摩诃婆罗多 · 章 3.98
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.98.1
युधिष्ठिर निबोधेदं त्रिषु लोकेषु विश्रुतम् ।
भृगोस्तीर्थं महाराज महर्षिगणसेवितम् ॥ ३.९८.१ ॥
坚战啊,请听这位婆利古的圣渡口,它名闻三界,大王,为众多大仙人所常驻。
3.98.2
यत्रोपस्पृष्टवान्रामो हृतंतेजस्तदाप्तवान् ।
अत्र त्वंभ्रातृभिः सार्धं कृष्णया चैव पाण्डव ॥ ३.९८.२ ॥
罗摩曾在此沐浴,夺回了被夺走的光辉——般度之子啊,你now与兄弟们和黑天女在此处。
3.98.3
दुर्योधनहृतंतेजः पुनरादातुमर्हसि ।
कृतवैरेण रामेण यथा कचोपहृतं पुनः ॥ ३.९८.३ ॥
被难敌夺去的光辉,你应当再次夺回,正如怀有仇恨的罗摩夺回了被迦恰所夺的一样。
3.98.4
स तत्रभ्रातृभिश्चैव कृष्णया चैव पाण्डवः ।
स्नात्वा देवान्पितॄंश्चैव तर्पयामास भारत ॥ ३.९८.४ ॥
那位般度之子与兄弟们及黑天女在那里沐浴后,以献祭之水供养诸神与祖先,婆罗多啊。
3.98.5
तस्य तीर्थस्य रूपं वै दीप्ताद्दीप्ततरं बभौ ।
अप्रवृष्यतरश्चासीच्छात्रवाणां नरर्षभ ॥ ३.९८.५ ॥
那圣渡口的形貌光辉胜过原本的光明;它对敌人也变得更加难以侵犯,人中之雄啊。
3.98.6
अपृच्छच्चैव राजेन्द्र लोमशं पाण्डुनन्दनः ।
भगवन्किमर्थं रामस्य हृतमासीद्वपुः प्रभो।
कथं प्रत्याहृतंचैव एतदाचक्ष्व पृच्छतः ॥ ३.९८.६ ॥
王中之王啊,般度之子问罗摩夏道:「尊者,主啊,罗摩的身体(光辉)因何缘故被夺去?又是如何被夺回的?请告诉我这个提问者。」
3.98.7
शृणु रामस्य राजेन्द्र भार्गवस्य च धीमतः ।
जातो दशरथस्यासीत्पुत्रो रामो महात्मनः ॥ ३.९८.७ ॥
王中之王啊,请听婆利古之后罗摩与智者罗摩的故事。伟大的十车王之子罗摩降生了。
3.98.8
विष्णुः स्वेन शरीरेण रावणस्य वधाय वै ।
पश्यामस्तमयोध्यायां जातं दाशरथिं ततः ॥ ३.९८.८ ॥
毗湿奴以自身之躯,为杀罗婆那,在阿逾陀降生为十车王之子;我们亲眼见到了。
3.98.9
ऋचीकनन्दनो राभो भार्गवो रेणुकासुतः ।
तस् दाशरथेः श्रुत्वा ररामस्याक्लिष्टकर्मणः ॥ ३.९८.९ ॥
婆利古后裔罗摩,乃利基之子、雷努卡之子,听闻十车王之子罗摩的事迹,其功业不知疲倦。
3.98.10
कौतूहलान्वितो रामस्त्वयोध्यामगमत्पुनः ।
जिज्ञासमानो रामस्य वीर्यं दाशरथेस्तदा ॥ ३.९८.१० ॥
罗摩心怀好奇,再次前往阿逾陀,想要了解十车王之子罗摩的勇力。
3.98.11
तं वै दशरथः श्रुत्वा वियान्तमुपागतम् ।
प्रेषयामास रामस्य रामं पुत्रं पुरस्कृतम् ॥ ३.९८.११ ॥
十车王听闻他已到来,便派遣自己的儿子罗摩走在前面迎接他。
3.98.12
स तमभ्यागतं दृष्ट्वा उद्यतास्त्रमवस्थितम् ।
प्रहसन्निव कोन्तेय रामो वचनमब्रवीत् ॥ ३.९८.१२ ॥
贡蒂之子啊,罗摩见他已到来,手持举起的兵器站立,便仿佛微笑着说出了这些话。
3.98.13
कृतकालं हि राजेन्द्र धनुरेतन्मया विभो ।
समारोपय यत्नेन यदि शक्नोषि पार्तिव ॥ ३.९८.१३ ॥
王中之王啊,此弓由我定下期限。大能者啊,国王啊,若你能够,便用力将弦拉上。
3.98.14
इत्युक्तस्त्वाह भगवंस्त्वं नाधिक्षेप्तुमर्हसि ।
नाहमप्यधमो धर्मे क्षत्रियाणां द्विजातिषु।
इश्र्वाकूणां विशेषेण बाहुवीर्ये न कत्थनम् ॥ ३.९८.१४ ॥
被如此说后,他道:尊者啊,你不该羞辱我。我在法上并不低于刹帝利与再生者,尤其是甘蔗王族;我也不会夸耀臂膀的勇力。
3.98.15
तमेवं वादिनं तत्र रामो वचनमब्रवीत् ।
अलं वै व्यपदेशेन धनुरायच्छ राघव ॥ ३.९८.१५ ॥
那里,对如此说话的人,罗摩说:够了,空言自称有何用?罗怙之裔啊,把弓拿来。
3.98.16
ततो जग्राह रोषेण क्षत्रियर्षभमूदनम् ।
रामो दाशरथिर्दिव्यं हस्ताद्रामस्य कार्मुकम् ॥ ३.९८.१६ ॥
于是怒气中,十车王之子罗摩——刹帝利中的雄牛,敌人的毁灭者——从罗摩(持斧罗摩)手中夺取了那张神弓。
3.98.17
धनुरारोपयामास सलील इव भारत ।
ज्याशब्दमकरोच्चैव स्मयमानः स वीर्यवान्।
तस्य शब्दस् भूतानि वित्रसन्त्यशनेरिव ॥ ३.९८.१७ ॥
婆罗多之子啊,他仿佛游戏般将那弓张开。强者面带微笑拨响弦声,众生因那声音如遭雷击般惊恐。
3.98.18
अथाब्रवीत्तदा रामो रामं दाशरथिस्तदा ।
इदमारोपितं ब्र्हमन्किमन्यत्करवाणि ते ॥ ३.९८.१८ ॥
那时十车王之子罗摩对罗摩说:婆罗门啊,此弓已经张开。我还能为你做什么?
3.98.19
तस्य रामो ददौ दिव्यं जामदग्न्यो महात्मनः ।
शरमाकर्णदेशान्तमयमाकृष्यतामिति ॥ ३.९८.१९ ॥
罗摩把一支神箭交给那位伟大的甘玛达格尼之子,说:“把它拉到耳边。”
3.98.20
एतच्छ्रुत्वाऽब्रवीद्रामः प्रदीप्त इव मन्युना ।
श्रूयते क्षम्यते चैव दर्पपूर्णोसि भार्गव ॥ ३.९८.२० ॥
罗摩听后,仿佛怒火燃烧,说:“婆利gava,你充满傲慢;(你的名字)被听到,也被宽恕。”
3.98.21
त्वया ह्यधिगतं तेजः क्षत्रियेभ्यो विशेषतः ।
पितामहप्रसादेन तेन मां क्षिपसि ध्रुवम्।
पश्य मां स्वेन रूपेण चक्षुस्ते वितराम्यहम् ॥ ३.९८.२१ ॥
你从刹帝利那里获得了这股力量,尤其是凭借祖父的恩惠;正是凭借这力量,你必定向我投掷。请以我自己的形象看着我;我赐予你视力。
3.98.22
ततो रामशरीरे वै रामः पश्यति भार्गवः ।
आदित्यान्सवसून्रुद्रान्साध्यांश्च समरुद्गणान् ॥ ३.९८.२२ ॥
于是婆利古之子罗摩在罗摩的身体中看见了阿提耶、婆苏、楼陀罗、萨提耶,以及摩录多诸群。
3.98.23
पितरो हुताशनश्चैव नक्षत्राणि ग्रहास्तथा ।
गन्धर्वा राक्षसा यक्षा नद्यस्तीर्थानि यानि च ॥ ३.९८.२३ ॥
祖先、火神、星宿、行星、乾闼婆、罗刹、夜叉、河流,以及一切圣地渡口。
3.98.24
ऋषयो वालखिल्याश्च ब्र्हमभूताः सनातनाः ।
देवर्षयश्च कार्त्स्न्येन समुद्राः पर्वतास्तथा ॥ ३.९८.२४ ॥
诸仙人、婆罗奇利亚,化为梵的永恒者,天仙,以及全部海洋与山岳。
3.98.25
वेदाश्च सोपनिषदो वषट्कारैः सहाध्वरैः ।
चेतोमन्ति च सामानि धनुर्वेदश्च भारत।
मेघवृन्दानि वर्षाणि विद्युतश्च युधिष्ठिर ॥ ३.९८.२५ ॥
吠陀与奥义书、伐沙特祭与祭祀,有意识的娑摩歌,以及射箭之术,婆罗多啊;云团、雨水与闪电,坚战啊。
3.98.26
ततः स भगवान्विष्णुस्तं वै बाणं मुमोच ह ।
शुष्काशनिसमाकीर्णं महोल्काभिश्च भारत ॥ ३.९८.२६ ॥
于是世尊毗湿奴放出那支箭,箭中充满干雷与巨大流星,婆罗多啊。
3.98.27
पांसुवर्षेण महता मेघवर्षैश्च भूतलम् ।
भूमिकम्पैश्च निर्घातैर्नादैश्च विपुलैरपि ॥ ३.९८.२७ ॥
大地表面被猛烈的尘雨与云雨充满,还有地震、雷鸣和巨大的轰鸣。
3.98.28
स रामं विह्वलं कृत्वा तेजश्चाक्षिप्य केवलम् ।
आगच्छज्ज्वलितो बाणो रामबाहुप्रचोदितः ॥ ३.९८.२८ ॥
它使罗摩惊惶失措,完全夺去了他的光辉;被罗摩之臂所推动的燃烧之箭飞来。
3.98.29
स तु विह्वलतां गत्वा प्रतिलभ्य च चेतनाम् ।
रामः प्रत्यागतप्राणः प्राणमद्विष्णुतेजसम् ॥ ३.९८.२९ ॥
他陷入惊惶,随后恢复知觉;罗摩的气息复苏,他接受了毗湿奴的光辉。
3.98.30
विष्णुना सोभ्यनुज्ञातो महेन्द्रमगमत्पुनः ।
भीतस्तु तत्रन्यवसद्ब्रीडितस्तु महातपाः ॥ ३.९८.३० ॥
得到毗湿奴的许可,他又回到摩亨陀罗那里;这位大苦行者又惊又羞,便留在了那里。
3.98.31
ततः संवत्सरेऽतीते हृतौजसमवस्थितम् ।
निर्मदं दुःखितं दृष्ट्वा पितरो राममब्रुवन् ॥ ३.९८.३१ ॥
一年过去后,祖先们见罗摩站在那里,失去了光辉,不再骄傲而悲伤,便对罗摩说道。
3.98.32
न वै सम्यगिदं पुत्र विष्णुमासाद्य वैकृतम् ।
स हि पूज्यश्च मान्यश्च त्रिषु लोकेषु सर्वदा ॥ ३.९८.३२ ॥
孩子,你接近毗湿奴而遭此挫败,实在不妥。他在三界中始终值得崇敬与尊重。
3.98.33
गच्छ पुत्रनदीं पुण्यां वधूसरकृताह्वयाम् ।
तत्रोपस्पृश्य तीर्थेषु पुनर्वपुरवाप्स्यसि ॥ ३.९८.३३ ॥
孩子,去那条名为婆度沙罗的圣河吧。在那里的圣渡口沐浴后,你将重新获得你的身体。
3.98.34
दीप्तोदं नाम तत्तीर्थं यत्रते प्रतितामहः ।
भृगुर्देवयुगे राम तप्तवानुत्तमं तपः ॥ ३.९८.३४ ॥
那个名为迪普托达的圣渡口,正是你的曾祖婆利古在诸神时代修行最高苦行之处,罗摩啊。
3.98.35
तत्तथा कृतवान्रामः कौन्तेय वचनात्पितुः ।
प्राप्तवांश्च पुनस्तेजस्तीर्थेऽस्मिन्पाण्डुनन्दन ॥ ३.९८.३५ ॥
罗摩依父亲之言照办,般度之子、贡蒂之子啊,他在这渡口重新获得了光辉。
3.98.36
एतदीदृशकं तात रामेणाक्लिष्टकर्मणा ।
प्राप्तमासीन्महाराज विष्णुमासाद्य वै पुरा ॥ ३.९८.३६ ॥
亲爱的,大王啊,从前罗摩行事无拘,亲近毗湿奴后所得之果,便是如此。