摩诃婆罗多 · 章 4.32
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.32.1
ततः शारद्वतो वाक्यमित्युवाच कृतस्तदा ।
युक्तं प्राप्तं च वृद्धेन पाण्डवान्प्रति भापितम् ॥ ४.३२.१ ॥
于是沙拉德瓦塔说了这番话。长者关于般度五子所说的话恰当而合时宜。
4.32.2
धर्मार्थसहितं श्लक्ष्णं सर्वं सत्यं सहेतुकम् ।
तत्रानुरूपं भीष्मस्य ममापि वचनं शृणु ॥ ४.३२.२ ॥
这一切都与法和利相合,温和,全然真实且有理由。现在也请听我的话,它与毗湿摩的话相应。
4.32.3
तेषां चैव गतिस्तत्र र्निवासश्चानुचिन्त्यताम् ।
नीतिर्विधीयतां तत्र सांप्रतं या हिता भवेत् ॥ ४.३२.३ ॥
应当考虑他们的行踪和在那里的住所。现在应当在那里确定对自己有利的策略。
4.32.4
नावज्ञेयो रिपुस्तात प्राकृतोऽपि बुभूषता ।
किं पुनः पाण्डवाः शूरा विद्वांसो बलिनस्तथा ॥ ४.३२.४ ॥
亲爱的,想要兴旺的人即使面对平庸的敌人也不可轻视。何况般度五子是英勇、博学且强大的人呢!
4.32.5
तस्मात्सत्रं प्रविष्टेषु पाण्डवेषु महात्मसु ।
गूढभावेषु छन्नेषु काले चोदयमागते ॥ ४.३२.५ ॥
因此,当伟大的般度五子乔装进入,隐藏着秘密的心意,而恰当的时机已经到来时,
4.32.6
स्वराष्ट्रे परराष्ट्रे च ज्ञातव्यं बलमात्मनः ।
उदयः पाण्डवानां च प्राप्तकालो न संशयः ॥ ४.३२.६ ॥
应当了解自己在本国和他国的力量。般度五子崛起的时机已到,这毫无疑问。
4.32.7
निवृत्तसमयाः पार्था महात्मानो महाबलाः ।
महोत्साहा भविष्यन्ति पाण्डवा ह्यमितौजसः ॥ ४.३२.७ ॥
期限已满的普利塔之子们,心胸广大、力量强大,充满大勇气,将成为力量无量的般度五子。
4.32.8
तस्माद्बलं च कोशं च नातिश्चापि विधीयताम् ।
यथा कालोदये प्राप्ते सम्यक् तैः संदधामहे ॥ ४.३२.८ ॥
因此,应妥善安排兵力与府库,不多不少,使得当时机来临时,我们能与他们适当地结盟。
4.32.9
यत्र यन्मन्यसे श्रेयो बुध्यस्व बलमात्मनः ।
नियतं सर्वमित्रेषु बलवत्स्वबलेषु च ॥ ४.३२.९ ॥
无论你认为何处有利,都应明了自己的力量——在所有盟友中,在强者中,也一定在弱者中。
4.32.10
सारं फल्गु बलं ज्ञात्वा मध्यस्थं चापि भारत ।
स्वराष्ट्रपरराष्ट्रेषु ज्ञातव्यं बलमात्मनः ॥ ४.३२.१० ॥
婆罗多之子啊,既知真实之力与虚浮之力,又知中立者,便当在自己的国家与他国之中,了解自己的力量。
4.32.11
अप्रहृशष्टं प्राहृष्टं वा संदधाम तथा परैः ।
साम्ना दानेन भेदेन दण्डेन बलिकर्मणा ॥ ४.३२.११ ॥
无论他们高兴与否,我们都应这样与敌人结盟——以安抚、以赠与、以离间、以惩罚、以纳贡之法。
4.32.12
न्यायेनाक्रम्य च परान्बलाच्चानम्य दुर्बलान् ।
सान्त्वयित्वा च मित्राणि बलं चाभाष्यतां सुखम् ॥ ४.३२.१२ ॥
依正道进攻敌人,以武力使弱者屈服,安抚盟友之后——关于力量之言也应当平和地说出。
4.32.13
स्वकोशबलसंवृद्धः सम्यक्सिद्धिमवाप्स्यसि ।
योत्स्यसे चापि बलिभिररिभिः प्रत्युपस्थितैः।
अन्यैस्त्वं पाण्डवैर्वाऽपि हीनैः स्वबलवाहनैः ॥ ४.३२.१३ ॥
你的库藏与军队壮大之后,必将取得圆满的成功。你将与前来对阵的强大敌人交战,或与那些失去了自己军队和车乘的其他般度之子交战。
4.32.14
एवं सर्वं विनिश्चित्य व्यवहर्तासि न्यायतः ।
यथाकालं मनुष्येन्द्र चिरं सुखमवाप्स्यसि ॥ ४.३२.१४ ॥
如此将一切都考虑妥当,你将依正义处理政事。人主啊,适时而行,你将长久地获得安乐。
4.32.15
भीष्माद्रोणकृपैरुक्ते कर्णदुःशासनादिभिः ।
ततो दुर्योधनो वाक्यं श्रुत्वा तेषां महात्मनाम् ।
मुहूर्तमनुसंचिन्त्य सचिवानिदमब्रवीत् ॥ ४.३२.१५ ॥
杜尔敉陀那听了毗湿摩、德罗纳、克里巴,以及迦尔纳、难降等人所说的话,片刻思量之后,便对他的大臣们这样说道。
4.32.16
श्रुतमेतन्मया पूर्वं कथासु जनसंसदि ।
धीराणां शास्त्रविदुषां प्राज्ञानां मतिनिश्चये ।
कृतिनां सारफल्गुत्वे जानामि नयचक्षुषा ॥ ४.३२.१६ ॥
这些话我以前在人群集会的讲说中听过:在坚定的、通晓典籍的智者的确定判断中,在能分辨精华与虚浮的能人的智慧里。我以政策的眼光来认识它。
4.32.17
सत्वे बाहुबले धैर्ये प्राणे शारीरसंभवे ।
सांप्रतं मानुषे लोके सदैत्यनरराक्षसे ॥ ४.३२.१७ ॥
在勇气、臂力、坚定、生命之息、身体的出生上——在如今这个有阿修罗、人类和罗刹的人间世界中。
4.32.18
चत्वारस्तु नरव्याघ्रा बले शक्रोपमा भुवि ।
उत्तमाः प्राणिनां तेषां नास्ति कश्चिद्बले समः ॥ ४.३२.१८ ॥
世上有四位人中猛虎,力量与因陀罗相当。他们是众生中最优秀的,无人在力量上能与他们相比。
4.32.19
बलदेवश्च भीमश्च मद्रराजश्च वीर्यवान् ।
चतुर्थः कीचकस्तेषां पञ्चमं नानुशुश्रुमः ॥ ४.३२.१९ ॥
有大力的 Baladeva、Bhīma、勇猛的摩德罗王,第四位是 Kīcaka;关于他们中的第五位,我们从未听闻。
4.32.20
अन्योन्यानन्तरबलाः परस्परजयैपिणः ।
बाहूयुद्धमभीप्सन्तो नित्यं संरब्धमानसाः ॥ ४.३२.२० ॥
彼此力量几乎相等,互相寻求取胜,总是渴望徒手搏斗,心怀愤怒。
4.32.21
तेनाहमवगच्छामि प्रत्ययेन वृकोदरम् ।
मनस्यभिनिविष्टं मे व्यक्तं जीवन्ति पाण्डवाः ॥ ४.३२.२१ ॥
凭此证据,我推断 Vṛkodara(Bhīma)尚在人世;这在我心中已定,显然般度五子仍然健在。
4.32.22
तत्राहं कीचकं मन्ये भीमसेनेन मारितम् ।
सैरन्ध्रीं द्रौपदीं मन्ये नात्र कार्या विचारणा ॥ ४.३२.२२ ॥
我想那里是 Bhīmasena 杀死了 Kīcaka;我认为那侍女就是 Draupadī——此事毫无可疑之处。
4.32.23
शङ्के कृष्णानिमित्तं तु भीमसेनेन कीचकः ।
गन्धर्वव्यपदेशेन हतो निशि महाबलः ॥ ४.३२.२३ ॥
我怀疑,为了 Kṛṣṇā 的缘故,Bhīmasena 在夜间假托乾闼婆之名杀死了大力的 Kīcaka。
4.32.24
को हि शक्तः परो भीमात्कीचकं हन्तुमोजसा ।
शस्त्रं विना बाहुबलात्तथा सर्वाङ्गचूर्णने ॥ ४.३२.२४ ॥
除了毗摩,还有谁能不用武器,凭臂力杀死迦旃迦,并碾碎他全身的骨节?
4.32.25
मर्दितुं वा तथा तीव्रं चर्ममांसास्थिचूर्णनम् ।
रूपमन्यत्समास्थाय भीमस्यैतद्विचेष्टितम् ॥ ४.३२.२५ ॥
或如此猛烈地碾碎皮、肉、骨,这是毗摩以另一种形象所做的事。
4.32.26
ध्रुवं कृष्णानिमित्तं तु भीमसेनेन सूतजाः ।
गन्धर्वव्यपदेशेन हता निशि न संशयः ॥ ४.३२.२६ ॥
毫无疑问,为了黑公主,毗摩森那假托乾达婆之名,夜间杀死了御者之子们。
4.32.27
पितामहेन ये चोक्ता देशस्य च जनस्य च ।
गुणास्ते मत्स्यराष्ट्रेषु बहुशोऽपि मया श्रुताः ॥ ४.३२.२७ ॥
祖父所说的国土与人民的品德,我在鱼国已多次听闻。
4.32.28
विराटनगरे मन्ये पाण्डवाश्छन्नचारिणः ।
निवसन्ति पुरे रम्ये तत्र यात्रा विधीयताम् ॥ ४.३२.२८ ॥
我想,般度五子隐姓埋名,正居住在美丽的毗罗吒城中;就让出征之事在那里进行吧。
4.32.29
मत्स्यराष्ट्रं गमिष्यामो ग्रहीष्यामश्च गोधनम् ।
गृहीते गोधने नूनं तेऽपि योत्स्यन्ति पाण्डवाः ॥ ४.३२.२९ ॥
我们将前往鱼国,夺取牛群;牛群被夺之后,般度五子必定也会应战。
4.32.30
अपूर्णे समये चापि यदि पश्येम पाण्डवान् ।
द्वादशान्यानि वर्षाणि प्रवेक्ष्यन्ति पुनर्वनम् ॥ ४.३२.३० ॥
即使在期限未满之前我们看到般度诸子,他们也将再次进入森林十二年。
4.32.31
तस्मादन्यतरेणापि लाभोऽस्माकं भविष्यति ।
कोशवृद्धिरिहास्माकं शत्रूणां निधनं भवेत् ॥ ४.३२.३१ ॥
因此,无论结果如何,我们都会有所收获:这里我们的府库将增长,敌人将被消灭。
4.32.32
कथं सुयोधनं गच्छेद्युधिष्ठिरभृतः पुरा ।
एतच्चापि वदत्येष मात्स्यः परिभवान्मयि ॥ ४.३२.३२ ॥
曾受坚战供养的他,怎能投奔苏由达那?这位摩蹉王也是出于对我的轻蔑才这样说的。
4.32.33
तस्मात्कर्तव्यमेतद्वै तत्र यात्रा विधीयताम् ।
एतत्सुनीतं मन्येऽहं सर्वेषां यदि रोचते ॥ ४.३२.३३ ॥
因此应当如此行事;请下令向那里进军。若众人都认可,我以为这是善策。
4.32.34
ततो राजा त्रिगर्तानां सुशर्मा रथयूथपः ।
पूर्वमाभाष्य कर्णेन तथा दुःशासनेन च।
प्राप्तकालमिदं वाक्यमुवाच त्वरितो बली ॥ ४.३२.३४ ॥
于是特里伽尔塔的国王苏尚尔曼,车阵的统帅,先与迦尔纳和难降商议后,急忙说出了这番应时之言——他是一位强者。
4.32.35
असकृन्निकृतः पूर्वं मात्स्यसाल्वेयकेकयैः ।
सूतेनैव च मात्स्यस्य कीचकेन पुनः पुनः ॥ ४.३२.३५ ॥
从前我们屡次受摩蹉、沙尔瓦和柯迦耶人的凌辱,摩蹉王的御者迦腾迦也一再地羞辱我们。
4.32.36
बाधितो बन्धुभिः सार्धं बलाद्बलवता विभो ।
स कर्णमभिवीक्ष्याथ दुर्योधनमभाषत ॥ ४.३२.३६ ॥
主啊,他与亲族一起被强者用武力所压迫,他看了看迦尔纳,然后对难敌说道。
4.32.37
राष्ट्रं ममासकृद्राजन्राज्ञा मात्स्येन बाधितम् ॥ ४.३२.३७ ॥
啊,大王,我的国家屡次被马特耶王所压迫。
4.32.38
प्रणेता कीचकस्तस्य बलोत्सिक्तोऽभवन्पुरा ।
अमर्षी दुर्जयो जेता प्रख्यातबलपौरुषः ।
स हतस्तत्र गन्धर्वैः पापकर्मा नृशंसकृत् ॥ ४.३२.३८ ॥
他的统帅迦吉迦(Kīcaka)曾因力量而骄傲自大;他易怒、不可战胜、善于征服,以武力与勇气闻名。那作恶之人、行事残暴,在那里被乾达婆们杀死。
4.32.39
तस्मिन्विनिहते राजन्हीनदर्पो निराश्रयः ।
भविष्यति निरुत्साहो विराट इति मे मतिः ॥ ४.३२.३९ ॥
啊,大王,他被杀之后,毗罗吒将失去骄傲,没有依靠,也没有斗志——这是我的看法。
4.32.40
तत्र यात्रा मम मता यदि ते रोचतेऽनघ ।
कौरवाणां च सर्वेषां कर्णस्य च महात्मनः ॥ ४.३२.४० ॥
啊,无过之人,若你同意,我前往那里的远征被认为是恰当的——对所有的俱卢人,也对大度的迦尔纳都是如此。
4.32.41
एतत्कार्यमहं मन्ये परमात्ययिकं महत् ।
राष्ट्रं तस्याभियास्यामो धनधान्यसमाकुलम् ॥ ४.३२.४१ ॥
我认为此事极为紧迫、十分重要:我们将进攻他那充满财富和粮食的国家。
4.32.42
आददामोऽस्य रत्नानि विविधानि वसूनि च ।
ग्रामान्राष्ट्राणि वा तस्य हरिष्यामो विभागशः ॥ ४.३२.४२ ॥
我们将夺取他的各种珍宝和财富,并分段夺取他的村庄和王国。
4.32.43
अथवा गोसहस्राणि बहूनि शुभदर्शन ।
विविधानि हरिष्यामः प्रतीपीड्य पुरं बलात् ॥ ४.३२.४३ ॥
或者,美貌者啊,我们将以武力压迫城市,夺取他成千上万的牛和各种财物。
4.32.44
कौरवैः सह संगमय त्रिगर्तैश्च विशांपते ।
गास्तस्यापहरिष्यामः सह सर्वैर्महारथैः ॥ ४.३२.४४ ॥
人主啊,我们与俱卢族和三河族联合,与所有大车战士一起,夺取他的牛群。
4.32.45
सन्धिं वा तेन कृत्वा तु निबध्नीमोऽस्य पौरुषम् ।
हत्वा चास्य चमूं कृत्स्नां वशमेवानयामहे ॥ ४.३२.४५ ॥
或者与他立约,束缚他的勇力;或者杀尽他的全部军队,使他归于我们的掌控。
4.32.46
तं वशे न्यायतः कृत्वा सुखं वत्स्यामहे वयम् ।
भवतां बलवृद्धिश्च भविष्यति न संशयः ॥ ४.३२.४६ ॥
我们依正道使他归顺,便能安乐生活,而你们的力量也必定增长,此中无疑。
4.32.47
तच्छ्रुत्वा वचनं तस्य कर्णो राजानमब्रवीत् ॥ ४.३२.४७ ॥
迦尔纳听了他的话,便对国王说道。
4.32.48
सूक्तं सुशर्मणा वाक्यं प्राप्तकालमिदं वचः ।
तस्मात्क्षिप्रं विनिर्यामो योजयित्वा वरूथिनीं ॥ ४.३२.४८ ॥
苏沙尔曼之言甚善,此语正合时宜。因此我们应迅速整顿军队出发。
4.32.49
यदेतत्तेऽभिरुचितं मम चैतद्धि रोचते ।
प्रविभज्य च सैन्यानि यथा वा मन्यते भवान् ॥ ४.३२.४९ ॥
你所喜欢的,也正是我所喜欢的。请你按照自己认为合适的方式分派军队。
4.32.50
प्रज्ञावान्कुलवृद्धश्च सर्वेषां नः पितामहः ।
आचार्यश्च कृपो विद्वाञ्शकुनिश्चापि सौबलः ॥ ४.३२.५० ॥
智慧且为家族长辈的,是我们的祖父(毗湿摩);导师克里帕博学;苏跋罗之子沙恭尼也在。
4.32.51
मन्यन्ते ते यथा सर्वे तथा यात्रा विधीयताम् ।
संमन्त्र्य चाशु गच्छामः साधनार्थं महीपते ॥ ४.३२.५१ ॥
既然众人都认为应当如此,就请安排出征。国王啊,商议之后,我们应迅速前往完成大事。
4.32.52
किंनु नः पाण्डवैः कार्यं हीनार्थबलपौरुषैः ।
अत्यन्तं हि प्रनष्टास्ते प्राप्ता वाऽपि यमक्षयम् ॥ ४.३२.५२ ॥
我们与般度之子们有何干系?他们已失去财富、力量与勇气,已彻底灭亡,或已前往阎摩之处。
4.32.53
तद्भवांश्चतुरङ्गेण बलेन महता वृतः ।
विराटनगरं यातु सर्वसैन्येन भारत।
आदास्यामोऽथ गास्तस्य विविधानि वसूनि च ॥ ४.३२.५३ ॥
因此,婆罗多啊,您应率领四军组成的大军,携全部兵力前往毗罗吒城。我们将从那里夺取他的牛群和各种财富。
4.32.54
ततो दुर्योधनो राजा वचः श्रुत्वा तु तस्य तत् ।
वैकर्तनस्य कर्णस्य क्षिप्रमाज्ञापयत्स्वयम्।
शासने नित्ययुक्तं तु दुःशासनमनन्तरम् ॥ ४.३२.५४ ॥
于是国王难敌听了他的话,亲自迅速命令毗迦尔阁那之子迦尔纳,其次命令总是准备听从命令的难降。
4.32.55
सह वृद्धैस्तु संमन्त्र्य क्षिप्रं योजय वाहिनीम् ।
यथोद्देशं तु गच्छामः सहिताः सर्वकौरवैः ॥ ४.३२.५५ ॥
与长者们商议后,迅速布置军队;我们与所有俱卢人会合,前往指定的地方。
4.32.56
सुशर्मा तु यथोद्दिष्टं देशं यातु महारथः ।
त्रिगर्तैः सहितः सर्वैः प्रख्यातबलपौरुषैः।
प्रागेव हि सुसंयत्तो विराटनगरं प्रति ॥ ४.३२.५६ ॥
愿大车将苏until,依所指定,前往国土,与以力量和勇武著称的全体三伽尔多人同行,预先完全准备好,朝维拉塔城而去。
4.32.57
जघन्यतो वयं तत्र यास्यामो दिवसान्तरे ।
विषयं मत्स्यराजस्य सुसमृद्धं सुसंहितम् ॥ ४.३२.५७ ॥
我们将从后方在另一天前往那里,前往摩蒂亚王那极为富饶、防备完备的国土。
4.32.58
सुशर्मणा गृहीते तु मत्स्यराजस्य गोधने ।
विराटः सैन्यमादाय त्रिगर्तैः सह योत्स्यति ॥ ४.३२.५८ ॥
当苏until夺取摩蒂亚王的牛群财富后,毗罗吒将率军与三伽尔多人作战。
4.32.59
अपरं दिवसं गास्तु तत्र गृह्णन्तु कौरवाः ।
गवार्थे पाण्डवास्तत्र योत्स्यन्ति कुरुभिः सह ॥ ४.३२.५९ ॥
另一天,让俱卢人在那里夺取牛群;为了牛群,般度族将在那里与俱卢人作战。
4.32.60
तथा गत्वा यथोद्देशं विराटनगरान्तिके ।
क्षिप्रं गोष्ठं समासाद्य गृह्णन्तु विपुलं धनम् ॥ ४.३२.६० ॥
如此,前往指定之地,迅速抵达毗罗吒城附近的牛栏,让他们夺取大量财富。
4.32.61
गवां शतसहस्राणि श्रीमन्ति गुणवन्ति च ।
वयमस्य निगृह्णीमो द्विधा कृत्वा च वाहिनीम् ॥ ४.३२.६१ ॥
我们将从他那里夺取数十万头华美优良的牛,并将军队分为两部。
4.32.62
ते स्म गत्वा यथोद्दिष्टं देशं मत्स्यमहीपतेः ।
संनद्धा रथिनः सर्वे सपताका बलोत्कटाः।
प्रतिवैरं चिकीर्षन्तो गोषु गृद्धा महाबलाः ॥ ४.३२.६२ ॥
他们全都前往摩差王国的指定之地,披甲待命,乘车的勇士们持着旗帜,力量凶猛,想要报复仇怨,贪图牛群,都是大力之士。
4.32.63
आदत्त गाः सुशर्माऽथ कृष्णपक्षस्य चाष्टमीम् ॥ ४.३२.६३ ॥
于是苏沙尔曼在黑半月的第八日夺取了牛群。
4.32.64
अपरे दिवसे सर्वे राजन्संभूय कौरवाः ।
नवम्यां ते न्यगृह्णन्त गोकुलानि सहस्रशः।
कौरवास्तु महावीर्या मत्स्यानां विषयान्तरे ॥ ४.३२.६४ ॥
次日,大王,所有俱卢人聚集在一起,于初九日夺取了成千上万群牛;英勇的俱卢人当时在摩差的另一地区。