Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.97

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.97.1

इल्वलस्तान्विदित्वा तु महर्षिसहितान्नृपान् ।
उपस्थितान्सहामात्यो विषयान्ते ह्यपूजयत् ॥ ३.९७.१ ॥

伊尔瓦罗认出了他们——那些与大仙同来、抵达边境的诸王,便与大臣们一同款待了他们。

3.97.2

तेषां ततोऽसुरश्रेष्ठस्त्वातिथ्यमकरोत्तदा ।
सुसंस्कृतेन कौरव्य भ्रात्रा वातापिना तदा ॥ ३.९७.२ ॥

于是阿修罗中的至尊,啊,俱卢后裔,在那时以其兄弟伐多毗所精心准备的食物款待了他们。

3.97.3

ततो राजर्षयः सर्वे विषण्णा गतचेतसः ।
वातापिं संस्कृतं दृष्ट्वा मेषभूतं महासुरम् ॥ ३.९७.३ ॥

于是所有王仙都沮丧心乱,看到伐多毗——那位大阿修罗——被烹煮并化为一只公羊。

3.97.4

अथाब्रवीदगस्त्यस्तान्राजर्षीनृषिसत्तमः ।
विषादो वो न कर्तव्यो ह्यहं भोक्ष्ये महासुरम् ॥ ३.९७.४ ॥

于是最优秀的仙人阿伽斯蒂亚对那些王仙说:你们不应沮丧;我自己会吃掉这位大阿修罗。

3.97.5

धुर्यासनमथासाद्य निषसाद महानृषिः ।
तं पर्यवेषद्दैत्येन्द्र इल्वलः प्रहसन्निव ॥ ३.९७.५ ॥

大仙得到尊位而坐下;达伊提亚之王伊尔瓦拉仿佛含笑地为他布菜。

3.97.6

अगस्त्य एव कृत्स्नं तु वातापिं बुभुजे ततः ।
बह्वन्नाशापि ते मेऽस्तीत्यवदद्भक्षयन्स्वयम् ॥ ३.९७.६ ॥

阿伽斯蒂亚独自吃尽了整个伐多毗;他一边吃一边说:“我这里还有许多食物供你们享用。”

3.97.7

भुक्तवत्यसुरोऽह्वानमकरोत्तस्य चेल्वलः ।
वातापे प्रतिबुध्यस्व दर्शयन्बलतेजसी।
तपसा दुर्जयो यावदेष त्वां नातिवर्तते ॥ ३.९७.७ ॥

他吃完后,阿修罗伊尔瓦拉做了召唤他的手势。筏多毗啊,醒来吧,展示你的力量与光辉,趁这位以苦行不可战胜的人还未胜过你。

3.97.8

ततस्तस्योदरं भेत्तुं वातापिर्वेगमाहरत् ।
तमबुध्यत तेजस्वी कुम्भयोनिर्महातपाः ॥ ३.९७.८ ॥

于是筏多毗为了撕裂他的腹部,全力发动冲击;光辉的大苦行者——生于瓶中者——察觉了这一点。

3.97.9

स वीर्यात्तपसोग्रस्तु ननर्द भगवानृषिः ।
एष जीर्णोसि वातापे मया लोकस्य शान्तये ॥ ३.९७.९ ॥

于是这位有福的圣者以苦行的力量与猛烈,怒吼道:筏多毗啊,你已被我消化;此乃为世界的安宁。

3.97.10

इत्युक्त्वा स्वकराग्रेण उदरं समताडयत् ।
त्रिरेवं प्रतिसंरब्धस्तेजसा प्रज्वलन्निव ॥ ३.९७.१० ॥

说完,他用手指尖击打他的腹部;如此三次,以回应的愤怒,光芒如同燃烧一般。

3.97.11

ततो वायुः प्रादुरभूदधस्तस्य महात्मनः ।
शब्देन महता तात गर्जन्निव यथा घनः ॥ ३.९७.११ ॥

于是从那位大心者之下生起一阵风,亲爱的,发出巨大的声音,如同雷鸣的云。

3.97.12

वातापे निष्क्रमस्वेति पुनः पुनरुवाच ह ।
तं प्रहस्याब्रवीद्राजन्नगस्त्यो मुनिसत्तमः।
कुतो निष्क्रमितुं शक्तो मया जीर्णस्तु सोसुरः ॥ ३.९७.१२ ॥

“筏多毗啊,出来吧!”他一遍又一遍地喊。于是最优秀的圣者阿伽斯提耶笑着对他说,国王啊:被我消化的那个阿修罗,怎能出来呢?

3.97.13

इल्वलस्तु विषण्णोऽभूद्दृष्ट्वा जीर्णं महासुरम् ।
प्राञ्जलिश्च सहामात्यैरिदं वचनमब्रवीत्।
किमर्थमुपयाताः स्थ ब्रूत किं करवाणि वः ॥ ३.९७.१३ ॥

伊尔瓦拉见那伟大的阿修罗已被消化,便十分沮丧。随后他与大臣们合掌,说出这些话:“你们为何而来?请说,我该为你们做什么?”

3.97.14

प्रत्युवाच ततोऽगस्त्यः प्रहसन्निल्वलं तदा ।
ईशोस्यसुर विद्मस्त्वां वयं सर्वे धनेश्वरम् ॥ ३.९७.१४ ॥

于是阿伽斯蒂亚笑着回答伊尔瓦拉:“阿修罗啊,你是财富之主,我们都知道。”

3.97.15

एते च नातिधनिनो धनाशा महती मम ।
यथाशक्त्यविहिंस्यान्यान्संविभागं प्रयच्छ नः ॥ ३.९७.१५ ॥

“这些人并不富有,而我对财富的渴望很大。请按你的能力,在不伤害他人的前提下,给我们一份。”

3.97.16

ततोऽवमत्य तमृषिमिल्वलो वाक्यमब्रवीत् ।
दित्सितं यदि वेत्सि त्वंततो दास्यामि ते वसु ॥ ३.९७.१६ ॥

于是伊尔瓦拉轻视那位仙人,说出这些话:“如果你知道我想要给予什么,我就给你财富。”

3.97.17

गवां दशसहस्राणि राज्ञामेकैकशोऽसुर ।
तावदेव सुवर्णस्य दित्सितं ते महासुर ॥ ३.९७.१७ ॥

“阿修罗啊,每位国王一万头牛,以及同样多的黄金——这就是我想给你的,伟大的阿修罗啊。”

3.97.18

मह्यं ततो वै द्विगुणं रथश्चैव हिरण्मयः ।
मनोजवौ वाजिनौ च दित्सितं ते महासुर ॥ ३.९७.१८ ॥

“然后,给我的是这个的两倍——一辆金色的战车,以及两匹快如思想的马——这些我也想给你,伟大的阿修罗啊。”

3.97.19

उल्वलस्तु मुनिं प्राह सर्वमस्ति यथाऽऽत्थ माम् ।
सर्वमेतत्प्रदास्यामि हिरण्यं गाश्च यद्धनम्।
रथं तु यदवोचो मां नैतं विद्म हिरण्मयम् ॥ ३.९७.१९ ॥

于是伊尔瓦拉对仙人说:“你所说的一切我都有。这些黄金、牛群和财富,我都会给你。但你提到的那辆金车,我并不知道。”

3.97.20

न मे वागनृता काचिदुक्तपूर्वा महाऽसुर ।
विज्ञायतां रथः साधु व्यक्तमस्ति हिरण्मयः ॥ ३.९७.२० ॥

阿伽斯提耶说:“伟大的阿修罗啊,我的话从未有过虚假。你要清楚地知道,这辆车确实是黄金的。”

3.97.21

विज्ञायमानः स रथः कौन्तेयासीद्धिरण्मयः ।
ततः प्रव्यथितो दैत्यो ददावभ्यधिकं वसु ॥ ३.९७.२१ ॥

当那辆车被认出时,它果然是金色的。于是达伊提亚懊恼不已,便又给出了更多的财富。

3.97.22

विवाजी च सुवाजी च तस्मिन्युक्तौ रथे हयौ ।
ऊहतुः स वसूनाशु तावगस्त्याश्रमं प्रति।
सर्वान्राज्ञः सहागस्त्यान्निमेषादिव भारत ॥ ३.९७.२२ ॥

维瓦吉与苏瓦吉这两匹马套在那辆车上,迅速将财富运往阿伽斯提耶的修行处。婆罗多啊,所有国王与阿伽斯提耶在一瞬间便到达了那里。

3.97.23

इल्वलस्त्वनुगम्यैनमगस्त्यं हन्तुमैच्छत ।
भस्म चक्रे महातेजा हुङ्कारेण महाऽसुरम् ॥ ३.९७.२३ ॥

然而伊尔瓦拉追随而来,想要杀害阿伽斯提耶。大光明的阿伽斯提耶以一声“呼嗡”将这位大阿修罗化为灰烬。

3.97.24

अगस्त्येनाभ्यनुज्ञाता जग्मू राजर्षयस्तदा ।
कृतवांश् मुनिः सर्वं लोपामुद्राचिकीर्षितम् ॥ ३.९७.२४ ॥

得到阿伽斯提耶的允许后,王仙们便离去了。仙人已做完了洛帕穆德拉所希望的一切。

3.97.25

कृतवानसि तत्सर्वं भगवन्मम काङ्क्षितम् ।
उत्पादय सकृन्मह्यमपत्यं वीर्यवत्तरम् ॥ ३.९७.२५ ॥

尊贵的圣人啊,您已成全了我所有的心愿。请赐我一次一个最有力量的子嗣吧。

3.97.26

तुष्टोऽहमस्मि कल्याणि तव वृत्तेन शोभने ।
विचारणामपत्ये तु तव वक्ष्यामि तां शृणु ॥ ३.९७.२६ ॥

善良而光彩的女子啊,我因你的品行而欣喜。请听我关于子嗣的考虑。

3.97.27

सहस्रं तेऽस्तु पुत्राणआं शतं वा तत्समं तव ।
दश वा शततुल्याः स्युरेको वाऽपि सहस्रजित् ॥ ३.९७.२७ ॥

愿你有一千个儿子,或一百个,或与之相当的;或十个相当于一百个的,或一个能战胜千人的。

3.97.28

सहस्रसंमितः पुत्र एकोप्यस्तु तपोधन ।
एको हि बहुभिः श्रेयान्विद्वान्साधुरसाधुभिः ॥ ३.९७.२८ ॥

苦行的宝藏啊,愿有一个等同千人的儿子。因为一个博学而善良的儿子,胜过许多不善之人。

3.97.29

स तथेति प्रतिज्ञाय तया समगमन्मुनिः ।
समये समशीलिन्या श्रद्धावान्श्रद्दधानया ॥ ३.९७.२९ ॥

那位圣人说“就这样吧”,许下诺言后,在适当的时候与她结合。她性情相投,虔诚而信任。

3.97.30

तत आधाय गर्भं तमगमद्वनमेव सः ।
तस्मिन्वनगते गर्भो ववृधे सप्त शारदान् ॥ ३.९७.३० ॥

于是他使她怀孕,便回到了森林。他去森林之后,胎儿在她腹中长了七个秋天。

3.97.31

सप्तमेऽब्दे गते चापि प्राच्यवत्स महाकविः ।
ज्वलन्निव प्रभावेन दृढस्युर्नाम भारत ॥ ३.९७.३१ ॥

第七年过去之后,大仙人普拉奇亚瓦特萨(Prācyavatsa)仿佛因其威力而光芒闪耀,名为坚固自(Dṛḍhasyu),婆罗多啊。

3.97.32

साङ्गोपनिषदान्वेदाञ्जपन्नेव महातपाः ।
तस्य पुत्रोऽभवदृषेः स तेजस्वी महानृषिः ॥ ३.९७.३२ ॥

这位大苦行者诵读吠陀及其支分与奥义书,他的儿子便是那位光辉的大仙人。

3.97.33

स बाल एवतेजस्वी पितुस्तस्य निवेशने ।
इध्मानां भारमाजह्रे इध्मवाहस्ततोऽभवत् ॥ ३.९७.३३ ॥

那孩子也光辉照人;他在父亲的居所中背负柴薪,因此名为柴薪搬运者(Idhmavāha)。

3.97.34

तथायुक्तं तु तं दृष्ट्वा मुमुदे स मुनिस्तदा ।
एवं स जनयामास भारतापत्यमुत्तमम्।
लेभिरे पितरश्चास्य लोकान्राजन्यथेप्सितान् ॥ ३.९७.३४ ॥

看到他如此勤勉,那位仙人当时感到欢喜。他就这样生育了婆罗多族的优秀子嗣;大王啊,他的祖先获得了他们所希望的诸界。

3.97.35

अगस्त्यस्याश्रमश्चायमत ऊर्ध्वं विशांपते ।
ख्यातो भुवि महाराज तेजसा तस्य धीमतः ॥ ३.९७.३५ ॥

从那以后,这座修行处也属于阿伽斯提耶,因那位智者的威光,它在大地上闻名,人主啊,大王。

3.97.36

प्राह्लादिरेवं वातापिर्ब्रह्मघ्नो दुष्टचेतनः ।
एवं विनाशितो राजन्नगस्त्येन महात्मना।
तस्यायमाश्रमो राजन्रमणीयैर्गुणैर्युतः ॥ ३.९७.३६ ॥

这样,普拉赫拉达之子瓦塔皮,一个心怀恶念的杀害婆罗门者,大王,被伟大的阿伽斯提耶所消灭。大王啊,这座属于他的修行处,具备令人喜悦的美德。

3.97.37

एषा भागीरथी पुण्या देवगन्धर्वसेविता ।
वातेरिता पताकेव विराजति नभस्तले ॥ ३.९७.३७ ॥

这条被诸天神与乾闼婆侍奉的神圣的婆吉罗提河,如风中飘扬的旗帜,在天空中闪耀。

3.97.38

प्रतार्यमाणा कूटेषु यथा निम्नेषु नित्यशः ।
शिलातलेषु संत्रस्ता पन्नगेन्द्रवधूरिव ॥ ३.९७.३८ ॥

如蛇王的妻子,不断被拖曳过峰峦与低谷,在岩石之上惊惶不安。

3.97.39

दक्षिणां वै दिशं सर्वां प्लावयन्ती च मातृवत् ।
पूर्वं शंभोर्जटाभ्रष्टा समुद्रमहिषी प्रिया।
अस्यां नद्यां मुपुण्यायां यथेष्टमवगाह्यताम् ॥ ३.९७.३९ ॥

这条河如母亲般浸润整个南方,它昔日从湿婆(商布)的发髻间坠落,是大海心爱的妻子。你们可以随意在这条最为神圣的河中沐浴。