摩诃婆罗多 · 章 4.12
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.12.1
अथापरोऽदृश्यत पाण्डवः प्रभुर्विराटराजे तुरगान्समीक्षति ।
तमापतन्तं ददृशुः पृथग्जनाः प्रमुक्तमभ्रादिव चन्द्रमण्डलम् ॥ ४.१२.१ ॥
此时又出现另一位般度之子,那位强大者,正在察看毗罗吒王的马匹。平民看见他走近,如同摆脱云层的月轮。
4.12.2
स वै हयानैक्षत तानितस्ततः समीक्षमाणं च ददर्श मत्स्यराट् ।
दृष्ट्वा तथैनं स कुरूत्तमं तमः पप्रच्छ तान्सर्बसभासदस्तदा ॥ ४.१२.२ ॥
他四处观望着马匹,马特亚王看见了他。见他如此,便问在场所有的议会成员关于这位库鲁之最的事。
4.12.3
को वा विजानाति पुराऽस्य दर्शनं योऽयं युवाऽभ्येति हि मासिकां सभाम् ।
प्रियो हि मे दर्शनतोपि संमतो ब्रवीतु कश्चिद्यदि दृष्टवानिमम् ॥ ४.१२.३ ॥
谁先前见过这位前来月会的青年?仅看他一眼,他便令我珍爱而敬重。若有人先前见过他,就请说出来。
4.12.4
अयं हयान्पश्यति मामकान्मुहुर्ध्रुवं हयज्ञो भविता विचक्षणः ।
प्रवेश्यतामेष समीपमाशु वै विभाति वीरो हि यथाऽमरस्तथा ॥ ४.१२.४ ॥
此人反复端详我的马匹,必定是通晓马术的能人。快请他到近前来吧;这位英雄光彩如同神明。
4.12.5
वितर्कयत्येव हि मत्स्यराजनि त्वरन्कुरूणामृषभः सभामगात् ।
ततः प्रणम्योपनतः कुरूत्तमो विराटराजानमुवाच पार्थिवम् ॥ ४.१२.५ ॥
马特亚王尚在思忖之时,库鲁族的雄牛便急速进入议会。库鲁之最随即行礼上前,对大地之主毗罗吒王说道。
4.12.6
तवागतोऽहं पुरमद्य भूपते जिजीविषुर्वेतनभोजनार्थिकः ।
तवाश्वबन्धः सुभृतो भवाम्यहं कुरुष्व मामश्वपतिं यदीच्छसि ॥ ४.१२.६ ॥
地上之王啊,我今日来到您的城中,求生存,求酬劳与食物。我将做您马匹的好看管人;若您愿意,便任命我为马官。
4.12.7
ददानि यानानि धनानि वेतनं न चाश्वसूतो भवितुं त्वमर्हसि ।
कुतोसि कस्यामि कथं त्वमागतो ब्रवीहि शिल्पं तव विद्यते च यत् ॥ ४.१२.७ ॥
我会给你车辆、财富与酬劳,但你不配做马车夫。你从哪里来,属于谁,又是如何来到这里的?告诉我你有什么技艺。
4.12.8
पञ्चानां पाण्डुपुत्राणां ज्येष्ठो राजा युधिष्ठिरः ।
तेनाहमश्वेषु पुरा प्रकृतः शत्रुकर्शन ॥ ४.१२.८ ॥
般度的五个儿子中,最年长的是国王坚战。从前正是他任命我掌管马匹,啊,制服敌人者。
4.12.9
अश्वानां प्रकृतिं वेद्मि विनयं चापि सर्वशः ।
दुष्टानां प्रतिपत्तिं च कृत्स्नं चैव चिकित्सितम् ॥ ४.१२.९ ॥
我了解马的天性,也全面熟悉它们的驯养。我懂得如何驯服劣马,也懂得它们的全部医治之法。
4.12.10
न कातरं स्यान्मम वाजिवाहनं न मेऽस्ति दुष्टा बडवा कुतो हयः ।
जानंस्तु मामाह स चापि पाण्डवो युधिष्ठिरो ग्रन्थिकमेव नामतः ॥ ४.१२.१० ॥
我的马驾并不胆怯,我也没有劣马,又哪来的马呢?然而认识我的般度之子坚战,却以“持结者”之名称呼我。
4.12.11
मातलिरिव देवपतेर्दशरथनृपतेः सुमत्र इव यन्ता ।
सुमह इव जामदग्रेस्तथैव तव शिक्षयाम्यश्वान् ॥ ४.१२.११ ॥
正如摩陀梨之于天主,苏曼特罗之于十车王,苏摩诃之于遮摩陀格尼之子,我也将同样训练你的马匹。
4.12.12
युधिष्ठिरस्य राजेन्द्र नरराजस्य शासनात् ।
शतसाहस्रकोटीनामश्वानामस्मि रक्षिता ॥ ४.१२.१२ ॥
诸王之主啊!奉人王坚战之命,我看护着数以亿计的马匹。
4.12.13
यदस्ति किंचिन्मम वाजिवाहनं तदस्तु सर्वं त्वदधीनमद्य वै ।
ये चापि केचिन्मम वाजियोधास्त्वदाश्रयाः सारथयश्च सन्तु मे ॥ ४.१२.१३ ॥
凡我所有的马匹与战车,今日皆归你调度;我的骑兵战士与御者,也都听从于你。
4.12.14
इदं तवेष्टं विहितं सुरोपम …हि यत्ते प्रसमीक्षितं वरम् ।
…ऽनुरूपं हयकर्म दृश्यते विभाति राजेव न कर्म वाजिनाम् ॥ ४.१२.१४ ॥
天神一般的人啊!此事合你心意,安排得当;你所深思的,甚为善妙。……可见与马相称的工作;你光彩如王者,而非马夫。
4.12.15
युधिष्ठिरस्यैव हि दर्शनेन मे समं तवेदं प्रियदर्श दर्शनम् ।
कथं नु भृत्यैः स विनाकृतो वने चरत्यनिन्द्यो रमते च पाण्डवः ॥ ४.१२.१५ ॥
啊,容貌可喜的人!见到你,犹如见到坚战一般。那无可指摘的般度之子,无仆从相随,流落林中,怎会仍然欢喜呢?
4.12.16
तथा स गन्धर्ववरोपमो युवा विराटराज्ञा मुदितेन पूजितः ।
न चैवमन्येऽपि विदुः कथंचन प्रियाभिरामं विचरन्तमन्तरा ॥ ४.१२.१६ ॥
这位如同最优秀乾闼婆的青年,受到毗罗吒王欢喜的如此礼遇。然而其他人毫无所知,不知这位令亲人喜爱的人正隐匿地游走。