摩诃婆罗多 · 章 4.31
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.31.1
अथाऽब्रवीत्सभामध्ये द्रोणः सूक्ष्मार्थदर्शिवान् ।
न तादृशा विनश्यन्ति नापि यान्ति पराभवम् ॥ ४.३१.१ ॥
于是能洞察微妙义理的德罗纳在大会中说道:此等人不会毁灭,也不会遭受失败。
4.31.2
शूराश्च कृतविद्याश्च बुद्धिमन्तो जितेन्द्रियाः ।
धर्मज्ञाः सत्यसन्धाश्च युधिष्ठिरमनुव्रताः ॥ ४.३१.२ ॥
英勇之士,精通学问,智慧,克制诸根,通晓法义,守信践诺,追随坚战。
4.31.3
नीतिधर्मार्थतत्वज्ञं पितृवच्च समाहितम् ।
धर्मे स्थितं सत्यधृतिं ज्येष्ठं श्रेष्ठापचायिनम् ॥ ४.३१.३ ॥
通晓政略、法义与财利之本质者,如父般沉静,安住于法,坚守真实,为长兄,尊敬贤者。
4.31.4
अनुव्रता महात्मानो भ्रातरो भ्रातरं प्रियम् ।
अजातशत्रुं श्रीमन्तं सर्वभ्रातॄननुव्रतम् ॥ ४.३१.४ ॥
追随的诸大德兄弟,追随可爱的兄长——无敌者、光荣者,诸兄皆追随之。
4.31.5
तेषां तथाविधेयानां निभृतानां महात्मनाम् ।
किमर्थं नीतिमान्प्राज्ञः श्रेयो नैषां करिष्यति ॥ ४.३१.५ ॥
对这些如此顺从、谨慎自持的大德之人,通晓政略的智者为何不为他们谋求善果呢?
4.31.6
तस्माद्यत्नात्परीक्षध्वं न तावत्समयो गतः ।
न ते विनाशमृच्छेयुरिति मे नैष्ठिकी मतिः ॥ ४.३१.६ ॥
因此你们应当审慎考察,时机尚未错过。他们不致毁灭,这是我坚定的意见。
4.31.7
चिन्त्यतां चैव यत्कार्यं तच्च क्षिप्रमकालिकम् ।
क्रियतां साधु संचिन्त्य वासश्चैषां प्रचिन्त्यतां ॥ ४.३१.७ ॥
应当考虑所要做的事,并且迅速去做,不可拖延。应仔细思量后行事;也应筹划他们的住处。
4.31.8
यथा च पाण्डुपुत्राणां सर्वार्थेषु धृतात्मनाम् ।
प्रवृत्तिरुपलभ्येत तथा नीतिर्विधीयताम् ॥ ४.३१.८ ॥
应制定一种策略,以便能够得知般度之子的行踪,他们在一切事务中意志坚定。
4.31.9
सर्वोपायैर्यतस्व त्वं यथा पश्यसि पाण्डवान् ।
दुर्ज्ञेयाः खलु शूरास्ते रक्ष्या नित्यं च दैवतैः ॥ ४.३१.९ ॥
用尽一切办法去努力,使你能够看见般度五子。那些英雄确实难以识别,他们始终受到诸神的守护。
4.31.10
शुद्धात्मा मानवान्पार्थः सत्यवान्नीतिमाञ्शुचिः ।
तेजोराशिभिरापूर्णो दहेदपि च चक्षुषा ॥ ४.३१.१० ॥
那位普利塔之子心地纯净、诚实、通晓policy、洁净,充满了光辉的聚集;他甚至能以目光焚烧。
4.31.11
तस्माद्यत्नश्च क्रियतां भूयश्च मृगयामहे ।
ब्राह्मणैश्चारकैः सिद्धैस्तापसैर्निपुणैरपि ॥ ४.३१.११ ॥
因此应当努力,再次搜寻,也要借助婆罗门、密探、成就者、苦行者和精明的人。
4.31.12
विविधैस्तत्परैः सम्यङ्विर्भीकैस्तज्ज्ञसंमतैः ।
अन्वेष्टव्या मनुष्येन्द्र पाण्डवाश्छन्नचारिणः ॥ ४.३१.१२ ॥
人主啊,应由各种专心于此、无所畏惧、并为知者认可的人,妥善寻找那些隐姓埋名而行的般度五子。
4.31.13
ततः शान्तनवो धीमान्भारतानां पितामहः ।
श्रुतवान्देशकालज्ञो नीतिमांश्च महामतिः ॥ ४.३१.१३ ॥
于是婆罗多族的祖父、山塔努之子毗湿摩——智慧、博学、知晓时机与处所、精通治国之道、大智慧——开口说道。
4.31.14
तस्मिन्नुपरते वाक्ये आचार्यस्य महात्मनः ।
अनन्तरमुवाचेदं वाक्यं हेत्वर्थसंमितम् ॥ ४.३१.१४ ॥
待那位大德的师长话音落下,他随即说出了这段合乎理据与义理的话。
4.31.15
युधिष्ठिरे समायुक्तां धर्मज्ञे धर्मसंहिताम् ।
पाण्डवे नित्यमव्यग्रां गिरं भीष्मः समाददे ॥ ४.३१.१५ ॥
毗湿摩开口说出了这番话,它面向知晓法义的般度之子坚战,充满法理,始终平和。
4.31.16
असत्सु दुर्लभां नित्यं सतां चाभिमतां सद ।
भीष्मस्त्वभ्यवदत्तत्र गिरं साधुभिरर्चिताम् ॥ ४.३१.१६ ॥
毗湿摩在那里说出了这番话,它在恶人中罕见,始终为善人所喜爱,并受到贤者的尊崇。
4.31.17
यथा नो ब्राह्मणोऽवादीदाचार्यः सर्वधर्मवित् ।
श्रुतवृत्तोपसंपन्ना नाशं नायान्ति पाण्डवाः ॥ ४.३१.१७ ॥
正如那位通晓一切法义的婆罗门师长对我们所言,具足学识与善行的般度五子不会走向毁灭。
4.31.18
सर्वलक्षणसंपन्नाः साधुवृत्तसमन्विताः ।
वृद्धानुशासने यत्ताः सत्यधर्मपरायणाः ॥ ४.३१.१८ ॥
具足一切吉祥之相,具备善行,专注于长者的教诲,以真理与法为归依。
4.31.19
समयं समयज्ञास्ते पालयन्तः शुभव्रताः ।
न विषीदन्ति ते पार्था उद्वहन्तः सतां धुरम् ॥ ४.३१.१९ ॥
那些知晓约定之法、持守吉祥誓愿的般度之子,守约而不气馁;他们承担着善人的重担。
4.31.20
तपसा चैव गुप्तास्ते स्ववीर्येण च पाण्डवाः ।
न नाशमभिगच्छेयुरिति मे नैष्ठिकी मतिः ॥ ४.३१.२० ॥
般度五子因苦行和自身勇力而受护佑,不会走向毁灭——这是我坚定的看法。
4.31.21
क्षत्रधर्मरता नित्यं केशवानुगताः सदा ।
प्रवीरपुरुषास्ते वै महात्मानो महाबलाः ॥ ४.३१.२१ ॥
始终恪守刹帝利之法,常随克沙瓦,那些卓越的英雄人物,心胸宽广,力量强大。
4.31.22
तत्र बुद्धिं प्रवक्ष्यामि पाण्डवान्वेषणे शृणु ।
न तु नीतिः सुनीतस्य शक्यते वेदितुं परैः ॥ ४.३१.२२ ॥
关于此事,我将说出我寻找般度五子的见解;请听。深思熟虑的策略,他人无法知晓。
4.31.23
यत्तु शक्यमिहास्माभिस्तान्वै संचिन्त्य पाण्डवान् ।
बुद्ध्या प्रणेतुं तत्तेऽहं प्रवक्ष्यामि निबोध तत् ॥ ४.३१.२३ ॥
经过深思熟虑,关于我们在此能以智慧引导般度五子之事,我将告诉你;请领会。
4.31.24
न त्वियं साधु वक्तव्या तस्य नीतिः कथंचन ।
वृद्धानुशासने तात तिष्ठतः सत्यशीलिनः ॥ ४.३१.२४ ॥
但是,亲爱的,对于那恪守长者教诲、本性真实的人,此策略绝不应当妥善地向他宣讲。
4.31.25
अयुक्तं तु मया वक्तुं तुल्या मे कुरुपाण्डवाः ।
निवासं पाण्डुपुत्राणां संचिन्त्य च वदाम्यहम्।
बहुना किं प्रलापेन यतो धर्मस्ततो जयः ॥ ४.३१.२५ ॥
我本不宜发言,因为俱卢与般度五子于我而言并无分别;我是在考虑了般度之子的居所之后才这样说的。何必多言?有法之处,便有胜利。
4.31.26
अवश्यं तु नियुक्तेन सभामध्ये विवक्षता ।
यथार्हमिह वक्तव्यं सर्वथा धर्मलिप्सया ॥ ४.३१.२६ ॥
受命于大会中发言者,欲言之人,务必在此依礼而言,且一切以追求法为念。
4.31.27
यत्र नाहं तथा मन्ये यथाऽन्ये मेनिरे जनाः ।
निवासं पाण्डुपुत्राणां शृणुष्वं मनुजाधिप ॥ ४.३१.२७ ॥
我与他人所想不同之处,请听,人主啊,般度之子的居所。
4.31.28
भ्रातृभिः सहितो वीरैः कृष्णया च महायशाः ।
किमर्थं स महाराजो नात्मश्रेयो भविष्यति ॥ ४.३१.२८ ॥
那位大名鼎鼎的大王,与英勇的兄弟们及黑公主同在,为何不谋求自身的福祉呢?
4.31.29
पाण्डवो निकृतः पूर्वं यथावद्विदितं तव ।
क्लेशितश्च पुरे नित्यं राज्यकामैश्च सांप्रतम्।
छन्नश्चरति तस्मात्स प्रकृत्या नीतिमान्नृपः ॥ ४.३१.२९ ॥
般度之子先前受了冤屈,此事你是清楚的;在城中,又不断受到觊觎王国之人的侵扰;如今他隐匿而行。因此那位君王生性睿智。
4.31.30
वर्षमेकं सुसंच्छन्नमुष्य वासमनुत्तमम् ।
आयाति चोदये काले क्षिप्रं दक्ष्यसि पाण्डवं ॥ ४.३१.३० ॥
他在最为隐秘的居所住满一年之后便会归来;到适当的时候,你很快就会见到般度之子。
4.31.31
सोदरैः सहितं वीरं द्रौपद्या च परंतप ।
संविधत्स्व महाबाहो यथा नः स्यात्सुखोदयः ॥ ४.३१.३१ ॥
啊,降伏敌人者,大臂者!请安排与那位英雄(坚战)及其兄弟和德劳帕蒂相见,使我们迎来幸福的升起。
4.31.32
यस्मिन्स राजा वसति च्छन्नः सत्त्वभृतांवरः ।
भविष्यन्ति नरास्तत्र रागमोहविवर्जिताः ॥ ४.३१.३२ ॥
那位勇士中最优秀的国王隐居之地,那里的人们将远离贪欲与迷惑。
4.31.33
नाधयो हि महाराज न व्याधिः क्षत्रियर्षभ ।
पुरे जनपदे वाऽपि यत्र राजा युधिष्ठिरः ॥ ४.३१.३३ ॥
大王啊,刹帝利中的雄牛,在坚战为王的城邦或国土中,既无心中的苦恼,也无疾病。
4.31.34
दानशीलो वदान्यश्च निभृतो ह्रीनिषेवकः ।
प्रियवाक्सत्यवाक्शूरो धर्मशीलो जितेन्द्रियः।
हृष्टः पुष्टः शुचिर्दक्षो यत्र राजा युधिष्ठिरः ॥ ४.३१.३४ ॥
坚战王在之处:慷慨大方,克己谦和,知耻好礼,言辞悦耳而诚实,勇敢,行法持戒,制服诸根,欢喜康健,清净而能干。
4.31.35
नासूयको न चापीर्ष्युर्नाभिमानी न मत्सरी ।
भविष्यति जनस्तत्र स्वयं धर्ममनुव्रतः ॥ ४.३१.३५ ॥
那里的人们不会诽谤,不会嫉妒,不会骄慢,也不会吝啬;他们会自发地遵循法。
4.31.36
ब्रह्मघोषाश्च भूयांसः पुण्यशब्दास्तथैव च ।
क्रतवश्च भविष्यन्ति भूयांसो भूरिदक्षिणाः ॥ ४.३१.३६ ॥
那里将有许多吠陀诵读之声与吉祥之音,也将有许多施礼丰厚的祭祀。
4.31.37
सदा च तत्र पर्जन्यः सम्यग्वर्षी न संशयः ।
संपन्नसस्या च मही भविष्यति निरामया ॥ ४.३१.३७ ॥
那里云雨总会降得及时充足,毫无疑问;大地将五谷丰登,无病无灾。
4.31.38
रसवन्ति च धान्यानि गुणवन्ति फलानि च ।
गन्धवन्ति च माल्यानि शुभशब्दा च भारती ॥ ४.३१.३८ ॥
谷物滋味鲜美,果实品质优良;花环芬芳,婆罗多人的言语充满吉祥之音。
4.31.39
वायुश्च सुखसंस्पर्शो यत्र राजा युधिष्ठिरः ।
नीरोगास्तत्र विद्यन्ते वधबन्धा न सन्ति च ॥ ४.३१.३९ ॥
国王坚战所在之处,风拂面而温柔;那里的人无病,也没有杀戮与囚禁。
4.31.40
न चोरा न च दण्डाश्च न च बाधा भवन्त्युत ।
नाशक्ता न च दुष्टाश्च यत्र राजा युधिष्ठिरः ॥ ४.३१.४० ॥
国王坚战所在之处,没有盗贼,没有刑罚;没有侵害,没有弱者,也没有恶人。
4.31.41
भयं च नाविशेत्तत्र निष्प्रतीपं च दर्शनम् ।
बहुक्षीरास्तथा गावः सुपुष्टाश्च सुदोहनाः ॥ ४.३१.४१ ॥
愿恐惧不入其地,景象吉祥;牛群产奶丰多,肥壮,易于挤奶。
4.31.42
पयांसि दधिसर्पीषि रसवन्ति हितानि च ।
सलिलानि प्रसन्नानि सर्वे भावाश्च शोभनाः ॥ ४.३१.४२ ॥
乳、酪与酥滋味鲜美而有益;水清澈,一切景况都吉祥美好。
4.31.43
गुणवन्ति च पानानि भोज्यानि विविधानि च ।
तत्र देशे भविष्यन्ति यत्र राजा युधिष्ठिरः ॥ ४.३१.४३ ॥
在国王坚战所在之地,将有美好的饮料和各种食物。
4.31.44
रसाः स्पर्शाश्च गन्धाश्च शब्दाश्चापि गुणान्विताः ।
दृश्यानि च प्रसन्नानि यत्र राजा युधिष्ठिरः ॥ ४.३१.४४ ॥
国王坚战所在之处,味道、触觉、气味和声音都将充满美好的品质,所见之景也将令人愉悦。
4.31.45
धर्माश्च तत्र सर्वैस्तु सेविताश्च द्विजातिभिः ।
स्वैःस्वैर्गुणैश्च संयुक्ता कस्मिन्वर्षे त्रयोदशे ।
देशे तस्मिन्भविष्यन्ति तत पाण्डवसंश्रिते ॥ ४.३१.४५ ॥
在般度子孙所居住的那个国家,第十三年,所有人都将奉行法义,再生族各以其德行遵行。
4.31.46
संप्रीतिमाञ्जनस्तत्र संतुष्टः शुचिरव्ययः ।
देवतातिथिभूयांस्तु सर्वभूतानुरागवान् ॥ ४.३१.४६ ॥
那里的人们将非常喜悦、知足、清净、不坏,极其敬奉诸神与宾客,并对一切众生怀有慈爱。
4.31.47
इष्टदानमहोत्साहा नित्यं धर्मपरायणाः ।
व्यक्तवाक्यास्ततस्तात शुभकल्याणमङ्गलाः ॥ ४.३१.४७ ॥
他们将热切地行持所爱之布施,常依法而行,言语明晰;亲爱的,那时他们将充满吉祥、福佑与庆幸。
4.31.48
शुभत्विषः शुभेच्छाश्च नित्यतुष्टाः श्रियाऽन्विताः ।
भविष्यन्ति जनास्तत्र यत्र राजा युधिष्ठिरः ॥ ४.३१.४८ ॥
国王坚战所在之地,人们将容光焕发、心存善念、常知满足,并享有繁荣。
4.31.49
नित्योत्सवप्रमुदितो नित्यहृष्टः श्रिया वृतः ।
भविष्यति निवासोऽयं यत्र राजा युधिष्ठिरः ॥ ४.३१.४९ ॥
国王坚战所在之处,此居所将永远因节庆而欢喜,永远喜悦,并充满吉祥与繁荣。
4.31.50
धर्मज्ञः स तु दुर्ज्ञेयः सर्वज्ञैश्च द्विजातिभिः ।
किंपुनः प्राकृतैस्तात पार्थो विज्ञायते क्वचित् ॥ ४.३१.५० ॥
他通晓法,即便是全知的再生者也难以认识他;何况,亲爱的,凡人又怎能识得般度之子呢?
4.31.51
यस्मिन्सत्यं धृतिर्दानं परा शान्तिर्ध्रुवा क्षमा ।
ह्रीः श्रीः कीर्तिः परं तेज आनृशंस्यमथार्जवम् ॥ ४.३१.५१ ॥
其中有真实、坚定、布施、至高而坚固的寂静、忍耐、羞耻心、吉祥、名声、至上的威光、慈悲与正直。
4.31.52
तस्मान्निवासः पार्थानां चिन्त्यतां यद्ब्रवीमि वः ।
गतिर्वा परमा तत्र नोत्सहे वक्तुमन्यथा ॥ ४.३१.५२ ॥
因此,请思量我所说的般度子孙的住所;那里有至高的归宿。我不愿另作他说。
4.31.53
एवमेतत्तु संचिन्त्य यत्कृत्यं साधु मन्यसे ।
तत्क्षिप्रं कुरु कौरव्य यद्येतच्छ्रद्दधासि मे।
कुलस्य हि क्षमं तात यदहं प्रब्रवीमि ते ॥ ४.३१.५३ ॥
如此深思之后,若你信任我,便请迅速去做你认为善的事,俱卢之后;因为我对你所说的,亲爱的,确实有利于家族。