摩诃婆罗多 · 章 4.13
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.13.1
अथापरोऽदृश्यत वै शशी यथा हुतो हविर्भिर्हि यथाऽध्वरे शिखी ।
तथा समालक्ष्यत चारुदर्शनः प्रकाशयन्सूर्य इवाचिरोदितः ॥ ४.१३.१ ॥
接着又出现了一人,如月亮,如祭祀中受供养的火;他external容貌俊美,光芒如刚升起的太阳。
4.13.2
तमाव्रजन्तं सहदेवमग्रणीर्नृपो विराटो नचिरात्समैक्षत ।
प्रैक्षन्त तं तत्र पृथक्समागताः सभागताः सर्वमनोहरप्रभम्।
युवानमायान्तममित्रकर्शनं प्रमुक्तमभ्रादिव चन्द्रमण्डलम् ॥ ४.१३.२ ॥
领头的国王毗罗吒很快看见他走来,即萨诃提婆;厅中聚集的人们各自看着他,这位光彩迷人、令所有心灵愉悦的青年,敌人的折磨者,如同摆脱云层的月轮。
4.13.3
यष्ट्या प्रमाणान्वितया सुदर्शनं दामानि पाशं च निबद्ध्य पृष्ठतः ।
मौर्वी च तन्त्रीं महतीं सुसंहितां बालैश्च तारैर्बहुभिः समावृताम् ॥ ४.१३.३ ॥
带着尺寸合适的棍杖,一件外观美好的物件;把绳索和套索捆在背后;还有一根粗大、结合良好的弓弦,上面覆盖着毛发和许多星状斑点。
4.13.4
स चापि राजानमुवाच वीर्यवान्कुरुष्व मां पार्थिव गोष्ववस्थितम् ।
मया हि गुप्ताः पशवो भवन्तु ते प्रसन्ननिद्राः प्रभवोस्मि वल्लवः ॥ ४.१३.४ ॥
那位勇猛者也对国王说:请让我看管牛群,大王;愿您的牲畜在我的守护下安然入睡;我善于牧牛。
4.13.5
न श्वापदेभ्यो न च रोगतो भयं न चापि दावान्न च तस्कराद्भयम् ।
पयःप्रभूता बहुला निरामया भवन्ति गावः सुभृता नराधिप ॥ ४.१३.५ ॥
不怕猛兽,不怕疾病,也不怕森林大火,更不怕盗贼。牛群乳汁充足,数量众多,无病无恙,饲养得很好,哦,人主。
4.13.6
निशम्य राजा सहदेवभाषितं निरीक्ष्य माद्रीसुतमभ्यनन्दत् ।
उवाच हृष्टो मुदितेन चेतसा न बल्लवत्वं त्वयि वीर लक्षये ॥ ४.१३.६ ॥
国王听了偕天的话,望着摩德利之子,心中欢喜。他怀着喜悦的心情说:勇士啊,我在你身上看不出牧牛人的身份。
4.13.7
धैर्याद्वपुः क्षात्रमिवेह ते दृढं प्रकाशते कौरववंशजस्य वा ।
नापण्डितेयं तव दृश्यते तनुर्भवेह राज्ये मम मन्त्रधर्मभृत् ॥ ४.१३.७ ॥
你的身躯因坚毅而在此挺拔光辉,如刹帝利,或如出生于俱卢族者。你的这副形象看来并非无知之人;在我的国中,请担当谋议之职。
4.13.8
प्रशाधि मत्स्यान्सहराजकानिमान्बृहस्पतिः शत्रुयुतानिवामरान् ।
बलं च मे रक्ष सुवेष सर्वशो गृहाण खङ्गं प्रतिरूपमात्मः ॥ ४.१३.८ ॥
你要与他们的国王一同统治这些摩呾斯人,如同木星神统治被敌人围困的诸神。也要在各方面保护我的军队,哦,衣着华美者;取一把适合你的剑。
4.13.9
अनीककर्णाग्रधरो बलस्य मे प्रभुर्भवानस्तु गृहाण कार्मुकम् ॥ ४.१३.९ ॥
愿你成为我军前锋的统帅与主将;就这样吧。取起弓来。
4.13.10
विराटराज्ञाऽभिहितः कुरूत्तमः प्रशस्य राजानमभिप्रणम्य च ।
उवाच मत्स्यप्रवरं महापतिः शृणुष्व राजन्मम वाक्यमुत्तमम् ॥ ४.१३.१० ॥
毗罗吒王呼唤他时,俱卢中最优秀者赞美国王,向他致敬,并对摩蹉中最杰出者说:大王,请听我的良言。
4.13.11
बालो ह्यहं जातिविशेषदूषितः कुतोऽद्य मे नीतिषु युक्तमन्त्रता ।
स्वकर्मतुष्टाश्च वयं नराधिप प्रशाधि मां गोपरिरक्षणेऽनघ ॥ ४.१३.११ ॥
我还是个孩子,又因出身之缺而有瑕疵;我在政事上怎能有参与谋划的资格?人主啊,我们安于自己的本分;无垢者啊,请在护牛之事上指教我。
4.13.12
वैश्योस्मि नाम्नाऽहमरिष्टनेमिर्गोसङ्ख्य आसं कुरुपुङ्गवानाम् ।
वस्तुं त्वयीच्छामि विशांवरिष्ठ तान्राजसिंहान्न हि वेद्मि पार्थान् ॥ ४.१३.१२ ॥
我名叫阿梨瑟吒涅弥,是吠舍种姓;我曾在俱卢的良牛之中任牧牛人。人民中最优秀者啊,我愿留在您身边;那些如狮子般的国王——般度之子们,我实在并不了解。
4.13.13
न जीवितुं शक्यमतोऽन्यकर्मणा न च त्वदन्यो मम रोचते विभो ॥ ४.१३.१३ ॥
我无法以其他职业谋生;而且,主啊,除您之外,无人能令我欢喜。
4.13.14
त्वं ब्राह्मणो वा यदि वाऽपि भूमिपः समुद्रनेमीश्वररूपवानसि ।
आचक्ष्व तत्वं त्वममित्रकर्शन न बल्लवत्वं त्वयि विद्यते समम् ॥ ४.१३.१४ ॥
你是婆罗门,还是有此容貌的、以大海为界的大地之主?灭敌者啊,请说实话;在你身上,并不见厨子的本领。
4.13.15
कस्यामि राज्ञो विषयादिहागतः किं चापि शिल्पं तव विद्यते कृतम् ।
कथं त्वमस्मासु निवत्स्यसे सदा वदस्व किं चापि तवेह वेतनम् ॥ ४.१३.१५ ॥
我从哪位国王的领地来到这里?你所精通的是什么技艺?你将如何长久地与我们相处?请告诉我,你在这里的报酬是什么。
4.13.16
पञ्चानां पाण्डुपुत्राणां ज्येष्ठो राजा युधिष्ठिरः ।
तस्याष्टौ शतसाहस्रं गवां वर्गाः शतंशतम् ॥ ४.१३.१६ ॥
般度的五个儿子中,长子是国王坚战。他拥有八十万群牛,每群百头。
4.13.17
अपरे दशसाहस्रा द्विस्तावन्तस्तथा परे ।
तेषां गोसङ्ख्य आसं वै तन्त्रीपालेति मां विदुः ॥ ४.१३.१७ ॥
其他的每群一万头,还有的是其两倍。我负责清点他们的牛群,人们称我为“坦特里帕拉”。
4.13.18
भूतं भव्यं भविष्यच्च यच्चान्यद्गोगतं क्वचित् ।
न मेऽस्त्यविदितं किंचित्समन्ताद्दशयोजनम् ॥ ४.१३.१८ ॥
过去、现在与未来,以及任何地方与牛有关的其他事情,在四周十由旬之内,都没有我不知道的。
4.13.19
गुणाः सुविदिता ह्यासन्मया तस्य महात्मनः ।
आसीच्च स मया तुष्टः कुरुराजो युधिष्ठिरः ॥ ४.१३.१९ ॥
那位大德之人的品德我都很清楚,库鲁王坚战对我十分满意。
4.13.20
अनेन गणिता गावो दुर्विज्ञेया महत्तराः ।
बहुक्षीरतरास्ता वै बह्व्यः सत्यः सपुत्रिकाः ॥ ४.१३.२० ॥
他所清点的牛,难以分辨,极为庞大,产奶丰富,数量众多,并带着小牛。
4.13.21
क्षिप्रं च गावो बहुला भवन्ति न तासु रोगो भवतीह कश्चित् ।
तैस्तैरुपयैर्विदितं मयैतदेतानि शिल्पानि मयि स्थितानि ॥ ४.१३.२१ ॥
牛群很快便会繁盛,此处牛群中也不会发生疾病。我以种种方法知晓此事,这些技艺都存在于我身中。
4.13.22
ऋषभानपि जानामि राजन्पूजितलक्षणान् ।
येषां मूत्रमुपाघ्राय वन्ध्या अपि प्रसूयते ॥ ४.१३.२२ ॥
大王,我也知道那些具有受尊崇标记的公牛,只要嗅闻它们的尿,连不育的妇人也能生育。
4.13.23
मत्स्याधिपो हर्षकलेन चेतसा माद्रीसुतं पाण्डवमभ्यभाषत ।
नैवानुमन्ये तव कर्म कुत्सितं महीं समग्रामभिपातुमर्हसि ॥ ४.१३.२३ ॥
摩差王心怀欢喜,对摩德利之子般度族人说道:“我不赞同你这件可耻的行为;你本应守护整个大地。”
4.13.24
अथ त्विदानीं तव रोचते विभो यथेष्टतो गव्यमवेक्ष मामकम् ।
त्वदर्पणा मे पशवो भवन्तु वै पशून्सपालान्भवते ददाम्यहम् ॥ ४.१३.२४ ॥
如今若你愿意,啊大能者,便随意查看我的牧群财富。愿我的牲畜都映照着你;我把牲畜连同牧人一并奉给你。
4.13.25
शतं सहस्राणि गवां हि सन्ति वर्णस्यवर्णस्य पृथग्गणानाम् ।
ददामि तेऽहं वरमीप्सितं च यत्त्वदर्पणा मे पशवो भवन्त्विति ॥ ४.१३.२५ ॥
我拥有成百上千的牛,每种颜色各成一群。作为你所希望的恩赐,我奉给你,愿我的牲畜都映照着你。
4.13.26
एवं विराटेन समेत्य पाण्डवो लब्ध्वा च गोबल्लवतां यथेष्टतः ।
अज्ञातचर्यामवसन्महात्मा यथा रविश्चास्तगिरिं प्रविष्टः ॥ ४.१३.२६ ॥
如此,般度之子与毗罗吒相见,依自己所愿获得牧牛人的身份,这位伟大的人在隐匿的流亡中生活,如同太阳进入阿斯塔吉里山。
4.13.27
एवं विराटे न्यवसंश्च पाण्डवा यथा प्रतिज्ञाभिरमोघविक्रमाः ।
अबुद्धचर्यां चरितुं यथातथं समुद्रनेमीमभिशास्तुमुद्यताः ॥ ४.१३.२७ ॥
如此,般度五子居住在毗罗吒的国中,受誓言约束,其勇力从不徒劳,决心过无人知晓的生活,然后再统治被海洋环绕的大地。