Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.9

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.9.1

भगवन्नाहमप्येतद्रोचये द्यूतसंभवम् ।
मन्ये तद्विधिनाऽऽकृष्य कारितोस्मीति वै मुने ॥ ३.९.१ ॥

尊者啊,我也不赞成这由赌博所引起的事。我想是那命运把我拉过去,让我做了这件事,大仙。

3.9.2

नैतद्रोचयते भीष्मो न द्रोणो विदुरो न च ।
गान्धार्या नेष्यते द्यूतं तत्र मोहात्प्रवर्तितम् ॥ ३.९.२ ॥

这件事,毗湿摩不赞成,德罗纳不赞成,维杜罗也不赞成;甘陀丽也不希望赌博;那里是因迷惑而发动的。

3.9.3

परित्यक्तुं न शक्नोमि दुर्योधनमचेतनम् ।
पुत्रस्नेहेन भगवञ्जानन्नपि यतव्रत ॥ ३.९.३ ॥

尊者啊,我不能抛弃失去理智的难敌。出于对儿子的爱,虽然知道,持戒坚定者啊。

3.9.4

वैचित्रवीर्य नृपते सत्यमाह यथा भवान् ।
दृढं विझः परं पुत्रं परं पुत्रान्न विद्यते ॥ ३.९.४ ॥

毗其旃那之子啊,国王,你说得对。对儿子的执着是坚定的;儿子之上没有更重要的,儿子们之上也没有。

3.9.5

इन्द्रोप्यश्रुनिपातेन सुरभ्या प्रतिबोधितः ।
अन्यैः समृद्धैरप्यर्थैर्न सुतानमन्यते परम्। ॥ ३.९.५ ॥

即使因útan Surabhi 落泪而被唤醒的因陀罗,纵有其他丰厚的财富,也不把任何东西看得比儿子更高。

3.9.6

अत्र ते वर्तयिष्यामि गहदाख्यानमुत्तमम् ।
सुरभ्याश्चैव संवादमिन्द्रस्य च विशांपते ॥ ३.९.६ ॥

在这里我将向你讲述一个殊胜而深刻的故事——苏罗毗与因陀罗的对话,人主啊。

3.9.7

त्रिविष्टपगता राजन्सुरभी प्रारुदत्किल ।
गवां माता पुरा तात तामिन्द्रोऽन्वकृपायत ॥ ३.९.७ ॥

大王,升往三界的苏羅毗确实哭泣了。她从前是诸牛之母,亲爱的,因陀罗对她生出了怜悯。

3.9.8

किमिदं रोदिषि शुभे कच्चित्क्षेमं दिवौकसाम् ।
मनुष्येष्वथवा गोषु नैतदल्पं भविष्यति ॥ ३.९.८ ॥

善良的女神,你为何哭泣?诸天神难道不安宁吗?还是人间或牛群中出了什么事?这不会是小事。

3.9.9

विनिपातो न वः कश्चिद्दृश्यते त्रिदशाधिप ।
अहं तु पुत्रं शोचामि तेन रोदिमि कौशिक ॥ ३.९.९ ॥

三十三天之主啊,我看不到你们有任何败落。但我为我的儿子忧伤,因此哭泣,哦,憍尸迦。

3.9.10

पश्यैनं कर्षकं क्षुद्रं दुर्बलं मम पुत्रकम् ।
प्रतोदेनाभिनिघ्नन्तं लाङ्गलेन च पीडितम्।
निषीदमानं सोत्कण्ठं वध्यमानं सुराधिप ॥ ३.९.१० ॥

看那个卑微瘦弱的农夫,我的小儿子,被刺棒打着,被犁具折磨,痛苦地跪倒在地,被鞭打着,诸神之主啊。

3.9.11

एनं दृष्ट्वा भृशं श्रान्तं वध्यमानं सुराधिप ।
कृपाविष्टाऽस्मि देवेन्द्र मनश्चोद्वेपते मम ॥ ३.९.११ ॥

看到他如此疲惫、被打,诸神之主啊,我充满了怜悯,诸神之主啊。我的心在颤抖。

3.9.12

एकस्तत्रबलोपेतो धुरमुद्वहतेऽधिकाम् ।
अपरोप्यबलप्राणः कृशो धमनिसंततः।
कृच्छ्रादुद्वहते भारं तं वै शोचामि वासव ॥ ३.९.१२ ॥

那里,一头强壮的牛背负着过重的轭;另一头生命力虚弱、瘦削、青筋毕露,艰难地背负着重担。我正为他而悲伤,哦,婆薮。

3.9.13

वध्यमानः प्रतोदेन तुद्यमानः पुनः पुनः ।
नैव शक्नोति तं भारमुद्वोढुं पश्य वासव ॥ ३.९.१३ ॥

他被刺棒抽打,一次又一次地被刺扎,却无法承担那重担。看哪,婆薮。

3.9.14

ततोऽहं तस्य शोकार्ता विरौमि भृशदुःखिता ।
अश्रूण्यावर्तयन्ती च नेत्राभ्यां करुणायती ॥ ३.९.१४ ॥

于是我因他而悲痛万分,极度痛苦地哭喊起来,泪水从眼中涌出,怀着怜悯悲泣。

3.9.15

तव पुत्रसहस्रेषु पीड्यमानेषु शोभने ।
किं कृपायितवत्यत्र पुत्र एको निपीड्यते ॥ ३.९.१५ ॥

美丽的人啊,你的千百个儿子正在受苦,你为何独独怜悯这里被压迫的那一个儿子?

3.9.16

यदि पुत्रसहस्राणि सर्वत्रसमतैव मे ।
दीनस्य तु सतः शक्र पुत्रस्याभ्यधिकाकृपा ॥ ३.९.१६ ॥

我对千百个儿子处处一视同仁;然而,帝释啊,对那位可怜的儿子,我的怜悯更多。

3.9.17

तदिन्द्रः सुरभेर्वाक्यं निशम्य भृशविस्मितः ।
जीवितेनापि कौरव्य मेनेऽभ्यधिकमात्मजम् ॥ ३.९.१७ ॥

帝释听了苏罗毗的话,极为惊讶;俱卢之裔啊,他认为那个儿子比自己的生命还要珍贵。

3.9.18

प्रववर्ष च तत्रैव सहसा तोयमुल्वणम् ।
कर्षकस्याचरन्विघ्नं भगवान्पाकशासनः ॥ ३.९.१८ ॥

就在那里,突然降下猛烈的大雨;尊贵的帕卡萨萨那(因陀罗)为使农夫受阻,降下了倾盆大雨。

3.9.19

तद्यथा सुरभिः प्राह सममेवास्तु ते तथा ।
सुतेषु राजन्सर्वेषु हीनेष्वभ्यधिका कृपा ॥ ३.९.१९ ॥

正如苏罗毗所说:“愿你对众子一视同仁”,就这样吧。国王啊,在你所有的儿子中,对弱者的怜悯应当更多。

3.9.20

यादृशो मे सुतः पाण्डुस्तादृशो मेऽसि पुत्रक ।
विदुरश्च महाप्राज्ञः स्नेहादेतद्ब्रवीम्यहम् ॥ ३.९.२० ॥

我的儿子般度如何,你也同样是我的儿子,亲爱的孩子。大智慧的毗杜罗也是如此。我出于慈爱而说这话。

3.9.21

चिराय तव पुत्राणां शतमेकश्च भारत ।
पाण्डौः पञ्चैव लक्ष्यन्ते तेऽपि मन्दाःसुदुःखिताः ॥ ३.९.२१ ॥

婆罗多的后裔啊,你的一百个儿子和另一个已经活了很久;般度的儿子只能看到五个,而他们也虚弱且极度悲伤。

3.9.22

कथं जीवेयुरत्यन्तं कथं वर्धेयुरित्यपि ।
इति दीनेषु पार्थेषु मनो मे परितप्यते ॥ ३.९.२२ ॥

他们如何能永远活下去,又如何能成长?这样想着,我的心为那可怜的普利塔之子而焦灼不安。

3.9.23

यदि पार्थिव कौख्याञ्जीवमानानिहेच्छसि ।
दुर्योधनस्तव सुतः शमं गच्छतु पाण्डवैः ॥ ३.९.२३ ॥

国王啊,如果你希望考拉瓦人在此得以存活,那么你的儿子难敌应当与般度五子讲和。