摩诃婆罗多 · 章 4.51
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.51.1
ततः शान्तनवस्तत्र धर्मार्थकुशलं हितम् ।
दुर्योधनमिदं वाक्यमब्रवीत्कुरुसंसदि ॥ ४.५१.१ ॥
于是,善于法与利的参塔努之子(毗湿摩)在俱卢议会中对难敌说了这番有益的话。
4.51.2
साधु पश्यति वै द्रोणः कृपः साध्वनुपश्यति ।
आचार्यपुत्रः सहजं निश्चितं साधु भाषते ॥ ४.५१.२ ॥
德罗纳看得正确,克里巴也正确地赞同。师子(马嘶)本性便说出坚定而恰当的话。
4.51.3
कर्णस्तु क्षत्रधर्मेण केवलं योद्धुमिच्छति ।
आचार्यो नावमन्तव्यः पुरुषेण विजानता।
देशकालौ तु संप्रेक्ष्य योद्धव्यमिति मे मतिः ॥ ४.५१.३ ॥
迦尔纳只因刹帝利之法而想要作战。明智之人不应轻视师长。应当审察地点与时机而后作战,这是我的看法。
4.51.4
यस्य सूर्यसमाः प़ञ्च सपत्नाः स्युः प्रहारिणः ।
कथमभ्युदये तेषां न प्रमुह्येत पण्डितः ॥ ४.५१.४ ॥
若有五位如太阳般猛烈的敌人,智者在他们的兴盛之时怎能不感到迷惑?
4.51.5
स्वार्थे सर्वे विमुह्यन्ति येऽपि धर्मविदो जनाः ।
तस्मात्तत्वं न जानाति यत्तु कार्यं नराधिपः ॥ ४.५१.५ ॥
在自身利益面前,即便是通晓法的人也都会迷惑。因此,国王并不明了应当去做之事的真相。
4.51.6
धार्तराष्ट्रोपि दुर्बुद्धिः पश्यन्नपि धनञ्जयम् ।
नैव पश्यति नाघ्राति मन्दः क्रोधवशं गतः ॥ ४.५१.६ ॥
持国之子心术邪恶,虽然看见财胜(阿周那),却看不见;愚昧之人为愤怒所支配,既不看,也不察觉。
4.51.7
एवमुक्त्वा तु राजानं पुनर्द्रौणिमुवाच ह ।
प्राञ्जलिर्भरतश्रेष्ठः साम्ना बुद्धिमतांवरः ॥ ४.५१.७ ॥
说完这话,婆罗多中最优秀者、智者中的第一人,双手合十,又温和地对德罗纳之子说话。
4.51.8
कर्णो हि यदवोचत्त्वां तेजस्संजननाय तत् ।
आचार्यपुत्रः क्षमतां महत्कार्यमुपस्थितम् ॥ ४.५१.८ ॥
卡尔纳对你所说,是为了激发你的斗志。老师之子啊,请宽恕;重大的任务已然降临。
4.51.9
नायं कालो विरोधस्य कौन्तेये समुपस्थिते ।
क्षन्तव्यं भवता सर्वमाचार्येण कृपेण च ॥ ४.५१.९ ॥
贡蒂之子已然临近,此时不是敌对的时候。你、老师和克里帕都应当宽恕一切。
4.51.10
भवतां हि कृतास्त्रत्वं यथाऽऽदित्ये प्रभा तथा ।
यथा चन्द्रमसो लक्ष्मीः सर्वथा नापकृष्यते ।
एवं भवत्सु ब्राह्मण्यं ब्रह्मास्त्रं च प्रतिष्ठितम् ॥ ४.५१.१० ॥
如太阳有光,你们有精通武器之能;如月亮之辉从不减损,婆罗门之德与梵天神箭在你们身上稳固确立。
4.51.11
चत्वार एकतो वेदाः क्षात्रमेकत्र दृश्यते ।
नैतत्समस्तमुभयं कस्मिंश्चिदनुशुश्रुम।
अन्यत्र भारताचार्यात्सुपुत्रादिति मे मतिः ॥ ४.५१.११ ॥
四吠陀在一边,武艺之学在另一边。据我所闻,二者完整地汇聚于一人之身,唯有婆罗多之师与其贤子,我的看法是如此。
4.51.12
वेदान्ताश्च पुराणानि इतिहासं पुरातनम् ।
जामदग्न्यमृते राजन्को द्रोणादधिको भवेत् ॥ ४.५१.१२ ॥
吠檀多、往世书与古老的史传——大王啊,除了甘婆之子罗摩,谁能超过德罗纳呢?
4.51.13
ब्रह्मास्त्रं चैव वेदाश्च नैतदन्यत्र दृश्यते ॥ ४.५१.१३ ॥
梵天神箭与吠陀,此类在他处皆不可见。
4.51.14
आचार्यपुत्रः क्षमतां नायं कालो विभेदने ।
सर्वे संहत्य युद्ध्यामः पाकशासनिमागतम् ॥ ४.५१.१४ ॥
请宽恕师子;此时不是分裂我们的时候。让我们同心协力,迎战如因陀罗般到来的敌人。
4.51.15
बलस्य व्यसनानीह यान्युक्तानि मनीषिभिः ।
मुख्यो भेदोहि तेषां तु पापिष्ठो विदुषां मतः ॥ ४.५१.१५ ॥
智者所说军队之祸患中,分裂为首要且最为有罪,此为学者之见。
4.51.16
नैवं न्याय्यमिदं वाच्यमस्माकं पुरुषर्षभ ।
किंतु रोषपरीतेन गुरुणा भाषिता गुणाः ॥ ४.५१.१६ ॥
人中雄牛啊,如此评说我们并不公正;然而怒气所迫的师尊,所说的只是我们的美德。
4.51.17
शत्रोरपि गुणा ग्राह्या दोषा वाच्या गुरोरपि ।
सर्वथा सर्वयत्नेन पुत्रे शिष्ये हितं वदेत् ॥ ४.५१.१७ ॥
即便是敌人的优点也应接受,即便是师长的过失也应指出。无论如何,尽全力,对儿子和弟子所说的,只应是有益之言。
4.51.18
आचार्य एष क्षमतां शान्तिरत्र विधीयताम् ।
अभिद्यमाने तु गुरौ निवृत्तं रोषकारितम् ॥ ४.५१.१८ ॥
请这位师长宽恕;愿此地建立和平。待师长心中的分裂消除,这由怒气所引起的纷争方能平息。
4.51.19
ततो दुर्योधनो द्रोणं क्षमयामास भारत ।
सह कर्णेन भीष्मेण कृपं चैव महाबलम् ॥ ४.५१.१९ ॥
于是,婆罗多子孙啊,难敌与迦尔纳、毗湿摩以及大力的克利巴一起安抚了德罗纳。
4.51.20
यदेतत्प्रथमं वाक्यं भीष्मः शान्तनवोऽब्रवीत् ।
तेनैवाहं प्रसन्नो वै परमत्र विधीयताम् ॥ ४.५१.२० ॥
沙恭多之子毗湿摩所说的第一句话,确实让我感到满意;现在请在此安排下一步。
4.51.21
यथा दुर्योधनं पार्थो नोपसर्पति संगरे ।
साहसाद्यदि वा मोहात्तथा नीतिर्विधीयताम् ॥ ४.५१.२१ ॥
为使阿周那在战斗中不接近难敌,无论是出于莽撞还是出于迷惑,应当制定这样的策略。
4.51.22
वनवासे ह्यनिर्वृत्ते दर्शयेन्न धनञ्जयः ।
धनं चालभमानोऽत्र नाद्य तत्क्षन्तुमर्हति ॥ ४.५१.२२ ॥
若林居流放尚未结束,那么财富征服者不应显露自己;他尚未获得财富,今日不宜忍受此事。
4.51.23
यथा नायं समायुञ्ज्याद्धार्तराष्ट्रं कथंचन ।
न च सेनां पराजय्यात्तथा नीतिर्विधीयताम् ॥ ४.५१.२३ ॥
为使此人无论如何不与持国之子交战,也不击败军队,应当制定这样的策略。
4.51.24
उक्तं दुर्योधनेनापि पुरस्ताद्वाक्यमीदृशम् ।
तदनुस्मृत्य गाङ्गेय यथावद्वक्तुमर्हसि ॥ ४.५१.२४ ॥
难敌此前也曾说过这样的话;记起这些话,恒河之子啊,你应当如实说出。