摩诃婆罗多 · 章 3.89
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.89.1
एवं संभाषमाणे तु धौम्ये कौरवनन्दन ।
लोमशः स महातेजा ऋषिस्तत्राजगाम ह ॥ ३.८९.१ ॥
当他们与达姆亚如此交谈时,库鲁之喜,大光明的仙人楼摩舍来到了那里。
3.89.2
तं पाण्डवाग्रजो राजा सगणो ब्राह्मणाश्च ते ।
उपातिष्ठन्महाभागं दिवि शक्रमिवामराः ॥ ३.८९.२ ॥
般度之子中的长兄国王率随从与婆罗门前往那位大福之仙人身边侍奉,如天上的诸神侍奉因陀罗一般。
3.89.3
समभ्यर्च्य यथान्यायं धर्मपुत्रो युधिष्ठिरः ।
पप्रच्छागमने हेतुमटने च प्रयोजनम् ॥ ३.८९.३ ॥
法之子坚战依礼敬奉之后,问他来此的原因和游行的目的。
3.89.4
स पृष्टः पाण्डुपुत्रेण प्रीयमाणो महामनाः ।
उवाच श्लक्ष्णया वाचा हर्षयन्निव पाण्डवान् ॥ ३.८९.४ ॥
般度之子询问后,那位心胸宽广的仙人欣然以温和的语调说话,仿佛在使般度五子欢喜。
3.89.5
संचरन्नस्मि कौन्तेय सर्वांल्लोकान्यदृच्छया ।
गतः शक्रस्य भवनं तत्रापश्यं सुरेश्वरम् ॥ ३.८९.५ ॥
孔提之子啊,我随意游历一切世界,来到因陀罗的宫殿,在那里见到了诸神之主。
3.89.6
तव च भ्रातरं वीरमपश्यं सव्यसाचिनम् ।
शक्रस्यार्धासनगतं तत्र मे विस्मयो महान् ॥ ३.८९.६ ॥
在那里,我看见你英勇的兄弟萨维亚萨钦坐在因陀罗宝座的一半上,我心中非常惊讶。
3.89.7
आसीत्पुरुषशार्दूल दृष्ट्वा पार्थं तथागतम् ।
आह मां तत्र देवेशो गच्छ पाण्डुसुतान्प्रति ॥ ३.८९.७ ॥
人中之虎啊,见到如此来到那里的般度之子(阿周那),天神之主对我说:去见般度的诸子。
3.89.8
सोऽहमभ्यागतः क्षिप्रं दिदृक्षस्त्वां सहानुजम् ।
वचनात्पुरुहूतस्य पार्थस् च महात्मनः ॥ ३.८९.८ ॥
我急忙前来,想见你和你的弟弟,这是遵从补卢呼多(因陀罗)和大心的般度之子(阿周那)的吩咐。
3.89.9
आख्यास्ये ते प्रियं तात महत्पाण्डवनन्दन ।
भ्रातृभिः सहितो राजन्कृष्णया चैव तच्छृणु ॥ ३.८९.९ ॥
亲爱的,般度诸子的喜悦啊,我要告诉你一个大好消息。大王,请与诸兄弟和黑公主一同听取。
3.89.10
यत्त्वयोक्तो महाबाहुरस्त्रार्थं भरतर्षभ ।
तदस्त्रमाप्तं पार्थेन रुद्रादप्रतिमं विभो ॥ ३.८९.१० ॥
婆罗多族的雄牛啊,大力者啊,你所吩咐大臂者求取的那件兵器,阿周那已从楼陀罗处获得,那是无与伦比的。
3.89.11
यत्तद्ब्रह्मशिरो नाम तपसा रुद्रमागमत् ।
अमृतादुत्थितं रौद्रं तल्लब्धं सव्यसाचिना ॥ ३.८९.११ ॥
名为梵首的那件兵器,因苦行而到达楼陀罗处;从甘露中生出的那件猛烈兵器,已被善用双手的阿周那获得。
3.89.12
तत्समन्त्रं ससंहारं सप्रायश्चित्तमङ्गलम् ।
वज्रमस्त्राणि चान्यानि दण्डादीनि युधिष्ठिर ॥ ३.८९.१२ ॥
那件兵器,连同其咒语、收回之法、赎罪与吉祥之仪;还有金刚杵,以及杖等其他兵器,啊,坚战。
3.89.13
यमात्कुबेराद्वरुणादिन्द्राच्च कुरुनन्दन ।
अस्त्राण्यधीतवान्पार्थो दिव्यान्यमितविक्रमः ॥ ३.८९.१३ ॥
库鲁之喜悦啊,无量勇武的般度之子从阎摩、俱毗罗、伐楼那和因陀罗那里学会了神圣的武器。
3.89.14
विश्वावसोस्तु तनयाद्गीतं नृत्यं च साम च ।
वादित्रं च यथान्यायं प्रत्यविन्दद्यथाविधि ॥ ३.८९.१४ ॥
他依照礼法从毗湿伐苏之子处获得了歌唱、舞蹈、娑摩颂与乐器之术。
3.89.15
एवं कृतास्त्रः कौन्तेयो गान्धर्वं वेदमात्मवान् ।
सुखं वसति बीभत्सुरनुजस्यानुजस्तव ॥ ३.८९.१५ ॥
如此精通武艺的贡蒂之子、自制的毗跋蹉(阿周那)与乾达婆之智同住,安乐无忧;他是你的幼弟之幼弟。
3.89.16
यदर्थं मां सुरश्रेष्ठ इदं वचनमब्रवीत् ।
तच्च ते कथयिष्यामि युधिष्ठिर निबोध मे ॥ ३.८९.१६ ॥
最优秀的天神为何对我说出这番话,我将告诉你;般度之子坚战,请听我说。
3.89.17
भवान्मनुष्यलोकेऽपि गमिष्यति न संशयः ।
ब्रूयाद्युधिष्ठिरं तत्रवचनान्मे द्विजोत्तम ॥ ३.८९.१७ ॥
你也必将前往人间,此无疑问。婆罗门中最优秀者啊,你到那里时,应依我的话告诉坚战。
3.89.18
आगमिष्यति ते भ्राता कृतास्त्रः क्षिप्रमर्जुनः ।
सुरकार्यं महत्कृत्वा यदशक्यं दिवौकसैः ॥ ३.८९.१८ ॥
你的兄弟阿周那精通武艺后将很快归来,完成天神那项连天界居民也无法完成的伟大使命。
3.89.19
तपसाऽपि त्वमात्मानं योजय भ्रातृभिः सह ।
तपसो हि परं नास्ति तपसा विन्दते महत् ॥ ३.८९.१९ ॥
你也应与兄弟们一起以苦行修持自己。没有比苦行更高的;通过苦行可获得伟大之物。
3.89.20
अहं च कर्णं जानामि यथावद्भरतर्षभ ।
सत्यसन्धं महोत्साहं महावीर्यं महाबलम् ॥ ३.८९.२० ॥
婆罗多族的雄牛啊,我完全了解迦尔纳:他信守誓言,极有热忱,极有威力,也极有力量。
3.89.21
महाहवेष्वप्रतिमं महायुद्धविशारदम् ।
महाधनुर्धरं वीरं महास्त्रं वरवर्णिनम् ॥ ३.८९.२१ ॥
在大战中无人可比,精通大战,是大弓手、英雄,精通大神兵,容貌俊美。
3.89.22
महेश्वरसुतप्रख्यमादित्यतनयं प्रभुम् ।
तथाऽर्जुनमतिस्कन्धं सहजोल्वणपौरुणम् ॥ ३.८९.२२ ॥
如同大自在天之子,是太阳之子、主宰;同样如阿周那一般肩膀宽阔,具有天生的猛烈勇力。
3.89.23
न स पार्तस्य संग्रामे कलामर्हति षोडशीम् ॥ ३.८९.२३ ॥
在战斗中,他连般度之子(阿周那)十六分之一的功力也配不上。
3.89.24
यच्चापि ते भयं कर्णान्मनसिस्थमरिंदम ।
तच्चाप्यपहरिष्यामि सव्यसाचिन्युपागते ॥ ३.८९.२४ ॥
还有你心中因迦尔纳而生的恐惧,啊,制敌者,待左手善射者(阿周那)到来时,我也将消除它。
3.89.25
यच्च ते मानसं वीर तीर्थयात्रामिमां प्रति ।
स महर्षिर्लोमशस्ते कथयिष्यत्यसंशयम् ॥ ३.८९.२५ ॥
英雄啊,你心中关于这次朝圣圣渡的一切,大仙人罗摩莎无疑会告诉你。
3.89.26
यच्च किंचित्तपोयुक्तं फलं तीर्थेषु भारत ।
ब्रह्मर्षिरेष ब्रूयात्ते न तच्छ्रद्धेयमन्यथा ॥ ३.८९.२६ ॥
婆罗多的后裔啊,圣渡之中与苦行相连的任何果报,这位梵仙都会告诉你;不要以别的方式怀疑它。