摩诃婆罗多 · 章 4.24
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.24.1
आश्वासयंस्तां पाञ्चालीं भीमसेन उवाच ह ।
शृणु भद्रे वरारोहे क्रोधात्तत्र तु चिन्तितम् ॥ ४.२४.१ ॥
毗摩先那安慰般遮利说:“请听,吉祥的、腰肢美好的女人,我在愤怒中在那里所想定的。”
4.24.2
त्वं वै सभागतां दृष्ट्वा मात्स्यानां कदनं महत् ।
कर्तुकामेन भद्रं ते वृक्षश्चावेक्षितो मया ॥ ४.२४.२ ॥
我见你来到会场,想要对摩差人造成大屠杀——愿你吉祥——我便望向那棵树。
4.24.3
तत्र मां धर्मराजस्तु कटाक्षेण न्यवारयत् ।
तज्ज्ञात्वाऽवाङ्भुखस्तूष्णीमास्थितोस्मि महानसं ॥ ४.२४.३ ॥
那里,法王以斜视制止了我。我明白了,便低着头默默站在厨房里。
4.24.4
शृणुष्वान्यत्प्रतिज्ञातं यद्वदामीह भामिनि ।
धिगस्तु मे बाहुबलं गाण्डीवं फल्गुनस्य च।
यत्ते रक्तौ पुरा भूत्वा पाणी कृतकिणाविमौ ॥ ४.२४.४ ॥
美丽的女子啊,请听我在此所发的另一誓言:耻辱归于我的臂力,也耻辱归于阿周那的甘狄拔弓;因为你这双手,先前泛红,如今已生出茧子。
4.24.5
तदद्य मां तु तपति यत्कृतं न मया पुरा ।
सभायां स्म विराटस्य करोमि कदनं महत् ॥ ४.२४.५ ॥
因此今天烧灼我的,是我先前未做的事:我要在毗罗吒的会场中造成大屠杀。
4.24.6
तत्र मे कारणं भाति कौन्तेयो यत्प्रतीक्षते ।
तदहं तस्य विज्ञाय स्थितो धर्मस्य शासने ॥ ४.२४.६ ॥
那里我的理由似乎是:贡蒂之子在等待。因此,我明白了他的意图,便安住在法的教令之下。
4.24.7
यच्च राज्यात्प्रच्यवनं कुरूणामवधश्च यः ।
सुयोधनस्य कर्णस्य शकुनेः सौबलस्य च ॥ ४.२४.७ ॥
以及俱卢族失去王国,以及由苏约达那、迦尔纳、沙恭尼(苏波罗之子)所造成的杀戮。
4.24.8
दुःशासनस्य पापस्य यन्मया न हृतं शिरः ।
तन्मां दहति कल्याणि हृदि शल्यमिवार्पितम् ॥ ४.२४.८ ॥
我没有砍下恶人难敌奇(Duḥśāsana)的头颅——吉祥的女子啊,这如同钉在心中的刺,灼烧着我。
4.24.9
अपि चान्यद्वरारोहे स्मरिष्यसि वचो मम ।
पुण्ये तीरे सरस्वत्या यत्प्रतिष्ठाम संगताः ।
तत्राहमब्रवं कृष्णे सर्वक्लेशाननुस्मरन् ॥ ४.२४.९ ॥
还有,美腰的女子啊,你会记得我的另一句话:在圣洁的萨拉斯瓦蒂河岸,我们聚集商议居所时,我回想着一切苦难,在那里说了。
4.24.10
न चाहमनुगच्छेयं धर्मराजं युधिष्ठिरम् ।
धनञ्जयं च पाञ्चालि माद्रिपुत्रौ च भ्रातरौ।
कृत्वैतां च मतिं कृष्णे युधिष्ठिरमगर्हयम् ॥ ४.२४.१० ॥
我不会追随法王坚战(Yudhiṣṭhira)、白财(Dhanañjaya)、般遮罗的女儿啊,也不会追随摩德丽的两个儿子。以这个决定,克里希那啊,我责备了坚战。
4.24.11
परुषं वचनं श्रुत्वा मम धर्मात्मजस्तदा ।
हीमान्वाक्यमहीनार्थं ब्रुवन्राजा युधिष्ठिरः ।
सर्वानन्वनयद्भ्रातॄन्मुनेर्धौम्यस्य पश्यतः ॥ ४.२४.११ ॥
我说了这些粗暴的话,正直之子、谦逊的国王坚战听后,便一边说着有意义的话,一边在仙人火祭师(Dhaumya)面前把所有兄弟召了回来。
4.24.12
मा रोदी राज्ञि लोकानां सर्वागमगुणान्विता ।
रक्षितव्यं सहास्माभिः सत्यमप्रतिमं भुवि ॥ ४.२४.१२ ॥
王后啊,你具备诸经典的一切德性,不要哭泣。我们大家应当共同守护大地上无与伦比的真理。
4.24.13
अनुनीतेषु चास्मासु अनुनीता त्वमप्यसि ।
मा धर्मं जहि सुश्रोणि क्रोधं जहि महामते ॥ ४.२४.१३ ॥
我们已被安抚,你也已被安抚。美臀的女子啊,不要舍弃法;大智慧的人啊,舍弃愤怒吧。
4.24.14
इमं तु समुपालम्भं त्वत्तो राजा युधिष्ठिरः ।
शृणुयाद्यदि कल्याणि कृत्स्नं जह्यात्स जीवितं ॥ ४.२४.१४ ॥
吉祥的女子啊,如果国王坚战从你这里听到这番责备,他会舍弃他的整个生命。
4.24.15
धनञ्जयो वा सुश्रोणि यमौ चापि सुमध्यमे ।
लोकान्तरगतेष्वेषु नाहं शक्ष्यामि जीवितुम् ॥ ४.२४.१५ ॥
美臀的女子啊,苗条腰身的女子啊,若是阿周那,或是那对孪生兄弟,去往他界,我便无法独自活下去。
4.24.16
धर्मं शृणुष्व पाञ्चालि यत्ते वक्ष्यामि मानिनि ॥ ४.२४.१६ ॥
般遮罗的女子啊,高贵的女子啊,请听我要对你说的法。
4.24.17
दुहिता जनकस्यासीद्वैदेही यदि ते श्रुता ।
पतिमन्वचरत्सीता महारण्यनिवासिनम् ॥ ४.२४.१७ ॥
如果你曾听说,毗提诃国王遮那迦之女悉多,曾跟随居住在大森林中的丈夫。
4.24.18
वसन्ती च महारण्ये रामस्य महिषी प्रिया ।
रावणेन हृता सीता राक्षसीभिश्च तर्जिता।
सा क्लिश्यमाना सुश्रोणी राममेवान्वपद्यत ॥ ४.२४.१८ ॥
住在大森林中的罗摩所爱的正妃悉多,被罗波那劫走,又被罗刹女们威胁。受尽折磨的这位细腰美人,唯独依恋着罗摩。
4.24.19
लोपामुद्रा तथा भीरु भर्तारमृषिसत्तमम् ।
भगवन्तमगस्त्यं सा वनायैवान्वपद्यत ॥ ४.२४.१९ ॥
同样,胆怯的罗波穆德罗以圣者中最优秀的尊贵者阿伽斯提亚为夫,随他走入森林。
4.24.20
सुकन्या नाम शर्यातेर्भार्गवच्यवनं वने ।
वल्मीकभूतं साध्वी तमन्वपद्यत भामिनी ॥ ४.२४.२० ॥
沙雅提之女苏干雅,贞洁而光彩的女子,跟随婆利古族的遮耶那,他在林中已化为蚁垤。
4.24.21
नालायनी चेन्द्रसेना रूपेणाप्रतिमा भुवि ।
पतिमन्वचरद्वृद्धं पुरा वर्षसहस्रिणम् ॥ ४.२४.२१ ॥
那罗耶尼与因陀罗塞娜,在大地上容貌无双,往昔曾侍奉一位已年千岁的年老丈夫。
4.24.22
नलं राजानमेवाथ दमयन्ती वनान्तरे ।
अन्वगच्छत्पुरा कृष्णे तथा भर्तॄंस्त्वमन्वगाः ॥ ४.२४.२२ ॥
往昔达摩衍蒂在林中深处,只跟随国王那罗。黑女啊,你也同样跟随了你的丈夫们。
4.24.23
यथैताः कीर्तिता नार्यो रूपवत्यः पतिव्रताः ।
तथा त्वमपि कल्याणि सर्वैः समुदिता गुणैः ॥ ४.२४.२३ ॥
正如这些美丽而忠于丈夫的女子被提及,吉祥的你也同样具备一切美德。
4.24.24
मा दीर्घं क्षम कालं त्वं त्रिंशद्रात्रमनिन्दिते ।
पूर्णे त्रयोदशे वर्षे राज्ञां राज्ञी भविष्यसि ॥ ४.२४.२४ ॥
无瑕的女子啊,你要长久忍耐。待三十夜与第十三年圆满,你将成为众王之后。
4.24.25
सत्येन ते शपे चाहं भविता नान्यथेति च ॥ ४.२४.२५ ॥
我以真实向你起誓:必定如此,不会有他。
4.24.26
सर्वासां परमस्त्रीणां प्रामाण्यं कर्तुमर्हसि ।
सर्वेषां च नरेन्द्राणां मूर्ध्नि स्थास्यसि भामिनि ॥ ४.२४.२६ ॥
你应当统领所有尊贵的女子,光彩照人的你,将立于所有君王之上。
4.24.27
भर्तृभक्त्या च वृत्तेन भोगानाप्स्यसि दुर्लभान् ।
यातायां तु प्रतिज्ञायां महान्तं भोगमाप्नुयाः ॥ ४.२४.२७ ॥
凭借对夫君的忠诚与良好的品行,你将获得珍贵的享受;誓约之期过后,你将得到极大的享乐。
4.24.28
गुरुभक्तिकृतं ज्ञात्वा राज्ञां मूर्ध्नि स्थिता भवेः ॥ ४.२४.२८ ॥
人们知道你是出于对尊长的敬爱而行,你将立于众王之首。
4.24.29
आर्तप्रलापा कौन्तेय न राजानमुपालभे ।
अपारयन्त्या दुःखानि कृतं बाष्पप्रमोचनम् ॥ ४.२४.२९ ॥
贡蒂之子啊,我在悲痛中哀叹,但我不责怪国王。因不能忍受苦难,我洒下了泪水。
4.24.30
इदं तु दुःखं कौन्तेय ममासद्यं निबोध तत् ॥ ४.२४.३० ॥
孔提之子啊,请听我遭遇的这份痛苦。
4.24.31
योऽयं राज्ञो विराटस्य सूतपुत्रस्तु कीचकः ।
स्यालो नाम प्रवादेन भोजस्त्रैगर्तदेशजः ॥ ४.२४.३१ ॥
这个毗罗吒王的御者之子迦吉迦,据说是他的内兄,出身婆闍族,生于三摩竭国。
4.24.32
त्यक्तधर्मो नृशंसश्च सर्वार्थेषु च वल्लभः ।
नित्यमेवाह दुष्टात्मा भार्या मे भव शोभने ।
अविनीतः सुदुष्टात्मा मामनाथेति चिन्तयन् ॥ ४.२४.३२ ॥
这个丧失法义、残忍、在诸事上受宠的恶心之人,经常说:“美人啊,做我的妻子吧。”这个无礼至极的恶人,见我无依无靠,便如此盘算。
4.24.33
किमुक्तेन व्यतीतेन भीमसेन महाबल ।
प्रत्युपस्थितकालस्य कार्यस्यानन्तरो भव ॥ ४.२४.३३ ॥
说过去的事有什么用呢?婆罗摩娑那啊,大力者,请立即投身于已到时机的大事。
4.24.34
ममेह भीम कैकेयी रूपाद्धि भयशङ्किता ।
नित्यमुद्विजते राजा कथं नेयादिमामिति ॥ ४.२४.३४ ॥
婆罗摩啊,此处的迦吉耶(王后)因我的容貌而心怀恐惧,时常忧虑;国王也总是不安,想着:“怎样才能不把她带到他那里去呢?”
4.24.35
तस्या विदित्वा तं भावं स्वयं चानृतदर्शनः ।
कीचकोपि च दुष्टात्मा पुनः प्रार्थयते च मां ॥ ४.२४.३५ ॥
迦吉迦察知了她的意图,自己也是外表虚伪的恶人,又再次来向我哀求纠缠。
4.24.36
तमहं कुपिता भीम पुनः कोपं नियम्य च ।
अब्रवं कामसंमूढमात्मानं रक्ष कीचक ॥ ४.२४.३६ ॥
我愤怒,又压抑怒火,对被欲望迷惑的他说:迦ék迦啊,保护你自己。
4.24.37
गन्धर्वाणामहं भार्या पञ्चानां महिषी प्रिया ।
ते त्वां निहन्युर्दुर्धर्षाः शूराः साहसकारिणः ॥ ४.२४.३७ ॥
我是健达缚们的妻子,是五人所爱的正妃。那些不可战胜、英勇而大胆的人,会杀死你。
4.24.38
एवमुक्तस्तु दुष्टात्मा कीचकः प्रत्युवाच ह ।
नाहं बिभेमि भैरन्ध्रि गन्धर्वाणां शुचिस्मिते ॥ ४.२४.३८ ॥
被这样说后,心怀恶意的迦ī迦答道:罗摩啊,我不怕健达缚,哦,笑容纯洁的女子,婆罗门女。
4.24.39
शतं सहस्रमपि वा गन्धर्वाणामहं रणे ।
समागतं हनिष्यामि त्वं भीरु कुरु मे क्षणम् ॥ ४.२४.३९ ॥
即使数百或数千健达缚在战场聚集,我也将杀死他们。胆怯的女子啊,给我片刻时间吧。
4.24.40
इत्युक्ता चाब्रवं सूतं कामातुरमहं पुनः ।
न त्वं प्रतिबलस्तेषां गन्धर्वाणां यशस्विनाम् ॥ ४.२४.४० ॥
我说完这些,又对被欲望煎熬的车夫说:你不是那些荣耀的健达缚的对手。
4.24.41
धर्मे स्थिताऽस्मि सततं कुलशीलसमन्विता ।
नेच्छामि किंचिद्वध्यं त्वां तस्माज्जीवसि कीचक ॥ ४.२४.४१ ॥
我常住于法,具足高贵的家族与德行。我不愿你受任何伤害;因此,迦ī迦啊,你才得以活着。
4.24.42
एवमुक्तस्तु दुष्टात्मा प्रहस्य स्वनवत्ततः ।
न तिष्ठिति स सन्मार्गे न च धर्मं बुभूषति ॥ ४.२४.४२ ॥
被如此说后,心术邪恶的吉查卡大笑并大声咆哮。他不走正道,也不愿奉行法义。
4.24.43
पापात्मा पापकारी च कामराजवशानुगः ।
अविनीतश्च दुष्टात्मा प्रत्याख्यातः पुनः पुनः ॥ ४.२४.४३ ॥
心怀罪恶、行恶、听从欲望之王摆布、无礼而心术邪恶的吉查卡,已被一再拒绝。
4.24.44
दर्शनेदर्शने हन्याद्यदि जह्यां च जीवितम् ।
धर्मे प्रयतमानानां महान्धर्मो नशिष्यति ॥ ४.२४.४४ ॥
若他或见或不见地杀我,我也将舍弃生命;为法而努力者的大法,不会灭亡。
4.24.45
समयं रक्षमाणानां दारा वो न भवन्ति च ।
भार्याजां रक्ष्यमाणायां प्रजा भवति रक्षिता।
प्रजायां रक्ष्यमाणायामात्मा भवति रक्षितः ॥ ४.२४.४५ ॥
守护自己誓约的人,妻子不会失去。妻子受到保护,子嗣便受到保护;子嗣受到保护,自我便受到保护。
4.24.46
वंदतां वर्णधर्मांश्च ब्राह्मणानां च मे श्रुतम् ।
क्षत्रियस्य सदा धर्मो नान्यो दस्युनिबर्हणात् ॥ ४.२४.४६ ॥
我从讲说种姓法则的婆罗门那里听说:刹帝利的法,永远只是诛灭盗贼,别无其他。
4.24.47
पश्यतो धर्मराजस्य कीचको माऽन्वधावत ।
तवेव च समक्षं वै भीमसेन महाबल ॥ ४.२४.४७ ॥
在法王眼前,吉查卡不要追逐我;大力的婆罗多,这就发生在你的眼前啊,毗摩先那。
4.24.48
त्वया चाहं परित्राता भीम तस्माञ्जटासुरात् ॥ ४.२४.४८ ॥
婆罗,那次是你从jaṭāsura妖怪手中救了我。
4.24.49
जयद्रथं तथैव त्वमजैषीर्भ्रातृभिः सह ।
जहीममपि पापिष्ठं योयं मामवमन्यते ।
कीचको राजवाल्लभ्याच्छोककृन्मम भारत ॥ ४.२४.४९ ॥
你和兄弟们也曾这样击败了贾耶陀罗。那个轻慢我的最邪恶的羯遮迦,也请你杀掉。因为国王的宠爱,羯遮迦使我悲伤,婆罗多之子啊。
4.24.50
कीचकं कामसन्तप्तं भिन्धि कुम्भमिवाश्मनि ।
यो निमित्तमनर्थानां बहूनां मम भारत ॥ ४.२४.५० ॥
把被欲望煎熬的羯遮迦像摔碎石上的陶罐一样摔碎吧。他是我许多灾祸的根源,婆罗多之子啊。
4.24.51
तं चेञ्जीवन्तमादित्यः प्रातरभ्युदयिष्यति ।
विषमालोड्य पास्यामि मा कीचकवशंगमम् ॥ ४.२४.५१ ॥
如果他仍活着,明早太阳升起,我便调和毒药饮下,决不落入羯遮迦的掌控。
4.24.52
श्रेयो हि मरणं मह्यं भीमसेन तवाग्रतः ।
इत्युक्त्वा प्रारुदत्कृष्णा भीमस्योरसि संश्रिता ॥ ४.२४.५२ ॥
婆罗摩旃那啊,在你面前死去对我而言才是最好的。说罢,黑天女依偎在婆罗怀中放声痛哭。
4.24.53
भीमश्च तां परिष्वज्य महत्सान्त्वं प्रयुज्य च ।
कीचकं मनसाऽगच्छत्सृक्किणी परिलेलिहन् ॥ ४.२४.५३ ॥
婆罗摩旃那拥抱她,给予极大的安慰,然后在心中朝羯遮迦走去,舔着自己的嘴唇。
4.24.54
आश्वासयित्वा बहुशो भृशमार्तां सुमध्यमाम् ।
हेतुतत्वार्थसंयुक्तैर्वचोभिर्द्रुपदात्मजाम् ॥ ४.२४.५४ ॥
多次以充满道理、真实与意义的话语安慰那位极为悲伤、腰身纤细的德鲁帕达之女。
4.24.55
प्रमृज्य वदनं तस्याः पाणिनाऽश्रुसमाकुलम् ।
उवाच चैनां दुःखार्तां भीमः क्रोधसमन्वितः ॥ ४.२४.५५ ॥
用手擦去她满是泪水的脸庞后,怒气满胸的毗摩对悲痛欲绝的她这样说道。