Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 4.22

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

4.22.1

सा सूतपुत्राभिहता राजपुत्री सुदुःखिता ।
वधं कृष्णा परीप्सन्ती सूतपुत्रस्य भामिनी ॥ ४.२२.१ ॥

被御者之子所辱的公主深感悲痛;那位刚烈的女子克里希纳(德罗波蒂)渴求他的死亡。

4.22.2

जगामावासमेवाथ तदा सा द्रुपदात्मजा ।
कृत्वा शौचं यथान्यायं कृष्णा सा तनुमध्यमा ॥ ४.२२.२ ॥

于是德鲁帕达之女返回住所;按规定行过净身之礼后,那位纤腰的克里希纳到了那里。

4.22.3

गात्राणि वाससी चैव प्रक्षाल्य सलिलेन सा ।
चिन्तयामास रुदती तस्य दुःखस्य निर्णयम् ॥ ४.२२.३ ॥

她用水洗净身体与衣裳,一边哭泣,一边思考解决那悲痛的办法。

4.22.4

किं करोमि क्व गच्छामि कथं कार्यं भवेन्मम ।
इत्येवं चिन्तयित्वा सा भीमं तं मनसाऽगमत्।
अन्यः कर्ता विना भीमान्न मेऽद्य मनसेप्सितम् ॥ ४.२२.४ ॥

“我该怎么办?去哪里?我的事情怎样才能成就?”这样思量之后,她在心中走向了那位比玛。今天,除了比玛,再没有别人能够实现我心中所愿。

4.22.5

प्रादुर्भूते क्षणे रात्रौ विहाय शयनं स्वकम् ।
दुःखेन महता युक्ता मानसेन मनस्विनी ।
प्राद्रवन्नाथमिच्छन्ती तथा नाथवती सती ॥ ४.२२.५ ॥

在夜半的某一刻,她离开自己的床榻,这位心志高远的女子满怀深深的悲痛,奔走而去,渴望一位保护者——这位贞洁的女子渴望有人保护她。

4.22.6

सा वै महानसं प्राप्य भीमसेनं सुचिस्मिता ।
उपासर्पत पाञ्चाली वासितेव महागजम् ॥ ४.२२.६ ॥

那位嫣然一笑的般遮罗公主来到厨房,走近比摩森那,如同发情的母象走近大象。

4.22.7

सर्वश्वेतेव माहेयी वने वृद्धा त्रिहायणी ।
महर्पभं यथा सुप्तमर्थिनी वननिर्झरे ।
संप्रसुप्तं तथा सिंहिं मृगराजवधूरिव ॥ ४.२२.७ ॥

如同全白的雌水牛,年老三岁,在森林溪边寻找熟睡的大公牛,又如同百兽之王的妻子靠近沉睡的狮子。

4.22.8

अभिप्रसार्य बाहुभ्यां पतिं सुप्तं समाश्लिषत् ।
सुजातं गोमतीतीरे सालं वल्लीव पुष्पिता ॥ ४.२२.८ ॥

她张开双臂拥抱熟睡的丈夫,如同开花的藤蔓缠绕在戈玛蒂河岸上生长茂盛的娑罗树。

4.22.9

परिस्पृस्य च पाणिभ्यां पतिं सुप्तमबोधयत् ।
श्रीरिवान्या महोत्साहं सुप्तं विष्णुमिवार्णवे ।
क्षौमावदाते शयने शयानं वृषभेक्षणम् ॥ ४.२२.९ ॥

她用双手触摸熟睡的丈夫将他唤醒,如同另一位吉祥天女在大海中唤醒沉睡的毗湿奴,那位大力的、牛眼的神,躺在白色丝绸的床上。

4.22.10

यथा शची देवराजं रुद्राणी शंकरं यथा ।
ब्रह्माणमिव सावित्री देवसेना गुहं यथा ॥ ४.२२.१० ॥

如同舍姬之于天王,如同鲁陀罗尼之于湿婆,如同萨维特丽之于梵天,如同天军之于室建。

4.22.11

दिशागजसमाकारं गजं गजवधूरिव ।
भीमं प्राबोधयत्कान्ता लक्ष्मीर्दामोदरं यथा ॥ ४.२२.११ ॥

如同母象唤醒如方位象般的公象,爱妻唤醒了毗摩,如同吉祥天女唤醒大腹之神(黑天)。

4.22.12

वीणेव मधुरालापा स्वरं गान्धारमाश्रिता ।
अभ्यभाषत पाञ्चाली कौरवं पाण्डुनन्दनम् ॥ ४.२२.१२ ॥

般遮离(黑公主)声音甜美如琵琶,以乾闼婆调发声,对般度之子、俱卢族之人说话。

4.22.13

उत्तिष्ठोत्तिष्ठ किं शेषे भीमसेन मृतो यथा ।
न मृतः स हि पापीयान्भार्यामालम्ब्य जीवति ॥ ४.२२.१३ ॥

起来,起来!婆罗多,你为何像死人一样躺着?那个恶人并未死去,他依靠妻子而活着。

4.22.14

तस्मिञ्जीवति पापिष्ठे सेनावाहे मम द्विषि ।
तत्कर्मं कृतवत्यद्य कथं निद्रां निषेवसे ॥ ४.२२.१४ ॥

那最恶的统帅,我的仇敌,仍然活着,并且今天做了那件事,你怎么还能安然入睡?

4.22.15

सुखसुप्तश्च तं शब्दं निशम्य स वृकोदरः ।
संवेदितः कुरुश्रेष्ठः तोत्रैरिव महागजः ॥ ४.२२.१५ ॥

那熟睡中的婆罗多之子听到那声音,像大象被刺棒惊动一样醒来——他是俱卢之最。

4.22.16

स वै विहाय शयनं यस्मिन्सुप्तः प्रबोधितः ।
उदतिष्ठदमेयात्मा पर्यङ्के सोत्तरच्छदे ॥ ४.२२.१६ ॥

他离开所睡的床榻,醒来后,这位心志无量的人从铺着被褥的卧榻上站了起来。

4.22.17

उपवेश्य च दुर्धर्पः पाञ्चालकुलवर्धनीम् ।
अथाब्रवीद्राजपुत्रीं कौरव्यो महिषीं प्रियाम् ॥ ४.२२.१७ ॥

他让般遮罗家族的增益者公主坐下,那位不可战胜的俱卢子孙便对他心爱的正妃说道。

4.22.18

केनार्थेन च संप्राप्ता त्वरितेव ममान्तिकम् ।
न ते प्रकृतिमान्वर्णः कृशा त्वमभिलक्ष्यसे ॥ ४.२२.१८ ॥

你是因为什么原因如此匆忙地来到我这里?你原本的肤色不见了,你看起来很消瘦。

4.22.19

प्रकाशं यदि वा गुह्यं सर्वमाख्यातुमर्हसि ।
आचक्ष्व त्वमशेषेण सर्वं विद्यामहं यथा ॥ ४.२२.१९ ॥

无论是公开的还是秘密的,你都应当全部说出来。请完整地告诉我一切,让我知道。

4.22.20

सुखं वा यदि वा दुःखं शुभं वा यदि वाऽशुभम् ।
यद्यप्यसुकरं कर्म कृतमित्यवधारय ॥ ४.२२.२० ॥

无论是幸福还是痛苦,善还是恶,即使所做之事十分艰难,也要知道它已经完成了。

4.22.21

अहमेव हि ते कृष्णे विश्वास्यः सर्वकर्मसु ।
अहमापत्सु चापि त्वां मोक्षयामि पुनः पुनः ॥ ४.२२.२१ ॥

克里希那啊,在一切事务上,只有我值得你信赖。即使在灾难中,我也会一次又一次地救你脱离。

4.22.22

शीघ्रमुक्त्वा यथाकामं यत्ते कार्यं विवक्षितम् ।
गच्छ वै शयनायैव यावदन्यो न बुध्यते ॥ ४.२२.२२ ॥

你想说的话,照你的意愿快速说完,然后去睡吧,免得别人察觉。

4.22.23

सा लञ्जमाना भीता च अधोमुखमुखी ततः ।
नोवाच किंचिद्वचनं बाष्पदूषितलोचना ॥ ४.२२.२३ ॥

她羞愧而害怕,低着头,泪水模糊了双眼,于是一句话也没有说。

4.22.24

अथाब्रवीद्भीमपराक्रमो बली वृकोदरः पाण्डवमुख्यसंमतः ।
प्रब्रूहि किं ते करवाणि सुन्दरि प्रियं प्रिये वारणमत्तगामिनि ॥ ४.२२.२४ ॥

于是,勇力无比、力大的狼腹(Bhīma)——被视为般度诸子中的首领——说道:美人啊,告诉我,我该为你做什么你喜欢的事?爱人啊,你行走如发情的象!

4.22.25

अशोच्यता कुतस्तस्या यस्या भर्ता युधिष्ठिरः ।
जानन्सर्वाणि दुःखानि किं मां भीमानुपृच्छसि ॥ ४.२२.२५ ॥

丈夫是坚战的人,怎会没有可悲之处?你明明知道所有的苦难,为何还要问我,怖军?

4.22.26

यन्मां दासीप्रवादेन प्रातिकामी तदाऽनयत् ।
सभायां परिषन्मध्ये तन्मे मर्माणि कृन्तति ॥ ४.२२.२६ ॥

那时,普拉提卡明以'婢女'之名将我带到议会中央,那话语割裂了我的要害。

4.22.27

विकृष्टा हास्तिनपुरे सभायां राजसंसदि ।
दुःशासनेन केशान्ते परामृष्टा रजस्वला ॥ ४.२२.२७ ॥

在哈斯蒂纳普尔的王家议会中,我被拖拽;难降抓住我的头发,那时我正处于经期。

4.22.28

क्षत्रियैस्तत्र कर्णाद्यैर्दृष्टा दुर्योधनेन च ।
श्वशुराभ्यां च भीष्मेण विदुरेण च धीमता।
द्रोणेन च महाबाहो कृपेण च परंतप ॥ ४.२२.२८ ॥

在那里,以迦尔纳为首的刹帝利、难敌、公公们、毗湿摩、智慧的维杜拉、德罗纳和克利巴都看见了我,啊,敌人的焚烧者!

4.22.29

साऽहं श्वशुरयोर्मध्ये भ्रातृमध्ये च पाण्डव ।
केशे गृहीत्वा च सभां नीता जीवति वै त्वयि ॥ ४.२२.२९ ॥

我在公公们和兄弟们中间,啊,般度之子,被揪着头发拉到议会中——而你还活着。

4.22.30

विप्रयुक्ता ततश्चाहं वने राज्याद्वनं गता ।
साऽहं वने दुर्वसतिं वसती त्वध्वकर्शिता ।
जटासुरपरिक्लेशात्प्राप्तापि सुमहद्भयम् ॥ ४.२२.३० ॥

此后我与你们分离,从王国走入森林。在森林中居住在艰苦的住处,被路途磨得精疲力竭,又因遭受恰塔苏罗的折磨而陷入极大的恐惧。

4.22.31

पार्थिवस्य सुता नाम कानु जीवेन मादृशी ।
अनुभूय भृशं दुःखमन्यत्र द्रौपदीं प्रभो ॥ ४.२२.३१ ॥

除了德罗波蒂,还有哪位与我一样活着的国王之女曾如此深重地受苦,主啊?

4.22.32

वनवासगता चाहं सैन्धवेन दुरात्मना ।
परामृष्टा द्वितीयं च सोद्रुमुत्सहते तु का ॥ ४.२२.३२ ॥

我在林中流放时,邪恶的信度王触碰了我。哪个女人敢第二次忍受这样的侮辱?

4.22.33

पद्भ्यां पर्यचरं चाहं देशान्विषमसंस्थितान् ।
दुर्गाञ्श्वापदसंकीर्णांस्त्वयि जीवति पाण्डवे ॥ ४.२२.३३ ॥

般度之子啊,你活着的时候,我步行穿越崎岖艰险、满是野兽的土地。

4.22.34

ततोऽहं द्वादशे वर्षे वन्यमूलफलाशना ।
इदं पुरमनुप्राप्ता सुदेष्णापरिचारिका।
परस्त्रियमुपातिष्ठे सत्यधर्मपरायणा ॥ ४.२२.३४ ॥

此后第十二年,我以林中根茎与果实为食,来到这座城,成为苏德什那的侍女。我坚守真实与法,侍奉他人之妻。

4.22.35

गोशीर्षकं पद्मकं च हरिश्यामं च चन्दनम् ।
नित्यं पिषे विराटस्य त्वयि जीवति पाण्डव ॥ ४.२२.३५ ॥

般度之子啊,你活着的时候,我每天为毗罗吒研磨牛头、莲花与青黑檀香。

4.22.36

साऽहं बहूनिः दुःखानि गणयामि न ते कृते ॥ ४.२२.३६ ॥

我不计算自己的许多苦难,即便是为了你的缘故,我也不去计算。

4.22.37

मत्स्यराजसमक्षं तु तस्य धूर्तस्य पश्यतः ।
कीचकेन पदा स्पृष्टा का नु जीवेत मादृशी ॥ ४.२२.३७ ॥

在摩差王面前,在那无赖注视之下,被吉伽卡以脚触碰的像我这样的女子,谁还能活下去?

4.22.38

एवं बहुविधैर्दुःखैः क्लिश्यमाना च पाण्डव ।
न मां जानासि कौन्तेय किं फलं जीवितेन मे ॥ ४.२२.३८ ॥

我如此被种种苦难折磨,难道你不认识我吗,般度之子?啊,贡蒂之子,我活着还有什么意义?

4.22.39

द्रुपदस्य सुता चाहं धृष्टद्युम्नस्य चानुजा ।
अग्निकुण्डात्समुद्भूता नोर्व्यां जातु चराम्यहम् ॥ ४.२२.३९ ॥

我是德鲁帕达之女,德里斯塔德尤姆那的胞妹,从祭火坛中诞生;我从未像寻常女子一样行走于大地之上。

4.22.40

कीचकं चेन्न हन्यास्त्वं ग्रीवां बद्ध्वा जले म्रिये ।
विषमालेड्य पास्यामि प्रवेक्ष्याम्यथवाऽनलं ॥ ४.२२.४० ॥

你若不杀吉伽卡,我便在水中以绳索系颈而死,或舔食毒药而饮,或投身火中。

4.22.41

आत्मानं नाशयिष्यामि वृक्षमारुह्य वा पते ।
शस्त्रेणाङ्गं च भेत्स्यामि किं फलं जीवितेन मे ॥ ४.२२.४१ ॥

我将毁灭自己,或爬上树,夫君啊,或以兵器刺穿我的身体。我活着还有什么意义?

4.22.42

योऽयं राज्ञो विराटस्य कीचको नाम भारत ।
सेनानीः पुरुषव्याघ्र स्यालः परमदुर्मतिः ॥ ४.२२.४२ ॥

婆罗多之裔啊,这位名叫吉伽卡的,是毗罗吒王的军队统帅——人中虎啊——是国王的内兄,心地极为邪恶。

4.22.43

स मां सैरन्ध्रिवेषेण वसन्तीं राजवेश्मनि ।
नित्यमेवाह दुष्टात्मा भार्या मम भवेति वै ॥ ४.२२.४३ ॥

我以侍女(sairandhrī)的装束住在王宫中,那恶念之人总是对我说:“你要成为我的妻子。”

4.22.44

तेनैवमुच्यमानाया वधार्हेणारिसूदन ।
कालेनेव फलं पक्वं हृदयं मे विदीर्यते ॥ ४.२२.४४ ॥

灭敌者啊!当那个应当被杀的人如此对我说话时,我的心如同时至而熟透的果实一般被撕裂。

4.22.45

शरणं भव कौन्तेय मा स्म गच्छे युधिष्ठिरम् ।
निरुद्योगं निरामर्षं निर्वीर्यमरिमर्दन ॥ ४.२२.४५ ॥

贡蒂之子啊,请做我的依靠,不要去找坚战。摧敌者啊,他既无作为,又无愤怒,也无勇力。

4.22.46

मा स्म सीमन्तिनी काचिञ्जनयेत्पुत्रमीदृशम् ॥ ४.२२.४६ ॥

愿任何女子都不要生下这样的儿子。

4.22.47

विजानामि तवामर्षं बलं वीर्यं च पाण्डव ।
ततोऽहं परिदेवामि चाग्रतस्ते महाबल ॥ ४.२२.४७ ॥

般度之子啊,我知道你的愤怒、力量与勇气;因此,大力者啊,我在你面前哀叹。

4.22.48

यथा यूथपतिर्मत्तः कुञ्जरः षाष्टिहायनः ।
भूमौ निपतितं बिल्वं पद्भ्यमाक्रम्य पीडयेत् ॥ ४.२२.४८ ॥

如同六十岁、狂暴的象群之首,用脚踩碎落在地上的木苹果。

4.22.49

तथैव च शिरस्तस्य निपात्य धरणीतले ।
वामेन पुरुषव्याघ्र मर्द मादेन पाण्डव ॥ ४.२२.४९ ॥

同样地,把他的头摔倒在地上,人中之虎啊,般度之子,用你的左脚把他踩碎吧。

4.22.50

स चेदुद्यन्तमादित्यं प्रातरुत्थाय पश्यति ।
कीचकः शर्वरीं व्युष्टां नाहं जीवितुमुत्सहे ॥ ४.२२.५० ॥

如果迦吉迦清晨起身,看见升起的太阳,夜晚过去天已亮,我便不敢活下去了。

4.22.51

शापितोसि मम प्राणैः सुकृतेनार्जुनस्य च ।
युधिष्ठिरस्य पादाभ्यां यमयोर्जीवितेन च।
कीचकस्य वधं नाद्य प्रतिजानासि भारत ॥ ४.२२.५१ ॥

我以我的性命、阿周那的功德、坚战的双足、双生子的生命起誓让你立誓:今天你不发誓杀死迦吉迦吗,婆罗多啊?

4.22.52

भ्रात च विगर्हस्व ज्येष्ठं दुर्द्यूतदेविनम् ।
यस्मास्मि कर्मणा प्राप्ता दुःखमेतदनन्तकम् ॥ ४.२२.५२ ॥

也要责备你那沉迷于恶劣赌博的长兄,因他的行为,我才陷入这无尽的痛苦。

4.22.53

येषां मुख्यतमो ज्येष्ठो भवेत्तु कुलपांसनः ।
भ्रातरं परमन्वीयुस्तेऽपि शालीनबुद्धयः ॥ ४.२२.५३ ॥

在那些家族中最年长、最重要的人是败坏家门者的人家里,他们也怀着谦卑的心,追随那位兄长。

4.22.54

को हि राज्यं परित्यज्य सपुत्रपशुबान्धवम् ।
प्रव्रजेत महारण्यमजिनैः परिवारितः ॥ ४.२२.५४ ॥

谁会舍弃王国、子嗣、牲畜和亲属,身披兽皮,走进大森林去出家呢?

4.22.55

यदि निष्कसहस्राणि यद्वाऽन्यत्सारवद्धनम् ।
सायं प्रातरदेविष्यदपि संवत्सरायुतम् ॥ ४.२२.५५ ॥

即使有成千上万的金币或其他大宗财富,早晚施舍,也可持续一万年。

4.22.56

रुक्मं हिरण्यं वासांसि यानं युग्यमजाविकम् ।
अश्वाश्वतरसङ्घाश्च न जातु क्षयमाव्रजेत् ॥ ४.२२.५६ ॥

金饰、黄金、衣物、车辆、役畜、山羊和绵羊,以及马与骡的群畜,都永远不会减少。

4.22.57

सोयं द्यूतप्रवादेन श्रियश्चैवावरोपितः ।
तूष्णीमास्ते यथा मूढः स्वानि कर्माणि चिन्तयन् ॥ ४.२२.५७ ॥

此人因赌博之言连财富也失去了,像愚人一样默然而坐,只顾思量自己的所作所为。

4.22.58

पुरा दशसहस्राणि दन्तिनां वाजिनामपि ।
यं यान्तमनुयान्ति स्म सोयं द्यूतेन जीवति ॥ ४.२२.५८ ॥

此人昔日出行时,万头象马随其左右,如今却靠赌博维生。

4.22.59

तथा शतसहस्राणि स्त्रीणाममिततेजसाम् ।
उपासते स्म राजानमिन्द्रप्रस्थे युधिष्ठिरम् ॥ ४.२२.५९ ॥

同样,在因陀罗补罗,数十万位光彩无限的女子侍奉国王坚战。

4.22.60

शतं दासीसहस्राणां यस्य नित्यं महानसे ।
पात्रहस्ता दिवारात्रमतिथीन्भोजयन्त्युत ॥ ४.२२.६० ॥

其大厨房中,数十万婢女手持器皿,日夜供养宾客。

4.22.61

एष निष्कसहस्राणि दत्त्वा प्रातर्दिनेदिने ।
द्यूतजेन ह्यनर्थेन महता समुपावृतः ॥ ४.२२.६१ ॥

他每天清晨都布施数千金币,却仍被由赌博带来的大灾难所困扰。

4.22.62

एनं सुस्वरसंपन्ना बहवः सूतमागधाः ।
सुप्तं प्रातरुपातिष्ठन्सुमृष्टमणिकुण्डलाः ॥ ४.२२.६२ ॥

许多声音甜美的歌者与赞颂者,佩戴着擦亮的宝石耳环,清晨在他仍熟睡时前来侍候。

4.22.63

सहस्रं वालखिल्यानां सहस्रमुदवासिनाम् ।
सहस्रमश्मकुट्टानां सहस्रं वायुभोजिनाम् ॥ ४.२२.६३ ॥

一千名瓦拉基利亚,一千名居水者,一千名碎石者,一千名食风者。

4.22.64

सहस्रं मुनिपत्नीनां सहस्रं ब्रह्मचारिणाम् ।
सहस्रं मौनशीलानां सहस्रं गृहमेधिनाम् ॥ ४.२२.६४ ॥

一千名贤者之妻,一千名梵行学童,一千名守默者,一千名居家者。

4.22.65

हंसाः परमहंसाश्च योगिनश्च द्विजातयः ।
कुटीरकाः परिव्राजो ये चान्ये वनचारिणः ॥ ४.२२.६५ ॥

天鹅与最上天鹅,瑜伽士与再生族,茅屋隐居者,游方苦行者,以及其他林中行者。

4.22.66

संविभक्तात्मकाश्चैव बहवश्चोर्ध्वरेतसः ।
चतुर्वेदविदो विप्राः शिक्षामीमांसपारगाः ।
क्रमपाठाश्च ये विप्राः सामाध्यायनिकाश्च ये ॥ ४.२२.६६ ॥

许多全心奉献者,上行精液的苦行者,通晓四吠陀、精通音韵与弥曼差的婆罗门,诵读克拉玛法的人,以及学习《娑摩吠陀》的婆罗门。

4.22.67

सहस्रमृषयो यस्य नित्यमासन्सभासदः ।
तपःश्रुतोपसंपन्नाः सर्वकामैरुपास्थिताः ॥ ४.२२.६७ ॥

在其议会中,常有千位圣仙为成员,他们具备苦行与学问,一切愿望都得到满足。

4.22.68

अन्धान्वृद्धाननाथांस्तु सर्वराष्ट्रेषु दुःखितान् ।
बिभर्त्यन्नार्थिनो नित्यमानृशंस्याद्युधिष्ठिरः ॥ ४.२२.६८ ॥

出于慈悲,坚战始终供养遍布诸国的盲人、老人、无依无靠者、受苦之人以及求食之人。

4.22.69

स एष निलयं प्राप्तो मत्स्यस्य परिचारकः ।
सभायां विनतो राज्ञः कङ्को नाम युधिष्ठिरः ॥ ४.२२.६९ ॥

这位坚战来到摩差王的宫中,充当他的侍者,并以“羯伽”之名谦卑地坐于王的议会中。

4.22.70

इन्द्रप्रस्थे निवसतः समये यस्य पार्थिवाः ।
आसन्बलिकराः सर्वे सोन्येभ्यो भृतिमिच्छति ॥ ४.२२.७० ॥

他居住在因陀罗补罗时,所有国王都向他纳贡;如今他却向他人求取生计。

4.22.71

पार्थिवाः पृथिवीपाला यस्यासन्वशवर्तिनः ।
स वशे विवशो राज्ञां परेषामद्य वर्तते ॥ ४.२२.७१ ॥

曾有守护大地的诸王臣服于他,如今他却在他王的掌控之下无能为力地生活。

4.22.72

संप्राप्य पृथिवीं कृत्स्नां रश्मिवानिव तेजसा ।
सोद्य राज्ञो विराटस्य सभास्तारो युधिष्ठिरः ॥ ४.२२.७२ ॥

他曾获得整个大地,并以如日般的光辉照耀;如今他却坐于毗罗吒王的议会中,充当侍从。

4.22.73

यमुपासत राजानं सभायामृषिसत्तमाः ।
तमुपासीनमद्यान्यं पश्य पाण्डव पाण्डवम् ॥ ४.२२.७३ ॥

在集会中,最优秀的仙人所侍奉的那位王,如今你看他坐着侍奉另一人,啊般度之子,般度之子。

4.22.74

अनवद्यं महाप्राज्ञं जीवितार्थेन संवृतम् ।
दृष्ट्वा कस्य न दुःखं स्याद्धर्मराजं युधिष्ठिरम् ॥ ४.२२.७४ ॥

见到无过、大智、因生计而困窘的法王坚战,谁能不感到悲痛呢?

4.22.75

उपास्ते स्म सभायां यं कृत्स्नाऽपि च वसुन्धरा ।
तमुपासीनमद्यान्यं पश्य भारत भारतम् ॥ ४.२२.७५ ॥

在他的集会中,整个大地都曾侍奉他,如今你看他坐着侍奉另一人,啊婆罗多,婆罗多。

4.22.76

एवं बहुविदैर्दुःखैः पीड्यमानामनाथवत् ।
शोकसागरमध्यस्थां किं मां भीम न पश्यसि ॥ ४.२२.७६ ॥

我如此被诸般苦难所折磨,如无依无靠之人站在悲伤的大海之中,啊毗摩,你为何不看我?

4.22.77

इदं तु मे दुःखतरं यत्त्वां वक्ष्यामि भारत ।
न मेऽभ्यसूया कर्तव्या दुःखादेतद्ब्रवीम्यहम् ॥ ४.२२.७७ ॥

啊婆罗多,我要告诉你的事更加痛苦。请不要因此怨恨我;我是因悲痛才说这些的。

4.22.78

शार्दूलैर्महिषैर्नागौरगारे योत्स्यसे सदा ।
कैकेय्याः प्रेक्षमाणायास्तदा मे कश्मलोऽभवत् ॥ ४.२२.७८ ॥

在宫中你总要与老虎、水牛和大象搏斗;当吉开伊注视时,我便感到一阵昏厥。

4.22.79

हसन्त्यन्तःपुरे नार्यो मम चेष्टां निरीक्ष्य च ॥ ४.२२.७९ ॥

内宫的女子看见我的举动,都笑了起来。

4.22.80

तत उत्थाय कैकेयी सर्वास्ताः प्रत्यभाषत ।
प्रेक्ष्य मामनवद्याङ्गीं कश्मलाभिहतामिव ॥ ४.२२.८० ॥

于是Kaikeyī起身回答她们所有人,看见我这个肢体无瑕之人,仿佛被忧惧击中。

4.22.81

स्नेहात्संवासजादेव तदा वै चारुहासिनी ।
युध्यमानं महावीर्यमिमं समनुशोचति ॥ ४.२२.८१ ॥

那时,这位笑容甜美的女子因共处而生的情谊,为这位正在作战的大勇士哀伤。

4.22.82

कल्याणरूपा सैरन्ध्री वललश्चापि सुन्दरः ।
स्त्रीणां चित्तं हि दुर्ज्ञेयं युक्तरूपौ हि मे मतौ ॥ ४.२२.८२ ॥

Sairandhrī容貌美好,Valala也英俊。女子的心意确实难以知晓;在我看来,这二人外貌相配。

4.22.83

सैरन्ध्री प्रियसंवासान्नित्यं करुणवादिनी ।
अस्मिन्राजकुले चैतौ तुल्यकालनिवासिनौ ॥ ४.२२.८३ ॥

Sairandhrī因亲近相伴,总是说着怜悯的话;在这王宫中,这二人居住的时间相同。

4.22.84

इति ब्रुवाणा वाक्यानि सा मां नित्यमजीजपत् ।
क्रुध्यन्तीं मां च संप्रेक्ष्य पर्यशङ्कत मां त्वयि ॥ ४.२२.८४ ॥

她说着这些话,总是安抚我;看见愤怒的我,她便对我生出了关于你的怀疑。

4.22.85

तस्यां तथा ब्रुवन्त्यां तु भीमो भीमपराक्रमः ।
नोवाच किंचिद्वचनं संरम्भाद्रक्तलोचनः ॥ ४.२२.८५ ॥

她如此说话时,勇武可怖的怖军因愤怒而双目通红,一言不发。

4.22.86

ज्ञात्वा-तु रुषितं भीमं द्रौपदी पुनरब्रवीत् ।
शोके यौधिष्ठिरे मग्ना नाहं जीवितुमुत्सहे ॥ ४.२२.८६ ॥

德罗波蒂知道怖军愤怒,便又说道:“沉溺于为坚战的悲伤之中,我已无心活下去。”

4.22.87

यंस्तु देवान्मनुष्यांश्च सर्वानेकरथोऽजयत् ।
सोयं राज्ञो विराटस्य कन्यानां नर्तको युवा।
आस्ते वेषप्रतिच्छन्नः कन्यानां परिचारकः ॥ ४.२२.८७ ॥

那位独乘一车战胜诸神与众人的人,这位年轻的舞者如今乔装成为毗罗吒王的侍女们的仆役。

4.22.88

योऽतर्पयदमेयात्मा खाण्डवे जातवेदसम् ।
सोऽन्तःपुरगतः पार्थः कूपेऽग्निरिव संवृतः ॥ ४.२२.८८ ॥

在珂那婆林中令火神满足的那位无量心者——般度之子,如今已进入内宫,隐匿如井中之火。

4.22.89

यस्माद्भयममित्राणां सदैव पुरुषर्षभात् ।
स लोकपरिभूतेन वेषेणास्ते धनंजयः ॥ ४.२२.८९ ॥

众人中的雄牛,敌人始终畏惧的那位,财主(阿周那)如今穿着被世人轻视的服饰居住。

4.22.90

यस्यं ज्यातलनिर्घोषात्समकम्पन्त शत्रवः ।
षण्डरूपं वहन्तं तं गीतं नृत्तावलम्बनम् ।
कुर्वन्तमर्जुनं दृष्ट्वा न मे स्वास्थ्यं मनो व्रजेत् ॥ ४.२२.९० ॥

其弓弦之响令众敌齐齐颤抖——见阿周那扮作阉人之形,歌唱并以舞蹈为生,我的心无法平静。

4.22.91

स्त्रियो गीतस्वरात्तस्य मुदिताः पर्युपासते ॥ ४.२२.९१ ॥

女子们被他歌声所打动,欢喜地围坐在他身旁侍奉。

4.22.92

किरीटं सूर्यसंकाशं यस्य मूर्धन्यशोभत ।
वेणीविकृतकेशान्तः सोऽयमद्य धनंजयः ॥ ४.२२.९२ ॥

昔日头上戴着如太阳般耀眼的宝冠、发梢编成辫子的,正是这位财主(Dhanaṃjaya)——今天就是他。

4.22.93

यस्मिन्नस्त्राणि दिव्यानि समस्तानि महात्मनि ।
आधारः सर्वविद्यानां यो धारयति कुण्डले ॥ ४.२२.९३ ॥

在那位大德之人身上具有一切神兵,他是一切学问的根基,并佩戴着两只耳环。

4.22.94

यं वै राजसहस्राणि तेजसाऽप्रतिमं भुवि ।
समरे नातिवर्तन्ते वेलामिव महोर्मयः ॥ ४.२२.९४ ॥

在大地上,其无与伦比的光辉,即便成千上万的国王在战场上也无法超越,正如大浪不越过海岸。

4.22.95

सोयं राज्ञो विराटस्य कन्यानां नर्तको युवा ।
आस्ते वेषप्रतिच्छन्नः कन्यानां परिचारकः ॥ ४.२२.९५ ॥

这位年轻人是毗罗吒王的女儿们的舞者;他隐藏于伪装之中,作为侍从留在少女们身边。

4.22.96

यस्य स्म रथनिर्घोषात्समकम्पत मेदिनी ।
सपर्वतवनाकाशा सहस्थावरजङ्गमा ॥ ४.२२.९६ ॥

其战车的轰鸣使大地连同山岳、森林与天空,以及一切动与不动的生灵,一同震颤。

4.22.97

यस्मिञ्जाते महेष्वासे कुन्त्याः प्रीतिरवर्धत ।
न स शोचति मामद्य भीमसेन तवानुजः ॥ ४.२२.९७ ॥

那位大弓手出生时,贡蒂的喜悦增长。婆罗门啊,婆摩森,你的幼弟今天却不为我悲伤。

4.22.98

विभूषितमलंकारैः कुण्डलैः परिपातुकैः ।
कम्बुपाणिमथायान्तं दृष्ट्वा सीदति मे मनः ॥ ४.२२.९८ ॥

他身饰珠宝,耳戴闪亮的耳环,手持海螺走来,我看见他,心便沉下去。

4.22.99

वेणीविकृतकेशान्तं भीमधन्वानमर्जुनम् ।
कन्यापरिवृतं दृष्ट्वा शोकं गच्छति मे मनः ॥ ४.२२.९९ ॥

我看见手持可怖之弓的阿周那,发辫垂着,发梢已改换,被少女们环绕,我的心便陷入悲伤。

4.22.100

यदा ह्येनं परिवृतं कन्याभिर्देवरूपिणम् ।
प्रच्छन्नमिव मातङ्गं परिपूर्णं करेणुभिः ॥ ४.२२.१०० ॥

当他身形如神,被少女环绕,宛如隐匿的象群中的大象被母象簇拥……

4.22.101

मात्स्यं पार्थं च गायन्तं विराटं समुपस्थितम् ।
पश्यामि तूर्यमध्यस्थं दृष्ट्वा मुह्यति मे मनः ॥ ४.२२.१०१ ॥

我看见阿周那在摩茨耶王毗罗吒面前歌唱,立于乐师之中;见此情景,我的心陷入迷惑。

4.22.102

नूनमार्या न जानाति कृच्छ्रं प्राप्तं धनंजयम् ।
अजातशत्रुं कौरव्यं मग्नं द्युर्द्यूतदेविनम् ॥ ४.२२.१०२ ॥

这位尊贵的夫人必定不知道,达那闼耶陷入了困境,而那位考罗婆族的阿闍多世,已沉溺于赌博之中。

4.22.103

ऐन्द्रवारुणवायव्यब्रह्माग्नेयैः सवैष्णवैः ।
अग्नीन्संतर्पयन्पार्थः सर्वशत्रुनिबर्हणः।
दिव्यैरस्त्रैरमेयात्मा सर्वांश्चैकरथोऽजयत् ॥ ४.२२.१०३ ॥

以因陀罗、伐楼那、风神、梵天与火神的神圣武器,并以毗湿奴之武器供养诸火,灭尽一切敌人的不可量度之自我的般度子阿周那,独自乘车,战胜了所有人。

4.22.104

कौबेरं वैष्णवं शैवमस्त्राण्यन्यानि भारत ।
दर्शयन्नस्त्रवीर्यं च वासुदेवसहायवान् ॥ ४.२२.१०४ ॥

婆罗多啊,他展示了俱毗罗、毗湿奴、湿婆及其他的武器,显示了武器的威力,并有婆苏提婆为助。

4.22.105

दिव्यं गान्धर्वमस्त्रं च वायव्यमथ वैष्णवम् ।
ब्राह्मं पाशुपतं चैव स्थूणाकर्णं च दर्शयन् ॥ ४.२२.१०५ ॥

展示神圣的乾达婆武器、风神武器,随后是毗湿奴、梵天、大自在天武器以及柱耳武器。

4.22.106

पौलोमान्कालकेयांश्च इन्द्रशत्रून्महाबलान् ।
निवातकवचैः सार्धं घोरानेकरथोऽजयत्।
सोन्तःपुरगतः पार्थः कूपेऽग्निरिव संवृतः ॥ ४.२२.१०६ ॥

他独自乘一车,战胜了因陀罗的强大敌人波罗摩与迦拉刻亚,以及尼婆多迦婆迦的可怖军队;住在后宫的般度子,犹如被封闭在井中的火。

4.22.107

यो वै महातपः कुर्वन्महाबलपराक्रमः ।
युद्धेन तोषयामास शंकरं शूलपाणिनम् ॥ ४.२२.१०७ ॥

他修大苦行,以大力与勇武,通过战斗使持三叉戟的商羯罗欢喜。

4.22.108

कन्यापुरगतं दृष्ट्वा गोष्ठेष्विव महावृषम् ।
स्त्रीवेषविकृतं पार्थं कुन्तीं गच्छति मे मनः ॥ ४.२२.१०८ ॥

看见般度子进入后宫,犹如牛栏中的大公牛,以女装伪装,我的心便向着贡蒂之子而去。

4.22.109

यः स्त्रीभिर्नित्यसंपन्नो रूपेणास्त्रेण मेधया ।
सोऽश्वबन्धो विराटस्य पश्य कालस्य पर्ययम् ॥ ४.२२.१०९ ॥

他曾在众女之中常受尊崇,精通容貌、武艺与智慧,如今却是毗罗吒的马夫。看吧,时运的逆转。

4.22.110

राजकन्याश्च वेश्याश्च विशां दुहितरश्च याः ।
सर्वाः सारयुता नार्यो दामग्रन्थिवशं गताः ।
प्रेष्यकर्मणि तं दृष्ट्वा शोचामि विलपामि च ॥ ४.२२.११० ॥

公主、妓女与商人之女,所有贤淑的女子都受制于那打结的绳索。见他从事仆役之事,我悲伤而哀哭。

4.22.111

विराटमुपतिष्ठन्तं दर्शयन्तं च वाजिनम् ।
अभ्यकीर्यन्त बृन्दानि दामग्रन्थिमुदीक्षितुम् ।
विनयन्तं जवेनाश्वान्धर्मराजस्य पश्यतः ॥ ४.२२.१११ ॥

他侍奉毗罗吒、展示良马时,人们聚集观看那赌注的绳结。在法王注视之下,他迅速调教马匹。

4.22.112

किंनु मां मन्यसे पार्थ सुखितेति परन्तप ।
तथा दृष्ट्वा यवीयांसं सहदेवं युधांपतिम् ॥ ४.२२.११२ ॥

哦,阿周那,焚敌者!你为何以为我安乐?同样,见到幼弟偕天,那群战士之主。

4.22.113

तं दृष्ट्वा गोषु गोसङ्ख्यं वत्सचर्मक्षितीशयम् ।
दुःखशोकपरीताङ्गी पाण्डुभूताऽस्मि पाण्डव ॥ ४.२२.११३ ॥

看见他在牛群中数牛,睡在地上的牛犊皮上,哦,般度之子,我被忧愁与悲伤所围绕的身体已变得苍白。

4.22.114

सहदेवस्य वृत्तानि चिन्तयन्ती पुनःपुनः ।
न पश्यामि महाभाग सहदेवस्य दुःष्कृतम्।
यस्मादेवंविधं क्लेशं प्राप्नुयात्सत्यविक्रमः ॥ ४.२२.११४ ॥

我反复思量萨哈德瓦的品行,尊贵的女士啊,我看不出萨哈德瓦有什么过错,使这位真正勇武的人要遭受如此苦难。

4.22.115

दूयामि भरतश्रेष्ठ दृष्ट्वा ते भ्रातरं प्रियम् ।
गोषु गोवृषसंकाशं मात्स्येनापि निवेशितम् ॥ ४.२२.११५ ॥

婆罗多族最优秀的人啊,看到你亲爱的兄弟竟被摩差国王安置在牛群之中,如同牛群中的公牛,我心中痛苦。

4.22.116

संरब्धतररक्ताक्षं गोपालानां पुरोगमम् ।
विराटमभिनन्दन्तं वित्ते मे भवति ज्वरः ॥ ४.२२.११६ ॥

看到毗罗吒国王怒目赤红,身为牧人之首,沉醉于财富,我的心中便如发烧一般灼热。

4.22.117

सहदेवं हि मे नित्यं वीरमार्या प्रशंसति ।
महाभिजनसंपन्नो नीतिमान्कुलवानपि ॥ ४.२२.११७ ॥

高贵的夫人总是称赞我的英雄萨哈德瓦,他出身高贵,有智慧,且家世良好。

4.22.118

हीनिषेवो ह्यनवमो धार्मिकश्च प्रियश्च मे ।
स तेऽरण्येषु वोढव्यः पाञ्चालि रजनीष्वपि ॥ ४.२२.११८ ॥

他谦逊、无可挑剔、正直,也是我所珍爱的人。般遮离啊,即便在森林中、在夜晚,也应由他来照顾你。

4.22.119

सुकुमारश्च शूरश्च राजानं चाप्यनुव्रतः ।
ज्येष्ठापचायिनं वीरं स्वयं पाञ्चालि भोजयेः ॥ ४.२२.११९ ॥

他柔弱却勇猛,也忠于国王,尊敬兄长。般遮离啊,那位英雄,你应亲自为他备食。

4.22.120

इत्युवाच हि मां कुन्ती रुदती पुत्रगृद्धिनी ।
प्रव्रजन्तं महारण्यं तं परिष्वज्य तिष्ठती ॥ ४.२२.१२० ॥

库提一边哭泣,一边渴望着她的儿子,这样对我说;当他启程前往大森林时,她拥抱着他站立。

4.22.121

तं दृष्ट्वा गोषु गोपालवेषमास्थाय धिष्ठितम् ।
सहदेवं युधांश्रेष्ठं किंनु जीवामि पाण्डवः ॥ ४.२२.१२१ ॥

看见他——勇士中的最优者萨哈德瓦——身着牧童的装束站在牛群之中,哦,般度之子,我如何还能活下去?

4.22.122

एवं दुःखशताविष्टा युधिष्ठिरनिमित्ततः ॥ ४.२२.१२२ ॥

因为坚战,她就这样被百般苦难所缠绕,

4.22.123

पुनः प्रतिविशिष्टानि दुःखानि शृणु भारत ।
वर्धन्ते मयि कौन्तेय वक्ष्याम्यन्यानि तानि वै ॥ ४.२२.१२३ ॥

婆罗多之子啊,请再听那些特别属于我的苦难。它们在我心中增长,俱卢之子啊;其他的我也将告诉你。

4.22.124

युष्मासु ध्रियमाणेषु दुःखानि विविधान्युत ।
शोषयन्ति शरीरं मे किंनु दुःखतरं ततः ॥ ४.२२.१२४ ॥

即便你们都还活着,种种苦难仍然折磨我的身体。还有什么比这更痛苦的呢?

4.22.125

एकभर्ता तु या नारी सा सुखेनैव वर्तते ।
पञ्च मे पतयः सन्ति मम दुःखमनन्तकम् ॥ ४.२२.१२५ ॥

只有一个丈夫的女子,确实过着幸福的生活;我却有五个丈夫,我的苦难无穷无尽。