Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 4.36

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

4.36.1

ततो विराटः कौन्तेयानतिमानुषविक्रमान् ।
अर्चयामास वित्तेन मानेन च महारथान्।
वचसा चैव सान्त्वेन स्नेहेन च मुदाऽन्वितः ॥ ४.३६.१ ॥

于是毗罗吒以财富与敬意礼敬那些具有超凡勇力的昆提之子与诸大车战勇士,以温言慰藉,并怀着爱意与欢喜。

4.36.2

यथैव मम रत्नानि युष्माकं तानि वै तथा ।
कार्यं कुरुत तैः सर्वैर्यथाकामं यथासुखम् ॥ ४.३६.२ ॥

我的珍宝如何,它们也确实如何属于你们;你们可随心所欲、安然自在地用这一切去做事。

4.36.3

ददाम्यलंकृताः कन्या वसूनि विविधानि च ।
मनसा चाप्यभिप्रेतं यद्वः शत्रुनिबर्हणाः ॥ ४.३६.३ ॥

诸位灭敌者啊,我将赠你们以盛装的少女与种种财富,凡你们心中所愿,我也将给予。

4.36.4

युष्माकं विक्रमादद्य मुक्तोऽहं स्वस्तिमानिह ।
तस्माद्भवन्तो मत्स्यानामीश्वराः सर्व एव हि ॥ ४.३६.४ ॥

今日凭借你们的勇武,我得以在此安然脱险;因此你们每一位都是摩差人的主宰。

4.36.5

तं तथावादिनं तत्र कौरवेयाः पृथक्पृथक् ।
ऊचुः प्रहृष्टमनसो युधिष्ठिरपुरोगमाः ॥ ४.३६.५ ॥

那时,对如此说话的他,以坚定喜悦之心的俱卢子孙、以坚战为首者,各自分别作了回应。

4.36.6

प्रतिनन्दामहे वाचं सर्वथैव विशांपते ।
एतावताऽद्य प्रीताःस्मो यत्त्वं मुक्तोसि शत्रुभिः ॥ ४.३६.६ ॥

人主啊,我们在各方面都欣然回应你的话;仅仅今日你已脱离敌人,我们便已欢喜。

4.36.7

यत्त्वं मुक्तोसि शत्रुभ्यो ह्येतत्कार्यं हितं हि नः ।
न किंचित्कार्यमस्माकं न धनं मृगयामहे ॥ ४.३६.७ ॥

你已从敌人手中获救,这对我们是有益之事。我们再无别的事务,也不求财富。

4.36.8

अथाब्रवीत्प्रीतमना मात्स्यराजो युधिष्ठिरम् ।
निर्भरः प्रीतिपूरेण हर्षगद्गदया गिरा ॥ ४.३६.८ ॥

于是心中欢喜的摩茨亚王,满怀深情,以因欢喜而哽咽的声音对坚战说道。

4.36.9

पुनरेव महाबाहुर्विराटो राजसत्तमः ।
एहि त्वामभिषेक्ष्यामि मत्स्यराजस्तु नो भवान् ॥ ४.३६.९ ॥

摩诃婆渴(大臂者)、诸王中最优秀的毗罗吒再次说道:来吧,我将为你灌顶;你将成为我们摩茨亚之王。

4.36.10

मनसा चाप्यभिप्रेतं यत्ते शत्रुनिबर्हण ।
तत्तेऽहं संप्रदास्यामि सर्वमर्हति नो भवान् ॥ ४.३६.१० ॥

凡你心中所愿,哦,摧敌者,我都将给你;你应得我们给予的一切。

4.36.11

रत्नानि गाः सुवर्णं च मणिमुक्तमथापि वा ।
वैयाघ्रपद्य विप्रेन्द्र सर्वथैव नमोस्तु ते ॥ ४.३६.११ ॥

珠宝、牛群、黄金、宝石与珍珠,或任何其他之物——婆罗门之首、虎足之子啊,向你致以全面的敬礼。

4.36.12

त्वत्कृते ह्यद्य पश्यामि राज्यमात्मानमेव च ।
यतश्च जातः संरम्भः स च शत्रुर्वशं गतः ॥ ४.३६.१२ ॥

因为你,今日我得以见到自己的国土与自身;那引起愤怒的敌人,如今已被制服。

4.36.13

ततो युधिष्ठिरो मात्स्यं पुनरेवाब्रवीद्वचः ।
प्रतिनन्दामि ते वाचं मनोज्ञां मात्स्य भाषितां ॥ ४.३६.१३ ॥

于是坚战再次对摩蹉王说:“摩蹉啊,你所说的悦耳之言,我欣然接受。”

4.36.14

आनृशंस्यपरो नित्यं सुमुखः सततं भवान् ।
पुनरेव विराटश्च राजा कङ्कमभाषत ॥ ४.३६.१४ ॥

你始终专注于仁慈,常常面带和悦。于是毗罗吒王又对迦迦说道。

4.36.15

अहो शूद्रस्य कर्माणि वललस्य द्विजोत्तम ।
सोहं शूद्रेण संग्रामे वललेनाभिरक्षितः ॥ ४.३६.१५ ॥

啊,再生者中最优秀的人啊,那厨师伐罗罗的行为多么非凡!我在战斗中正是被这位厨师伐罗罗所守护。

4.36.16

त्वत्कृते सर्वमेवैतदुपपन्नं ममानघ ।
वरं वृष्णीष्व भद्रं ते ब्रूहि किं करवाणि ते ॥ ४.३६.१६ ॥

无罪之人啊,我的这一切皆因你而成。愿你吉祥,请求一个恩赐,告诉我我该为你做什么。

4.36.17

ददामि ते महाप्रीत्या रत्नान्युच्चावचान्यहम् ।
शयनासनयानानि कन्याश्च समलंकुताः ॥ ४.३६.१७ ॥

我怀着深深的喜爱,赠你种种珍宝、卧具、坐具与车乘,以及盛装的少女。

4.36.18

हस्त्यश्वरथसङ्घाश्च राष्ट्राणि विविधानि च ।
एतानि च मम प्रीत्या प्रतिगृह्ण ममान्तिके ॥ ४.३६.१८ ॥

象群、马群与战车队,还有各种国土。请在我面前,因我的情意而接受这些。

4.36.19

तं तथावादिनं तत्र कौरव्यः प्रत्यभाषत ।
एषैव तु मम प्रीतिर्यत्त्वं मुक्तोसि शत्रुभिः ॥ ४.३६.१९ ॥

对这样说话的人,考羅婆(坚战)在那里回答道:我的喜悦正在于此——你已从敌人手中获释。

4.36.20

प्रतीतश्चेत्पुरं तुष्टः प्रविशाद्य परंतप ।
दारैः पुत्रैश्च संश्लिष्य सा हि प्रीतिर्ममातुला ॥ ४.३६.२० ॥

若你已喜悦满足,征服敌人者啊,今日就进入城中,拥抱妻子和儿子吧;舅父啊,这正是我的喜悦。

4.36.21

सुशर्माणं तु राजेन्द्र सभृत्यबलवाहनम् ।
विसर्जय नरश्रेष्ठं वरमेतदहं वृणे ॥ ४.३६.२१ ॥

王中之王啊,请连同他的随从、军队与车骑释放苏莎尔曼;人中最尊者啊,我所请求的恩典正是此事。

4.36.22

एवमुक्ते तु कङ्केन विराटो राजसत्तमः ।
प्रत्युवाच ततः कङ्कं सुशर्मा यातु चेष्टतः ॥ ४.३६.२२ ॥

当羯伽如此说完,王中最优者毗罗吒回答羯伽:让苏莎尔曼随意前往吧。

4.36.23

गच्छन्तु दूतास्त्वरिता नगरं तव पार्थिव ।
सुहृदां प्रियमाख्यातुं घोषयन्तु च ते जयम् ॥ ४.३६.२३ ॥

国王啊,让你的使者迅速前往城中,向朋友们报告喜讯,并宣布你的胜利。

4.36.24

ततस्तद्वचनान्मात्स्यो दूतान्राजा समादिशत् ।
आचक्षध्वं पुरं सत्वा संग्रामे विजयं मम ॥ ४.३६.२४ ॥

于是,马特亚王听从他的话,命令使者:去城中宣布我在战斗中的胜利。

4.36.25

कुमार्यः समलंकृत्य प्रयागच्छन्तु मे पुरात् ।
वादित्राणि च सर्वाणि गणिकाश्च स्वलंकृताः ।
प्रत्यायान्तु च मे शीघ्रं नागराः सर्व एव ते ॥ ४.३६.२५ ॥

愿少女们盛装从我的城中出发。愿所有乐器与盛装的歌妓也一同前往,愿所有城中居民尽快回到我这里。

4.36.26

एवमुक्तास्तथा दूता रात्रौ यात्वा तु केवलम् ।
ततोऽन्तरे चानुषिता दूताः शीघ्रानुयायिनः ॥ ४.३६.२६ ॥

使者得此吩咐,便于夜间独自出发;途中稍作休息之后,这些快速的使者继续前行。

4.36.27

नगरं प्राविशंस्ते वै सूर्ये सम्यगथोदिते ।
विराटनगरं प्राप्य शीघ्रं नान्दीमघोषयन् ।
पताकोच्छ्रयमाल्याढ्यं पुरमप्रतिमं यथा ॥ ४.३६.२७ ॥

太阳充分升起后,使者们进入城中。到达毗罗吒城后,他们迅速宣布吉祥的南迪之声,宣告这座装饰着高扬旗幡与花环、无与伦比的城市。