摩诃婆罗多 · 章 4.54
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.54.1
तथा व्यूढेष्वनीकेषु कौरवेयैर्महारथैः ।
उपायादर्जुनंस्तूर्णं रथघोषेण नादयन् ॥ ४.५४.१ ॥
于是,在列阵的军队中,俱卢族的大车战士们迅速向阿周那逼近,以战车的轰鸣震响四方。
4.54.2
ददृशुस्ते ध्वजाग्रं वै शुश्रुवुश्च रथस्वनम् ।
दोधूयमानस्य भृशं गाण्डीवस्य च निस्वनम् ॥ ४.५४.२ ॥
他们看见了旗幡的顶端,听见了战车的声响,也听见了被猛烈抖动的甘狄拔弓的弦声。
4.54.3
त्रिकोशमात्रं गत्वा तु पाण्डवः श्वेतवाहनः ।
संनामुखमभिप्रेक्ष्य पार्थो वैराटिमब्रवीत् ॥ ४.५४.३ ॥
走了约三克罗沙之后,白马的般度之子阿周那望见迎面的敌军,便对毗罗吒之子说道。
4.54.4
राजानं नात्र पश्यामि रथानीके व्यवस्थितम् ।
दक्षिणं पक्षमादाय कुरुवो यान्त्युदङ्भुंखाः ॥ ४.५४.४ ॥
我在这战车军中看不到国王;俱卢族人取右翼,面向北方而去。
4.54.5
उत्सृज्यैतद्रथानीकं महेष्वासाभिरक्षितम् ।
गवाग्रमभितो याहि यावत्पश्यामि मे रिपुम् ॥ ४.५४.५ ॥
离开这由大弓箭手守护的战车军,绕行至牛群的前方,直到我看见我的敌人。
4.54.6
गवाग्रमभितो गत्वा गाश्चैवाशु निवर्तय ।
यावदेते निवर्तन्ते कुरवो जवमास्थिताः ।
तावदेव पशून्सर्वान्निवर्तिष्ये तवाभिभो ॥ ४.५४.६ ॥
绕到牛群的前方,迅速把牛群调转回来;只要这些俱卢族人急速转回,啊,有力者,我就会把所有牲畜调转回来。
4.54.7
इत्युक्त्वा समरे पार्थो वैराटिमपराजितः ।
सव्यं पक्षमनुप्राप्य जवेनाश्वानचोदयत् ॥ ४.५४.७ ॥
说完这话,在战场上不可战胜的般度之子(阿周那)到达左翼,迅速驱策马匹。
4.54.8
ततोऽभ्यवादयत्पार्थो भीष्मं शान्तनवं कृपम् ।
द्वाभ्यांद्वाभ्यां तथाऽऽचार्यं द्रोणं प्रथमतः क्रमात् ॥ ४.५४.८ ॥
随后,般度之子向珊塔努之子毗湿摩和克利巴致敬,并先向师尊德罗纳致敬,依次以两支箭各致敬。
4.54.9
द्रोणं कृपं च भीष्मं च पृषत्कैरभ्यवादयत् ।
ततस्तत्सर्वमालोक्य द्रोणो वचनमब्रवीत् ॥ ४.५४.९ ॥
他以箭向德罗纳、克利巴和毗湿摩致敬。德罗纳观察了这一切之后,说了这些话。
4.54.10
महारथमनुप्राप्तं दृष्ट्वा गाण्डीवधन्विनम् ।
न कश्चिद्योद्भिमिच्छेत न च गुप्तं स्वजीवितम् ।
अयं वीरश्च शूरश्च दुर्धर्षश्चैव संयुगे ॥ ४.५४.१० ॥
见到持甘狄拔弓的大车士逼近,无人愿意交战,也无人想保全自己的性命。此人是英雄,勇敢,在战斗中难以战胜。
4.54.11
एतद्ध्वजाग्रं पार्थस्य दूरतः प्रतिदृश्यते ।
मेघःक सविद्युत्स्तनितो रोरवीति च वानरः ॥ ४.५४.११ ॥
般度之子旗帜的顶端从远处可见,如同伴有闪电、雷鸣的云;猴子也在吼叫。
4.54.12
आस्थाय च रथं याति गाण्डीवं विक्षिपन्धनुः ॥ ४.५४.१२ ॥
登上战车,他一边挥动甘狄拔弓,一边前进。
4.54.13
अश्वानां स्तनतां शब्दो वहतां पाकशासनिम् ।
रथस्याम्बुधरस्येव श्रूयते भृशदारुणः ॥ ४.५४.१३ ॥
载着因陀罗的马匹嘶鸣之声,以及如雨云般的战车轰鸣,极为可怖,清晰可闻。
4.54.14
दारयन्निव तेजस्वी वसुधां वासवात्मजः ।
एष दृष्ट्वा रथानीकमस्माकमरिमर्दनः। ॥ ४.५४.१४ ॥
仿佛要劈开大地,光辉的因陀罗之子、摧毁敌人者,见到我们的战车大军,(正向这边而来)。
4.54.15
श्रीमान्वदान्यो धृतिमान्तत्करोति च पाण्डवः ।
इमौ बाणावनुप्राप्तौ पादयोः प्रत्युपस्थितौ । ॥ ४.५४.१५ ॥
光荣、慷慨、坚定的般度之子正是如此行事。这两支箭已飞到并落在(我的)脚边。
4.54.16
रथस्याग्रे निखातौ मे चित्रपुङ्खावजिह्मगौ ।
इमौ चाप्यपरौ बाणावभितः कर्णमूलयोः । ॥ ४.५४.१६ ॥
在战车前方,我的面前,插着这两支羽毛斑斓、笔直飞行的箭;另有这两支箭,插在双耳根部的两侧。
4.54.17
संस्पृशन्तावतिक्रान्तौ पृष्ट्वेवानामयं भृशम् ।
चिरदृष्टोऽयमस्माभिर्धर्मज्ञो बान्धवप्रियः । ॥ ४.५४.१७ ॥
这两支箭触碰我又飞越而过,仿佛在极为殷切地问候我的安好。这位熟知法义、为亲族所爱的人,是我们许久未见的(阿周那)。
4.54.18
अतीव ज्वलते लक्ष्म्या पाण्डुपुत्रः प्रतापवान् ।
निरुष्य च वने वामं कृत्वा कर्म सुदुष्करम् । ॥ ४.५४.१८ ॥
般度之子英勇威武,光辉十分耀眼,他曾在森林中居住,并完成了极为艰难的功业。
4.54.19
अभिवादयते पार्थः पूजयन्मामरिंदमः ।
अमर्षेण हि संपूर्णो दुःखेन प्रतिबोधितः। ॥ ४.५४.१९ ॥
降伏敌人的般度之子阿周那恭敬地向我致敬;他充满愤怒,被悲痛唤醒。
4.54.20
अद्येमां भारतीं सेनामेको नाशयते ध्रुवम् ।
द्व्यधिकं दशमुष्य वत्सराणां स्वजनेनाविदितस्त्रयोदशं च । ॥ ४.५४.२० ॥
今天,此人独自必将摧毁这支婆罗多军队;他在无人认出的情况下度过了十二年又一年,共十三年,无人知晓他与亲族的关系。
4.54.21
ज्वलते रथमास्थितः किरीटी तम इव रात्रिजमभ्युदस्य सूर्यः ।
रथी शरी चारुमाली निषङ्गी शङ्खी पताकी कवची किरीटी। ॥ ४.५४.२१ ॥
站在战车上的基里提如同升起的太阳,驱散夜中生出的黑暗而熠熠生辉:车战者、弓箭手、戴美丽花环者、负箭囊者、持螺号者、持旗者、披甲者、戴冠者。
4.54.22
खङ्गी च धन्वी च विराजतेऽयं शिखीव यज्ञेषु घृतेन सिक्तः ॥ ४.५४.२२ ॥
他持剑执弓,光彩如祭祀中浇以酥油的火焰。