摩诃婆罗多 · 章 3.90
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.90.1
धनंजयेन चाप्युक्तं यत्तच्छृणु युधिष्ठिर ।
युधिष्ठिरं भ्रातरं मे योजयेर्धर्म्यया धिया ॥ ३.९०.१ ॥
听听阿周那所说的话吧,坚战。请以正法之心,让我的兄长坚战参与其中。
3.90.2
त्वं हि धर्मान्परान्वेत्थ तपांसि च तपोधन ।
श्रीमतां चापि जानासि धर्मं राज्ञां सनातनम् ॥ ३.९०.२ ॥
你通晓最高的法与苦行,苦行的宝藏啊;你也通晓光荣之王们永恒的法。
3.90.3
स भवान्परमं वेद रपावनं पुरुषं प्रति ।
तेन संयोजयेथास्त्वं तीर्थपुण्येन पाण्डवान् ॥ ३.९०.३ ॥
你知道那至高无上、能净化罪垢的神人。借助他,凭藉圣地的功德,把般度诸子联结起来吧。
3.90.4
यथा तीर्थानि गच्छेत गाश्च दद्यात्स पार्थिवः ।
तथा सर्वात्मना कार्यमिति मामर्जुनोऽब्रवीत् ॥ ३.९०.४ ॥
正如那位国王应当前往圣地并布施牛群,也应当全心全意地去做——阿周那这样对我说。
3.90.5
भवता चानुगुप्तोऽसौ चरेत्तीर्थानि सर्वशः ।
रक्षोभ्यो रक्षितव्यश्च दुर्गेषु विषमेषु च ॥ ३.९०.५ ॥
在你的守护下,让他到处游历圣地;还应保护他免受罗刹之害,无论在要塞还是险恶之地。
3.90.6
दधीच इव देवेन्द्रं यथा चाप्यङ्गिरा रविम् ।
तथा रक्षस्व कौन्तेयान्राक्षसेभ्यो द्विजोत्तम ॥ ३.९०.६ ॥
正如达提遮守护因陀罗,安吉罗守护太阳,请你也保护昆提之子免受罗刹之害,婆罗门中最优秀者啊。
3.90.7
यातुधाना हि बहवो राक्षसाः पर्वतोपमाः ।
त्वयाऽभिगुप्तान्कौन्तेयान्न विवर्तेयुरन्तिकम् ॥ ३.९०.७ ॥
确实有许多如山般的药叉与罗刹。由你守护的昆提之子,他们将不会靠近。
3.90.8
सोऽहमिन्द्रस्य वचनान्नियोगादर्जुनस्य च ।
रक्षमाणो भयेभ्यस्त्वां चरिष्यामि त्वा सह ॥ ३.९०.८ ॥
依因陀罗之言与阿周那之命,我将护卫你脱离危险,与你同行。
3.90.9
द्विस्तीर्थानि मया पूर्वं दृष्टानि कुरुनन्दन ।
इदं तृतीयं द्रक्ष्यामि तान्येव भवता सह ॥ ३.९०.९ ॥
俱卢之喜悦者啊,我先前已两次见过这些圣地;这一次我将与你一同见到那些圣地。
3.90.10
इयं राजर्षिभिर्याता पुण्यकृद्भिर्युधिष्ठिर ।
मन्वादिभिर्महाराज तीर्थयात्रा भयापहा ॥ ३.९०.१० ॥
瑜提饲啊,此朝圣之行由有功德的王仙、摩奴等人所行;它能消除恐惧。
3.90.11
नानृजुर्नाकृतात्मा च नाविद्यो न च पापकृत् ।
स्नाति तीर्थेषु कौरव्य न च वक्रमतिर्नरः ॥ ३.९०.११ ॥
俱卢之子啊,不正直、心未修炼、无知、作恶、心念邪曲之人,不在圣地沐浴。
3.90.12
त्वं तु धर्ममतिर्नित्यं धर्मज्ञः सत्यसंगरः ।
विमुक्तः सर्वपापेभ्यो भूय एव भविष्यसि ॥ ३.९०.१२ ॥
然而你心常向法,通晓法,言而有信;脱离一切罪恶之后,你将再次变得更加纯净。
3.90.13
यथा भगीरथो राजा राजानश्च गयादयः ।
यथा ययातिः कौन्तेय तथा त्वमपि पाण्डव ॥ ३.९०.१३ ॥
如国王婆吉罗陀与伽耶等诸王,如耶耶提,俱栗底之子,般度子,你亦如是。
3.90.14
न हर्षात्संप्रपश्यामि वाक्यस्यास्योत्तरं क्वचित् ।
यन्मां स्मरति देवेशः किं नामाभ्यधिकं ततः ॥ ३.९०.१४ ॥
我因欢喜,无法对此言作出任何回答;天神之主记得我,还有什么比这更大的呢?
3.90.15
भवता संगमो यस् भ्राता चैव धनंजयः ।
वासवः स्मरते यस् को नामाभ्यधिकस्ततः ॥ ३.९०.१५ ॥
与您相会,还有我的兄弟达南遮耶,以及记得我的婆娑婆,还有什么比这更大的呢?
3.90.16
यच्च मां भगवानाह तीर्थानां गमनं प्रति ।
धौम्यस्य वचनादेषा बुद्धिः पूर्वं कृतैव मे ॥ ३.९०.१६ ॥
尊者所说的朝圣各处圣地之事,我早已依据仙人达乌米亚之言定下此意。
3.90.17
तद्यदा मन्यसे ब्रह्मन्गमनं तीर्तदर्शने ।
तदैव गन्तास्मि तीर्तान्येष मे निश्चयः परः ॥ ३.९०.१७ ॥
因此,婆罗门啊,当您认为应当前往观礼圣地之时,我便将前往圣地;这是我的最高决意。
3.90.18
गमने कृतबुद्धिं तं पाण्डवं लोमशोऽब्रवीत् ।
लघुर्भव महाराज लघुः स्वैरं गमिष्यसि ॥ ३.९०.१८ ॥
对于决意出行的那位般度子,罗摩舍说:大王,请轻装;您将随心所欲、轻松地前往。
3.90.19
भिक्षाभुजो निवर्तन्तां ब्राह्मणा यतयश्च ये ॥ ३.९०.१९ ॥
靠乞食为生的婆罗门和苦行者,愿他们返回。
3.90.20
क्षुत्तृडध्वश्रमायासशीतार्तिमसहिष्णवः ।
ते सर्वे विनिवर्तन्तां ये च मृष्टभुजो द्विजाः ॥ ३.९०.२० ॥
凡不能忍受饥渴、路途劳顿、疲倦、寒冷与痛苦的人,都让他们返回;那些享用美食的再生者,也让他们返回。
3.90.21
पक्वान्नलेह्यपानानां मांसानां च विकल्पकाः ।
तेऽपि सर्वे निवर्तन्तां ये च सूदानुयायिनः।
मया यथोचिताऽऽजीव्यौः संविभक्ताश्च वृत्तिभिः ॥ ३.९०.२१ ॥
凡制作熟食、可舔之食、饮料与肉食的人,以及跟随厨师的人,都让他们返回;凡由我依其身份分给生计与俸禄的人,也让他们返回。
3.90.22
ये चाप्यनुगताः पौरा राजभक्तिपुरःसराः ।
धृतराष्ट्रं महाराजमभिगच्छन्तु ते च वै। ॥ ३.९०.२२ ॥
那些怀着对君王的忠诚跟随我们而来的市民,也让他们前往伟大的国王持国那里。
3.90.23
स दास्यति यथाकालमुचिता यस्य या भृतिः ।
स चेद्यथोचितां वृत्तिं न दद्यान्मनुजेश्वरः।
अस्मत्प्रियहितार्थायपाञ्चाल्यो वः प्रदास्यति ॥ ३.९०.२३ ॥
每人应得的俸禄,他会按时发给。若那位人主不给予应有的生计,那么为了我们所珍爱和有益之事,般遮罗王会给予你们。
3.90.24
ततो भूयिष्ठशः पौरा गुरौ भारे समाहिते ।
विप्राश्च यतयो मुख्या जग्मुर्नागपुरं प्रति ॥ ३.९०.२४ ॥
于是,大多数市民,以及重要的婆罗门与苦行者,在那沉重的担子安置妥当之后,便朝象城而去。
3.90.25
तान्सर्वान्धर्मराजस्य प्रेम्णा राजाऽम्बिकासुतः ।
प्रतिजग्राह विधिवद्धनैश्च समतर्पयत् ॥ ३.९०.२५ ॥
出于对坚战的爱,阿versions之子国王依礼接待了他们所有人,并以财富使他们充分满足。
3.90.26
ततः कुन्तीसुतो राजा लघुभिर्ब्राह्मणैः सह ।
लोमशेन च सुप्रीतस्त्रिरात्रं काम्यकेऽवसत् ॥ ३.९०.२६ ॥
随后,贡蒂之子国王与年轻的婆罗门们在一起,并因罗摩夏而十分欢喜,在迦密雅迦林中住了三夜。