Vedyatra वेदयात्रा
検索

マハーバーラタ · 章 4.43

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

4.43.1

एतस्मिन्नन्तरे पार्थं न मूढात्मा व्यजानत ।
विराटपुत्रः प्रभुखे पप्रच्छ पुनरेव तम् ॥ ४.४३.१ ॥

その間に、愚かな心のヴィラータの息子はパールタを見分けられず、主君の前で再び彼に尋ねた。

4.43.2

सुवर्णरुचिराण्येषामायुधानि महात्मनाम् ।
रुचिराणि प्रकाशन्ते पार्थानामाशुकारिणाम् ॥ ४.४३.२ ॥

これら大いなる魂の人々の黄金のように美しい武器が輝き、速やかに行動するプリター の子らの美しい武器が光り輝いている。

4.43.3

क्वनु ते पाण्डवाः शूराः संग्रामेष्वपराजिताः ।
येषामिमानि दीप्तानि श्रिया दीप्यन्ति भान्ति च। ॥ ४.४३.३ ॥

戦いで決して敗れなかったあの勇敢なパーンダヴァ兄弟はどこにいるのか。その輝く武器がその威光で光り輝いている者たちは。

4.43.4

कस्मिन्वसन्ति देशे च धर्मज्ञा बन्धुवत्सलाः ।
क्व धर्मराजः कौन्तेयो धर्मपुत्रो युधिष्ठिरः ॥ ४.४३.४ ॥

法を知り親族を愛するあの人々はどの国に住んでいるのか。法王、クンティーの子、法の子ユディシュティラはどこにいるのか。

4.43.5

धर्मशीलश्च धर्मात्मा धर्मवान्धर्मवित्सुधीः ।
धर्माध्यक्षो धर्मपुत्रो धर्मज्ञो धर्ममूर्तिमान् ॥ ४.४३.५ ॥

法に堅固で、魂が正しく、法を備え、法を知り、賢明で、法の監督者であり、法の子、法を知る者、法そのものの化身である。

4.43.6

धर्मनिष्ठो धर्मकर्ता धर्मगोप्ता सुधर्मकृत् ।
सत्यार्जवक्षमाधारो घृणी धर्मपरायणः ॥ ४.४३.६ ॥

法に専心し、法を行い、法を守り、善き法を成し、真実・正直・忍耐の土台であり、慈悲深く、法に徹している。

4.43.7

भीमसेनार्जुनौ चापि सर्वे ते मातुला मम ।
नकुलः सहदेवो वा सर्वास्त्रकुशलौ रणे ॥ ४.४३.७ ॥

ビーマセーナとアルジュナもまた、彼らはみな私の母方の叔父である。ナクラとサハデーヴァも、戦においてあらゆる武器に熟練している。

4.43.8

सर्व एव महात्मानः सर्वामित्रविनाशनाः ।
राज्यमक्षैः पराजित्य नः श्रूयन्ते वनं गताः ॥ ४.४३.८ ॥

彼らはみな偉大な魂の持ち主で、あらゆる敵を滅ぼす者たちである。賽子で王国を失い、森へ去ったと我々は聞いている。

4.43.9

द्रौपदी चापि पाञ्चाली स्त्रीरत्नमिति मे श्रुता ।
जिता चाक्षैस्तदा कृष्णा तानेवान्वगमद्वने ॥ ४.४३.९ ॥

パーンチャーラの王女ドラウパディーもまた、女性の宝石であると私は聞いている。その時賽子で勝ち取られたクリシュナーは、彼らの後を追って森へ行った。

4.43.10

उत्सृज्य राज्यं धर्म्यं ते नः श्रूयन्ते वनं गताः ॥ ४.४३.१० ॥

正当な王国を捨てて、彼らは森へ去ったと我々は聞いている。

4.43.11

पाण्डवान्यदि जानीषे क्वनु ते धर्मचारिणः ।
क्वनु वा निवसन्तीति सत्यं ब्रूहि बृहन्नले ॥ ४.४३.११ ॥

もしパーンダヴァたちを知っているなら、あの法を行う者たちはどこにいるのか。あるいは彼らはどこに住んでいるのか。ブリハンナラーよ、真実を語れ。

4.43.12

किमर्थमागतान्यत्र शस्त्रास्त्राणि महात्मनाम् ।
कथं ज्ञातानि भवता तथा मे ब्रूहि शोभने ॥ ४.४३.१२ ॥

大いなる魂の持ち主たちの武器と飛び道具は、何のためにここへ来たのか。あなたはどうしてそれらを知ったのか。美しい人よ、私に告げよ。

4.43.13

ततः प्रहस्य बीभत्सुः कौन्तेयः श्वेतवाहनः ।
उवाच राजपुत्रं तमुत्तरं शृणु मे वचः ॥ ४.४३.१३ ॥

すると笑って、白馬の御者を持つクンティーの子ビーバツ(アルジュナ)は、かの王子ウッタラに言った。わが言葉を聞け。

4.43.14

मा भैस्त्वं राजशार्दूल सर्वं ते वर्णयाम्यहम् ।
नात्र भेतव्यमद्यापि राजपुत्र यथातथा ॥ ४.४३.१४ ॥

王中の虎よ、恐れるな、私はすべてを語ろう。王子よ、今もここには恐れるものはない、まさにその通りだ。

4.43.15

वयं ते पाण्डवा नाम वनवासस्य पारगाः ।
अतीते द्वादशे वर्षे च्छन्नवासमिहोषिताः।
तस्मादशङ्कितमनाः शृणुष्वावहितोत्तर ॥ ४.४३.१५ ॥

我らはそなたのパーンダヴァ、森の流謫を終えた者である。十二年が過ぎ、ここで身を隠して住んできた。ゆえにウッタラよ、不安のない心で注意して聞け。

4.43.16

अहमस्म्यर्जुनो नाम कङ्को नाम युधिष्ठिरः ।
भीमसेनस्तु वललः पितुस्ते रसपाचकः।
अश्वबन्धस्तु नकुलः सहदेवस्तु गोपतिः ॥ ४.४३.१६ ॥

私はアルジュナである。カンカという名のユディシュティラ、ヴァッラバという名のビーマセーナは、そなたの父の料理人である。ナクラは馬の世話係、サハデーヴァは牛飼いの長である。

4.43.17

सैरन्ध्रीं द्रौपदीं विद्धि यदर्थे कीचको हतः ।
भीमसेनेन दुर्वृत्तः सहभ्रातृभिराहवे ॥ ४.४३.१७ ॥

その侍女はドラウパディーだと知れ。そのために邪悪なキーチャカは、ビーマセーナによって兄弟たちとともに戦場で殺されたのだ。

4.43.18

श्रुत्वैतद्वचनं जिष्णोर्विस्मयस्फारितेक्षणः ।
पश्यन्ननिमिषः पार्थं शनैर्वाचमुवाच ह ॥ ४.४३.१८ ॥

ジシュヌ(アルジュナ)のこの言葉を聞き、驚きに目を見開き、パールタを瞬きもせず見つめながら、ゆっくりと語った。

4.43.19

दश पार्थस्य नामानि श्रूयन्ते मे कथासु च ।
प्रब्रूयास्तानि यदि मे श्रद्दध्यां सर्वमेव ते ॥ ४.४३.१९ ॥

パールタの十の名は物語で聞いたことがあります。もしそれを教えてくださるなら、あなたの言葉をすべて信じましょう。

4.43.20

अहं तर्हि तवाचक्षे दश नामानि तानि मे ।
वैराटे शृणु तानि त्वं यानि पूर्वं श्रुतानि ते।
ईशानो विदधे देवस्त्रिदिवस्येश्वरो दिवि ॥ ४.४३.२० ॥

では、私の十の名を教えよう。ヴィラータの子よ、以前に聞いたものを聞きなさい。天界の主であるイーシャーナ神が、天においてそれらを定めた。

4.43.21

अर्जुनः फल्गुनो जिष्णुः किरीटी श्वेतवाहनः ।
बीभत्सुर्विजयः पार्थः सव्यसाची धनञ्जयः।
एतानि मम नामानि स्थापितानि सुरोत्तमैः ॥ ४.४३.२१ ॥

アルジュナ、パルグナ、ジシュヌ、キリーティン、シュヴェータヴァーハナ、ビーバツス、ヴィジャヤ、パールタ、サヴィヤサーチン、ダナンジャヤ——これらが私の名であり、神々の中の最上の者たちが定めたものです。

4.43.22

गुणतो दश नामानि समवेतानि पाण्डवे ।
चरन्ति लोके ख्यातानि विदितानि ममावघ ॥ ४.४३.२२ ॥

これら十の名は、その資質に従ってパーンダヴァに集められ、世に広く知られ、私にも知られています。罪なき者よ。

4.43.23

केनासि विजयो नाम केनासि श्वेतवाहनः ।
सव्यसाची च केनासि जिष्णुर्बीभत्सुरेव च ॥ ४.४३.२३ ॥

なぜあなたはヴィジャヤと呼ばれるのか。なぜシュヴェータヴァーハナ、なぜサヴィヤサーチンなのか。なぜジシュヌやビーバツスでもあるのか。

4.43.24

अर्जुनः फल्गुनः पार्थः किरीटी केन सारथे ।
धनञ्जयश्च केनासि शीघ्रं वद बृहन्नले ॥ ४.४३.२४ ॥

なぜあなたはアルジュナ、パルグナ、パールタ、キリーティンなのか。なぜダナンジャヤでもあるのか。御者よ、ブリハンナラーよ、早く言いなさい。

4.43.25

श्रुता मे तस्य वीरस्य केवला नामहेतवः ।
इतस्ततश्चलत्येतन्मनो मे चञ्चलं त्वयि।
अर्जुनो वा भवान्नेति वद शीघ्रं बृहन्नले ॥ ४.४३.२५ ॥

私はあの英雄の名のわずかな手がかりしか聞いておらず、そのため落ち着かない心があなたについて揺れ動いている。ブリハンナダーよ、あなたはアルジュナなのか否か、早く言え。

4.43.26

सर्वाञ्जित्वा जनपदान्धनं चाच्छिद्य सर्वशः ।
मध्ये धनस्य तिष्ठन्तं तन्मामाहुर्धनञ्जयम् ॥ ४.४३.२६ ॥

すべての国を征服し、あらゆる方面から富を奪い、富の真ん中に立つ私を、人々はダナンジャヤと呼ぶ。

4.43.27

अभिप्रयामि संग्रामे यदाऽहं युद्धदुर्मदान् ।
अजित्वा न निविर्तेयं तेन वै विजयं विदुः ॥ ४.४३.२७ ॥

戦いで戦いの熱に酔った敵へ私が進むとき、勝たずに引き返すことはない。ゆえに人々は私を勝利を知る者と呼ぶ。

4.43.28

श्वेताः काञ्चनसन्नाहा रथे युज्यन्ति मे हयाः ।
शत्रुभिर्युध्यमानस्य तेनाहं श्वेतवाहनः ॥ ४.४३.२८ ॥

金の飾りをつけた白い馬が私の戦車につながれている。敵と戦う私を、それゆえ白馬の者(シュヴェータヴァーハナ)と呼ぶ。

4.43.29

किरीटं सूर्यसंकाशं भ्राजते मे शिरोगतम् ।
रणमध्ये रथस्थस्य सूर्यपावकसन्निभम् ॥ ४.४३.२९ ॥

私の頭上にある太陽のような冠が輝く。戦いの真っ只中で戦車に立つ私にとって、それは太陽と火のように輝く。

4.43.30

अच्छेद्यं रुचिरं चित्रं जाम्बूनदपरिष्कृतम् ।
इन्द्रदत्तमनाहार्यं तेनाहुर्मां किरीटिनम् ॥ ४.४३.३० ॥

砕けず、美しく、不思議で、ジャーンブーナダの金で飾られ、インドラより与えられ、外すことのできぬこの冠。ゆえに人々は私を冠をいただく者(キリーティン)と呼ぶ。

4.43.31

न कुर्यां कर्म बीभत्सं युध्यमानः कदाचन ।
तेन देवमनुष्येषु बीभत्सुरिति मां विदुः ॥ ४.४३.३१ ॥

戦う時、私は決して恥ずべき行為をしない。ゆえに神々と人間の間で、私はビーバトス(毘跋蘇)と呼ばれる。

4.43.32

उभौ मे तुल्यकर्माणौ गाण्डीवस्य विकर्षणे ।
भुजौ मे भवतः सङ्ख्ये परसैन्यविनाशिनौ।
तयोः सव्योऽधिकस्तस्मात्सव्यसाचीति मां विदुः ॥ ४.४३.३२ ॥

ガーンディーヴァを引く時、私の両腕は同じ働きをし、戦場では敵軍を滅ぼす。二つのうち左腕がより巧みなので、人々は私をサヴィヤサーチン(左右両手の弓手)と呼ぶ。

4.43.33

पृथिव्यां सागरान्तायां वर्णो मे दुर्लभः समः ।
शुद्धत्वाद्रुपवत्त्वाच्च तेन मामार्जुनं विदुः ॥ ४.४३.३३ ॥

海に至るこの大地において、私と同じ肌の色は稀である。清らかさと美しさゆえに、人々は私をアルジュナと呼ぶ。

4.43.34

उत्तराभ्यां तु पूर्वाभ्यां फल्गुनीभ्यामहं दिवा ।
जातो हिमवतः पृष्ठे तेन मां फल्गुनं विदुः ॥ ४.४३.३४ ॥

ウッタラーとプールヴァ・パルグニーの二つの星宿のもと、昼間にヒマーラヤの尾根で私は生まれた。ゆえに人々は私をパールグナと呼ぶ。

4.43.35

यो ममाङ्गे व्रणं कुर्याद्धातुर्ज्येष्ठस्य पश्यतः ।
युधिष्ठिरस्य रुधिरं दर्शयेद्वा कदाचन ।
पराभवमहं तस्य कुले कुर्यां न संशयः ॥ ४.४३.३५ ॥

私の身体に傷をつける者、あるいは私の目の前で長兄ユディシュティラの血を見せる者があれば、その家系に必ず敗北をもたらすだろう。疑いはない。

4.43.36

योत्स्यामि तैरहं सर्वैर्न मे तेभ्यः पराभवः ।
तेन देवमनुष्येषु जिष्णुर्नामास्मि विश्रुतः ॥ ४.४३.३६ ॥

私は彼ら全員と戦うが、彼らに敗れることはない。ゆえに神々と人間の間で、私は勝者ジシュヌの名で知られている。

4.43.37

माता मम पृथा नाम तेन मां पार्थमब्रुवन् ॥ ४.४३.३७ ॥

私の母の名はプリターであり、それゆえ人々は私をパールタ(プリターの子)と呼んだ。

4.43.38

देवदानवगन्धर्वपिशाचोरगराक्षसान् ।
अहं पुरा रणे जित्वा खाण्डवेऽग्निमतर्पयम् ॥ ४.४३.३८ ॥

神々、ダーナヴァ、ガンダルヴァ、ピシャーチャ、蛇、ラークシャサを戦いで征服し、かつてカーンダヴァでアグニを満足させた。

4.43.39

हुताशनं तर्पयित्वा सहितः शार्ङ्गधन्वना ।
त्रिविष्टपगतौ दृष्ट्वा पितामहमहेश्वरौ ॥ ४.४३.३९ ॥

シャールンガ弓の持ち主とともにアグニを満足させた後、天界へ赴いた祖父(ブラフマー)とマヘーシュヴァラ(シヴァ)を見た。

4.43.40

मूर्च्छया पतितं भूमावागतौ देवसत्तमौ ।
दृष्ट्वा तौ वरदौ देवौ संज्ञां लब्ध्वोत्थितः पुनः ॥ ४.४३.४० ॥

気を失って地に倒れた私のもとに、神々の中で最も優れた二柱が来られた。恩恵を与える二神を見て、私は意識を取り戻し、再び立ち上がった。

4.43.41

मूर्ध्ना हि प्रणतं भूमौ तौ देवौ वरदौ वरौ ।
कृष्णेत्येकादशं नाम प्रीत्या मे चक्रतुस्तदा।
तुष्टौ च मम वीर्येण कर्मणा चाभिराधितौ ॥ ४.४३.४१ ॥

地に頭を垂れて礼拝する私に、あの卓越した二柱の恩恵の神々は、そのとき愛情をこめて第十一の名「クリシュナ」を授けた。私の勇気と行いに喜び満足して、彼らはそうしたのである。

4.43.42

सर्वदेवैः परिवृतौ भूयो मां स्वयमूचतुः ।
वरं तात वृणीष्वेति यं प्रार्थयसि पाण्डव ॥ ४.४३.४२ ॥

すべての神々に囲まれた二柱は、再び自ら私に言われた。「パーンドゥの子よ、愛しい者よ、望む恩恵を選べ。」

4.43.43

ततोऽहमस्त्राण्यलभं दिव्यानि च दृढानि च ।
ब्राह्मं पाशुपतं चैव स्थूणाकर्णं च दुर्जयम् ।
ऐन्द्रं वारुणमाग्नेयं वायव्यमथ वैष्णवम् ॥ ४.४३.४३ ॥

そして私は神聖で強固な武器を得た。ブラフマーの武器、パーシュパタ、打ち勝てぬスターナーカルナ、インドラの武器、ヴァルナの武器、火の武器、風の武器、そしてヴァイシュナヴァ。

4.43.44

ततोऽहमजयं भूयो रथेनैन्द्रेण दुर्जयान् ।
मातलिं सारथिं कृत्वा निवातकवचान्रणे ।
अवध्यकवचांन्देवैर्वरदृप्तान्महासुरान् ॥ ४.४३.४४ ॥

その後、再びインドラの戦車に乗り、マータリを御者として、戦場で打ち勝てぬニヴァータカヴァチャたちに勝利した。恩恵に驕る大アスラたちで、その鎧は神々にさえ貫けなかった。

4.43.45

तिस्रः कोटीर्दानवानां संयुगेष्वनिवर्तिनाम् ।
एको निर्जित्य संग्रामे भूयो देवानतोषयम् ॥ ४.४३.४५ ॥

戦いで決して退かぬ三コーティ(三千万)のダーナヴァを、私はただ一人で戦場で打ち破り、それから神々を喜ばせた。

4.43.46

ततो मे भगवानिन्द्रः किरीटमददात्स्वयम् ।
देवाश्च शङ्खमददुः शत्रुसैन्यनिवारणम् ॥ ४.४३.४६ ॥

すると尊きインドラ自身が私に冠を与え、神々は敵軍を退ける法螺貝を与えた。

4.43.47

अहं पारे समुद्रस्य हिरण्यपुरवासिनाम् ।
हत्वा षष्टिं सहस्राणि जयं संप्राप्तवान्रणे ॥ ४.४३.४७ ॥

大海の彼方で、ヒラニヤプラの住民六万人を討ち取り、私は戦いに勝利を得た。

4.43.48

असंभ्रान्तो रथे तिष्ठन्सहस्रेषु शतेषु च ।
शत्रुमध्ये दुराधर्षो न मुह्यन्ति च मे दिशः ॥ ४.४३.४८ ॥

戦車の上で動じずに立ち、千や百の敵の只中にあっても、私は攻めがたく、私の方角は乱れない。

4.43.49

अहं गन्धर्वराजेन ह्रियमाणं सुयोधनम् ।
भ्रातृभिः सहितं तात गन्धर्वैः समरे जितम्।
चतुर्दश सहस्राणि हत्वा चैनममोचयम् ॥ ४.४३.४९ ॥

私はガンダルヴァの王に連れ去られようとしていたスヨーダナとその兄弟たちを、戦いでガンダルヴァを破り、一万四千人を殺して救い出したのだ、愛しい人よ。

4.43.50

एतानि मम नामानि योऽहन्यहनि कीर्तयेत् ।
तं न पश्यन्ति सत्त्वानि न तं निघ्नन्ति शत्रवः ॥ ४.४३.५० ॥

これらが私の名前である。毎日これを唱える者は、生きものたちに見られず、敵によっても打ち倒されない。

4.43.51

अद्य पश्य महाबाहो मम वीर्यं सुदुःसहम् ।
मा भैर्विगतसंत्रासः कुरूनेतान्समागतान् ॥ ४.४३.५१ ॥

今、大腕の者よ、耐え難い私の武勇を見よ。恐れを捨て、ここに集まったクル族を恐れるな。

4.43.52

सुयोधनस्य मिषतः कर्णस्य च कृपस्य च ।
पितामहस्य भीष्मस्य द्रौणेर्द्रोणस्य च स्वयम्।
सर्वानेव कुरूञ्जित्वा प्रत्यानेष्यामि ते पशून् ॥ ४.४३.५२ ॥

スヨーダナが見ている前で、カルナ、クリパ、祖父ビーシュマ、ドローナの子、そしてドローナ自身の前でさえ、クル族すべてを征服して、お前の家畜を取り戻してこよう。