Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 4.41

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

4.41.1

सारथे किमिदं दिव्यं नागो वा यदि वा धनुः ।
सौवर्णान्यत्र पद्मानि शतपत्राणि भागशः ।
कुशाग्निप्रतितप्तानि भानुमन्ति बृहन्ति च ॥ ४.४१.१ ॥

御者啊,这神妙之物是什么——是蛇还是弓?这里有金色的莲花,百瓣,分成几份,如吉祥草之火烧炼过一般,光辉而硕大。

4.41.2

बिन्दवश्चात्र सौवर्णा मणिप्रोताः समन्ततः ।
शशिसूर्यप्रभाः पृष्ठे भान्ति रुक्मपरिष्कृताः ॥ ४.४१.२ ॥

此处四周还有以宝珠串起的金色水滴,光辉如日月,在背上以黄金装饰而闪耀。

4.41.3

पुष्पाण्यत्र सुवर्णानि शतपत्राणि भागशः ।
विस्मापनीयरूपं च भीमं भीमप्रदर्शनम् ॥ ४.४१.३ ॥

这里有金色的花,百瓣,分成几份;其形状令人惊叹,其景象令人恐怖。

4.41.4

नीलोत्पलनिभं कस्य शातकुम्भपरिष्कृतम् ।
ऋषभा यस्य सौवर्णाः पृष्ठे तिष्ठन्ति शृङ्गिणः ॥ ४.४१.४ ॥

这如蓝莲般、以黄金装饰的,是谁的?其背上站立着金角的公牛的,是谁的?

4.41.5

तालप्रमाणं कस्येदं मणिरुक्मविभूषितम् ।
हाटकस्य सुवर्णस्य यस्मिञ्शाखामृगा दश ॥ ४.४१.५ ॥

这高如棕榈树、以宝珠与黄金装饰、以哈塔卡金制成、其上有十只猴子的,是谁的?

4.41.6

दुरानमं महादीर्घं सुरूपं दुष्प्रधर्षणम् ।
कस्येदमीदृशं चित्रं धनुः सर्वे च दंशिताः ॥ ४.४१.६ ॥

难以拉开,极长,形态优美,难以攻破——如此神奇的弓是谁的?而且所有人都披甲备战。

4.41.7

चन्द्रार्कविमलाभासः सुरूपाः सुप्रदर्शनाः ।
हंसाः पृष्ठं श्रिता यस्य कुशाग्निप्रतिमार्चिषः ।
शार्ङ्गगाण्डीवसदृशं कस्येदं सारथे धनुः ॥ ४.४१.७ ॥

御者啊,这张弓像沙阔与甘狄拔一样,其背上栖息着如日月般清澈光辉、形态优美、望之悦目的天鹅,其光焰如吉萨草之火,它属于谁?

4.41.8

चतुर्तं काञ्चनवपुर्भाति विद्युद्गणोपमम् ।
नीलोपलिप्तमच्छिदं जातरूपमयं धनुः ।
मत्स्यश्चास्य हिरण्यस्य पृष्ठे तिष्ठन्ति दंशिताः ॥ ४.४१.८ ॥

第四把,通体金色,如闪电群般光耀;以蓝宝石涂饰,无瑕,由黄金所制,其金色的背上,披甲的鱼立于其上。

4.41.9

शक्रचापोपमं दिव्यं कस्येदं सारथे धनुः ।
उच्छ्रितं फणिवद्दिव्यं सारवत्त्वाद्दुरानमम् ॥ ४.४१.९ ॥

御者啊,这把如因陀罗之弓般神圣的弓是谁的?它高高扬起,如蛇的头冠,神圣,因其坚韧而难以拉开。

4.41.10

सहस्रगोधाः सौवर्णा द्वीपिनश्च चतुर्दश ।
बर्हिणश्चात्र सौवर्णाः शतचन्द्रार्कभूषिताः।
जाम्बूनदविचित्राङ्गं कस्येदं पञ्चमं धनुः ॥ ४.४१.१० ॥

这里有千只金色蜥蜴、十四只豹子和金色孔雀,装饰着上百个月亮与太阳。这第五张以阎浮檀金装饰、肢体斑斓的弓是谁的?

4.41.11

कस्येमे क्षुरनाराचाः सहस्रं लोमवापिनः ।
प्रक्षिप्तास्तीक्ष्णतुण्डाग्रा उपासङ्गे हिरण्मये ॥ ४.४१.११ ॥

这一千支如剃刀般的箭,细如发丝,尖端锋利,置于这金色箭袋之中,是谁的?

4.41.12

हारिद्रवर्णाः कस्येमे शिता पञ्चशतं शराः ।
आशीविषसमस्पर्शाः शिताश्चाजिंहगा दृढाः ॥ ४.४१.१२ ॥

这五百支锐利的姜黄色箭矢属于谁?触感如毒蛇,锋利、笔直、坚固。

4.41.13

विपाठाः पृथवः कस्य गृध्रपत्रार्धवाजिताः ।
वराहकर्णास्तीक्ष्णाग्राः कस्येमे रुचिराः शराः ॥ ४.४१.१३ ॥

这些漂亮的箭属于谁?箭头分叉宽阔,以半截秃鹫羽装饰,形如野猪耳,前端锋利。

4.41.14

वज्राशनिसमस्पर्शा वैश्वानरशिखार्चिषः ।
सुवर्णपुङ्खास्तीक्ष्णाग्राः कस्य सप्तशतं शराः ॥ ४.४१.१४ ॥

这七百支箭属于谁?触感如雷电,光芒如火焰,金色箭尾,箭头锋利。

4.41.15

कस्यायं सायको दीर्घो गव्ये कोशे च दंशितः ।
कस्य दण्डो दृढः श्लक्ष्णो रुचिरोऽयं प्रकाशते ॥ ४.४१.१५ ॥

这支长箭放在牛皮箭囊中,属于谁?谁的这根坚固、光滑、美丽的箭杆在闪耀?

4.41.16

वैयाघ्रकोशः कस्यायं दिव्यः शङ्खो महाप्रभः ।
कस्यार्थमसयश्चैते पञ्च शार्दूललक्षणाः ॥ ४.४१.१६ ॥

这虎皮鞘属于谁?这神圣、光辉灿烂的海螺属于谁?带虎纹的这五把剑又为谁准备?

4.41.17

कस्यायं निर्मलः खङ्गो द्वीपिचर्मनिवासितः ।
नीलोत्पलसवर्णोऽयं कस्य खङ्गः पृथुर्महान् ॥ ४.४१.१७ ॥

这把装在豹皮鞘中的纯净宝剑属于谁?这把宽大的巨剑,颜色如蓝莲,又属于谁?

4.41.18

मृगेन्द्रचर्मावसितस्तीक्ष्णधारः सुनिर्मलः ।
ऋषभाजिनकोशस्तु कस्य खङ्गो महानयम् ॥ ४.४१.१८ ॥

覆以狮皮、锋利而极为明亮、以牛皮为鞘的这把大剑属于谁?

4.41.19

यस्यापिधाने दृश्यन्ते सूर्याः पञ्च परिष्कृताः ।
कस्यायं विपुलः खङ्गः शृङ्गत्सरुमनोहरः ॥ ४.४१.१९ ॥

在谁的鞘上可见五个装饰的太阳?这把以角柄而迷人的宽阔之剑属于谁?

4.41.20

निहितः पार्षते कोशे तैलधौतः समाहितः ।
प्रमाणवर्णयुक्तश्च कस्य खङ्गो महानयम्।
एतेन प्रतिविद्धः सञ्जीवेत्कश्चिन्न कुञ्जरः ॥ ४.४१.२० ॥

这把放在般遮多(Dhṛṣṭadyumna)鞘中、以油擦拭、保养得当、尺寸与色泽恰当的大剑属于谁?被它刺中的象,无一能再活。

4.41.21

निर्दिशस्व यथामार्गं मया पृष्टा बृहन्नले ।
विस्मयो मे परो जातो दृष्ट्वा सर्वमिदं महत् ॥ ४.४१.२१ ॥

啊,布利诃南娜,请照我所问的如实说明。看到这一切宏大之物,我心中生起了极大的惊异。