Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 4.14

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

4.14.1

ततः कृष्णा सुकेशी सा दर्शनीया शुचिस्मिता ।
वेणीकेशान्समुत्क्षिप्य पीनवृत्तकुचा शुभा ।
जुगूहे दक्षिणे पार्श्वे मृदूनसितलोचना ॥ ४.१४.१ ॥

于是美发、可爱、笑容纯净的黑公主,将辫发向上一挽,那圆润丰满胸脯的美人,隐藏在右侧,面容柔和,眼睛黑白分明。

4.14.2

वासश्च परिधायैकं कृष्णा सुमलिनं महत् ।
कृत्वा वेषं च सैरन्ध्र्याः कृष्णा व्यचरदार्तवत् ॥ ४.१४.२ ॥

黑公主穿上一件极其肮脏的大衣服,扮作侍女的模样,像一个忧愁的人那样四处游走。

4.14.3

प्रविष्टा नगरं भीरूः सैरन्ध्रीवेषसंयुता ।
तां नराः परिधावन्तः स्त्रियश्च समुपाद्रवन् ॥ ४.१४.३ ॥

这位胆怯、身着侍女装束的女子进入城中,男人们在她周围奔跑,女人们也向她涌来。

4.14.4

अपृच्छंस्ते च तां दृष्ट्वा का त्वं किं च चिकीर्षसि ।
सा तानुवाच राजेन्द्र सैरन्ध्र्यहमुपागता।
कर्म चेच्छामि वै कर्तुं तस्य या मां भरिष्यति ॥ ४.१४.४ ॥

他们看见她便问:“你是谁?想做什么?”她对他们说:“大王啊,我是作为侍女来的;我愿意为那个能供养我的人做事。”

4.14.5

तस्या रूपेण वेषेण श्लक्ष्णया च गिरा तथा ।
न श्रद्दधानास्तां देवीमन्नहेतोरुपस्थिताम् ॥ ४.१४.५ ॥

他们即使看她的容貌、衣着和柔和的言辞,也不相信这位为了求食而前来、如女神般的女子。

4.14.6

विराटस्य तु कैकेयी भार्या परमसंमता ।
आलोकयन्ती ददृशे प्रासादाद्द्रुपदात्मजाम् ॥ ४.१४.६ ॥

毗罗吒最受敬重的妻子钦开伊,从宫殿中向外眺望,看见了德鲁波陀之女。

4.14.7

सा समीक्ष्य तथारूपामनाथामेकवाससम् ।
स्त्रीभिश्च पुरुषैश्चापि सर्वतः परिवारिताम् ॥ ४.१४.७ ॥

见她如此境况,无人庇护,只着一件衣裳,被男女从四面八方团团围住,

4.14.8

विराटभार्या तां देवी कारुण्याज्जातसंभ्रमा ।
अप्रेषयत्समीपस्थाः स्त्रियो वृद्धाश्च तत्पराः ॥ ४.१४.८ ॥

毗罗吒之妻,那位女神因怜悯而心绪激动,派遣身边的女子和专司此事的老妇前去。

4.14.9

अपनीय ततः सर्वा आनयध्वमिहैव ताम् ।
यदा दृष्टा मया साध्वी कम्पते मे मनस्तदा।
तस्माच्छीघ्रमिहानाय दर्शयध्वं यदीच्छथ ॥ ४.१४.९ ॥

那么,你们把她从那里带开,就带到这里来。自从我看见那位贤德的女子,我的心便颤抖不已;因此,如果你们愿意,就快快把她带来这里给我看。

4.14.10

तास्तथोक्ता उपागम्य द्रौपदीं परिसंगताः ।
आनीय सर्वथा त्वेनामब्रुवन्मधुराक्षरम् ॥ ४.१४.१० ॥

她们受此吩咐,便走到德罗波蒂身边,围聚在她四周,以温柔的言辞对她说。

4.14.11

भद्रे त्वां द्रष्टुमिच्छन्ती सुदेष्णा हर्म्यभूतले ।
त्वदर्थं प्रैषयच्चास्मान्द्रष्टुं तां त्वं यदीच्छसि।
आयाह्यस्माभिरेवाद्य रक्ष्यमाणा यथेष्टतः ॥ ४.१४.११ ॥

"善良的女子啊!苏德施那想在宫殿的地上见你,她正是为你而派我们前来。你若愿意,今日就随我们同去,依你所愿受到庇护。"

4.14.12

तच्छ्रुत्वा द्रौपदी तासां वचनं वाक्यकोविदा ।
ईप्सितर्थातिलाभेन हृष्टाऽऽयाता गृहोत्तमम् ॥ ४.१४.१२ ॥

德罗波蒂听了她们的话,善于言辞,因得到了所愿之事而欢喜,便往那座上好的宫室去了。

4.14.13

राजवेश्म ह्युपाक्रम्य यत्राग्र्यमहिषी स्थिता ।
सुदेष्णामगमत्कृष्णा राजभार्यां यशस्विनीम् ॥ ४.१४.१३ ॥

Kṛṣṇā(德罗波蒂)进入王宫,走到正站立的王后身边,去见那位声名显赫的王妃苏德什娜。

4.14.14

कृष्णान्केशान्मृदून्दीर्घान्समुद्ग्रथ्यासितेक्षणा ।
कुञ्चिताग्रांस्तु सूक्ष्माग्रान्दर्शनीयान्निबध्य च।
जुगूहे दक्षिणे पार्श्वे मृदूनायतलोचना ॥ ४.१४.१४ ॥

她把乌黑、柔软、修长的头发束起,发梢卷曲纤细而美丽,这位大眼睛的女子把它藏在右侧。

4.14.15

सा प्रविश्य विराटस्य द्रौपद्यन्तःपुरं शुभा ।
ह्रीनिषेवान्विता बाला कम्पमाना लतेव सा ॥ ४.१४.१५ ॥

这位吉祥的德罗波蒂进入毗罗吒的内室,她是充满羞怯的少女,像藤蔓一样颤抖。

4.14.16

अभिगम्य च सुश्रोणी सर्वलक्षणसंयुता ।
ददर्शावस्थितां हैमे पीठे रत्नपरिच्छदे ॥ ४.१४.१६ ॥

她走近,这位腰身美好、具备一切吉相的女子,看见那人坐在镶满珠宝的金座上。

4.14.17

रक्तसूक्ष्माम्बरधरां मेघे सौदामिनीमिव ।
नानावर्णविचित्रां च सर्वाभरणभूषिताम् ॥ ४.१४.१७ ॥

身穿红色细薄的衣裳,如同云中的闪电,色彩斑斓,装饰着各种首饰。

4.14.18

सुभ्रूं सुकेशीं सुश्रोणीं कुब्जवामनमध्यगाम् ।
बहुपुष्पोपकीर्णायां भूम्यां वेदिमिवाध्वरे ॥ ४.१४.१८ ॥

眉目秀美、发丝亮丽、腰身优美的她,身处驼背与侏儒之间,犹如在布满鲜花的地上的祭坛,置身于祭祀之中。

4.14.19

सुदेष्णां राजमहिषीं सर्वालंकारभूषिताम् ।
श्रीमतीं राजपुत्रीणां शतेन परिवारिताम् ॥ ४.१४.१९ ॥

苏提什那,国王的正妃,身着各种饰物,被一百位公主环绕。

4.14.20

ताः सर्वा द्रौपदीं दृष्ट्वा सन्तप्ताः परमाङ्गनाः ।
परितश्चोपतस्थुस्ताः सहसोत्थाय चासनात् ॥ ४.१४.२० ॥

众多贵妇望见德罗波蒂,皆惊动不安,立刻从座位上起身,围绕在她身边站立。

4.14.21

निरीक्षमाणाः सर्वास्ताः शचीं देवीमिवागताम् ।
गूढगुल्फां वरारोहां कृष्णां ताम्रायतेक्षणाम्।
अतिसर्वानवद्याङ्गीं नतगात्रीं सुमध्यमाम् ॥ ४.१४.२१ ॥

众人凝视着她,仿佛天后舍姬降临:踝骨隐秀,腰臀优美,肤色黝黑,眼睛细长而呈铜红色,全身无可挑剔,身段柔婉,腰肢纤细。

4.14.22

न ह्रस्वां नातिमहतीं जातां बहुतृणे वने ।
ऋश्यरोहीमिवानिन्द्यां सुकेशीं मृगलोचनाम् ॥ ४.१४.२२ ॥

身材不矮不高,宛如生于多草之林的雌羚羊,无可指摘,发丝秀美,眼如鹿目。

4.14.23

तां मृगीमिव वित्रस्तां यूथभ्रष्टामिव द्विपाम् ।
लक्ष्मीमिव विशालाक्षीं विद्यामिव यशस्विनीम् ॥ ४.१४.२३ ॥

她如受惊的母鹿,如离群的母象,如广目的吉祥天女,又如声名显赫的学问。

4.14.24

रोहिणीमिव ताराणां दीप्तामग्निशिखामिव ।
पार्वतीमिव रुद्राणीं वेलामिव महोदधेः ॥ ४.१४.२४ ॥

她如群星中的罗希尼,如熊熊燃烧的火焰,如帕尔瓦蒂或鲁德拉尼,又如大海之滨。

4.14.25

सुलभामिव नागीनां मृगीणामिव किन्नरीम् ।
गङ्गामिव विशुद्धाङ्गीं शारदीमिव शर्वरीम् ॥ ४.१४.२५ ॥

她如蛇女般易于寻见,如鹿群中的紧那罗女,肢体纯净如恒河,又如秋夜。

4.14.26

तामचिन्त्यतमां लोके इलामिव यशस्विनीम् ।
सावित्रीमिव दुर्धषां ब्राह्म्या लक्ष्म्या समन्वितां ॥ ४.१४.२६ ॥

她是世上最不可思议者,如伊拉般荣耀,如萨维特丽般不可侵犯,具备梵天之吉祥天女的光彩。

4.14.27

सीतामिव सतीं शुद्धामरुन्धतीमिव प्रियाम् ।
सुदेष्णा पर्यपृच्छत्तां विस्मयोत्फुल्ललोचना ॥ ४.१४.२७ ॥

苏德什那睁大惊讶的眼睛询问她——她如悉多般贞洁纯净,如阿兰陀蒂般可爱。

4.14.28

का त्वं सर्वानवद्याङ्गि कुतोसि त्वमिहागता ।
कस्य वा त्वं विशालाक्षि किं वा ते करवाण्यहम् ॥ ४.१४.२८ ॥

身体无瑕的女子啊,你是谁?你从哪里来到这里?大眼睛的女子啊,你属于谁?或者我能为你做什么?

4.14.29

गूढगुल्फा समानोरूस्त्रिगम्भीरा षडुन्नता ।
स्निग्धा पञ्चसु रक्तेषु हंसगद्गदभाषिणी ॥ ४.१४.२९ ॥

足踝隐秘,大腿匀称,三处深陷,六处隆起,五处红润处柔滑,说话声音柔和如天鹅。

4.14.30

शुकेशी सुस्वरा श्यामा पीनश्रोणीपयोधरा ।
अरालपक्ष्मनयना बिम्बोष्ठी तनुमध्यमा ॥ ४.१४.३० ॥

头发如鹦鹉羽色,声音甜美,肤色微黑而年轻,臀部与胸部丰满,眼睫卷曲,嘴唇如红果,腰身纤细。

4.14.31

कम्बुग्रीवा गूढसिरा पूर्णचन्द्रनिभानना ।
दानवी किन्नरी वा त्वं गन्धर्वी वनदेवता ॥ ४.१४.३१ ॥

颈如螺贝,筋脉隐隐,面如满月的女子啊,你是檀那婆女、紧那罗女、乾闼婆女,还是林中的女神?

4.14.32

अप्सरा वाऽसि नागी वा तारा वा त्वं विलासिनी ।
अलम्बुसा मिश्रकेशी पुण्डरीकाऽथ मालिनी ॥ ४.१४.३२ ॥

你是天女、龙女、星辰,还是娇媚的女子?是阿兰布莎、杂发女、白莲女,还是摩利尼?

4.14.33

तेनतेनैव संपन्ना काश्मीरीव तुरंगमा ।
इन्द्राणी त्वथ रुद्राणी स्वधा वाऽप्यथवा रतिः ॥ ४.१४.३३ ॥

兼具她们各自之德,宛如克什米尔的骏马。你是因陀罗妃、楼陀罗妃、施陀,还是爱欲女神罗蒂?

4.14.34

देवि देवेषु विख्याता ब्रूहि का त्वमिहागता ।
तव ह्यनुपमं रूपं भूषणैरपि वर्जितम् ॥ ४.१४.३४ ॥

女神啊,你在诸神中享有盛名——请告诉我,你是谁,为何来到此地?你的容貌无与伦比,即便不加饰物。

4.14.35

त्वां सृष्ट्वोपरतं मन्ये लोककर्तारमीश्वरम् ।
न तृप्यन्ति स्त्रियो दृष्ट्वा का न पुंसां रतिर्भवेत् ॥ ४.१४.३५ ॥

我想,创造了你之后,造化世界的主宰大概已经停止创造了。女子见到你也不满足,男子又怎会不生爱慕之情?

4.14.36

प्रवालपुष्पस्तबकैराचिता वनदेवताः ।
त्वामेव हि निरीक्षन्ते विस्मिता रूपसंपदा ॥ ४.१४.३६ ॥

身饰嫩芽与花簇的林中女神,也只凝望着你,为你容貌的丰盛而惊叹。

4.14.37

अन्तःपुरगता नार्यो मृगाः पक्षिगणा नराः ।
सर्वे त्वामेव कल्याणि निरीक्षन्ते सुविस्मिताः ॥ ४.१४.३७ ॥

后宫的女子、鹿、鸟群与人们——所有人都极为惊讶地凝望着你,吉祥的女子。

4.14.38

न त्वादृशी काचन मे त्रिषु लोकेषु सुन्दरी ।
दृष्टपूर्वा श्रुता वाऽपि चक्षुपा विद्यते शुभा ॥ ४.१४.३८ ॥

在三界之中,我从未见过、也从未听闻有像你这样的美人;如此吉祥之相,别无他人。

4.14.39

नास्ति देवी न गन्धर्वी न यक्षी न च किन्नरी ।
सैरन्ध्री नाम मे जातिर्वन्यमूलफलाशना ॥ ४.१४.३९ ॥

我不是天女,不是乾闼婆女,不是夜叉女,也不是紧那罗女。我名叫娑叶兰陀利,这便是我的种姓;我以林中的根与果为食。

4.14.40

पतीनां प्रेक्षमाणानां कस्मिंश्चित्कारणान्तरे ।
केशपाशे परामृष्टा साऽहं त्रस्ता वनं गता ॥ ४.१४.४० ॥

在我的丈夫们注视之下,有人借着别的名义抓住了我的发髻;我惊恐万分,便逃进了森林。

4.14.41

तत्र द्वादशवर्षाणि वन्यमूलफलाशना ।
चराम्यनिलया सुभ्रूः सा तवान्तिकमागता ॥ ४.१४.४१ ॥

在那里,我无家可归地流浪了十二年,以林中的根与果为食;美眉的女子啊,因此我来到了你的身边。

4.14.42

जानामि केशान्ग्रथितुं विचित्रान्ग्रथितुं मणीन् ।
मल्लिकोत्पलपद्मानां जानामि ग्रथितुं स्रजः ॥ ४.१४.४२ ॥

我懂得将发丝编成奇妙的样式,懂得串起宝珠,也懂得编织茉莉、青莲与莲花的花环。

4.14.43

सिन्धुवारकजातीनां रचयाम्यवतंसकान् ।
पत्रं मृगाङ्गमगरुं पिषे च हरिचन्दनम् ।
ग्रथयिष्यामि चित्राश्च स्रजः परमशोभनाः ॥ ४.१४.४३ ॥

我用信度婆罗与茉莉花制作耳饰。我研磨麝香、沉香和黄檀香。我将编织精美绝伦的各式花环。

4.14.44

आराधनं सत्यभामां कृष्णस्य महिषीं प्रियाम् ।
कृष्णां च भार्यां पार्थानां नारीणामुत्तमां तथा ॥ ४.१४.४४ ॥

我曾侍奉克利须那心爱的正妃萨蒂亚婆摩,以及般度五子的妻子、女中之最克利须那。

4.14.45

तथाऽस्मि सुभ्रुवा चाहमिष्टलाभेन तोषिता ।
मालिनी चेति मे नाम स्वयं देवी चकार ह।
कृष्णा कमलपत्राक्षी सा मे प्राणसमा सखी ॥ ४.१४.४५ ॥

因为那位眉目秀美者满足了我的心愿,我感到欣慰。那位女神亲自为我取名为马利尼。莲瓣眼的克利须那是我的朋友,如同我的生命般珍贵。

4.14.46

न चाहं चिरमिच्छामि क्वचिद्वस्तुं शुभानने ।
व्रतं किलैतदस्माकं कुलधर्मोऽयमीदृशः ॥ ४.१४.४६ ॥

美丽的人啊,我也不愿在任何地方久留。这是我们的誓愿,我们家族的规矩也是如此。

4.14.47

योऽस्माकं तु हरेद्द्रव्यं देशं वसनमेव वा ।
न क्रोद्धव्यं किलास्माभिरस्मद्गुरुरमर्षणः ॥ ४.१४.४७ ॥

若有人夺走我们的财物、居所,甚至衣物,我们也不应愤怒,因为我们的主人不能容忍。

4.14.48

साऽहं वनानि दुर्गाणि तीर्थानि च सरांसि च ।
शैलांश्च विविधान्रम्यान्सरितश्च समुद्रगाः ॥ ४.१४.४८ ॥

那个我,曾穿行于险峻的森林、圣渡口与湖泊,以及众多秀美的山岳,和流向大海的河流。

4.14.49

भर्तृशोकपरीताङ्गी भर्तृसब्रह्मचारिणी ।
विचरामि महीं दुर्गां यत्र सायंनिवेशना ॥ ४.१४.४९ ॥

我的肢体因丈夫们的悲伤而憔悴,与丈夫们共同守持梵行,我在这艰难的大地上流浪,黄昏时便在此栖身。

4.14.50

वीरपत्नी यदा देवी चरमाणेषु भर्तृषु ।
साऽहं विवत्सा विधिना गन्धमादनपर्वतात्।
शृणोमि तव सौशील्यं भर्तुर्मधुरभाषिणि ॥ ४.१४.५० ॥

女神,英雄之妻,当我的丈夫们游历之时,因命运我与乾陀摩陀那山分离。甜言蜜语的女子啊,我听闻你和你丈夫的良善品行。

4.14.51

माहात्म्यं च ततः श्रुत्वा ब्राह्मणानां समीपतः ।
त्वामुपस्थातुमिच्छामि ततश्चाहमिहागता ॥ ४.१४.५१ ॥

随后,我从近旁的婆罗门那里听闻你的伟大,愿意侍奉你,因此我来到了这里。

4.14.52

गुरवो मम धर्मश्च वायुः शक्रस्तथाऽश्विनौ ।
तेषां प्रसादाच्च न मां कश्चिद्धर्षयते पुमान् ॥ ४.१४.५२ ॥

我的导师是法神、风神、帝释天,还有双生阿湿婆。凭借他们的恩典,没有任何男子敢于侵犯我。

4.14.53

एवमुक्त्वा सुदेष्णां तां कृताञ्जलिपुटा स्थिता ।
साऽब्रवीद्विस्मयाविष्टा द्रौपदीं योषितां वराम् ॥ ४.१४.५३ ॥

她对苏提什那说完这些话后,满怀惊讶,对合掌而立的德罗波蒂——女子中最优秀者——说道。

4.14.54

न भरेयमहं भद्रे संशयो मम विद्यते ।
राजा त्वयं हि त्वां दृष्ट्वा मतिं पापां करिष्यति ॥ ४.१४.५४ ॥

善良的女子啊,我不能担保照顾你;我对此心存疑虑,因为国王见到你后,会生出邪恶的念头。

4.14.55

साऽहं त्वां न क्षमां मन्ये वसन्तीमिह वेश्मनि ।
एष दोषोस्ति सुश्रोणि कथं वाभीरु मन्यसे ॥ ४.१४.५५ ॥

我认为你住在这座宫殿里并不相宜。美臀的女子啊,这是一个过失。无畏的女子啊,你认为如何?

4.14.56

स्थिता राजकुले नार्यो याश्चेमा मम वेश्मनि ।
त्वामेवैकां निरीक्षन्ते विस्मयाद्वरवर्णिनि ॥ ४.१४.५६ ॥

王宫中和我的宫殿里站立的这些女子,都只是惊奇地望着你一人,美貌的女子啊。

4.14.57

वृक्षांश्चोपस्थितान्पश्य य इमे मम वेश्मनि ।
विनमन्ते हि त्वां दृष्ट्वा पुमांसं कं न लोभयेः ॥ ४.१४.५७ ॥

看那些靠近我宫殿的树木,见到你便弯下腰来。哪一个男子你不会迷惑呢?

4.14.58

बिभर्षि परमं रूपमतिमानुषमद्भुतम् ।
तिर्यग्योनिगताश्चापि निरीक्षन्ते सविस्मयाः ।
तव रूपमनिन्द्याङ्गि किं पुनर्मानवा भुवि ॥ ४.१४.५८ ॥

你具有超越人间的至高美貌,奇妙非凡。即使是畜生之类的生灵也怀着惊异望着你。肢体无瑕的女子啊,那世间的人们又何必说呢?

4.14.59

राजा विराटः सुश्रोणि दृष्ट्वा ते परमं वपुः ।
मां विहाय वरारोहे त्वां गच्छेत्सर्वचेतसा ॥ ४.१४.५९ ॥

美臀的女子啊,毗罗吒王见到你那至美的身体,美腿的女子啊,他会舍弃我,全心地奔向你。

4.14.60

यं हि त्वमनवद्याङ्गी नरमायतलोचने ।
सुप्रसन्ना हि वीक्षेथाः स कामवरागो भवेत् ॥ ४.१४.६० ॥

肢体无瑕的女子啊,眼睛宽大的女子啊,你若满心欢喜地看向哪个男子,他就会被欲望所控制。

4.14.61

सुस्नाताऽलंकृता हि त्वं यमीक्षेथा हि मानुषम् ।
ग्लानिर्न तस्य दुःखं वा न तन्द्रिर्न पराजयः ॥ ४.१४.६१ ॥

你沐浴盛装之后所看的那个男子,将没有疲倦、没有痛苦、没有懈怠,也没有失败。

4.14.62

न शोको न च सन्तापो न क्रोधो नानृतं वदे ।
यं त्वं सर्वातवद्याङ्गि भजेथाः समलंकृता ॥ ४.१४.६२ ॥

完美肢体的女子啊,你盛装与之相处的人,将没有悲伤、没有忧虑、没有愤怒,也不会说谎。

4.14.63

न व्याधिर्न जरा तस्य न तृष्णा न क्षुधा भवेत् ।
यस्य त्वं वशगा सुभ्रु भवेरङ्कगता सती ॥ ४.१४.६३ ॥

美眉的女子啊,你顺从于他、坐在他膝上as一位贞洁的妻子,他将没有疾病、没有衰老、没有渴望,也没有饥饿。

4.14.64

पञ्चत्वमपि संप्राप्तं यं च त्वं परिपस्वजेः ।
बाहुभ्यामनुरूपाभ्यां स जीवेदिति मे मतिः ॥ ४.१४.६४ ॥

即使已经死去的人,你以相称的双臂紧紧拥抱,他也会复活——这是我的看法。

4.14.65

यस्य हि त्वं भवेर्भार्या यं च हृष्टा परिष्वजेः ।
अतिजीवेस्य सर्वेषु देवेष्विव पुरन्दरः ॥ ४.१४.६५ ॥

你成为其妻、并欢喜拥抱的人,将比常人活得更久,如同众神中的因陀罗。

4.14.66

अध्यारोहेद्यथा वृक्षं यथा वाऽऽरुह्य तक्षति ।
राजवेश्मनि वामोरु ननु स्यास्त्वं तथा मम ॥ ४.१४.६६ ॥

如同人爬上树,或爬上去将它砍倒一样,美腿的女子啊,在王宫里你必定会成为我的。

4.14.67

यथा कर्कटकी गर्भमाधत्ते मृत्युमात्मनः ।
तथाविधमहं मन्ये तव सुभ्रु समागमम् ॥ ४.१४.६७ ॥

如同雌蟹在腹中孕育自己的死亡,美眉的人啊,我认为与你的结合也是如此。

4.14.68

अनुमानये त्वां सैरन्ध्रि नावमन्ये कथंचन ।
भर्तृशीलभयाद्भद्रे तव वासं न रोचये ॥ ४.१४.६८ ॥

我恳请你,桑德兰德莉;我绝不会以任何方式侮辱你。但因惧怕你丈夫的性情,善良的人啊,我不愿你留在这里。

4.14.69

नाहं शक्या विराटेन यद्वा चान्येन केनचित् ।
देवगन्धर्वयक्षैर्वा द्रष्टुं दुष्टेन चेतसा ॥ ४.१४.६९ ॥

无论是毗罗吒还是别人,无论是天神、乾闼婆或夜叉,都不能以恶念看待我。

4.14.70

गन्धर्वाः पालयन्ते मां सुकुलाः पञ्च सुव्रताः ।
पुत्रा देवादिदेवानां सूर्यपावकवर्चसः ॥ ४.१४.७० ॥

五位出身高贵、持守善誓的乾闼婆保护着我;他们是诸神之首的儿子,光辉如日与火。

4.14.71

यश्च दुःशीलवान्मर्त्यो मां स्पृशेद्दुष्टचेतसा ।
स तामेव निशां शीघ्रं शयीत मुसलैर्हतः ॥ ४.१४.७१ ॥

凡是心存恶念、品行不端的凡人触碰我,他就在那一夜被木棒击倒,很快躺下。

4.14.72

यस्यापि हि शतं पूर्णं बान्धवानां भवेदपि ।
सहस्रं वा विशालाक्षि कोटिर्वापि सहस्रिका ।
दुष्टचित्तश्च मां ब्रूयान्न स जीवेत्तवाग्रतः ॥ ४.१४.७२ ॥

即使他有一百、一千,甚至千万个亲属,大眼睛的人啊,凡心怀恶念对我说话者,都不会在你面前活着。

4.14.73

न तस्य त्रिदशा देवा नासुरा न च पन्नगाः ।
तेभ्यो गन्धर्वराजेभ्यस्त्राणं कुर्युरसंशयम् ॥ ४.१४.७३ ॥

诸天神、阿修罗与蛇神,都不能从那些乾达婆王手中保护他,这是毫无疑问的。

4.14.74

सुदेष्णे विश्वस त्वं मां स्वजने बान्धवेऽपि वा ।
नाहं शक्या नरैर्द्रष्टुं न च मे वृत्तमीदृशम् ॥ ४.१४.७४ ॥

苏德什那啊,请信任我,无论是你的亲族还是族人。我不是可以被男人随意观看的人,我的品行也并非如此。

4.14.75

यो मे न दद्यादुच्छिष्टं न च पादौ प्रधावयेत् ।
प्रीयेरंस्तेन वासेन गन्धर्वाः पतयो मम ॥ ४.१४.७५ ॥

谁不给我残羹,也不为我洗脚,我的乾达婆丈夫们便会因那件衣服而欢喜。

4.14.76

यो हि मां पुरुषो गृद्ध्येद्यथाऽन्याः प्राकृतस्त्रियः ।
तामेव स इमां रात्रिं प्रविशेदपरां तनुम् ॥ ४.१४.७६ ॥

若有男子像对待其他平常女子一样贪恋我,就让他在今夜进入另一个身体。

4.14.77

न चाप्यहं चालयितुं शक्या केनचिदङ्गने ।
दुःखशीलाश्च गन्धर्वास्त इमे बलिनः प्रियाः ।
एवं निवसमानायां मयि मा ते भयं हि भूत् ॥ ४.१४.७७ ॥

女子啊,没有人能动摇我。这些乾达婆性情暴烈、强大,且为我所爱。只要我这样居住,你便不必有任何恐惧。

4.14.78

एवमुक्ता तु सैरन्ध्र्या सुदेष्णा वाक्यमब्रवीत् ।
वसेह मयि कल्याणि यदि ते वृत्तमीदृशम् ॥ ४.१४.७८ ॥

赛琅德莉如此说后,苏德什那说了这些话:吉祥的女子啊,若你的品行如此,那就留在这里与我同住吧。

4.14.79

कश्च ते दातुमुच्छिष्टं पुमानर्हति भामिनि ।
प्रसारयेच्च कः पादौ लक्ष्मीं दृष्ट्वैव बुद्धिमान् ॥ ४.१४.७९ ॥

光彩照人的女子啊,谁配得上给你残食?见到如吉祥天女般的你,哪个有智慧的男子会向你的足伸出手去?

4.14.80

एवमाचारसंपन्ना एवं देवपरायणा ।
रक्ष्या त्वमसि भूतानां सावित्रीवद्विजन्मनाम् ॥ ४.१४.८० ॥

你如此品行端正、虔诚事神,应当被一切众生守护,如同萨维特丽,如同再生者。

4.14.81

देवता इव कल्याणि पूजिता वरवर्णिनी ।
वस भद्रे मयि प्रीता प्रीतिर्हि मयि वर्तते।
सर्वकामैः प्रमुदिता निरुद्विग्नमनाः सुखम् ॥ ४.१४.८१ ॥

吉祥的女子啊,受人敬奉如神女,肤色殊胜的善良女子,请与我愉快地同住;我对你心怀爱意。愿你诸愿皆成,心无忧虑,安乐而居。

4.14.82

सुदेष्णयैवमुक्ता सा संप्रीता चारुहासिनी ।
निर्विशङ्का विराटस्य विवेशान्तःपुरं सुखम् ॥ ४.१४.८२ ॥

苏德什那如此说后,她心中大悦,面带美好笑容,毫无畏惧、欢欣地走入毗罗吒的内宫。

4.14.83

याज्ञसेनी सुदेष्णां तु शुश्रूपन्ती विशांपते ।
अवसत्परिचारार्हा सुदुःखं जनमेजय ॥ ४.१४.८३ ॥

人主啊,耶若塞尼(德罗波蒂)侍奉苏德什那,尽管本应受人侍奉,却在极大的痛苦中度日。唉,遮摩耶阇耶。

4.14.84

एवं विराटे न्यवसंस्तु पाण्डवाः कृष्णा तथाऽन्तःपुरमेत्य शोभना ।
अज्ञातचर्यां प्रतिरुद्धमानसा यथाऽग्रथो भस्मनि गूढतेजसः ॥ ४.१४.८४ ॥

如此,般度五子住在毗罗吒的国中,黑公主也容光焕发地进入内宫。在隐匿的生活中,他们心志收敛,如同覆盖在灰烬之下的火,其光辉被掩藏。