摩诃婆罗多 · 章 4.37
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.37.1
याते त्रिगर्तान्मात्स्ये तु पशूंस्तान्वै परीप्सति ।
दुर्योधनः सहामात्यैर्विराट पुरमभ्यगात् ॥ ४.३७.१ ॥
当摩蹉人前往三伽多国时,难敌与大臣们一起,想要夺取那些牛群,朝毗罗吒的城市进发。
4.37.2
भीष्मद्रोणौ च कर्णश्च कृपश्च परमास्त्रवित् ।
द्रौणिश्च सौबलश्चैव तथा दुःशासनः शलः ॥ ४.३७.२ ॥
毗湿摩、德罗纳、迦尔纳、精通至上神兵的慈悲,德罗纳之子,苏跋罗之子沙恭尼,难降,以及沙利耶。
4.37.3
विविंशतिर्विकर्णश्च चित्रसेनश्च वीर्यवान् ।
दुःसहो दुर्मुखश्चैव एते चान्ये महारथाः ॥ ४.३७.३ ॥
毗毗阎娑提、毗迦罗那、勇猛的citrasena、杜萨诃和杜目伽,以及这些和其他大车战士。
4.37.4
सर्वे मत्स्यानुपागम्य विराटस्य महीपतेः ।
गोपान्विद्राव्य तरसा गोधनं जह्रुरोजसा ॥ ४.३७.४ ॥
他们走近摩蹉人,驱散了毗罗吒王的牧人,迅速而有力地夺取了牛群的财富。
4.37.5
गवां शतसहस्राणि कुरवः कालयन्ति च ।
महता रथवंशेन परिगृह्य समन्ततः ॥ ४.३७.५ ॥
俱卢人以庞大的战车军团从四面包围,开始驱赶数十万头牛。
4.37.6
गोपालानां तु घोषेषु हन्यतां तैर्महारथैः ।
आरावः सुमहानासीत्संप्रहारे भयंकरे ॥ ४.३७.६ ॥
当那些大车战士在牛栏中击杀牧人时,在那场可怕的冲突中响起了巨大的哀号。
4.37.7
गवाध्यक्षस्तु संत्रस्तो रथमास्थाय सत्वरः ।
जगाम नगरायैव परिक्रोशंस्तदाऽऽर्तवत् ॥ ४.३७.७ ॥
牧牛的总管惊恐万分,登上战车,急速奔向城市,痛苦地大声呼喊。
4.37.8
स प्रविश्य पुरं राज्ञो नृपवेश्माभ्ययात्ततः ।
अवतीर्य रथात्तूर्णमाख्यातुं प्रविवेश ह ॥ ४.३७.८ ॥
他进入城中,前往国王的宫殿;随后迅速从战车上下来,进去报告。
4.37.9
दृष्ट्वा भूमिंजयं नाम पुत्रं मात्स्यस्य मानिनम् ।
तस्मै च सर्वमाचष्ट राष्ट्रस्य पशुकर्षणम् ॥ ४.३७.९ ॥
他看见摩差王那位高傲的儿子婆湿摩迦耶,便把王国牲畜被劫之事全都告诉了他。
4.37.10
गवां शतसहस्राणि कुरबः कालयन्ति ते ।
प्रतिजेतुं समुत्तिष्ठ गोधनं राष्ट्रवर्धन ॥ ४.३७.१० ॥
俱卢人正赶走数十万头牛。啊,增益国家者,起身夺回牛群的财富吧。
4.37.11
राजपुत्र हितप्रेप्सुः क्षिप्रं निर्याहि वै स्वयम् ।
त्वां हि मत्स्यो महीपालः शून्यपालमिहाकरोत् ॥ ४.३७.११ ॥
王子啊,你既然心怀善意,就亲自快速出发吧;因为守护大地的摩差王,已让你做这座空城的守护者。
4.37.12
त्वां वै परिषदो मध्ये श्लाघते स नराधिपः ।
पुत्रो ममानुरूपश्च शूरश्चेति कुलोद्वहः ॥ ४.३७.१२ ॥
在众人之中,那位人主称赞你说:‘我的儿子既合格又勇敢’,啊,扛起家族荣耀的人。
4.37.13
इष्वस्त्रनिपुणो योधः सदा वीरश्च मे सुतः ।
समर्थः समरे योद्धुं कौरवैः सह तादृशै ॥ ४.३७.१३ ॥
我的儿子是精通箭矢和兵器的勇士,始终英勇,能够在战场上与这样的俱卢族人作战。
4.37.14
तस्य तत्सत्यमेवास्तु मनुष्येन्द्रस्य भाषितम् ।
जयश्च नियतो युद्धे कौरवाश्च ध्रुवं हताः ॥ ४.३७.१४ ॥
愿这位人主的话成真:战斗中必定获胜,俱卢族人必定被杀。
4.37.15
आवर्तय कुरूञ्जित्वा पशून्पशुपतिर्यथा ।
निर्दर्हषामनीकानि भीमेन शरतेजसा ॥ ४.३७.१५ ॥
征服俱卢族人后使其撤退,如同帕苏帕蒂驱回牲畜;以毗摩的箭之光焚毁敌军。
4.37.16
धनुश्च्युतै रुक्मपुङ्खैश्चित्रैः संनतपर्वभिः ।
द्विषतां भिन्ध्यनीकानि गजानामिव यूथपः ॥ ४.३७.१६ ॥
用从弓上射出的金羽、明亮、节部弯曲的箭,刺穿敌军,如同象群之首领冲散象群。
4.37.17
पाशोपधानां ज्यातन्त्रीं चापदण्डां महास्वनाम् ।
शरवर्णां धनुर्वीणां शत्रुमध्ये प्रवादय ॥ ४.३७.१७ ॥
在敌人中间弹奏这张弓之琵琶:以套索为琴座,以弓弦为琴弦,以弓为琴柄,声音宏大,色如箭矢。
4.37.18
निर्याहि नगराच्छीघ्रं राजपुत्र किमास्यते ।
श्वेताः काञ्चनसंनाहा रथे युज्यन्तु ते हयाः ।
ध्वजं च सिहं सौवर्णमुच्छ्रयस्व तथा विभो ॥ ४.३७.१८ ॥
王子,快出城吧,为何还坐着?让你那白色、披金甲的马驾上战车。威武的人啊,高举金狮旗帜。
4.37.19
रुक्मपुङ्खाः प्रसन्नाग्रा मुक्ता हस्तवता त्वया ।
छादयन्तु शराः सूर्यं राज्ञमायुर्निरोधकाः ॥ ४.३७.१९ ॥
愿以金羽、锋尖明亮的箭矢,由你灵巧的手射出,遮蔽太阳;愿它们截断国王的寿命。
4.37.20
रणे जित्वा कुरून्सर्वान्वज्रपाणिरिवासुरान् ।
यशो महदवाप्य त्वं प्रविरोदं पुरं पुनः ॥ ४.३७.२० ॥
在战场上战胜所有库鲁人,如手持金刚杵的因陀罗战胜阿修罗一般,获得伟大的荣耀,然后再次进入城中。
4.37.21
त्वं हि राष्ट्रस्य परमा गतिर्मात्स्यपतेः सुतः ।
गतिमन्तो भवन्त्वद्य सर्वे विषयवासिनः ॥ ४.३७.२१ ॥
你确实是王国最高的依靠,摩差国王之子;愿今日领土上的所有居民都有所依靠。
4.37.22
यथा हि पाण्डुपुत्राणामर्जुनो जयतांवरः ।
एवमेव गतिर्नूनं भवान्विपयवासिनाम् ॥ ४.३७.२२ ॥
正如般度诸子中最优秀的胜者阿周那是他们的依靠,你无疑也是这片土地居民的依靠。