摩诃婆罗多 · 章 4.34
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.34.1
निर्याय नगराच्छूरा व्यूढानीकाः प्रहारिणः ।
त्रिगर्तानस्पृशन्मात्स्याः मूर्येऽस्तंगमिते सति ॥ ४.३४.१ ॥
日落之时,勇士们从城中出发,列阵而行,攻击了三伽多人。
4.34.2
ते त्रिगर्ताश्च मात्स्याश्च व्यूढानीकाः प्रहारिणः ।
अन्योन्यमभिवर्तन्ते गोषु गृद्धा महाबलाः ॥ ४.३४.२ ॥
那些列阵的三伽多人与摩蹉人,皆是贪求牛群的大力勇士,彼此转身相向。
4.34.3
भीमाश्च मत्तमातङ्गास्तोमराङ्कुशचोदिताः ।
ग्रामणीयैः समारूढाः कुशलैर्हस्तिसादिभिः ॥ ४.३४.३ ॥
可怖的狂象,受长矛与象钩驱策,由首领骑乘,并有熟练的象夫相随。
4.34.4
तेषां समागमो घोरस्तुमुलो रोमहर्षणः ।
घ्नतां परस्परं राजन्यमराष्ट्रविवर्धनः ॥ ४.३४.४ ॥
他们的相遇可怖、喧嚣、令人毛骨悚然;王啊,他们彼此击杀,使诸王与国家的毁灭愈发增长。
4.34.5
देवासुरसमो राजन्नासीत्सूर्येऽबलम्बति ।
पदातिरथनागेन्द्रहयारोहबलौघवान् ॥ ४.३४.५ ॥
王啊,日头将落之时,那场战斗好似诸天与阿修罗之战,步兵、战车、巨象与骑兵的力量如洪流涌动。
4.34.6
अन्योन्यमभ्यापततां निघ्नतां चेतरेतरम् ।
उदतिष्ठद्रजो भौमं न प्राज्ञायत किंचन ॥ ४.३४.६ ॥
他们彼此冲杀、相互击打之际,大地的尘土扬起,什么也看不清了。
4.34.7
पक्षिणश्चापतन्भूमौ सैन्येन रजसा वृताः ।
इषुभिर्व्यतिसर्पद्भिरादित्योऽन्तरधीयत ॥ ४.३४.७ ॥
被军队尘土覆盖的飞鸟坠落在地,太阳被交错飞射的箭矢遮住了。
4.34.8
खद्योतैरिव संयुक्तमन्तरिक्षमजायत ॥ ४.३४.८ ॥
天空仿佛布满了萤火虫。
4.34.9
रुक्मपृष्ठानि चापानि विचेरुर्विद्युतो यथा ।
नर्दतां लोकवीराणां सव्यं दक्षिणमस्यताम् ॥ ४.३४.९ ॥
金背的弓如闪电般飞舞,咆哮的世界英雄以左右双手射箭。
4.34.10
रथा रथैः समाजग्मुः पत्तयश्च पदातिभिः ।
सादिनः सादिभिर्जग्मुर्गजैश्चापि महागजाः ॥ ४.३४.१० ॥
战车与战车相遇,步兵与步兵相遇,骑兵与骑兵相遇,大象与大象相遇。
4.34.11
असिभिः पट्टसैश्चापि शक्तिभिस्तोमरैरपि ।
संरब्धाः समरे योधा निजघ्नुरितरेतरम् ॥ ४.३४.११ ॥
勇士们在战场上愤怒地用剑、大刀、长矛和投枪互相击杀。
4.34.12
निघ्नन्तः समरेऽन्योन्यं हृष्टाः परिघपाणयः ।
न शेकुरतिसंक्रुद्धाः शूराः कर्तुं पराङ्भुखम् ॥ ४.३४.१२ ॥
勇士们在战场上互相击打,手持铁棍,欢欣而极度愤怒,无法转身退却。
4.34.13
रक्ताधरोष्ठं सुनसं क्लृप्तश्मश्रु स्वलंकृतम् ।
अदृश्यत शिरश्छिन्नं रजोविध्वस्तकुण्डलम् ॥ ४.३४.१३ ॥
可见一颗被砍下的头颅,下唇泛红,鼻子秀美,胡须修剪整齐,装饰精美,耳环散落在尘土中。
4.34.14
दृश्यन्ते तत्र गात्राणि वीरैश्छिन्नानि सर्वशः ।
सालस्कन्धनिकाशानि क्षत्रियाणा महामृधे ॥ ४.३४.१४ ॥
在那场大战中,可见到刹帝利们的肢体被勇士们四处砍断,犹如娑罗树的树干。
4.34.15
नागभोगनिकाशैश्च बाहुभिश्चन्दनोक्षितैः ।
आकीर्णा वसुधा तत्र शिरोभिश्च सकुण्डलैः ॥ ४.३४.१५ ॥
那里的大地铺满了如蛇身般的手臂,洒满檀香,还有带着耳环的头颅。
4.34.16
यथा वा वाससी श्लक्ष्णे महारजतरञ्जिते ।
बिभ्रती युवती श्यामा तद्वद्भाति वसुन्धरा ॥ ४.३४.१६ ॥
正如一位肤色黝黑的少女身着两件光滑、以白银染成的衣裳而光彩照人,大地也如此闪耀。
4.34.17
उपाशाम्यद्रजो भौमं रुधिरेण प्रवर्षता ।
कश्मलं प्राविशद्धोरं निर्मर्यादमवर्तत ॥ ४.३४.१७ ॥
鲜血倾注,大地的尘土得以平息;可怕的昏乱降临,一切界限都被打破了。
4.34.18
युधिष्ठिरोऽपि धर्मात्मा भ्रातृभिः सहितस्तदा ।
व्यूहं कृत्वा विराटस्य अन्वयुध्यत पाण्डवः ॥ ४.३४.१८ ॥
那时,正法之心的坚战也与兄弟们一起布成阵势,为毗罗吒而战。
4.34.19
आत्मानं श्येनवत्कृत्वा तुण्डमासीद्युधिष्ठिरः ।
पक्षौं यमौ च भवतः पुच्छमासीद्वृकोदरः ॥ ४.३४.१९ ॥
尤提希提罗化作鹰的模样,成为鹰喙;双生子成为双翼,狼腹(婆罗)成为尾巴。
4.34.20
सहस्रं न्यहनत्तत्र कुन्तीपुत्रो युधिष्ठिरः ।
भीमसेनस्तु संक्रुद्धः सर्वशस्त्रभृतांवरः ।
द्विसहस्रं रथान्वीरः परलोकं प्रवेशयत् ॥ ४.३४.२० ॥
此时,贡蒂之子尤提希提罗杀死一千人;而诸持武器者中最优秀的婆罗塞那极为愤怒,那位英雄将两千辆战车送往彼岸。
4.34.21
नकुलस्त्रिशतं जघ्ने सहदेवश्चतुःशतम् ।
शतानीकः शतं जघ्ने मदिराश्वश्चतुःशतम् ॥ ४.३४.२१ ॥
那古拉杀死三百人,萨哈德瓦杀死四百人;莎塔尼迦杀死一百人,摩地罗室伐杀死四百人。
4.34.22
प्रहृष्टां महतीं सेनां त्रिगर्तानां महाबलौ ।
आर्च्छतां बहुसंरब्धौ केशाकेशि रथारथि ॥ ४.३४.२२ ॥
二位大力者极为愤怒,扑向欢欣的特里迦尔塔大军,彼此揪着头发,战车对战车。
4.34.23
लक्षयित्वा त्रिगर्तानां तौ प्रविष्टौ महाचमूम् ।
जग्मतुः सूर्यदत्तश्च वललश्चापि पृष्ठतः ॥ ४.३४.२३ ॥
二人望见特里迦尔塔人,便冲入那大军之中;苏利耶达塔与瓦拉拉也从后方跟进。
4.34.24
शङ्खो विराटपुत्रश्च महेष्वासो महाबलः ।
विनिघ्नन्समरे शूरान्प्रविवेश महाचमूम् ॥ ४.३४.२४ ॥
毗罗吒之子商卡,大弓手,大力者,在战斗中击杀勇士,冲入那大军之中。
4.34.25
विराटस्तत्र संग्रामे हत्वा पञ्चशतं रथान् ।
कुञ्जराणां शतं चैव सहस्रं वाजिनां तथा ॥ ४.३४.२५ ॥
在那场战斗中,毗罗吒杀死了五百辆战车、一百头象,同样还有一千匹马。
4.34.26
चरन्स विविधान्मार्गान्रथेन रथिनांवरः ।
त्रिगर्तानां सुशर्माणमार्च्छद्रुक्मरथं रणे ॥ ४.३४.२६ ॥
这位车战的最优者乘车驰过各种道路,在战场上追到了战车为金色的三河族苏沙尔曼。
4.34.27
तौ तु प्राहरतां तत्र महेष्वासौ महाबलौ ।
अन्योन्यमभिनिघ्नन्तौ गोषु गोवृषभाविव ॥ ४.३४.२७ ॥
那两位大弓手、大力士在那里相互攻击,如同牛群中两头公牛互相顶撞。
4.34.28
राजसिंहौ सुसंरब्धौ विरेजतुरमर्षणौ ।
कृतास्रौ निशितैर्बाणैरसिशक्तिपरश्वथैः ॥ ४.३४.२८ ॥
这两位王中雄狮,极度愤怒、不肯退让,精通武器,手持利箭、刀剑、枪矛与斧钺,光芒闪耀。
4.34.29
ततो रथाभ्यां रथिनौ व्यतीयातां समन्ततः ।
शरान्ससृजतुः शीघ्रं तोयधारा घनाविव ॥ ४.३४.२९ ॥
于是两位车战者从各自战车上从四面八方向对方逼近,迅速射出箭矢,如同云中倾泻的水流。
4.34.30
अन्योन्यमभिसंरब्धौ दन्ताभ्यामिव कुञ्जरौ ।
कृतास्त्रौ निशितैर्बाणैर्दारयामासतू रणे ॥ ४.३४.३० ॥
两人彼此怒火中烧,如同两头象用象牙相抵,精通武艺的二人在战场上以利箭相互撕裂。
4.34.31
मात्स्यो राजा सुशर्माणं विव्याध निशितैः शरैः ।
पञ्चभिः पञ्चभिर्बाणैर्विव्याध चतुरो हयान् ॥ ४.३४.३१ ॥
摩特斯亚王用锐利的箭射中苏沙尔曼,然后每匹马各用五支箭射中四匹马。
4.34.32
द्वाभ्यां सूतं च विव्याध केतुं च त्रिभिराशुगैः ।
तथैव मात्स्यराजं तु सुशर्मा युद्धदुर्मदः ।
पञ्चाशद्भिः शितैर्बाणैविव्याध परमास्त्रवित् ॥ ४.३४.३२ ॥
他用两支箭射中御者,用三支快箭射中旗帜。同样,沉醉于战斗、精通至高兵器的苏沙尔曼,用五十支锐利的箭射中了摩特斯亚王。
4.34.33
तयोर्बलानि राजेन्द्र समस्तानि महारणे ।
नाजानन्त तदाऽन्योन्यं प्रदोषे रजसा वृते ॥ ४.३४.३३ ॥
啊,诸王之主,在那场大战中,黄昏时分尘土弥漫,双方的全部军队已无法辨认彼此。