Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 4.47

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

4.47.1

ततो दुर्योधनो राजा समरे भीष्ममब्रवीत् ।
द्रोणं च रथिशार्दूलं कृपं च सुमहाबलम् ॥ ४.४७.१ ॥

于是国王难敌在战场上对毗湿摩、车战之虎德罗纳以及极其强大的克里巴说道。

4.47.2

उक्तोऽयमर्थ आचार्य मया कर्णेन चासकृत् ।
पुनरेव च वक्ष्यामि न हि तृप्यामि तद्ब्रुवन् ॥ ४.४७.२ ॥

老师啊,这件事我与迦尔纳已反复说过;然而我仍要再说,因为说了也不能满足。

4.47.3

पराजितैर्विवस्तव्यं तैश्च द्वादशवत्सरान् ।
वने जनपदेऽज्ञातैरेष एव पणो हि नः ॥ ४.४७.३ ॥

战败者须在森林中及某国中隐居十二年,不被认出;这便是我们的赌注。

4.47.4

तेषां न तावन्निर्वृत्तो वत्सरः स त्रयोदशः ।
अज्ञातवासे बीभत्सुरथास्माभिः परिश्रुतः ॥ ४.४७.४ ॥

他们的第十三年尚未结束;在隐居期间,我们认出了毗跋多(阿周那)。

4.47.5

अनिर्वृत्ते तु निर्वासे यदि बीभत्सुरागतः ।
पुनर्द्वादशवर्षाणि वने वत्स्यन्ति पाण्डवाः ॥ ४.४७.५ ॥

然而,若流放尚未完结,毗跋多(阿周那)便已回来,那么般度五子将再在森林中住十二年。

4.47.6

लोभाद्वा ते न जानीयुरस्मान्वा मोह आविशत् ।
हीनातिरिक्तमेतेषां भीष्मो वेदितुमर्हति ॥ ४.४७.६ ॥

或许出于贪欲,或出于迷惑,他们没有认出我们;他们时限的不足或超出,只有毗湿摩能够知道。

4.47.7

अर्थानां हि पुनर्द्वैधे नित्यं भवति संशयः ।
अन्यथा चिन्तितो ह्यर्थः पुनर्भवति चान्यथा ॥ ४.४७.७ ॥

在两难的事务中总有疑虑;原先如此考虑的事,往往会变成另一种样子。

4.47.8

उत्तरं मार्गमाणानां मात्स्यसेनां युयुत्सताम् ।
यदि बीभत्सुरायातः किंतु कृत्यमतः परम् ॥ ४.४७.८ ॥

在寻找摩差国军队、渴望战斗的人群中,若比跋特苏(阿周那)已经到来,那么此后还有什么事要做?

4.47.9

त्रिगर्तानां कृतं कार्यं पाण्डवानां च मार्गणम् ।
विप्रकारैर्हि मात्स्येन सुशर्मा बाधित पुरा ॥ ४.४७.९ ॥

三伽多人所做之事与寻找般度五子,因为从前摩差王以其侵害逼迫苏沙尔曼。

4.47.10

तेषां भयाभिपन्नानां वस्तानां त्राणभिच्छताम् ।
अभयं याचमानानां तदाऽस्माभिः परिश्रुतम् ॥ ४.४७.१० ॥

对那些被恐惧所困、渴望庇护、请求无畏的居民,我们当时已经承诺。

4.47.11

प्रथमं वैर्ग्रहीतव्यं मात्स्यानां गोधनं महत् ।
अष्टम्याश्चापराह्णे तु इति नस्तैः समाहितम् ॥ ४.४७.११ ॥

首先由他们夺取摩差人的大量牛群;于第八日的午后——我们之间如此约定。

4.47.12

नवम्यां पुनरस्माभिः सूर्यस्योदयनं प्रति ।
इमा गावो ग्रहीतव्या याते मत्स्ये गवांपदम् ॥ ४.४७.१२ ॥

第九日,由我们再次朝着日出方向,待摩差王离去之后,这些牛须在牛道上夺取。

4.47.13

इत्येवं निश्चयोऽस्माकं मन्त्रोऽभून्नागसाह्वये ।
पाण्डवानां परिज्ञाने सर्वेषां नः परस्परम् ॥ ४.४७.१३ ॥

于是我们在那伽城作出决定与商议:查明般度之子的下落,我们彼此都这样谈论。

4.47.14

ते वा गाश्च नयिष्यन्ति यदि वा स्युः पराजिताः ।
अस्मान्वाऽप्यतिसन्धाय कुर्युर्मात्स्येन संगतिम् ॥ ४.४७.१४ ॥

他们或将夺走牛群,或若已战败,或欺骗我们,便与摩差王结盟。

4.47.15

अथवा तानुपादाय मात्स्यो जानपदैः सह ।
सर्वथा सेनया सार्धमस्मानेष युयुत्सति ॥ ४.४७.१५ ॥

或者摩差王带着他们,与国中百姓一道,以全部军力,想要与我们交战。

4.47.16

तेषामेको महावीर्यः कश्चिदेव पुनःसरः ।
अस्माञ्जेतुमिहायातो मात्स्यो वाऽपि स्वयं भवेत् ॥ ४.४७.१६ ॥

他们中有一位大勇士,某个追击者,来到这里要征服我们;或许就是摩差王本人。

4.47.17

यद्येष राजा मात्स्यानां यदि बीभत्सुरागतः ।
सर्वैर्योद्धव्यमस्माभिरिति नः समयः कृतः ॥ ४.४७.१७ ॥

无论此人是摩差王,还是毗跋蹉(阿周那)来了,我们都必须与他交战;这是我们的约定。

4.47.18

अथ कस्मात्थिता ह्येते रथेषु रथिसत्तमाः ।
भीष्मद्रोणकृपाः कर्णो विकर्णो द्रौणिरेव च।
संभ्रान्तमनसः सर्वे प्राप्ते ह्यस्मिन्धनञ्जये ॥ ४.४७.१८ ॥

那么这些最优秀的车战勇士为何站在车上?毗湿摩、德罗纳、克里帕、迦尔纳、毗迦尔纳与德罗纳之子——既然财富征服者(阿周那)已到,他们都心神慌乱地站着。

4.47.19

नान्यत्र युद्धाच्छ्रेयोस्ति तथाऽऽत्मा प्रणिधीयताम् ।
सर्वलोकेन वा युद्धं देवैर्वाऽस्तु सवासवैः ॥ ४.४७.१९ ॥

除战斗之外没有更大的善;因此应当坚定其心。无论与诸世界作战,还是与包括因陀罗在内的诸神作战,都任其发生。

4.47.20

अनाच्छिन्ने धनेऽस्माकमथ शक्रेण वज्रिणा ।
यमेन वाऽपि संग्रामे को हास्तिनपुरं व्रजेत् ॥ ४.४७.२० ॥

即便我们的财富未在战中被持金刚者帝释或阎摩夺走,又有谁会返回象城(Hāstinapura)?

4.47.21

शरैरभिप्रणुन्नानां भग्नानां गहने वने ।
को हि जीवेत्पदातीनां भवेदश्वेषु संशयः ॥ ४.४७.२१ ॥

在茂密森林中被箭射中、溃散破败的步兵之中,谁能活下来?即使骑兵也将危在旦夕。

4.47.22

आचार्यं पृष्ठतः कृत्वा तथा नीतिर्विधीयताम् ।
जानामि च मतं तेषामतस्त्रासयतीव नः ॥ ४.४७.२२ ॥

应将导师置于身后,如此制定策略。我知道他们的意图,因此它仿佛在使我们惊恐。

4.47.23

अर्जुने चापि संप्रीतिमधिकामुपलक्षये ।
तथा दृष्ट्वा हि बीभत्सुमुपायान्तं प्रशंसति ।
यथा सेना न भज्येत तथा नीतिर्विधीयताम् ॥ ४.४७.२३ ॥

我也看到他对阿周那更加亲近;看见毗跋蹉(阿周那)走来,他便赞扬他。因此应制定策略,使军队不致溃散。

4.47.24

अदेशिका ह्यरण्येऽस्मिन्कृच्छ्रे शत्रुवशं गता ।
यथा न विभ्रमेत्सेना तथा नीतिर्विधीयताम् ॥ ४.४७.२४ ॥

在这片森林中既无向导,又陷入困境、落入敌人之手,应制定策略,使军队不致迷途。

4.47.25

अश्वानां हेषितं श्रुत्वा का प्रशंसा भवेत्परे ।
स्थाने वाऽपि व्रजन्तो वा सदा हेषन्ति वाजिनः ॥ ४.४७.२५ ॥

听到马的嘶鸣,敌人还能有什么称赞?无论站立还是行进,马总是嘶鸣。

4.47.26

सदा च वायवो वान्ति नित्यं वर्षति वासवः ।
स्तनयित्नोश्च निर्घोषः श्रूयते बहुशस्तथा ॥ ४.४७.२६ ॥

风总是吹拂,因陀罗不断降雨,雷鸣的轰响也常常听见。

4.47.27

भीषयन्पाण्डवेयेभ्यो भवान्सर्वानिमाञ्जनान् ।
प्रमुखे सर्वसैन्यानामबद्धं बहु भाषते ॥ ४.४७.२७ ॥

你恐吓般夹在潘度诸子面前,在一切军队前列的这些人面前,你口无遮拦地说了许多。

4.47.28

यथैवाश्वान्मार्गमाणास्तानेवाभिपरीप्सवः ।
हेषितानीव शृण्वन्ति तदिदं भवतस्तथा ॥ ४.४७.२८ ॥

就像寻找马匹并想要得到它们的人会听到嘶鸣一样,你也这样听着这些。

4.47.29

किमत्र कार्यं पार्थस्य कथं वा स प्रशस्यते ।
अन्यत्र कामाद्द्वेषाद्वा रोषाद्वाऽस्मासु केवलम् ॥ ४.४७.२९ ॥

此处普利塔之子(阿周那)有何使命,又为何受到称赞?除了对我们的欲望、仇恨或愤怒之外,别无他故。

4.47.30

आचार्या वै कारुणिकाः प्राज्ञाश्चापायदर्शिनः ।
नैते महाहवे घोरे संप्रष्टव्याः कथंचन ॥ ४.४७.३० ॥

师长们确实慈悲、智慧,且能预见危险;在这场可怕的大战中,绝不可以任何方式询问他们。

4.47.31

प्रासादेषु विचित्रेषु गोष्ठीपानाशनेषु च ।
कथा विचित्राः कुर्वाणाः पण्डितास्तत्र सोभनः ॥ ४.४७.३१ ॥

在华丽的宫殿里、在饮宴的聚会中,那里的学者们讲述奇妙的故事,光彩照人。

4.47.32

बहून्याश्चर्यरूपाणि कुर्वते जनसंसदि ।
इष्वस्त्रे चापसंधाने पण्डितास्तत्र शोभनाः ॥ ४.४७.३२ ॥

在民众的集会上,他们展示许多奇妙的技艺;在箭矢与兵器、开弓瞄准方面,那里的能手光彩照人。

4.47.33

परेषां विवरज्ञाने मनुष्याचरितेषु च ।
अन्नसंस्कारदोषेषु पण्डितास्तत्र शोभनाः ॥ ४.४७.३३ ॥

在洞察敌人弱点、在人的行为以及饮食准备的过失方面,那里的学者们光彩照人。

4.47.34

पण्डितान्पृष्ठतः कृत्वा परेषां गुणवादिनः ।
विधीयतां तथा नीतिर्यथा वध्येत वै परः ॥ ४.४७.३४ ॥

让学者们居于后方,使其赞扬敌人的美德,如此安排策略,使敌人必定被杀死。

4.47.35

गावश्चैताः प्रतिष्ठन्तां सेनां व्यूहन्तु माचिरम् ।
आरक्षाश्च विधीयन्तां यत्र योत्स्यामहे परैः ॥ ४.४७.३५ ॥

让这些牛立于前方,让军队立即列阵,并在我们将与敌人交战之处设置守卫。