Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 4.48

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

4.48.1

सर्वानायुष्मतो भीतान्संत्रस्तानिव लक्षये ।
अयुद्धमनसश्चैव सर्वांश्चैवानवस्थितान् ॥ ४.४८.१ ॥

我看到所有长寿者都惊恐万分,心不在战斗上,且都动摇不定。

4.48.2

यद्येष जामदग्न्यो वा यदि वेन्द्रः पुरंदरः ।
वासुदेवेन सहितो यदि बीभत्सुरागतः।
अहमेनं निरोत्स्यामि वेलेव वरुणालयम् ॥ ४.४८.२ ॥

无论此人是嘉玛达格尼之子,还是摧城者因陀罗,或是与婆苏提婆一同前来的毗跋蹉(阿周那),我都会阻挡他,如同海岸阻挡瓦卢那的居所。

4.48.3

रुक्मपुङ्खाः प्रसन्नाग्रा मुक्ता हस्तवता मया ।
छादयन्तु शारः सूर्यं पार्थस्यायुर्निरोधकाः ॥ ४.४८.३ ॥

愿以我巧手射出的金羽、亮锋之箭遮蔽太阳;它们将截断般度之子(阿周那)的寿命。

4.48.4

मम चापप्रमुक्तानां शराणां नतपर्वणाम् ।
निवृत्तिर्गच्छतां नास्ति सर्पाणां श्वसतामिव ॥ ४.४८.४ ॥

我从弓上射出的、节部弯曲的箭,一旦飞出便无回还,如同嘶嘶作响的毒蛇。

4.48.5

शराणां पुङ्खसक्तानां मौर्व्याऽभिहतयोर्भृशम् ।
श्रूयते तलयोः शब्दो भेर्योराहतयोरिव ॥ ४.४८.५ ॥

当固定在羽翎上的箭被弓弦猛烈击中时,便听到如同两面大鼓被敲击般的拍掌之声。

4.48.6

एकैकं चतुरः पञ्च क्वचित्पष्टिं क्वचिच्छतम् ।
हतान्पश्यत मात्स्यानामिषुभिर्निहतान्रथान् ॥ ४.४८.६ ॥

每车或四人、或五人、或六十、或一百——看那被我的箭射倒的鱼族战车吧。

4.48.7

मद्बाहुमुक्तैरिषुभिस्तैलधौतैः पतत्रिभिः ।
खद्योतैरिव संपृक्तमन्तरिक्षं विराजताम् ॥ ४.४८.७ ॥

愿由我臂膀射出、以油洗净、羽翼齐备的箭矢充满天空,使其如萤火虫交织般闪耀。

4.48.8

ध्वजाग्राद्वानरस्तस्य भल्लेनाभिहतो मया ।
अद्यैव पततां भूमौ विनदन्भैरवान्रवान् ॥ ४.४८.८ ॥

他旗杆顶端的猴子被我的钩形箭射中,今日便会倒地,发出可怖的哀叫。

4.48.9

शत्रोर्मयाभिपन्नानां भूतानां ध्वजवासिनाम् ।
दिशः प्रतिष्ठमानानामस्तु शब्दो दिवं गतः ॥ ४.४८.९ ॥

愿我所击倒的敌人、栖息于旗帜上的生灵以及向四方奔逃者的哀号声,直达天界。

4.48.10

क्रुद्धेनास्त्रं मया मुक्तं निर्दहेत्पृथिवीमिमाम् ।
स्थितं संग्रामशिरसि पार्थमेकाकिनं किमु ॥ ४.४८.१० ॥

我怒而放出的兵器足以焚毁此大地,何况独自立于战阵之首的贡提之子阿周那呢?

4.48.11

समाहितश्च बीभत्सुर्वर्षाण्यष्टौ च पञ्च च ।
जातस्नेहश्च युद्धस्य मयि संदर्शयिष्यति ॥ ४.४८.११ ॥

沉着坚定的比跋蹉(阿周那)在十三年后,对战争生出兴趣,必将在我面前展示他的勇力。

4.48.12

पात्रीभूतस्तु कौन्तेयो ब्राह्मणो गुणवानिव ।
शरमालां स गृह्णातु मत्प्रसृष्टां स्वधामिव ॥ ४.४८.१२ ॥

愿贡提之子成为合格的容器,犹如有德的婆罗门,接受我所射出的箭之花环,犹如接受供奉之物。

4.48.13

एष चापि महेष्वासस्त्रिषु लोकेषु विश्रुतः ।
अहं चापि नरश्रेष्ठादर्जुनान्नावमः क्वचित् ॥ ४.४८.१३ ॥

这位大弓手也闻名于三界,我也绝不逊于人中最优秀的阿周那。

4.48.14

मम हस्तप्रमुक्तानां शराणां नतपर्वणाम् ।
निवृत्तिर्गच्छतां नास्ति वैश्वानरशिखार्चिषाम् ॥ ४.४८.१४ ॥

我手中射出的弯曲节眼之箭,如火神的火焰般闪耀飞去,便再无回返。

4.48.15

इतश्चेतश्च मुक्तानां शराणां नतपर्वणाम् ।
तुगुलः श्रूयतां नादः षट्पदां गायतामिव ॥ ४.४८.१५ ॥

且听我的弯节之箭纷纷射向四方的喧响,仿佛蜜蜂在歌唱。

4.48.16

अन्तरा संपतद्भिस्तु गृध्रपत्रैः शिलाशितैः ।
शलभानामिवाकाशे छाया संप्रति दृश्यताम् ॥ ४.४८.१६ ॥

如今请看天空中那些以石磨砺、饰以秃鹫羽的箭影,它们在中途纷纷坠落,犹如蝗虫。

4.48.17

अद्य मत्कार्मुकोत्सृष्टाः शिताः पार्थस्य मर्मगाः ।
शरीरमुपसर्पन्तु वल्मीकमिव पन्नगाः ॥ ४.४८.१७ ॥

今日愿我弓射出的利箭,击中阿周那的要害,如蛇钻入蚁穴般钻入他的身体。

4.48.18

बर्हिबर्हिणराजानां बर्हिणां बर्हिणामिव ।
पततां पततां घोषः पततां पततामिव ॥ ४.४८.१८ ॥

如同孔雀之王与孔雀,飞行之箭的声响如同飞翔之鸟的声音,飞翔之鸟。

4.48.19

अद्य त्वहमृणान्मोक्ष्ये यन्मया तत्प्रतिश्रुतम् ।
धार्तराष्ट्रस्य तत्काले निहत्य समरेऽर्जुनम् ॥ ४.४८.१९ ॥

今日我将偿还所许诺的债务:为持国之子,在那时于战场上杀死阿周那。

4.48.20

इन्द्राशनिसमस्पर्शं महेन्द्रसमविक्रमम् ।
अर्दयिष्याम्यहं पार्थमुल्काभिरिव कुञ्जरम् ॥ ४.४८.२० ॥

我将逼迫帕尔塔——其触感如因陀罗之雷,其勇力堪比摩呵因陀罗——正如以火把驱迫大象。

4.48.21

शरजालमहाज्वालमसिशक्तिगदेन्धनम् ।
निर्दहन्तमनीकानि शमयिष्येऽर्जुनानलम् ॥ ४.४८.२१ ॥

我将熄灭阿周那之火——其大焰为箭网,以刀、矛、杵为薪,焚烧诸军。

4.48.22

रथादतिरथं लोके सर्वशस्त्रभृतांवरम् ।
विवशं पार्थमादास्ये गरुत्मानिव पन्नगम् ॥ ४.४८.२२ ॥

我将擒住帕尔塔——世间超越车战者、持械者中最优秀的——使他无能为力,如金翅鸟擒住蛇。

4.48.23

क्षुद्रकैर्विविधैर्भल्लैर्निपतद्भिश्च मामकैः ।
संमूढचेताः कौन्तेयः कर्तव्यं नाभिपद्यताम् ॥ ४.४८.२३ ॥

当我的种种小型月牙箭落在他身上时,愿贡蒂之子心智迷乱,不能知道应当做什么。

4.48.24

अद्य दुर्योधनस्याहं शोकं हृदि चिरं स्थितम् ।
समूलमपनेष्यामि हरन्पार्थशिरः शरैः ॥ ४.४८.२४ ॥

今日我将拔除久藏于难敌心中的忧愁,以箭夺取帕尔塔的头颅。

4.48.25

अद्य मत्कार्मुकोत्सृष्टैर्भल्लैश्च नतपर्वभिः ।
हताश्वं विरथं पार्थं पौरुषे पर्यवस्थितम् ।
निश्वसन्तं यथा नागमद्य पश्यन्तु कौरवाः ॥ ४.४८.२५ ॥

今日,我弓中射出的弯尖利箭杀死了他的马,使无车的般度子阿周那站在勇气中,像大象一样喘息——愿俱卢族今日亲眼看见。

4.48.26

जामदग्न्यान्मया लब्धं दिव्यास्रमृषिसत्तमात् ।
तदुपाश्रित्य वीर्यं च युध्येयमपि वासवम् ॥ ४.४८.२६ ॥

我从杰玛达格尼之子(大仙中的至上者)处获得了神圣的武器;依靠它和我自身的威力,我甚至能与因陀罗(婆娑婆)交战。

4.48.27

ध्वजाग्रे वानरस्तिष्ठन्भल्लेन निहतो मया ।
अद्यैव पततां भूमौ विनदन्भैरवान्रवान् ॥ ४.४८.२७ ॥

立于旗杆顶端的猴子被我的利箭射死;愿它今日便发出可怕的叫声,坠落于地上。

4.48.28

कामं गच्छन्तु कुरवो गाः प्रगृह्य परंतपाः ।
रथेषु वाऽपि तिष्ठन्तो युद्धं पश्यन्तु मामकम् ॥ ४.४८.२८ ॥

俱卢子弟,灼烧敌人者们,若愿意,便带着牛群离去吧;或者站在战车上,观看我的战斗。