摩诃婆罗多 · 章 3.96
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.96.1
ततो जगाम कौरव्य सोऽगस्त्यो भिक्षितुं वसु ।
श्रुतर्वाणं महीपालं यं वेदाभ्यधिकं नृपैः ॥ ३.९६.१ ॥
于是,库鲁的后裔啊,阿伽斯提耶前往向国王室鲁多尔瓦求取财富;此王在吠陀知识上超过其他诸王。
3.96.2
स विदित्वा तु नृपतिः कुम्भयोनिमुपागतम् ।
विषयान्ते सहामात्यः प्रत्यगृह्णात्सुसत्कृतम् ॥ ३.९६.२ ॥
国王得知瓶中所生的阿伽斯提耶已到达他国境边界,便与大臣们一同以极隆重的礼节迎接了他。
3.96.3
तस्मै चार्घ्यं थान्यायमानीय पृथिवीपतिः ।
प्राञ्जलिः प्रयतो भूत्वापप्रच्छागमनेऽर्थिताम् ॥ ३.९६.३ ॥
大地之主为他奉上敬礼的供品,合掌恭敬地站立,询问他前来所求何事。
3.96.4
वित्तार्थिनमनुप्राप्तं विद्धि मां पृथिवीपते ।
थाशक्त्यविहिंस्यान्यान्संविभागं प्रयच्छ मे ॥ ३.९६.४ ॥
地之主啊,请知道我是为求财富而来的。不伤害他人,按你的能力,给我一份吧。
3.96.5
तत आयव्ययौ पूर्णो तस्मै राजा न्यवेदयत् ।
अतो विद्वन्नुपादत्स्व यदत्रव्यतिरिच्यते ॥ ३.९६.५ ॥
于是国王向他详细报告了收支的全部账目。所以,博学者啊,请取走这里剩余的部分吧。
3.96.6
तत आयव्ययौ दृष्ट्वा समौ सममतिर्द्विजः ।
सर्वथा प्राणिनां पीडामुपादानादमन्यत ॥ ३.९६.६ ॥
于是这位婆罗门见收支相等,心怀平等,便想到:无论以何种方式伤害众生而取得财物,都是不当的。
3.96.7
स श्रुतर्वाणमादाय ब्रध्नश्वमगमत्ततः ।
स च तौ विषयस्यान्ते प्रत्यगृह्णाद्यथाविधि ॥ ३.९६.७ ॥
他带着室鲁多尔瓦前往布罗德纳什瓦。在王国边境,国王依礼接待了他们二人。
3.96.8
तयोरर्ध्यं च पाद्यं च ब्रध्नश्वः प्रत्यवेदयत् ।
अनुज्ञाप्यच पप्रच्छ प्रयोजनमुपक्रमे।
वद कामं मुनिश्रेष्ठ धन्योस्म्यागमनेन ते ॥ ३.९६.८ ॥
布罗德纳什瓦向他们奉上敬水与洗足水。征得同意后,他一开始便问道:“最优秀的仙人,请说出您的心愿吧。您的到来使我感到有福。”
3.96.9
वित्तकामाविह प्राप्तौ विद्ध्यावां पृथिवीपते ।
यथाशक्त्यविहिंस्यान्यान्संविभागं प्रयच्छ नौ ॥ ३.९६.९ ॥
地上之主,请知道我们二人是为求财富而来。请不伤害他人,依你的能力给予我们应得的一份。
3.96.10
तत आयव्ययौ पूर्णौ ताभ्यां राजा न्यवेदयत् ।
अतो ज्ञात्वा तु गृह्णीतं यदत्रव्यतिरिच्यते ॥ ३.९६.१० ॥
于是国王将收入与支出全部告知二人。因此,你们知晓之后,便取走这里剩余的部分。
3.96.11
तत आयव्ययौ दृष्ट्वासमौ सममतिर्द्विजः ।
सर्वथा प्राणिनां पीडामुपादानादमन्यत ॥ ३.९६.११ ॥
看到收入与支出相等,心境平等的婆罗门想到,取走财富会在各方面给众生带来痛苦。
3.96.12
पौरुकुत्सं ततो जग्मुस्त्रसदस्युं महाधनम् ।
अगस्त्यश्च श्रुतर्वा च ब्रध्नश्वश्च महीपतिः ॥ ३.९६.१२ ॥
于是他们前往富有的补茹库特萨之子特拉萨达斯尤。阿伽斯提耶、室鲁多尔瓦和国王布罗德纳什瓦也一同前往。
3.96.13
त्रसदस्युस्तु तान्दृष्ट्वा प्रत्यगृह्णाद्यथाविधि ।
अभिगम्य महाराज विषयान्ते महामनाः ॥ ३.९६.१३ ॥
特拉萨达修见到他们,依法接待了他们。大王啊,他在国境上迎接,这位宽宏的国王如此行事。
3.96.14
अर्चयित्वा यथान्यायमैक्ष्वाको राजसत्तमः ।
समस्तांश्च ततोऽपच्छत्प्रयोजनमुपक्रमे ॥ ३.९६.१४ ॥
他依礼敬待了他们,然后这位伊克什瓦库王中的最优者一开始就向他们所有人询问来意。
3.96.15
वित्तकामानिह प्राप्तान्विद्धि नः पृथिवीपते ।
यथाशक्त्यवीहिंस्यान्यान्संविभागं प्रयच्छ नः ॥ ३.९६.१५ ॥
地上之主啊,请知道我们是为求财而来。依你的力量,不伤害他人,把我们应得的一份给我们吧。
3.96.16
तत आयव्ययौ पूर्णौ तेषां राजा न्यवेदयत् ।
एतज्ज्ञात्वा ह्युपादद्ध्वं यदत्रव्यतिरिच्यते ॥ ३.९६.१६ ॥
于是国王把他收入与支出的完整账目告诉了他们。既已知道这些,你们就取走这里剩余的部分吧。
3.96.17
तत आयव्ययौ दृष्ट्वासमौ सममतिर्द्विजः ।
सर्वथा प्राणिनां पीडामुपादानादमन्यत ॥ ३.९६.१७ ॥
于是这位心平如一的婆罗门看到收支相等,便认为这样的索取在各方面都会给众生带来伤害,是不可取的。
3.96.18
ततः सर्वे समेत्याथ ते नृपास्तं महामुनिम् ।
इदमूचुर्महाराज समवेक्ष्य परस्परम् ॥ ३.९६.१८ ॥
于是那些国王都聚集到那位大仙面前,大王啊,他们彼此看了看,对他说了这些话。
3.96.19
अयं वै दानवो ब्रह्मन्निल्वलो वसुमान्भुवि ।
तमतिक्रम्य सर्वेऽद्यवयं चार्तामहे वसु ॥ ३.९६.१९ ॥
婆罗门啊,这位檀那婆伊尔瓦拉在大地上富有。今日我们都应越过他,去求取财富。
3.96.20
तेषां तदासीदुचितमिल्वलस्यैव भिक्षणम् ।
ततस्ते सहिता राजन्निल्वलं समुपाद्रवन् ॥ ३.९६.२० ॥
他们认为向伊尔瓦拉本人乞求才是合适的。于是,大王啊,他们一同向伊尔瓦拉奔去。