摩诃婆罗多 · 章 3.93
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.93.1
ने तथा सहिता वीरा वसन्तस्तत्रतत्र ह ।
क्रमेण पृथिवीपाल नैमिषारण्यमागताः ॥ ३.९३.१ ॥
大地的守护者啊!那些英雄们一同辗转各处居住,依次来到了奈弥沙林。
3.93.2
तत्स्तीर्थेषु पुण्येषु गोमत्याः पाण्डवा नृप ।
कृताभिषेकाः प्रददुर्गाश्च वित्तं च भारत ॥ ३.९३.२ ॥
国王啊,婆罗多之子啊!般度五子在哥摩提河的圣洁渡口沐浴之后,布施了牛和财富。
3.93.3
तत्र देवान्पितॄन्विप्रांस्तर्पयित्वा पुनःपुनः ।
कन्यातीर्थेऽश्वतीर्थे च गवां तीर्थे च भारत ॥ ३.९३.३ ॥
在那里,他们一再向诸神、祖先和婆罗门供奉水祭,婆罗多啊,又在少女渡口、马渡口和牛渡口。
3.93.4
कालकोट्यां विपप्रस्थे गिरावुष्य च कौरवाः ।
बाहुदायां महीपाल चक्रुः सर्वेऽभिषेचनम् ॥ ३.९३.४ ॥
在迦罗苦提与毗普罗斯塔山上居住之后,大地的守护者啊,所有的俱卢子孙又在巴呼陀举行了灌顶沐浴。
3.93.5
प्रयागे देवयजने देवानां पृथिवीपते ।
ऊषुगप्लुत्य गात्राणि तपश्चातस्थुरुत्तमम् ॥ ३.९३.५ ॥
大地之主啊,他们住在普拉雅加,诸神的祭场上,将身体浸入水中,修行最高的苦行。
3.93.6
गङ्गायमुनयोश्चैव संगमे सत्यसंगराः ।
विपाप्मानो महात्मानो विप्रेभ्यः प्रददुर्वसु ॥ ३.९३.६ ॥
在恒河与阎牟那河的汇合处,守信的、无罪的、伟大的般度五子把财富布施给婆罗门。
3.93.7
तपस्विजनजुष्टां च ततो वेदीं प्रजापतेः ।
जग्मुः पाण्डुसुता राजन्ब्राह्मणैः सह भारत ॥ ३.९३.७ ॥
王啊,婆罗多的后裔,然后般杜之子与婆罗门一同前往受苦行者敬仰的生主祭坛。
3.93.8
तत्र ते न्यवसन्वीरास्तपश्चातस्थुरुत्तमम् ।
संतर्पयन्तः सततं वन्येन हविषा द्विजान् ॥ ३.९३.८ ॥
那些英雄住在那里,修习至高苦行,以林中的供物不断供养再生者。
3.93.9
ततो महीधरं जग्मुर्धर्मज्ञेनाभिसत्कृतम् ।
राजर्षिणा पुण्यकृता गयेनानुपमद्युते ॥ ३.९३.९ ॥
于是他们前往那座由知法、行善的王仙伽耶所尊敬的山,啊,光辉无比的人。
3.93.10
नगो गयशिरो यत्र पुण्या चैव महानदी ।
वानीरमालिनी रम्या नदी पुलिनशोभिता ॥ ३.९३.१० ॥
那便是伽耶湿利沙山,那里有圣洁的大河,装饰着伐尼罗树,是一条以沙滩为饰的可爱河流。
3.93.11
दिव्यं पवित्रकूटं च पवित्रधरणीधरम् ।
ऋषिजुष्टं सुपुण्यं तत्तीर्थं ब्रह्मसरोतुलम् ॥ ३.९३.११ ॥
那神圣的洁净山峰,承载着清净的大地,为仙人所往,极其神圣,这圣渡之处与梵天之湖相等。
3.93.12
अगस्त्यो भगवान्यत्र गतो वैवस्वतं प्रति ।
रउवास च स्वयं तत्र धर्मराजः सनातनः ॥ ३.९३.१२ ॥
尊贵的阿伽斯提耶曾前往毗婆娑多(阎摩)处,永恒的法王亲自就住在那里。
3.93.13
सर्वासां सरितां चैव समुद्भेदो विशांपते ।
यत्रसंनिहितो नित्यं महादेवः पिनाकधृक् ॥ ३.९३.१३ ॥
人主啊,那里是一切河流的源头,持弓的大天神摩訶提婆常驻于此。
3.93.14
परिपूर्णः परंज्योतिः परमात्मा सनातनः ।
ब्रह्मादिभिरुपास्योऽयं भगवान्परमेश्वरः ॥ ३.९३.१४ ॥
此神圆满无缺,乃至上之光、永恒之最高我,尊贵的至高主,为梵天等所崇拜。
3.93.15
तं प्रणम्य महादेवं चतुर्वर्गफलप्रदम् ।
रसिद्धिक्षेत्रमिदं मत्वासर्वेषांमोक्षकाङ्क्षिणाम् ॥ ३.९३.१५ ॥
向那赐予四大人生目标之果的摩訶提婆致敬之后,视此地为所有求解脱者的成就之地。
3.93.16
तत्र ते पाण्डवा वीराश्चातुर्मास्यैस्तदेजिरे ।
ऋषियज्ञेन महता यत्राक्षयवटो महान्।
अक्षये देवयजने अक्षयं यत्रवै फलम् ॥ ३.९३.१६ ॥
英勇的般度诸子在那里以四个月的誓戒与大仙人祭祀完成了此事。那里有一棵大不坏榕树;在不坏的天神祭场,果报也是不坏的。
3.93.17
ये तु तत्रोपवासांस्तु चक्रुर्निश्चितमानसाः ।
ब्राह्मणास्तत्रशतशः समाजग्मुस्तपोधनाः ॥ ३.९३.१७ ॥
那些意志坚定、在彼处持斋的人,以及以苦行为财富的数百婆罗门,都聚集到了那里。
3.93.18
चातुर्मास्येनायजन्त आर्षेण विधिना तदा ।
तत्र विद्यातपोवृद्धा ब्राह्मणा वेदपारगाः।
कथां प्रचक्रिरे पुण्यां सदसिस्था महात्मनाम् ॥ ३.९३.१८ ॥
于是在那里依仙人之仪完成了四个月的祭祀;有学识与苦行的长者、精通吠陀的婆罗门,坐于集会中,开始讲述大心者的圣善故事。
3.93.19
तत्र विद्याव्रतस्नातः कौमारं व्रतमास्थितः ।
शमठोऽकथयद्राजन्नाधूर्तरजसं गयम् ॥ ३.९३.१९ ॥
彼处,沐浴于学问之誓、安住于童年之誓的沙摩陀,王啊,讲述了阿度尔塔罗遮斯之子伽耶。
3.93.20
आधूर्तरजसः पुत्रो गयो राजर्षिसत्तमः ।
पुण्यानि तस्य कर्माणि तानि मे शृणु भारत ॥ ३.९३.२० ॥
阿度尔塔罗遮斯之子伽耶,王仙中最优秀者。婆罗多啊,请听我讲他的功德之业。
3.93.21
यस्य यज्ञो बभूवेह बह्वन्नो बहुदक्षिणः ।
यत्रान्नपर्वता राजञ्शतशोऽथ सहस्रशः ॥ ३.९३.२१ ॥
此处举行了一场大量供食、大量布施的祭祀,王啊,那里有成百上千座食物之山。
3.93.22
घृतकुल्याश्च दध्नश्च नद्यो बहुशतास्तथा ।
व्यञ्जनानां प्रवाहाश्च महार्हाणां सहस्रशः ॥ ३.९३.२२ ॥
有酥油之渠,有酸奶之河成百上千,还有成千上万股珍贵佳肴之流。
3.93.23
अहन्यहनि चाप्येवं याचतां संप्रदीयते ।
अन्ये च ब्राह्मणा राजन्भुञ्जतेऽन्नं सुसंस्कृतम् ॥ ३.९३.२३ ॥
如此,每日施予前来乞求者;王啊,其他婆罗门也食用烹调精美的食物。
3.93.24
तत्र वै दक्षिणाकाले ब्रह्मघोषो दिवं गतः ।
न च प्रज्ञायते किंचिद्ब्रह्मशब्देन भारत ॥ ३.९३.२४ ॥
彼处,在布施之时,吠陀之声升天而去;婆罗多啊,如今“梵”一词已无所指。
3.93.25
पुण्येन चरता राजन्भूर्दिशः खं नभस्तथा ।
आपूर्णमासीच्छब्देन तदप्यासीन्महाद्भुतम् ॥ ३.९३.२५ ॥
国王啊,由于行功德者的功德,大地、四方、天空与虚空都充满了声音;那也是一件大奇迹。
3.93.26
यत्रस्म गाथा गायन्ति मनुष्या मरतर्षभ ।
अन्नपानैः शुभैस्तृप्ता देशे देशे सुवर्चसः ॥ ३.९३.२६ ॥
摩录多中的最优者啊,人们在那里歌咏此事之诗偈,以美好的饮食得到满足,在各地都光彩焕发。
3.93.27
गयस्य यज्ञे के त्वद्य प्राणिनो भोक्तुमीप्सवः ।
तत्र भोजनशिष्टस्य पर्वताः पञ्चविंशतिः ॥ ३.९३.२७ ॥
在伽耶的祭祀中,今日有哪些众生想要进食呢?那里剩余的食物堆成了二十五座山。
3.93.28
न तत्पूर्वे जनाश्चक्रुर्न करिष्यन्ति चापरे ।
गयो यदकरोद्यज्ञे राजर्षिरमितद्युतिः ॥ ३.९३.२८ ॥
无量光明的王仙伽耶在祭祀中所做之事,前人未曾做过,后人也不会做。
3.93.29
कथं तु देवा हविषा गयेन परितर्पिताः ।
पुन शक्ष्यन्त्युपादातुमन्यैर्दत्तानि कानिचित् ॥ ३.९३.२९ ॥
诸天既已被伽耶的供品完全满足,又怎能再接受别人所施的一些供品呢?
3.93.30
सिकता वा यथा लोके यथा वा दिवि तारकाः ।
यथा वा वर्षतोधारा असंख्येयाः स्म केनचित्।
तथा गणयितुं शक्या गययज्ञे न दक्षिणाः ॥ ३.९३.३० ॥
如世间的沙粒、天上的星辰,或降雨的水滴,无数而无人能数尽,伽耶祭祀中的布施也同样无法计算。
3.93.31
एवंविधाः सुबहवस्तस्य यज्ञा महीपतेः ।
बभूवुरस्य सरसः समीपे कुरुनन्दन ॥ ३.९३.३१ ॥
库禄之子啊,那位君主如此众多的祭祀曾在此湖附近举行。