Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.88

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.88.1

उदीच्यां राजशार्दूल दिशि पुण्यानि यानि वै ।
तानि ते कीर्तयिष्यामि पुण्यान्यायतनानि च ॥ ३.८८.१ ॥

王中之虎啊,北方的那些圣地,那些神圣的处所,我现在将为你述说。

3.88.2

शृणुष्वावहितो भूत्वा मम मन्त्रयतः प्रभो ।
कथाप्रतिग्रहो वीर श्रद्धां जनयते शुभाम् ॥ ३.८८.२ ॥

主啊,请专心听我的劝告。英雄啊,接受这段故事会生起吉祥的信心。

3.88.3

सरस्वती महापुण्या ह्रदिनी तीर्थमालिनी ।
समुद्रगा महावेगा यमुना यत्र पाण्डव ॥ ३.८८.३ ॥

那里有至圣的萨拉斯瓦蒂河,声音潺潺,环绕着圣渡口;还有流向大海、势头迅猛的亚穆纳河,般度之子啊。

3.88.4

यत्र पुण्यतरं तीर्थं प्लक्षावतरणं शुभम् ।
यत्रसारस्वतैरिष्ट्वा गच्छन्त्यवभृथं द्विजाः ॥ ३.८८.४ ॥

那里有最为神圣的渡口,吉祥的普拉克沙树下降处。与萨拉斯瓦塔们一同祭祀之后,再生者们前往那里进行终结沐浴。

3.88.5

पुण्यं चाख्यायते दिव्यं शिवमग्निशिरोऽनघ ।
सहदेवोऽयजद्यत्रशम्याक्षेपेण भारत ॥ ३.८८.५ ॥

无垢者啊,那里宣说有神圣、神圣而吉祥的火首(Agniśiras);婆罗多啊,萨赫迪瓦在那里以投掷沙弥木之法进行了祭祀。

3.88.6

एतस्मिन्नेव चार्थेऽसौ इन्द्रगीता युधिष्ठिर ।
गाथा चरति लोकेऽस्मिन्गीयमाना द्विजातिभिः ॥ ३.८८.६ ॥

在此事上,युधिष्ठिर啊,因陀罗所唱的那首诗歌在这世间流传,被再生者们吟唱。

3.88.7

अग्नयः सहदेवेन ये चिता यमुनामनु ।
ते तस्य कुरुशार्दूल सहस्रशतदक्षिणाः ॥ ३.८८.७ ॥

库魯之虎啊,萨哈德瓦沿亚穆纳河所立的火,乃是他以十万之数布施的祭祀。

3.88.8

तत्रैव भरतो राजा चक्रवर्ती महायशाः ।
विंशतीं सप्त चाष्टौ च हयमेधानुपाहरत् ॥ ३.८८.८ ॥

婆罗多王,大名远扬的转轮王,在那里举行了二十、七和八次马祭。

3.88.9

कामकृद्यो द्विजातीनां श्रुतस्तात यथा पुरा ।
अत्यन्तमाश्रमः पुण्यः शरभङ्गस्य विश्रुतः ॥ ३.८८.९ ॥

孩子啊,正如你所听闻,能满足再生者愿望的舍罗钵伽之净修林,自古以来极为神圣而著名。

3.88.10

सरस्वती नदी सद्भिः सततं पार्थ पूजिता ।
वालखिल्यैर्महाराज यत्रेष्टमृषिभिः पुरा ॥ ३.८८.१० ॥

普利塔之子啊,萨拉斯瓦蒂河常被善人所敬奉;大王啊,此地昔日乃瓦拉希利耶仙人举行祭祀之处。

3.88.11

दृषद्वती महापुण्या यत्र रख्याता युधिष्ठिर ।
न्यग्रोधाख्यस्तु पाञ्चाल्यः पाञ्चाल्योद्विपदांवर।
दाल्भ्यघोषश्च दाल्भ्याश् धरणीस्थो महात्मनः ॥ ३.८८.११ ॥

坚恃啊,此地以极圣的德里沙德瓦蒂河著称;尼耶格罗陀,般遮罗人中最优秀者,以及居于大地上的大德达尔跋耶·高沙,还有达尔跋耶族。

3.88.12

कौन्तेयानन्तयशसः सुव्रतस्यामितौजसः ।
आश्रमः ख्यायते पुण्यस्त्रिषु लोकेषु विश्रुतः ॥ ३.८८.१२ ॥

贡蒂之子啊,据说那位名声无尽、誓愿坚固、威力无量者的圣洁净修林,在三界中闻名。

3.88.13

एतावर्णाववर्णौ च विश्रुतौ मनुजाधिप ।
ईजाते क्रतुभिर्मुख्यैः पुण्यैर्भरतसत्तम ॥ ३.८८.१३ ॥

人主啊,这二人虽无种姓却名闻天下,以殊胜的功德大祭供奉神明,婆罗多中最优秀者啊。

3.88.14

समेत्य बहुशो देवाः सेन्द्राः सवरुणाः पुरा ।
विशाखयूपेऽतप्यन् तेन पुण्यतमश्च सः ॥ ३.८८.१४ ॥

往昔诸神与因陀罗、伐楼那多次聚会,在毘舍佉祭柱旁修苦行;因此那处成为最为殊胜的圣地。

3.88.15

ऋषिर्महान्महाभागो जमदग्निर्महायशाः ।
पलाशकेषु पुण्येषु रम्येष्वयजत प्रभुः ॥ ३.८८.१५ ॥

大仙人柴摩达基那(Jamadagni)福德殊胜、名声远扬,威力广大,在神圣而可爱的波拉沙树林中行祭祀。

3.88.16

यत्रसर्वाः सरिच्छ्रेष्टाः साक्षात्तमृषिसत्तमम् ।
स्वं स्वं तोयमुपादाय परिवार्योपतस्थिरे ॥ ३.८८.१६ ॥

在那里,所有殊胜的河流亲自带着各自的水,环绕着那位最殊胜的仙人,前来侍立。

3.88.17

अपि चात्र महाराज स्वयं विश्वावसुर्जगौ ।
इमं श्लोकं तदा वीर प्रेक्ष्य दीक्षां महात्मनः ॥ ३.८८.१७ ॥

还有,大王啊,此处的毘湿伐薮亲自唱出此颂,英雄啊,他见到那位大德的受戒之时便唱了此颂。

3.88.18

यजमानस्य वै देवाञ्जमदग्नेर्महात्मनः ।
आगम्य सरितो विप्रान्मधुना समतर्पयन् ॥ ३.८८.१८ ॥

在施主大德柴摩达基那的祭祀中,诸河亲自前来,以蜂蜜使诸神与婆罗门充分满足。

3.88.19

गन्धर्वयक्षरक्षोबिरप्सरोभिश्च सेवितम् ।
किरातकिन्नरावासं शैलं शिखरिणांवरम् ॥ ३.८८.१९ ॥

为乾闼婆、夜叉、罗刹与阿普萨拉斯所侍奉,乃吉罗陀与紧那罗之居所,群山中最殊胜的山岳。

3.88.20

बिभेद तरसा गङ्गा गङ्गाद्वारं युधिष्ठिर ।
पुण्यं तत्ख्यायते राजन्ब्रह्मर्षिगणसेवितम् ॥ ३.८८.२० ॥

尤提希提罗啊,恒河以急势劈开山岩,此即恒河门。大王,此圣地以众梵仙所侍奉而著称。

3.88.21

सनत्कुमारः कौरव्य पुण्यं कनखलं तथा ।
पर्वतश्च पुरुर्नाम यत्रयातः पुरूरवाः ॥ ३.८८.२१ ॥

俱卢后裔啊,有萨纳特昆摩罗的圣地,还有迦纳卡拉;名为普鲁的山,补茹罗婆斯曾前往那里。

3.88.22

भृगुर्यत्रतपस्तेपे महर्षिगणसेविते ।
राजन्स आश्रमः ख्यातो भृगुतुङ्गो महागिरिः ॥ ३.८८.२२ ॥

在众大仙所侍奉之处,婆里古曾修苦行;大王,那处隐修所闻名,即大山婆里古通伽。

3.88.23

यः स भूतं भविष्यच्च भवच् भरतर्षभ ।
नारायणः प्रभुर्विष्णुः शाश्वतः पुरुषोत्तमः ॥ ३.८८.२३ ॥

婆罗多之雄牛啊,过去、未来与现在皆是他——那位那罗延、主毗湿奴、永恒的至高人。

3.88.24

तस्यातियशसः पुण्यां विशालां बदरीमनु ।
आश्रमः ख्यायते पुण्यस्त्रिषु लोकेषु विश्रुतः ॥ ३.८८.२४ ॥

在毗舍罗与菩提林附近,有那位大名声者的圣地隐修所为人所知;此圣隐修所闻名于三界。

3.88.25

उष्णतोयवहा गङ्गा शीततोयवहा पुरा ।
सुवर्णसिकता राजन्विशालां बदरीमनु ॥ ३.८८.२५ ॥

大王啊,往昔在毗舍罗与菩陀梨附近,恒河流淌着温水与冷水,её沙子如金。

3.88.26

ऋषयो यत्रदेवाश्च महाभागा महौजसः ।
प्राप्य नित्यं नमस्यन्ति देवं नारायणं प्रभुम् ॥ ३.८८.२६ ॥

大福大德、大光明的仙人与天神来到那里,永远向主神那罗延礼敬。

3.88.27

यत्रनाराजणो देवः परमात्मा सनातनः ।
तत्र कृत्स्नं जगत्सर्वं तीर्थान्यायतनानि च ॥ ३.८८.२७ ॥

永恒的至上我——神那罗延所在之处,便有整个世界、一切圣地与神庙。

3.88.28

तत्पुण्यं परमं ब्रह्म तत्तीर्थं त्तपोवनम् ।
तत्परं परमं देवं भूतानां परमेश्वरम् ॥ ३.८८.२८ ॥

那便是神圣的至上梵;那便是圣地,苦行之林;那至高无上,是至上之神,众生的至尊主。

3.88.29

शाश्वतं परमं चैव धातारं परमं पदम् ।
यं विदित्वान शोचन्ति विद्वांसः शास्त्रदृष्टयः ॥ ३.८८.२९ ॥

智者以经典为眼,知晓此者便不再忧愁——他是永恒的、至上的、创造者与至高的归宿。

3.88.30

तत्र देवर्षयः सिद्धाः सर्वे चैव तपोधनाः ।
आदिदेवो महायोगी यत्रास्ते मधुसूदनः ॥ ३.८८.३० ॥

诸天仙人、成就者与以苦行为财富的贤者皆在那里,那里住着原初之神、大瑜伽师摩图苏陀那。

3.88.31

पुण्यानामपि तत्पुण्यमत्र ते संशयेस्तु मा ।
एतानि राजन्पुण्यानि पृथिव्यां पृथिवीपते।
कीर्तितानि नरश्रेष्ठ तीर्थान्यायतनानि च ॥ ३.८८.३१ ॥

此功德在一切功德之中亦为最上;你对此不必怀疑。大王,大地之主,这些圣地已在大地上被宣说,人中之最——它们是圣渡口与圣所。

3.88.32

एतानि वसुभिः साध्यैरादित्यैर्मरुदश्विभिः ।
ऋषिभिर्देवकल्पैश्च सेवितानि महात्मभिः ॥ ३.८८.३२ ॥

这些圣地为诸婆苏、萨底耶、阿提提耶、摩鲁特与双马童所常游,亦为如天神般的大德仙人所奉侍。

3.88.33

चरन्नेतानि कौन्तेय सहितो ब्राह्मणर्षभैः ।
भ्रातृभिश्च महाभागैरुत्कण्ठां विजयिष्यसि ॥ ३.८८.३३ ॥

贡蒂之子啊,与最优秀的婆罗门及你有福的兄弟们同游这些圣地,你将战胜内心的焦躁(渴望)。