摩诃婆罗多 · 章 4.16
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.16.1
वसमानेषु पार्थेषु मत्स्यस्य नगरे तदा ।
महारथेषु च्छन्नेषु मासा दश समाययुः ॥ ४.१६.१ ॥
当般度之子们隐居在摩差王的城中,大勇士们隐匿其身时,十个月过去了。
4.16.2
याज्ञसेनी सुदेष्णां तु शुश्रूषन्ती विशांपते ।
आवसत्परिचारार्हा सुदुःखं जनमेजय ॥ ४.१६.२ ॥
啊,人主般遮耶!耶其娑尼之女德罗波蒂侍奉苏德什那,虽然配得此侍奉之职,却在极大的痛苦中居住在那里。
4.16.3
तथा चरन्ती पाञ्चाली सुदेष्णाया निवेशने ।
ता देवीं तोपयामास तथा चान्तःपुरस्त्रियः ॥ ४.१६.३ ॥
德罗波蒂在苏德什那的宅邸中如此行走,使那位王后欢喜;内宫的妇女们也同样被她取悦。
4.16.4
तस्मिन्वर्षे गतप्राये कीचकस्तु महाबलः ।
सेनापतिर्विराटस्य ददर्श द्रुपदात्मजाम् ॥ ४.१६.४ ॥
那一年将近过去时,威力强大的吉遮迦——毗罗吒的统帅——看见了德鲁帕达之女。
4.16.5
तां दृष्ट्वा देवगर्भायां चरन्तीं देवतामिव ।
कीचकः कामयामास कामबाणप्रपीडितः ॥ ४.१६.५ ॥
吉遮迦看见她如女神般行走,形貌神圣,被欲望之箭所折磨,便渴望她。
4.16.6
स तु कामाग्निसंतप्तः सुदेष्णामभिगम्य वै ।
प्रहसन्निव सेनानीरिदं वचनमब्रवीत् ॥ ४.१६.६ ॥
那位被欲火焚烧的统帅走近苏德什那,仿佛带着笑意,说出了这些话。
4.16.7
नेयं मया जातु पुरेह दृष्टा राज्ञी विराटस्य निवेशने शुभा ।
रूपेण चोन्मादयतीव मां भृशं गन्धेन जाता मदिरेव भामिनी ॥ ४.१६.७ ॥
我以前从未在毗罗吒的府中见过这位吉祥的王后。她的容貌使我几乎发狂,她的芳香仿佛是从美酒中诞生的,这位美丽的女子啊。
4.16.8
का देवरूपा हृदयंगमा शुभे ह्याचक्ष्व मे कस्य कुतोत्र शोभने ।
चित्तं हि निर्मथ्य करोति मां वशे न चान्यदत्रौपधमस्ति मे मतम् ॥ ४.१६.८ ॥
啊,吉祥的女子,这位有神之容貌、令人心醉的是谁?请告诉我,她是谁的人,从何处来到这里。她搅动我的心,使我受她控制;依我看,此外再无别的药可治。
4.16.9
अहो तवेयं परिचारिका शुभा प्रत्यग्ररूपा प्रतिभाति मामियम् ।
अयुक्तरूपं हि करोति कर्म ते प्रशास्तु मां यच्च ममास्ति किंचन ॥ ४.१६.९ ॥
啊,你的这位美丽侍女在我眼中呈现出新的容貌。她虽有不相称的外形,却替你做事;愿她教导我我所拥有的一切。
4.16.10
प्रभूतनागाश्वरथं महाजनं समृद्धियुक्तं बहुपानयोजनम् ।
मनोहरं काञ्चनचित्रभूषणं गृहं महच्छोभयतामियं मम ॥ ४.१६.१० ॥
我这座宏大的宅邸,有众多的象、马和车辆,人众浩大,富饶充盈,备有大量饮食,令人心醉,以金饰与彩色装饰点缀,她将使它增添光彩。
4.16.11
ततः सुदेष्णामनुमन्त्र्य कीचकस्ततः समभ्येत्य नराधिपात्मजाम् ।
उवाच कृष्णामभिसान्त्वयंस्तदा मृगेन्द्रकन्यामिव जम्बुको वने ॥ ४.१६.११ ॥
然后,迦薇迦与苏德舍那商议后,走近王女,安慰黑天女,向她说话,正如林中豺狼对狮女说话一般。
4.16.12
का त्वं कस्यासि कल्याणि कुतो वा त्वं वरानने ।
प्राप्ता विराटनगरं तत्त्वमाचक्ष्व शोभने ॥ ४.१६.१२ ॥
吉祥的女子啊,美丽面容的女子啊!你是谁?属于谁?你从哪里来到毗罗吒城?光彩照人的女子啊,请告诉我。
4.16.13
रूपमग्र्यं तथा कान्तिः सौकुमार्यमनुत्तमम् ।
कान्त्या विभाति वक्रं ते शशाङ्क इव निर्मलं ॥ ४.१६.१३ ॥
你的美貌至高无上,你的光彩与柔美无与伦比。你的面容以光辉映照,如同无瑕的明月。
4.16.14
नेत्रे सुविपुले सुभ्रु पद्मपत्रनिभेशुभे ।
वाक्यं ते चारुसर्वाङ्गि परपुष्टरुतोपमम् ॥ ४.१६.१४ ॥
你的双眼极为宽广,如同莲花花瓣,眉目俊美的女子啊,吉祥的女子啊。全身美好的女子啊,你的话语如同杜鹃的啼鸣。
4.16.15
एवंरूपा मया नारी काचिदन्या महीतले ।
न दृष्टपूर्वा सुश्रोणि यादृशी त्वमनिन्दिते ॥ ४.१६.१५ ॥
臀部秀美的女子啊,无可指责的女子啊,在这大地上,我从未见过像你这样容貌的另一个女子。
4.16.16
लक्ष्मीः पद्मालया का त्वमथ भूतिः सुमध्यमे ।
ह्रीः श्रीः कीर्तिरथो कान्तिरासां का त्वं वरानने ॥ ४.१६.१६ ॥
腰身纤美的女子啊,你是住在莲花中的吉祥天女,还是财富女神?美丽面容的女子啊,你是她们之中的哪一位:羞耻、吉祥、名声,还是光辉?
4.16.17
अतीव रूपिणी किं त्वमनङ्गविहारिणी ।
अतीव भ्राजसे सुभ्रु प्रभेवेन्दोरनुत्तमा ॥ ४.१६.१७ ॥
你是否美艳非凡,仿佛与爱神阿难伽(迦摩)相伴嬉戏?眉目俊美的女子啊,你光彩夺目,如同月亮无可比拟的光芒。
4.16.18
अपि चेक्षणपक्ष्माणां स्थितज्योत्स्नोपमं शुभम् ।
दिव्यांशुरश्मिभिर्वृत्तं दिव्यकान्तिमनोरमम् ॥ ४.१६.१८ ॥
你眼睫上停留的月光般吉祥之光,被神圣光芒环绕,以神圣的光彩而令人心醉。
4.16.19
निरीक्ष्य वक्रचन्द्रं ते लक्ष्म्याऽनुपमया युतम् ।
कृत्स्ने जगति को नेह कामस्य वशगो भवेत् ॥ ४.१६.१९ ॥
看见你那弯弯如月的面容,带着无与伦比的光彩,在整个世界上,谁会不受欲望的支配呢?
4.16.20
हारालंकारयोग्यौ तु स्तनौ चोभौ शुभोभनौ ।
सुजातौ सहितौ लक्ष्म्या पीनौ वृत्तौ निरन्तरौ ॥ ४.१६.२० ॥
你那两只适合佩戴项链与饰物的乳房,极其美好,形体端正,充满光彩,丰满、圆润、紧紧相依。
4.16.21
कुड्मलाम्बुरुहाकारौ तव सुभ्रु पयोधरौ ।
कामप्रतोदाविव मां तुदतश्चारुहासिनि ॥ ४.१६.२१ ॥
美眉的女子啊,笑容甜美的人啊!你那如莲花蓓蕾般的双乳,像爱神的刺棒一样刺痛着我。
4.16.22
वलीविभङ्गचतुरं स्तनभारविनामितम् ।
कराग्रसंमितं मध्यं तवेदं तनुमध्यमे ॥ ४.१६.२२ ॥
纤腰的女子啊!你这腰肢,因皱纹的曲折而优美,又因乳房的重量而弯曲,仅有手掌的指尖那么大小。
4.16.23
दृष्ट्वैव चारुजघनं सरित्पुलिनसंनिभम् ।
कामव्याधिरसाध्यो मामप्याक्रामति भामिनि ॥ ४.१६.२३ ॥
一见你那如河岸般美好的臀部,啊,热情的女子!连药物也无法治愈的爱欲之病,也侵袭了我。
4.16.24
जज्वाल चाग्निमदनो दावाग्निरिव निर्दयः ।
त्वत्सङ्गमाभिसंकल्पविवृद्धो मां दहत्ययम् ॥ ४.१६.२४ ॥
如同无情的野火,摩檀那之火燃烧起来;因与你结合的决心而增长,它正焚烧着我。
4.16.25
आत्मप्रदानवर्षेण संगमाम्भोधरेण च ।
शमयस्व वरारोहे ज्वलन्तं मन्मथानलम् ॥ ४.१६.२५ ॥
美臀女子啊,用你献身的雨水和结合的云彩,熄灭燃烧的摩摩他之火吧。
4.16.26
मच्चित्तोन्मादनकरा मन्मथस्य शरोत्कराः ।
त्वत्सङ्गमाशानिशितास्तीव्राः शशिनिभानने ।
मह्यं विदार्य हृदयमिदं निर्दयवेगिताः ॥ ४.१६.२६ ॥
月面女子啊,摩摩他那些使我心智发狂的箭矢,因与你结合的希望而锐利猛烈,以无情的力量射来,撕裂了我的心。
4.16.27
प्रविष्टा ह्यसितापाङ्गि प्रचण्डाश्चण्डदारुणाः ।
अत्युन्मादसमारम्भाः प्रीत्युन्मादकरा मम।
आत्मप्रदानसंभोगैर्मामुद्धर्तुमिहार्हसि ॥ ४.१६.२७ ॥
黑眼女子啊,这些猛烈、可怕、引发极度狂乱的箭已经射入我的身体,唤起爱的狂乱。在此你应当以献身和交合拯救我。
4.16.28
चित्रमाल्याम्बरधरा सर्वाभरणभूषिता ।
कामं प्रकामं सेव त्वं मया सह विलासिनि ॥ ४.१६.२८ ॥
身披彩色花环与衣裳,佩戴一切饰物的你,啊,嬉戏的女子,请与我尽情欢娱,满足你的心愿。
4.16.29
नार्हसीहासुखं वस्तुं सुखार्हा सुखवर्जिता ।
प्राप्नुह्यनुत्तमं सौख्यं मत्तस्त्वं मत्तगामिनि ॥ ४.१६.२९ ॥
你不该在此处于苦难之中;你本配得幸福,却被剥夺了幸福。请从我这里获得至高的快乐,啊,步态如醉的女子。
4.16.30
स्वादून्यमृतकल्पानि पेयानि विविधानि च ।
पिबमाना मनोज्ञानि रममाणा यथासुखम् ॥ ४.१६.३० ॥
饮用如甘露般美味、多种多样、令人心悦的饮品,随心所欲地享受欢愉。
4.16.31
भोगोपचारान्विविधान्सौभाग्यं चाप्यनुत्तमम् ।
पानं पिब महाभागे भोगैश्चानुत्तमैः शुभैः ॥ ४.१६.३१ ॥
各种享乐与便利,还有至高的福运。大福之人啊,请以至上吉祥的欢乐饮用吧。
4.16.32
इदं हि रूपं प्रथमं तवानघे निरर्थकं केवलमद्य भामिनि ।
अधार्यमाणा स्नगिवोत्तमा शुभा न शोभसे सुन्दरि शोभना सती ॥ ४.१६.३२ ॥
无瑕之人啊,你这最初的美貌如今徒然无用,夫人。如同未戴的上好花环,吉祥的女子啊,你虽美丽却不再光彩照人,美人啊。
4.16.33
त्यजामि दारान्मम ये पुरातना भवन्तु दास्यस्तव चारुहासिनि ।
अहं च ते सुन्दरि दासवत्स्थितः सदा भविष्ये वशगो वरानने ॥ ४.१६.३३ ॥
甜美微笑的人啊,我抛弃我以前的妻子,让她们成为你的婢女。美人啊,我将像奴仆一样永远服从于你,美颜的人啊。