庙宇,我已为你述说。

3.85.28

तिसृष्वन्यासु पुण्यानि दिक्षु तीर्थानि मे शृणु ।
सरितः पर्वतांश्चैव पुण्यान्यायतनानि च ॥ ३.८५.२८ ॥

现在请听我说其余三个方位的圣渡口:河流、山岳与神圣庙宇。