Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.91

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.91.1

ततः प्रयान्तं कौन्तेयं ब्राह्मणा वनवासिनः ।
अभिगम्य तदा राजन्निदं वचनमब्रुवन् ॥ ३.९१.१ ॥

此时,当昆提之子准备出发时,住在林中的婆罗门走近他,国王啊,说了这番话。

3.91.2

राजंस्तीर्थानि गन्तासि पुण्यानि भ्रातृभिः सह ।
देवर्षिणा च सहितो लोमशेन महात्मना ॥ ३.९१.२ ॥

国王啊,你将与兄弟们一同前往圣地渡口,并有天仙圣者、大德的罗摩沙相伴。

3.91.3

अस्मानपि महाराज नेतुमर्हसि पाण्डव ।
अस्माभिर्हि न शक्यानि त्वदृते तानि कौरव ॥ ३.९१.३ ॥

伟大的般度之王啊,你也应当带我们同去;考拉瓦啊,没有你,我们无法到达那些圣地。

3.91.4

श्वापरदैरुपसृष्टानि दुर्गाणि विषमाणि च ।
अगम्यानि नरैरल्पैस्तीर्थानि मनुजेश्वर ॥ ३.९१.४ ॥

人主啊,那些圣地布满猛兽,险峻崎岖,少数人难以到达。

3.91.5

भवतो भ्रातरः शूरा धनुर्धरवराः सदा ।
भवद्भिः पालिताः शूरैर्गच्छामो वयमप्युत ॥ ३.९१.५ ॥

你的兄弟们都是英雄,始终是弓箭手中的翘楚;有你们这样的英雄守护,我们也将前往。

3.91.6

भवत्प्रसादाद्धि वयं प्राप्नुयामः सुखं फलम् ।
तीर्थानां पृथिवीपाल वनानां च विशांपते ॥ ३.९१.६ ॥

凭你的恩德,我们将获得圣地与森林的福报,大地的守护者啊,民众之主啊。

3.91.7

तव वीर्यपरित्राताः शुद्धास्तीर्थपरिप्लताः ।
भवेम धूतपाप्मानस्तीर्थसंदर्शनान्नृप ॥ ३.९१.७ ॥

蒙你的威力护佑,我们在圣地沐浴得净,大王啊,因见圣地而免除罪孽。

3.91.8

भवानपि नरेन्द्रस्य कार्तवीर्यस्य भारत ।
अष्टकस्य च राजर्षेर्लोमपादस् चैव ह ॥ ३.९१.८ ॥

婆罗多啊,你也如人王憍多婆利耶、王仙阿湿多迦和洛摩波陀一般。

3.91.9

भरतस्य च वीरस्य सार्वभौमस्य पार्तिव ।
ध्रुवं प्राप्स्यति दुष्प्रापाँल्लोकांस्तीर्थपरिप्लुतः ॥ ३.९१.९ ॥

还有英雄婆罗多与普天之主的道路也属于你。大王啊,沐浴于圣地者必定能得到难以到达的诸世界。

3.91.10

प्रभासादीनि तीर्थानि महेन्द्रादींश्च पर्वतान् ।
गङ्गाद्याः सरितश्चैव प्लक्षादींश्च पर्वतान् ॥ ३.९१.१० ॥

以勃拉跋娑为首的圣渡,以摩醯因陀罗为首的山,以恒河为首的河流,以婆卡舍为首的山。

3.91.11

त्वया सह महीपाल द्रष्टुमिच्छामहे वयम् ।
भवद्भिः पालिताः शूरैस्तीर्थान्यायतनानि च ॥ ३.९१.११ ॥

大地的守护者啊,我们愿与你一同观看圣渡与圣所,它们都由像你这样的英雄守护。

3.91.12

यदि ते ब्राह्मणेष्वस्ति काचित्प्रीतिर्जनाधिप ।
कुरुक्षिप्रं वचोऽस्माकं ततः श्रेयोऽभिपत्स्यसे ॥ ३.९१.१२ ॥

人主啊,若你对婆罗门有些许敬爱,就请速行我们的话,那时你将获得福祉。

3.91.13

तीर्तानि हि महाबाहो तपोविघ्नकरैः सदा ।
अनुकीर्णानि रक्षोभिस्तेभ्यो नस्त्रातुमर्हसि ॥ ३.९१.१३ ॥

大臂者啊,圣地常被扰乱苦行的罗刹所充斥;保护我们免受他们之害,是你的责任。

3.91.14

तीर्थान्युक्तानि धौम्येन नारदेन च धीमता ।
यान्युवाच च देवर्षिर्लोमशः सुमहातपाः ॥ ३.९१.१४ ॥

由达乌米亚与智者那罗陀所述的圣地,以及大苦行者天仙洛摩舍所说的圣地。

3.91.15

विधिवत्तानि सर्वाणि पर्यटस्व नराधिप ।
धूतपाप्मा सहास्माभिर्लोमशेनाबिपालितः ॥ ३.९१.१५ ॥

人主啊,依仪轨遍游这些圣地,洗去罪过,与我们同行,受洛摩舍守护。

3.91.16

स राजा पूज्यमानस्तैर्हर्षादश्रुपरिप्लुतः ।
भीमसेनादिभिर्वीरैर्भ्रातृभिः परिवारितः ॥ ३.९१.१६ ॥

那位国王受众仙人尊敬,喜极而泣,被以毗摩行为首的英勇兄弟们环绕。

3.91.17

बाढमित्यब्रवीत्सर्वांस्तानृषीन्पाण्डवर्षभः ।
लोमशं समनुज्ञाप्य धौम्यं चैव पुरोहितम् ॥ ३.९१.१७ ॥

般度族中的雄牛对诸位仙人说“好”,并获得洛摩舍和家祭司达乌米亚的允许。

3.91.18

ततः स पाण्डवश्रेष्ठो भ्रातृभिः सहितो वशी ।
द्रौपद्या चानवद्याङ्ग्या गमनाय मनो दधे ॥ ३.९१.१८ ॥

于是般度族最优秀者,克己自持,与诸兄弟及肢体无瑕的德劳帕迪同行,决意启程。

3.91.19

अथ व्यासो महाभागस्तथा पर्वतनारदौ ।
दाम्यके पाण्डवंद्रष्टुं समाजग्मुर्मनीषिणः ॥ ३.९१.१९ ॥

于是大福的毗耶娑,以及补罗婆多与那罗陀,智者们,共同前来在达密耶迦林中拜见般度五子。

3.91.20

तेषां युधिष्ठिरो राजा पूजां चक्रे यथाविधि ।
सत्कृतास्ते महाभागा युधिष्ठिरमथाब्रुवन् ॥ ३.९१.२० ॥

国王坚战依礼供奉他们。受到尊敬的那些大福者对坚战说道。

3.91.21

युधिष्ठिरयमौ भीम मनसा कुरुतार्जवम् ।
मनसा कृतशौचा वै शद्धास्तीर्थानि यास्यथ ॥ ३.९१.२१ ॥

坚战、双生子,和怖军,请以心存正直。以心清净而洁净,你们将前往圣渡处。

3.91.22

शरीरनियमं प्राहुर्ब्राह्मणा मानुषं व्रतम् ।
मनोविशुद्धां बुद्धिं च दैवमाहुर्व्रतं द्विजाः ॥ ३.९१.२२ ॥

婆罗门称身之戒律为人之誓愿;心中清净之智,二生者称之为天之誓愿。

3.91.23

मनो ह्यदुष्टं शौचाय पर्याप्तं वै नराधिप ।
मैत्रीं बुद्धिं समास्थाय शुद्धास्तीर्थानि गच्छत ॥ ३.९१.२३ ॥

人主啊,无染之心足以清净。持守慈善之智,清净地前往圣渡处吧。

3.91.24

ते यूयं मानसैः शुद्धाः शरीरनियमव्रतैः ।
दैवं व्रतं समास्थाय यथोक्तं फलमाप्स्यथ ॥ ३.९१.२४ ॥

你们都以心和身之戒律之誓愿而清净。持守天之誓愿,将如所说获得其果。

3.91.25

ते तथेति प्रतिज्ञाय कृष्णया सह पाण्डवाः ।
कृतस्वस्त्ययनाः सर्वे मुनिभिर्देवमानुषैः ॥ ३.९१.२५ ॥

他们说「就这样吧」,与黑公主一起,所有般度族人完成吉祥祝福的仪式,与仙人、天神和人类一起……

3.91.26

लोमशस्योपसंगृह्य पादौ द्वैपायनस् च ।
नारदस्य च राजेन्द्र देवर्षेः पर्वतस्य च ॥ ३.९१.२६ ॥

君王之主啊!他们抓住洛摩舍、二岛仙、那罗陀以及天仙帕尔瓦塔的双足……

3.91.27

धौम्येन सहिता वीरास्तथा तैर्वनवासिभिः ।
मार्गशीर्ष्यामतीतायां पुष्येण प्रययुस्ततः ॥ ३.९१.२७ ॥

与达乌米亚一同,那些英雄和那些林居者,在末伽尸沙月过后,于补沙星宿下启程。

3.91.28

कठिनानि समादाय चीराजिनजटाधराः ।
अभेद्यैः कवचैर्युक्तास्तीर्थान्यन्वचरंस्ततः ॥ ३.९१.२८ ॥

他们携带坚硬之物,身穿树皮衣、鹿皮,头戴结发,披着坚不可摧的铠甲,然后在圣渡口间游历。

3.91.29

इन्द्रसेनादिभिर्भृत्यै रथैः परिचतुर्दशैः ।
महानसव्यापृतैश्च तथाऽन्यैः परिचारकैः ॥ ३.९१.२९ ॥

与因陀罗塞那等仆人同行,随行约十四辆战车,还有厨房中的人员以及其他侍从……

3.91.30

सायुधा बद्धनिस्त्रिंशास्तूणवन्तः समार्गणाः ।
प्राङ्युखाः प्रययुर्वीराः पाण्डवा जनमेजय ॥ ३.९१.३० ॥

他们佩戴武器,系着利剑,携带箭囊和箭矢,面向东方,英勇的般度族人出发了,俱蓝婆闍耶啊。