摩诃婆罗多 · 章 4.5
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.5.1
कर्माण्युक्तानि युष्माभिर्यानि तानि चरिष्यथ ।
मम चापि यथा बुद्धिरुचिता हि विनिश्चयात् ॥ ४.५.१ ॥
你们将去做所吩咐的事务。依据既定的决断,我的心意也认为这是恰当的。
4.5.2
पुरोहितोऽयमस्माकमग्निहोत्राणि रक्षतु ।
सूतपौरोगवैः सार्धं द्रुपदस्य निवेशने ॥ ४.५.२ ॥
愿我们的这位家祭司,与御者和厨师一同,在德鲁帕达的宅邸中守护火祭。
4.5.3
इन्द्रसेनमुखाश्चेमे रथानादाय केवलान् ।
यान्तु द्वारवतीं शीघ्रमिति मे वर्तते मतिः ॥ ४.५.३ ॥
以因陀罗sena为首的这些人,只带着战车,迅速前往多门城——这是我的意见。
4.5.4
इमाश्च नार्यो द्रौपद्याः सर्वाश्च परिचारिका ।
पाञ्चालानेव गच्छन्तु सूतपौरोगवैः सह ॥ ४.५.४ ॥
愿德鲁帕蒂的这些女子和所有侍女,与御者和厨师一同,前往般遮罗人那里。
4.5.5
सर्वैरपि च वक्तव्यं न प्राज्ञायन्त पाण्डवाः ।
अर्धरात्रे महात्मानो भिक्षादान्ब्राह्मणानपि।
गता ह्यस्मानपाहाय सर्वे द्वैतवनादिति ॥ ४.५.५ ॥
众人都应说:般度之子不可被认出。半夜里,那些伟大的人们,甚至连接受布施的婆罗门,都离开了二林,把我们所有人抛下了。
4.5.6
एवं तेऽन्योन्यमामन्त्र्य कर्माण्युक्त्वा पृथक्पृथक् ।
धौम्यमामन्त्रयामासुः स च तान्मन्त्रमब्रवीत् ॥ ४.५.६ ॥
于是,他们彼此告别,分别说明各自的职事,又向达摩告别;达摩便对他们说了这番劝告。
4.5.7
तानन्वशात्स धर्मात्मा सर्वधर्मविशेषवित् ।
धौम्यः पुरोहितो राजन्पाण्डवान्पुरुषर्षभान् ॥ ४.५.७ ॥
德性高尚、通晓一切法之细节的家族祭司持明(Dhaumya),哦国王,教导了那些人中的雄牛——般度五子。
4.5.8
विदितं वै यथा सर्वं लोके वृत्तमिदं नृप ।
विदिते चापि वक्तव्यं सुहृद्भिरनुरागतः ॥ ४.५.८ ॥
哦国王,您知道世间一切行为的情形。即便是已知的事,友人出于情谊也应当说出来。
4.5.9
अतोऽहमभिवक्ष्यामि हेतुमात्रं निबोधत ।
हन्तेमां राजवसतिं राजपुत्रा ब्रवीमि वः।
यथा राजकुलं प्राप्य चरन्प्रोष्य न रिष्यति ॥ ४.५.९ ॥
因此我只说其理,请听。王子们啊,我告诉你们:如何进入王宫、在其中行走居住,而不会遭受损害。
4.5.10
दुर्वासमेव कौरव्य जातेन कुरुवेश्मनि ।
अमानितेन मानार्ह गूढेन परिवत्सरम् ॥ ४.५.१० ॥
哦俱卢之裔,您应在出生的俱卢宫中隐秘地住一年,虽值得尊敬却不受尊重。
4.5.11
दिष्टद्वारो लभेद्द्रष्टुं राजस्वेषु न विश्वसेत् ।
न चानुशिष्याद्राजानमपृच्छन्तं कदाचन ॥ ४.५.११ ॥
只有经由正门获得许可者才可见王;不可轻信王家财物;王不问时,绝不可去教导他。
4.5.12
तूष्णीं त्वेनमुपासीत काले समभिपूजयेत् ॥ ४.५.१२ ॥
而应默默侍奉他,并在适当的时候好好地尊敬他。
4.5.13
असूयन्ति हि राजानो जनाननृतवादिनः ।
तथैव चावमन्यन्ते मन्त्रिणं वादिनं मृषा ॥ ४.५.१३ ॥
国王嫉妒说谎的人,同样也轻视说假话的谋臣。
4.5.14
विदिते चास्य कुर्वीत कार्याणि सुलघून्यपि ।
एवं विचरतो राज्ञि न क्षतिर्जायते क्वचित् ॥ ४.५.१४ ॥
知晓此事之后,即使是极小的事务也应去做;如此行事的君王,决不会遭受损害。
4.5.15
पाण्डवाग्निरयं लोके सर्वशस्त्रमयो महान ।
भर्ता गोप्ता च भूतानां राजा पुरुषविग्रहः ॥ ४.५.१५ ॥
这位国王,是般度子孙之火,在世间伟大无比,充满一切兵器;他是众生的供养者与守护者,以人身显现。
4.5.16
सर्वात्मना वर्तमानं यथा दोषो न संस्पृशेत् ।
राजानमुपतिष्ठन्तं तस्य वृत्तं निबोधत ॥ ४.५.१६ ॥
应当了解那侍奉国王者的行为:他在一切方面如此行事,使过失不沾染自身。
4.5.17
क्षत्रियं चैव सर्पं च ब्राह्मणं च बहुश्रुतम् ।
नावमन्येत मेधावी कृशानपि कदाचन ॥ ४.५.१७ ॥
智者绝不可轻慢刹帝利、蛇以及博学的婆罗门,即使他们衰弱。
4.5.18
एतत्रयं च पुरुषं निर्दहेदवमानितम् ।
राजा तस्माद्बुधैर्नित्यं पूजनीयः प्रयत्नतः ॥ ४.५.१८ ॥
这三者若遭轻慢,便能烧毁人;因此智者应当常常小心地尊敬国王。
4.5.19
नातिवर्तेत मर्यादां पुरुषो राजसंमतः ।
व्यवहारं पुनर्लोके मर्यादां पण्डिता विदुः ॥ ४.५.१९ ॥
受国王认可的人不应越过界限。世间智者懂得行为的界限。
4.5.20
न हि पुत्रं न नप्तारं न भ्रातरमरिन्दम ।
समतिक्रान्तमर्यादं पूजयन्ति पराधिपाः ॥ ४.५.२० ॥
降敌者啊,越过界限的人,即便是儿子、孙子或兄弟,外国的君主也不予尊重。
4.5.21
गच्छन्नपि परां भूतिं भूमिपालनियोजितः ।
जात्यन्ध इव मन्येत मर्यादामनुचिन्तयन् ॥ ४.५.२१ ॥
受国王任命的人即便获得巨大的福禄,也应时刻思量界限,把自己看作天生的盲人。
4.5.22
धृष्टो द्वारं सदा पश्यन्न च राजसु विश्वसेत् ।
तदेवासनमन्विच्छेद्यत्र नाभिलषेत्परः ॥ ४.५.२२ ॥
勇敢的人应时刻注视门口,不可信任国王。他应选择别人不想要的座位。
4.5.23
यत्रोपविष्टः संकल्पं नोपहन्याद्बलीयसः ।
तदासनं राजकुले ईप्सेत पुरुषो वसन् ॥ ४.५.२३ ॥
在坐下时不妨碍更强者决断的地方,寓居王府之人应当希望坐在那里。
4.5.24
यथैनं यत्र चासीनं शङ्कयेद्दुष्टचरिणम् ।
न तत्रोपविशेज्जातु यो राजवसतिं वसेत् ॥ ४.५.२४ ॥
若坐在那里的人被怀疑品行不端,便永远不要坐在那里。住在王府的人应当这样做。
4.5.25
स्वभूमौ काममासीत तिष्ठेद्वा राजसन्निधौ ।
न त्वेवासनमन्यस्य प्रार्थयेत कदाचन ॥ ४.५.२५ ॥
在自己的土地上可随意就座,或在国王面前站立;但绝不可觊觎他人的座位。
4.5.26
परासनगतं ह्येनं परस्य परिचारकाः ।
परिषद्यपकर्षेयुः परिहास्येत शत्रुभिः ॥ ४.५.२६ ॥
因为坐在他人座位上的人,会被他人的仆从从议会中拖出,并遭敌人嘲笑。
4.5.27
नित्यं विप्रतिषिद्धं तत्पुरस्तादासनं मतम् ।
अर्थार्थं हि यदा भृत्यो राजानमुपतिष्ठते ॥ ४.५.२७ ॥
当仆人为了利益而侍奉国王时,置于前方的座位始终被视为不当。
4.5.28
दक्षिणं वाऽथ वामं वा भागमाश्रित्य पण्डितः ।
तिष्ठेद्विनीतवद्राजन्न पुरस्तान्न पृष्ठतः।
राक्षिणामात्तशस्त्राणां पश्चात्स्थानं विधीयते ॥ ४.५.२८ ॥
智者应靠于右侧或左侧,谦恭站立,王啊,不可在前,也不可在后;持械卫士之后的位置是规定的。
4.5.29
मातृगोत्रे स्वगोत्रे वा नाम्ना शीलेन वा पुनः ।
संग्रहार्थं मनुष्याणां नित्यमाभाषिता भवेत् ॥ ४.५.२९ ॥
为了赢得众人的好感,应当经常与他们交谈,以母族或自家族之名称呼,或依其品性相称。
4.5.30
पूज्यमानोपि यो राज्ञा नरो न प्रतिपूजयेत् ।
नैनमाराधयेज्जातु शास्ता शिष्यानिवालसान् ॥ ४.५.३० ॥
受国王尊敬却不以敬意回报的人,永远无法令国王满意,正如老师无法令懒惰的弟子满意。
4.5.31
नास्य युग्यं न पर्यङ्कं नासनं न रथं तथा ।
आरोहेत्संमतोऽस्मीति यो राजवसतिं वसेत् ॥ ४.५.३१ ॥
住在国王居所的人,不可因想着“我受尊敬”,而登上他的车辆、卧榻、座位或战车。
4.5.32
यो वै गृहेभ्यः प्रवसन्क्रियमाणमनुस्मरन् ।
उत्थाने नित्यसंकल्पो निस्तन्द्रीः संघतात्मवान् ॥ ४.५.३२ ॥
虽远离家中,仍记挂正在进行的事务,常以坚定决心勤勉努力,不懈怠,自我克制。
4.5.33
परीतः क्षुत्पिपासाभ्यां विहाय परिदेवनम् ।
दुःखेन सुखमन्विच्छेद्यो राजवसतिं वसेत् ॥ ४.५.३३ ॥
纵然饥渴交迫,也应舍弃哀叹,以苦求乐,方可住在国王的居所。
4.5.34
करिष्याम्यहमित्येव यः स राजसु सिध्यति ॥ ४.५.३४ ॥
心存“我将去做”之念者,方能在君王之间成功。
4.5.35
उष्णे वा यदि वा शीते रात्रौ वा यदि वा दिवा ।
आदिष्टो न विकल्पेत यः स राजसु सिद्ध्यति ॥ ४.५.३५ ॥
无论酷热严寒,无论昼夜,受命之时不犹豫者,方能在君王之间成就。
4.5.36
नैव प्राप्तोऽवमन्येत सदाऽमात्यो विशारदः ।
मानं प्राप्तो न हृष्येत न व्यथेच्च विमानितः ।
ऋदुर्मृदुः सत्यवादो यः स राजसु सिद्ध्यति ॥ ४.५.३६ ॥
精明的大臣即使得到恩宠,也不可轻视他人;得到尊荣不应欣喜,受到轻慢也不应悲伤。正直、温和、诚实者,方能在君王之间成就。
4.5.37
नैव लाभाद्धर्षमियान्न व्यथेच्च विमानितः ।
समः पूर्णतुलेव स्याद्यो राजवसतिं वसेत् ॥ ४.५.३७ ॥
不因得利而欢喜,受辱而不悲伤,如满秤般平衡者,方可住于王宫。
4.5.38
अल्पेच्छो धृतिमान्राजञ्छायेवानुगतः सदा ।
दक्षः प्रदक्षिणो धीरः स राजवसतिं वसेत् ॥ ४.५.३८ ॥
大王,少欲而坚定,常如影随形,聪敏、灵巧而沉稳者,方可住于王宫。
4.5.39
इतिहासपुराणज्ञः कुशलः सत्कथासु च ।
वदान्यः सत्यवाक्वापि यो राजवसतिं वसेत् ॥ ४.५.३९ ॥
通晓史诗与往世书,善于良言,慷慨而诚实者,方可住于王宫。
4.5.40
न मिथो भाषितं राज्ञो मनुष्येषु प्रकाशयेत् ।
यं चासूयन्ति राजानः पुरुषं नो वदेच्च तम् ॥ ४.५.४० ॥
不可将国王私下的言语向世人宣扬,也不可谈论国王所嫉妒之人。
4.5.41
नैषां कर्मसु संयुक्तो धनं किंचिदुपस्पृशेत् ।
प्राप्नुयादाददानो वा बन्धं वा वधमेव वा ॥ ४.५.४१ ॥
在其事务中任职者,不可触碰其财物分毫;若取之,便会招致囚禁甚至杀身之祸。
4.5.42
हुल्योपस्थितयोः पश्य मम चान्यस्य चोभयोः ।
अन्यं पुष्णाति मद्धीनमिति धीरो न मुह्यति ॥ ४.५.४२ ॥
看那在胡利亚中同在的二人,一属我,一属他人;一人养另一人,若离我则他养另一人。如此思之,沉稳者不致迷惑。
4.5.43
श्रेयांसं हि परित्यज्य वैद्यं कर्मणिकर्मणि ।
पापीयांसं प्रकुर्वीरञ्शीलमेषां तथाविधम् ॥ ४.५.४३ ॥
舍弃优秀而有学识之人,在每件事上任用更差的人——他们的品性也是如此。
4.5.44
नैषां दारेषु कुर्वीत प्राज्ञो मैत्रीं कथंचन ।
रक्षणं तु न सेवेत यो राजवसतिं वसेत् ॥ ४.५.४४ ॥
智者绝不可与他们的妻子结交;住在国王宫中的人,不应寻求她们的庇护。
4.5.45
यदा ह्यभिसमीक्षेत प्रेष्यं स्त्रीभिः समागतम् ।
बुद्धिः परिभवेत्तस्य राजा शङ्केत वा पुनः ॥ ४.५.४५ ॥
当看到仆人与女子相会时,他的判断便被扰乱,国王应当再次对他起疑。
4.5.46
शङ्कितस्य पुनः स्त्रीषु कस्य भृत्यस्य भूमिपः ।
जीवितं साधु मन्येत प्रकृतिस्थो बलात्कृतः ॥ ४.५.४६ ॥
国王怎会认为一个在女子中再次被怀疑的仆人的生活是好的呢?——他本性依旧,却被强力压制。
4.5.47
हर्षवस्तुषु चाप्यत्र वर्तमानेषु केषु चित् ।
नातिगाढं प्रहृष्येत तान्येवास्यानुपूजयेत् ॥ ४.५.४७ ॥
即便这里发生了一些令人欣喜的事,他也不应过度欢喜;应当依照这些事来敬重他。
4.5.48
हर्षाद्धि मन्दः पुरुषः स्वैरं कुर्वीत वैकृतम् ।
तदस्यान्तःपुरे वृत्तमीक्षां कुर्वीत भूमिपः ॥ ४.५.४८ ॥
愚蠢之人因喜乐,可能任意做出不当的行为;因此国王应当观察他内宫的行为。
4.5.49
अन्तःपुरगतं ह्येनं स्त्रियः क्लीबाश्च सर्वतः ।
वर्तमानं यथावच्च कुत्सयेयुरसंशयम् ॥ ४.५.४९ ॥
进入内宫的他,必会被妇女与阉人从四面八方毫无疑问地非议,正如他的行为所示。
4.5.50
तस्माद्गम्भीरमात्मानं कृत्वा हर्षं नियम्य च ।
नित्यमन्तःपुरे राज्ञो न वृत्तं कीर्तयेद्बहिः ॥ ४.५.५० ॥
因此,应保持庄重、克制喜悦,切勿在外面谈论国王内宫的事务。
4.5.51
यथा हि सुमहामन्त्रो भिद्यमानो हरेत्सुखम् ।
एवमन्तःपुरे वृत्तं श्रूयमाणं बहिर्भवेत् ॥ ४.५.५१ ॥
正如极机密的谋议一旦泄露便会夺去安乐,内宫之事一经听闻,便会在外传开。
4.5.52
या तु वृत्तिरबाह्यानां बाह्यानामपि केवलम् ।
उभयेषां समस्तानां शृणु राजोपजीविनाम् ॥ ४.५.५२ ॥
请听,凡依靠国王生活者,无论内外两类,其生计究竟如何。
4.5.53
न स्त्रियो जातु मन्येत बाह्ये वाभ्यन्तरेऽपि वा ।
अनुजीविनां नरेन्द्रस्तु सृजेद्धि सुमहद्भयम् ॥ ४.५.५३ ॥
国王绝不可信任妇女,无论在外在内,也不可信任依附于国王的人,因为他们会制造极大的恐惧。
4.5.54
मत्वाऽस्य प्रियमात्मानं राजरत्नानि राजवत् ।
अराजा राजयोग्यानि नोपयुञ्जीत पण्डितः ॥ ४.५.५४ ॥
自认为深受国王宠爱者,若非国王,便不应像国王一样使用适合国王的王家珍宝;智者不应这样做。
4.5.55
अराजानं हि रत्नानि राजकान्तानि राजवत् ।
भुञ्जानं तं नरं राजा न तितिक्षेत जीवितम् ॥ ४.५.५५ ॥
若非国王之人,如国王一般享用王家宝物与王者之器,国王终身不会容忍他。
4.5.56
तस्मादव्यक्तभोगेन भोक्तव्यं भूतिमिच्छता ।
तुल्यभोगं हि राजा तु भृत्यं कोपेन योजयेत् ॥ ४.५.५६ ॥
故欲求昌盛者,当隐秘而享用;若君王使仆从享受同等之乐,便会使其陷入愤怒。
4.5.57
न चापत्येन संप्रीतिं राज्ञः कुर्वीत केनचित् ।
अधिक्षिप्तमनर्थं च द्वेष्यं च परिवर्जयेत् ॥ ४.५.५७ ॥
也不应借子嗣与国王之间,与任何人结下亲近之情;应当远离侮辱人者、带来祸害者和可憎者。
4.5.58
एतां हि सेवमानस्य नरसीमां चतुर्विधाम् ।
द्विधा विच्छिद्यते मूलं राजमूलोपसेविनः ॥ ४.५.५८ ॥
因为侍奉国王之人,若越过这四种人伦界限,其根本便被一分为二。
4.5.59
एतैस्तु विपरीता या नरसीमा नराधमैः ।
तथा कुर्वीत संसर्गं न विरोधं कथंचन ॥ ४.५.५९ ॥
但与此相反、为卑劣之人所遵循的人伦界限,应依其与之交往,但绝不可以任何方式与之结怨。
4.5.60
बन्धुभिश्च नरेन्द्रस्य बलवद्भिश्च मानवैः ।
साधु मन्येत संसर्गं न विरोधं कथंचन ॥ ४.५.६० ॥
与国王的亲属及有力之人结交,应当视为善举,但绝不可以任何方式与之结怨。
4.5.61
ताभ्यां तु नरसीमाभ्यां विरुद्धस्याल्पतेजसः ।
प्रथमं छिद्यते मूलं द्वितीयं जायते भयम् ॥ ४.५.६१ ॥
那两个人界的边界,首先切断了反抗而力量微弱者的根基;其次,恐惧便随之而生。
4.5.62
उद्धतानां च यो वेषः कुहकानां च यो भवेत् ।
राजवेषं च विस्पष्टं सेवमानो न वर्धते।
इतराभ्यां तु वेषाभ्यां परिहास्येत बान्धवैः ॥ ४.५.६२ ॥
骄横者的装束与欺诈者的装束,以及明显的王者之饰——效法者不得兴盛;以另外两种装束,他将被亲族所嘲笑。
4.5.63
अपुंभिश्चैव पुंभिश्च स्त्रीभिः स्त्रीदर्शिभिर्नरैः ।
शक्ये सति न संभाषां जातु कुर्वीत कर्हिचित् ॥ ४.५.६३ ॥
若有可能,任何时候都不应与非男子、男子、女子以及注视女子的男子交谈。
4.5.64
प्रतिसंभाषमाणो हि त्रिभिरेतैरचेतनः ।
श्येनः पेशीमिवादत्ते पुरुषो भूतिमात्मनः ॥ ४.५.६४ ॥
与这三者互相应答交谈的无知之人,就像鹰隼抓走一块肉一样,夺走了自己的福泽。
4.5.65
ये च राज्ञाऽभिसत्कारं लभेरन्कारणादिव ।
तैश्च सामन्तदूतैश्च न संसज्येत कर्हिचित् ॥ ४.५.६५ ॥
凡因某种缘故而受国王礼遇者,以及边境诸侯和使者,永远不应与之交往。
4.5.66
न चान्याचरितां भूमिमसंदिष्टो महीपतेः ।
उपसेवेत मेधावी यो राजवसतिं वसेत् ॥ ४.५.६६ ॥
智者不应未经地上之主的命令,走近他人经常往来之地;住在王宫中的人才应住在那里。
4.5.67
न च संदर्शने राज्ञां प्रबन्धमभिसंजपेत् ।
अपि चैतद्दरिद्राणां व्यलीकस्थानमुत्तमम् ॥ ४.५.६७ ॥
在国王面前不可长篇大论或喃喃自语,因为这对贫穷者而言也是最大的危险之地。
4.5.68
अर्थकामा च या नारी राजानं स्यादुपस्थिता ।
अनुजीवी तथायुक्तां निध्यायन्दुष्यते च सः ॥ ४.५.६८ ॥
为求财富与欢愉而站在国王身边的女子,以及同样在侍奉中的女子:凝视她的人必将毁灭。
4.5.69
तस्मान्नारीं न निध्यायेत्तथायुक्तां विचक्षणः ।
तथा क्षुतं च वातं च निष्ठीवं चाचरेच्छनैः ॥ ४.५.६९ ॥
因此智者不应注视如此被雇用的女子;打喷嚏、放屁、吐痰也应轻轻地进行。
4.5.70
न नर्मसु हसेज्जातु मूढवृत्तिर्हि सा स्मृता ।
स्मितं तु मृदुपूर्वेण दर्शयीत प्रसादजम् ॥ ४.५.७० ॥
在戏谑中绝不可大笑,因为那被视为愚蠢的举止;应当以温和之态,显露出由恩宠而生的微笑。
4.5.71
न चाक्षौ न भुजौ जातु न च वाक्यं समाक्षिपेत् ।
न च तिर्यगवेक्षेत चक्षुर्भ्यां सम्यगाचरेत् ॥ ४.५.७१ ॥
绝不可挥动眼睛或手臂,也不可随意抛出言语;不可斜视,应以目光端正行事。
4.5.72
भ्रुकुटिं च न कुर्वीत न चाङ्गुष्ठैर्लिखेन्महीम् ।
न च गाढं विजृम्भेत जातु राज्ञः समीपतः ॥ ४.५.७२ ॥
不可皱眉,也不可用拇指在地上划线;在国王面前绝不可大声打哈欠。
4.5.73
न प्रशंसेन्ना चासूयेत्प्रियेषु च हितेषु च ।
स्तूयमानेषु वा तत्र दूष्यमानेषु वा पुनः ॥ ४.५.७३ ॥
不应赞美,也不应嫉妒所爱之人与有益之人,无论那里有人被赞扬还是被责难。
4.5.74
अथ संदृश्यमानेषु प्रियेषु च हितेषु च ।
श्रूयमाणेषु वाक्येषु वर्णयेदमृतं यथा ॥ ४.५.७४ ॥
当所爱之人与有益之人被看见、其言语被听闻时,应当像甘露一样加以称颂。
4.5.75
न राज्ञः प्रतिकूलानि सेवमानः सुखी भवेत् ।
पुत्रो वा यदि वा भ्राता यद्यप्यात्मसमो भवेत् ॥ ४.५.७५ ॥
侍奉与国王相违之事的人不会快乐,即使他是儿子或兄弟,即使他与自己相等。
4.5.76
अप्रमत्तो हि राजानं रञ्जयेच्छीलसंपदा ।
उत्थानेन तु मेधावी शौचेन विविधेन च ॥ ४.५.७६ ॥
谨慎之人应以良好品行之财富使国王欢悦;智者则以勤勉与种种清净。
4.5.77
स्नानं हि वस्त्रशुद्धिश्च शारीरं शौचमुच्यते ।
असक्तिः प्राकृतार्थेषु द्वितीयं शौचमुच्यते ॥ ४.५.७७ ॥
沐浴与衣物洁净称为身体的清净;不执着于世俗之物称为第二种清净。
4.5.78
राजा भोजो विराट् सम्राट् क्षत्रियो भूपतिर्नृपः ।
य एतैः स्तूयते शब्दैः कस्तं नार्चितुमर्हति ॥ ४.५.७८ ॥
国王、Bhoja、Virāṭa、帝王、刹帝利、大地之主、统治者——凡以这些称号受赞颂者,谁不会尊敬他呢?
4.5.79
तस्माद्भक्त्या च युक्तः सन्सत्यवादी जितेन्द्रियः ।
मेधावी धृतिमान्प्राज्ञः संश्रयीत महीपतिम् ॥ ४.५.७९ ॥
因此,虔诚、诚实、克制感官、聪慧、坚定而有智慧的人,应当投靠大地之主。
4.5.80
कृतज्ञं प्राज्ञमक्षुद्रं दृढभक्तिं जितेन्द्रियम् ।
वर्धमानं स्थितं स्थाने संश्रयीत महीपतिम् ॥ ४.५.८० ॥
感恩、有智慧、不拘小节、忠诚坚定、克制感官、日益兴旺并安于本位的人,应当投靠大地之主。
4.5.81
एष वः समुदाचारः समुद्दिष्टो यथाविधि ।
यथार्थान्संप्रपत्स्यन्ते पार्थ राजोपजीविनः ॥ ४.५.८१ ॥
这就是按照规范为你们阐明的恰当行为。哦,普利塔之子,依靠侍奉国王为生者,必能达成各自的目的。
4.5.82
संवत्सरमिमं तावदेवंशीला बुभूषथः ।
ततः स्वविषयं प्राप्य यथाकामं चरिष्यथ ॥ ४.५.८२ ॥
这一年你们要这样行事;之后回到自己的领地,便可随意而行。
4.5.83
तं तथेत्यब्रुवन्पार्थाः पितृकल्पं यशस्विनम् ।
प्रहृष्टाश्चाभिवाद्यैनमुपातिष्ठन्परंतपाः ॥ ४.५.८३ ॥
普利塔之子对这位如父般的显赫者说:“就照您说的办。”那些烧灼敌人的人欢喜地向他行礼,然后侍立在旁。
4.5.84
तेषां प्रतिष्ठमानानां मन्त्रांश्च ब्राह्मणोऽजपत् ।
भवाय राज्यलाभाय वीर्याय विजयाय च ॥ ४.५.८४ ॥
当他们启程之际,婆罗门为他们诵念咒语——为了福祉、获得王国、勇力与胜利。
4.5.85
ततोऽब्रवीदसौ विप्रो वाचमाशीः प्रयुज्य च ।
स्वद्रव्यप्रतिलाभाय शत्रूणां मर्दनाय च ॥ ४.५.८५ ॥
于是那位婆罗门说出祝福之语:愿你重获自己的财物,愿你击溃敌人。
4.5.86
स्वस्ति वोस्तु शिवः पन्था द्रक्ष्यामि पुनरागतान् ।
इत्युक्ता हृष्टमनसो गुरुणा तेन धीमता।
युधिष्ठिरमुखाः सर्वे गन्तुं समुपचक्रमुः ॥ ४.५.८६ ॥
“愿你们平安,愿道路吉祥;我将见到你们平安归来。”那位智慧的导师如此说罢,众人心怀喜悦,以坚战为首,开始动身上路。