摩诃婆罗多 · 章 4.45
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.45.1
उत्तरं सांरथिं कृत्वा शमीं कृत्वा प्रदक्षिणम् ।
आयुधं सर्वमादाय ततः प्रायाद्धनञ्जयः ॥ ४.४५.१ ॥
以优陀罗为御者,绕行沙弥树,携带一切兵器,于是持财(阿周那)出发了。
4.45.2
ध्वजं च सिंहं मात्स्यस्य भ्रातॄणामायुधानि च ।
प्रणिधाय शमीमध्ये प्रयातुमुपचक्रमे ॥ ४.४५.२ ॥
将摩室耶王的狮子旗与兄弟们的兵器放在沙弥树中间,他便开始启程。
4.45.3
ततः काञ्चनलाङ्गूलं ध्वजं वानरलक्षणम् ।
दिव्यं मायामयं युक्तं विहितं विश्वकर्मणा ।
मनसा चिन्तयामास प्रसादं पावकस्य च ॥ ४.४५.३ ॥
于是他在心中思念那尾巴金色、带有猴子标志、神圣而由幻力构成、由毗首羯摩所造的旗帜,以及火神的恩惠。
4.45.4
स च तच्चिन्तितं ज्ञात्वा ध्वजे भूतान्ययोजयत् ।
रथे वानरमुच्छ्रित्य गाण्डीवं व्याक्षिपद्धनुः ॥ ४.४५.४ ॥
他知晓了这番思念,便将众生附于旗上;在战车上竖起猴子,挥动了甘提婆弓。
4.45.5
सपताकं विचित्राङ्गं सोपासङ्गं महाबलम् ।
खात्पपात रथे तूर्णं दिव्यरूपं मनोरमम् ॥ ४.४५.५ ॥
那辆战车旗帜飘扬,各部分色彩斑斓,配有箭囊,极其强大,形貌神圣而令人喜爱,迅速从天空降落到战车上。
4.45.6
रथमास्थाय बीभत्सुः कौन्तेयः श्वेतवाहनः ।
बद्धासिः सतलत्राणः प्रगृहीतशरासनः ।
ततः प्रायादुदीचीं स कपिप्रवरकेतनः ॥ ४.४५.६ ॥
乘上战车的毗跋蹉,贡蒂之子,白马之主,佩带好剑,束上护臂,手持弓箭,然后向北方出发——他的旗帜上有最优的猿猴。
4.45.7
सैन्याभ्याशं स संप्राप्य गृहीत्वा शङ्खमुत्तमम् ।
स्वनवन्तं महाशब्दं देवदत्तं धनञ्जयः ।
शशाङ्करूपं बीभत्सुः प्राध्मापयदरिंदमः ॥ ४.४५.७ ॥
到达军队附近后,制敌者财主(Dhanañjaya)拿起殊胜的海螺,吹响了声音宏大回响的天授螺;形如明月的毗跋蹉(Bībhatsu)吹响了它。
4.45.8
शशाङ्ककुन्दधवलं मुखे निक्षिप्य वासविः ।
उच्छ्वसद्गण्डयुगलं सिराल्याचितफालकम् ॥ ४.४५.८ ॥
将白如月亮与拘那花的海螺置于口中,因陀罗之子——两颊鼓胀、额上布满青筋;
4.45.9
आरक्तनिम्ननयनं ह्रस्वस्थूलशिरोधरम् ।
अतिश्लिष्टोदरोरस्कं तिर्यगाननशोभितम् ॥ ४.४५.९ ॥
眼睛赤红而深陷,颈短而粗,腹与胸紧收,以侧转的面容增添光彩;
4.45.10
यावत्स्वशक्तिसामग्र्यं त्रैलोक्यं क्षोभयन्निव ।
मरुद्भिर्दशभिश्चैव प्राध्मापयदरिंदमः ॥ ४.४५.१० ॥
他以全部力量,仿佛要震动三界,与十位风神(Marut)一同,制敌者吹响了它。
4.45.11
शङ्खशब्दोस्य सोत्यर्थं श्रूयते कालमेघवत् ॥ ४.४५.११ ॥
他的海螺之声极其响亮,宛如乌黑的雷雨云。
4.45.12
तस्य शङ्खस्य शब्देन धनुपो निस्वनेन च ।
वानरस्य निनादेन रथनेमिस्वनेन च।
जङ्गमस्य भयं घोरमकरोत्पाकशासनिः ॥ ४.४५.१२ ॥
以那海螺之声、弓弦之响、旗上猴子的吼声与战车轮子的隆隆之声,因陀罗之子在一切有生之物中引起了可怕的恐惧。
4.45.13
शङ्खशब्देन पार्थस्य मुखेनाश्वाः पतन्क्षितौ ।
उत्तरश्चापि संत्रस्थो रथोपस्थ उपाविशत् ॥ ४.४५.१३ ॥
听到阿周那的海螺声,马匹面朝下倒在地上,乌ttara也惊恐万分,坐在战车的底板上。
4.45.14
अथाश्वान्रश्मिभिः पार्थः समुद्यम्य परंतपः ।
अभ्राजत रथोपस्थे भानुर्मेराविवोत्तरे ॥ ४.४५.१४ ॥
于是灭敌者帕尔塔以缰绳提起马匹,在战车底板上光芒四射,如同在北方的须弥山上升起的太阳。
4.45.15
शङ्खघोषेण वित्रस्तं ज्याघातेन च मूर्छितम् ।
उत्तरं संपरिष्वज्य समाश्वासयदर्जुनः ॥ ४.४५.१५ ॥
乌ttara被海螺的轰鸣和弓弦的震响吓得昏厥,阿周那紧紧拥抱他并加以安慰。
4.45.16
मा भैस्त्वं राजपुत्राग्र्य क्षत्रियोसि परन्तप ।
कथं पुरुषशार्दूल शत्रुमध्ये विषीदसि ॥ ४.४५.१६ ॥
“王子中的最优者,不要害怕;你是刹帝利,灭敌者。人中猛虎,为何在敌阵之中如此沮丧?”
4.45.17
श्रुतास्ते शङ्खशब्दाश्च भेरीशब्दाश्च सर्वशः ।
कुञ्जराणां च निनदा व्यूढानीकेषु नित्यशः ॥ ४.४५.१७ ॥
在列阵的大军之中,你始终听到海螺的吹响、战鼓的轰鸣,以及象群的吼声。
4.45.18
स त्वं कथमिवानेन शङ्खशब्देन भीषितः ।
विपण्णरूपो वित्रस्तः पुरुषः प्राकृतो यथा ॥ ४.४५.१८ ॥
你怎么会被这海螺声吓得面色苍白、浑身发抖,像个普通人一样?
4.45.19
श्रुता मे शङ्खशब्दाश्च भेरीशब्दाश्च नित्यशः ।
कुञ्जराणां च निनदा व्यूढानीकेषु तिष्ठतः ॥ ४.४५.१९ ॥
我常常听到海螺的声音和战鼓的声音,也听到列阵而立的军队中大象的吼声。
4.45.20
नैवंविधाः शङ्खशब्दाः पुरा जातु मया श्रुताः ।
ध्वजस्य चापि रूपं मे दृष्टपूर्वं नहीदृशम् ।
धनुषश्चापि घोषश्च श्रुतपूर्वो न मे क्वचित् ॥ ४.४५.२० ॥
这样的海螺声我以前从未听过;这样的旗帜形状我以前从未见过;这样的弓弦之声我也从未听过。
4.45.21
अस्य शङ्खस्य शब्देन धनुषो निस्वनेन च ।
अमानुषाणां शब्देन भूतानां निस्वसेन च।
रथनेमिप्रणादेन मनो कमे मुह्यते भृशम् ॥ ४.४५.२१ ॥
因这海螺的声音、弓弦的嗡鸣、非人之声、众生的呼吸,以及战车轮的轰响,我的心神极度迷乱。
4.45.22
व्याकुलाश्च दिशः सर्वा हृदयं व्यथतीव च ।
ध्वजेन पिहिताः सर्वा दिशो न प्रतिभान्ति मे।
गाण्डीवस्य च शब्देन कर्णौ मे बधिरीकृतौ ॥ ४.४५.२२ ॥
四方都已混乱,我的心似乎在痛。被旗帜遮蔽,我已看不见四方;而因甘狄拔弓的声音,我的双耳已经聋了。
4.45.23
पुनर्ध्वजं पुनः शङ्खं धनुश्चैव पुनः पुनः ।
स मूढचेता वैराटिरर्जुनं समुदैक्षत ॥ ४.४५.२३ ॥
他一次又一次地望着旗帜,又望着海螺,并一次又一次地望着弓,心神迷乱的毗罗咤之子便凝神注视阿周那。
4.45.24
स मुहूर्तं प्रयातं तु पार्थो वैराटिमब्रवीत् ॥ ४.४५.२४ ॥
他沉默了片刻;然后,帕尔塔(阿周那)对毗罗咤之子说道。
4.45.25
स्थिरो भव महाबाहो संज्ञां चात्मानमानय ।
एकान्ते रथमास्थाय पद्भ्यां त्वमवपीड्य च।
दृढं च रश्मीन्संयच्छ शङ्खं ध्मास्याम्यहं पुनः ॥ ४.४५.२५ ॥
勇臂者啊,坚定起来,恢复神志。在僻静处登上战车,用双足顶住,紧握缰绳;我将再次吹响海螺。
4.45.26
एवमुक्त्वा महाबाहुः सव्यसाची परन्तपः ।
ततः शङ्खमुपाध्मासीद्दारयन्निव पर्वतान्।
गुहा गिरीणां च तदा दिशः शैलांस्तथैव च ॥ ४.४५.२६ ॥
说罢,臂力强大的左手神射者阿周那、摧敌者,随即吹响海螺,仿佛要劈开群山。山中的洞穴、四方与岩石也(为之震动)。
4.45.27
ज्याघोषं तलघोषं च कृत्वा भूतान्यमोहयत् ।
उत्तरश्चापि संलीनो रथोपस्थ उपाविशत्।
तं समाश्वासयामास पुनरेव धनञ्जयः । ॥ ४.४५.२७ ॥
他以弓弦之响与拍掌之声,使众生迷惑。优多罗也躲藏着坐在战车的底板上。檀那阇耶又一次安慰了他。
4.45.28
तस्य शङ्खस्य शब्देन रथनेमिस्वनेन च ।
गाण्डीवस्य च शब्देन पृथिवी समकम्पत ॥ ४.४५.२८ ॥
因那海螺的声音、战车轮圈的轰鸣以及金刚弓(甘狄瓦)的弦响,整个大地都震动了。