摩诃婆罗多 · 章 3.86
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.86.1
दक्षिणस्यां तु पुण्यानि शृणु तीर्थानि भारत ।
विस्तरेण यथाबुद्धि कीर्त्यमानानि तानि वै ॥ ३.८६.१ ॥
婆罗多啊,请听南方的圣地渡口;我将依我的智慧详细道来。
3.86.2
यस्यामाख्यायते पुण्या दिशि गोदावरी नदी ।
बह्वारामा बहुजला तापसाचरिता शिवा ॥ ३.८६.२ ॥
在被称为圣地的戈达瓦里河所在的方向,那里有许多花园、充沛的水源,为苦行者所常至,吉祥美好。
3.86.3
वेणा भीमरथी चैव नद्यौ पापभयापहे ।
मृगद्विजसमाकीर्णे तापसालयभूषिते ॥ ३.८६.३ ॥
维纳河与毗摩罗提河这两条河能消除罪恶之惧,河岸充满鹿与鸟,并以苦行者的居所为装饰。
3.86.4
राजर्षेस्तस् च सरिन्नृगस्य भरतर्षभ ।
रम्यतीर्था बहुजला पयोष्णी द्विजसेविता ॥ ३.८६.४ ॥
婆罗多族的俊杰啊,这是王仙那伽的河流:波耶施尼河,有美丽的渡口与充沛的水,为再生族所奉侍。
3.86.5
अपि चात्र महायोगी मार्कण्डेयो महायशाः ।
अनुवंश्यां जगौ गाथां नृगस्य धरणीपतेः ॥ ३.८६.५ ॥
此处,大瑜伽行者、大名声的摩根德耶亦依世系吟唱了关于大地之主那伽的偈颂。
3.86.6
नृगस् यजमानस्य प्रत्यक्षमिति नः श्रुतम् ।
मरुतः परिवेष्टारः सदस्याश्च दिवौकसः ॥ ३.८६.६ ॥
我们听说这事在主祭者那伽面前公然发生:摩录多为侍者,天界诸神为会众。
3.86.7
पयोष्ण्यां यजमानस्य वाराहे तीर्थ उत्तमे ।
उद्धृतं भूतलस्थं वावायुना समुदीरितम्।
पयोष्ण्या हरते तोयं पापमामरणान्तिकम् ॥ ३.८६.७ ॥
对于施祭者而言,在Payoṣṇī河的Vārāha渡口,无论是在地上的水,还是被风扬起搅动的水,都为Payoṣṇī所接纳;它能除去直到临终为止的罪过。
3.86.8
स्वर्गादुत्तुङ्गममलं विषाणं यत्र शूलिनः ।
स्वमात्मविहितं दृष्ट्वा मर्त्यः शिवपुरं व्रजेत् ॥ ३.८६.८ ॥
无垢的Viṣāṇa山峰,高于天界,在那里可见持三叉戟者自己所立之像;人见之后,可往湿婆之城。
3.86.9
एकतः सरितः सर्वा गङ्गाद्याः सलिलोच्चयाः ।
पयोष्णी चैकतः पुण्या तीर्थेभ्यो हि मता मम ॥ ३.८६.९ ॥
一边是以恒河为首的所有河流与水域,另一边是圣洁的Payoṣṇī;依我之见,她被视为胜过一切渡口。
3.86.10
माठरस्य वनं पुण्यं बहुमूलफलं शिवम् ।
यूपश्च भरतश्रेष्ठ वरुणस्रोतसे गिरौ ॥ ३.८६.१० ॥
Māṭhara的圣林,富有根与果,吉祥;婆罗多之最,在Varuṇa溪流旁的山上有祭柱(yūpa)。
3.86.11
प्रवेण्युत्तरपार्स्वे तु पुण्ये कण्वाश्रमे तथा ।
तापसानामरण्यानि कीर्तितानि यथाश्रुति ॥ ३.८६.११ ॥
在Praveṇī的北岸,在Kaṇva的圣洁修行所,以及苦行者的森林,都已依所闻而宣说。
3.86.12
वेदी शूर्पारके तात जमदग्नेर्महात्मनः ।
रम्या पाषाणतीर्था च पुरश्चन्द्रा च भारत ॥ ३.८६.१२ ॥
亲爱的,在Śūrpāraka有伟大心灵的Jamadagni的祭坛;婆罗多,还有迷人的Pāṣāṇa渡口,以及Puraścandrā。
3.86.13
अशोकतीर्थं तत्रैव कौन्ते य बहुलाश्रमम् ।
अगस्त्यतीर्थं पाण्ड्येषु वारुणं च युधिष्ठिर ॥ ३.८६.१३ ॥
孔提之子啊,那里有阿输迦圣渡与波呼拉隐修处。在潘底耶人之地有阿伽斯提圣渡,还有,尤地什提提罗啊,婆茹那圣渡。
3.86.14
कुमार्यः कथिताः पुण्याः पाण्ड्येष्वेव नरर्षभ ।
ताम्रपर्णी तु कौन्तेय कीर्तयिष्यामि तां शृणु ॥ ३.८६.१४ ॥
人中雄牛啊,据说圣洁的少女(河流)就在潘底耶之地。但孔提之子啊,我将讲述坦摩罗波尔尼河,请听。
3.86.15
यत्र देवैस्तपस्तप्तं महदिच्छद्भिराश्रमे ।
गोकर्णमिति विख्यातं त्रिषु लोकेषु भारत ॥ ३.८६.१५ ॥
诸神在隐修处为求大果而苦修之地,在三界中以瞿卡尔纳之名著称,婆罗多啊。
3.86.16
शीततोयो बहुजलः पुण्यस्तात शिवश्च सः ।
ह्रदः परमदुष्प्रापो मानुषैरकृतात्मभिः ॥ ३.८६.१६ ॥
亲爱的,那湖水冷而丰沛,圣洁而吉祥,对于心未净化的人来说极难到达。
3.86.17
तत्र वृक्षतृणाद्यैश्च संपन्नः फलमूलवान् ।
आश्रमोऽगस्त्यशिष्यस्य पुण्यो देवसहे गिरौ ॥ ३.८६.१७ ॥
那里有树木、草类等丰饶,果实与根茎充足,阿伽斯提弟子的圣洁隐修处在提瓦萨诃山上。
3.86.18
वैडूर्यपर्वतस्तत्र श्रीमान्मणिमयः शिवः ।
अगस्त्यस्याश्रमश्चैव बहुमूलफलोदकः ॥ ३.८६.१८ ॥
那里有吠陀利耶山,光辉而由宝石构成,吉祥;还有阿伽斯提的隐修处,根、果与水十分丰饶。
3.86.19
सुराष्ट्रेष्वपि वक्ष्यामि पुण्यान्यायतनानि च ।
आश्रमान्सरितश्चैव सरांसि च नराधिप ॥ ३.८६.१९ ॥
人王啊,在苏罗湿特拉诸地,我也将讲述圣地、修行林、河流与湖泊。
3.86.20
चमसोद्भेदनं विप्रास्तत्रापि कथयन्त्युत ।
प्रभासं चोदधौ तीर्थं त्रिषु लोकेषु विश्रुतम् ॥ ३.८६.२० ॥
那里的婆罗门也讲述“杯裂”之地(Camasodbhedana);在大海边有普拉巴萨圣渡,名闻三界。
3.86.21
तत्र पिण्डारकं नाम तापसाचरितं शिवम् ।
उज्जयन्तश्च शिखरी क्षिप्रं सिद्धिकरो महान् ॥ ३.८६.२१ ॥
那里有为苦行者所居的吉祥圣地“品陀罗迦”;还有多峰的乌贾延塔山,是能迅速赐予成就的大圣地。
3.86.22
तत्र देवर्षिवीरेण नारदेनानुकीर्तितः ।
पुराणः श्रूयते श्लोकस्तं निबोध युधिष्ठिर ॥ ३.८६.२२ ॥
那里传说有一首古老的偈颂,由神仙中的英雄那罗陀所诵;尔当谛听,坚战。
3.86.23
पुण्ये गिरौ सुराष्ट्रेषु मृगपक्षिनिषेविते ।
उज्जयन्ते स्म तप्ताङ्गो नाकपृष्ठे महीयते ॥ ३.८६.२३ ॥
在苏罗湿特拉的圣山乌贾延塔上,鹿与鸟类栖息之处,身体因苦行而炽热者,在天界之巅受人尊崇。
3.86.24
एष नारायणः श्रीमान्क्षीरार्णवनिकेतनः ।
नागपर्यङ्कमुत्सृज्यह्यागतो मधुरां पुरीम् ॥ ३.८६.२४ ॥
这位光辉的那罗延,以乳海为居所,舍弃蛇床,来到了摩图罗城。
3.86.25
पुण्या द्वारवती तत्रयत्रासौ मधुसूदनः ।
साक्षाद्देवः पुराणोसौ स हि धर्मः सनातनः ॥ ३.८६.२५ ॥
神圣的德瓦拉瓦蒂在那里,摩豆须陀那居住之处。他就是古老的神本身;他实乃永恒的法。
3.86.26
ये च कवेदविदो विप्रा ये चाध्यात्मविदो जनाः ।
ते वदन्ति महात्मानं कृष्णं धर्मं सनातनम् ॥ ३.८६.२६ ॥
诗人、通晓吠陀的婆罗门,以及了知自我的人们,都称那位伟大的克里希那为永恒的法。
3.86.27
पवित्राणां हि गोविन्दः पवित्रं परमुच्यते ।
पुण्यानामपि पुण्योसौ मङ्गालानां च मङ्गलम्।
त्रैलोक्ये पुण्डरीकाक्षो देवदेवः सनातनः ॥ ३.८६.२७ ॥
在一切净化之物中,哥文达被称为至上的净化者;在一切神圣之物中,他即是神圣;在一切吉祥之物中,他即是吉祥。在三界之中,他是莲花眼的神中之神,永恒者。
3.86.28
अव्ययात्मा व्ययात्मा च क्षेत्रज्ञः परमेश्वरः ।
आस्ते हरिरचिन्त्यात्मा तत्रैव मधुसूदनः ॥ ३.८६.२८ ॥
其自我既不灭又会灭,乃田之知者、至高主宰,心性不可思议的哈里摩豆须陀那,正住在那里。