摩诃婆罗多 · 章 4.55
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.55.1
तमदूरमुपायान्तं दृष्ट्वा पाण्डवमर्जुनम् ।
नारयः प्रेक्षितुं शेकुस्तपन्तं हि यथा रविम् ॥ ४.५५.१ ॥
人们见般度之子阿周那近在身边,竟无法直视他,正如不能直视灼热的太阳。
4.55.2
स तं दृष्ट्वा रथानीकं पार्थः सारथिमब्रवीत् ।
इषुपातमात्रे सेनायाः स्थापयाश्वानरिंदम।
यावत्समीक्षे व्यूहेऽस्मिन्मम शत्रुं सुयोधनम् ॥ ४.५५.२ ॥
帕尔达见到那列战车,对御者说:“降敌者啊,把马停在离军队一箭之地的地方,直到我能在这阵列中看见我的敌人苏陀那。”
4.55.3
रक्तवैडूर्यविकृतं मणिप्रवरभूषितम् ।
परं जानाम्यहं तस्य ध्वजं दूरात्समुच्छ्रितम् ॥ ४.५५.३ ॥
我清楚地认出他的旗帜,它以红色猫眼宝石装饰,缀以上好的珠宝,远远地高高升起。
4.55.4
यद्येनमिह पश्यामि दुर्बुद्धिमतिमानिनम् ।
यमाय प्रेषयिष्यामि सहायः स्याद्यदीश्वरः ॥ ४.५५.४ ॥
若我在此见到那个心术不正、狂妄自大的人,我就把他送去见阎摩,不论他有无帮手,即便他本人就是君主。
4.55.5
सर्वानन्याननादृत्य दृष्ट्वा तमतिमानिनम् ।
सिंहः क्षुद्रमृगस्येव पतिष्ये तस्य मूर्धनि ॥ ४.५५.५ ॥
无视其余所有人,见到那个狂妄之人,我将扑向他的头颅,如狮子扑向小鹿。
4.55.6
हनिष्यामि तमेवाद्य शरैर्गाण्डीवनिःसृतैः ।
तस्मिन्हते भविष्यन्ति सर्व एव पराजिताः ॥ ४.५५.६ ॥
今日我便要以从甘狄拔弓射出的箭杀死他;他一死,他们便都要战败。
4.55.7
शरैश्च शमयिष्येऽहं धार्तराष्ट्रं ससौबलम् ।
असभ्यानां च वक्तारं कुरूणां किल किल्विषम् ॥ ४.५५.७ ॥
我将以箭制服持国之子与沙恭尼,他确实是库鲁族中出言无礼的罪人。
4.55.8
राजानं नेह पश्यामि निरापिषमिदं बलम् ।
अभिद्रेव ह राजानं व्यक्तमित्यत्र निर्भयः ॥ ४.५५.८ ॥
此处我不见此军之王,此军似无血肉。无畏地、明白地去攻击国王本人吧,他在此如是说。
4.55.9
आस्थितो मध्यमाचार्योप्यश्वत्थामाऽप्यनन्तरम् ।
कृपकर्णौ पुरस्तात्तु महेष्वासौ व्यवस्थितौ ॥ ४.५५.९ ॥
中央站立着导师(德罗纳),其后也有阿湿婆他摩;前方站着伟大的弓箭手克里巴与迦尔纳。
4.55.10
भूरिश्रवाः सोमदत्तो बाह्लीकश्च जयद्रथः ।
दक्षिणं पक्षमाश्रित्य स्थिता युद्धविशारदाः ॥ ४.५५.१० ॥
布利什罗婆斯、索玛达塔、跋利迦与胜车,皆善战之人,占据右翼而立。
4.55.11
साल्वराजो द्युमत्सेनो वृषसेनश्च सौबलः ।
दशार्णश्चैव कालिङ्गो वामं पक्षं समाश्रितः ॥ ४.५५.११ ॥
萨尔瓦王、迪尤马特塞那、伐里沙塞那与沙恭尼,连同十城王与羯陵伽王,占据左翼而立。
4.55.12
पृष्ठतः कुरुमुख्यश्च भीष्मस्तिष्ठति दंशितः ।
सोऽर्धसैन्येन बलवान्सर्वेषां नः पितामहः ॥ ४.५५.१२ ॥
后方,库鲁族之首婆罗门之子毗湿摩披甲而立;他勇猛,率半数军队,是我们所有人的祖父。
4.55.13
दुर्योधनं न पश्यामि क्व नु राजा स तिष्ठति ।
उत्सृंज्यैतद्रथानीकं याहि यत्र सुयोधनः ॥ ४.५५.१३ ॥
我看不见难敌;那位国王在哪里?放弃这支战车阵,前往苏约达那所在之处。
4.55.14
तं हत्वा संनिवर्तिष्ये गाः स आदाय गच्छति ।
गवाग्रमभितो याहि यत्र राजा भविष्यति ॥ ४.५५.१४ ॥
杀死他之后我将返回;他正驱赶着牛群。请绕到牛群的前方,去国王将在的地方。
4.55.15
इत्युक्त्वा समरे पार्थो वैराटिमपराजितः ।
संस्पृशानो धनुर्दिव्यं त्वरमाणोऽगमत्तदा ॥ ४.५५.१५ ॥
说完这些,在战斗中不可战胜的般度之子(阿周那)对毗罗吒之子说话;随后他触摸着神弓,急速前进。
4.55.16
ततो भीष्मोऽब्रवीद्वाक्यं कुरुमध्ये परंतपः ।
चिरदृष्टोऽयमस्माभिर्धर्मज्ञो बान्धवप्रियः । ॥ ४.५५.१६ ॥
于是,在俱卢人之中,令敌人颤抖的毗湿摩说了这些话:"我们已经很久没有见到他了;他通晓法,是亲族所钟爱的人。"
4.55.17
अतीव ज्वलते लक्ष्म्या पाकशासनिरागतः ।
एष दुर्योधनं पार्थो मार्गते निकृतिं स्मरन् ॥ ४.५५.१७ ॥
他光彩夺目;因陀罗之子已经到来。这位般度之子念念不忘所受的伤害,正在寻找难敌。
4.55.18
सेनामत्यर्थमालोक्य त्वरते ग्रहणेऽस्य च ।
मृगं सिंह इवादातुमीक्षते पाकशासनिः ॥ ४.५५.१८ ॥
仔细观察军队之后,他急忙要去夺取它;如同狮子窥视鹿以便捕获,因陀罗之子也这样凝望着。
4.55.19
नैषोऽन्तरेण राजानं बीभत्सुः स्थातुमर्हति ।
तस्य पार्ष्णि ग्रहीष्यामो जवेनाभिप्रधावतः ॥ ४.५५.१९ ॥
此人毗跋蘇(阿周那)不能站在我们与国王之间;他飞速冲来时,我们便抓住他的脚跟。
4.55.20
न ह्येनमभिसंक्रुद्धमेको युद्ध्येत संयुगे ।
अन्यो देवान्महादेवात्कृष्णाद्वा देवकीसुतात्।
आचार्याच्च सपुत्राद्वा भारद्वाजान्महारथात् ॥ ४.५५.२० ॥
除非是诸神、大天(摩诃提婆)、黑天或提婆吉之子,或者师尊与其子,或大车士婆罗堕阁之子,否则无人敢独自与这位愤怒的人交战。
4.55.21
किं नो गावः करिष्यन्ति द्रव्यं वा विपुलं तथा ।
दुर्योधनः पार्थगतः पुरा प्राणान्विमुञ्चति ॥ ४.५५.२१ ॥
牛群于我们何用,或这些巨额财物又有何用?杜尤达那一旦与普利塔之子相遇,便会先舍弃性命。
4.55.22
इत्युक्त्वा समरे भीष्मः सेनया सह कौरवः ।
अन्वधावत्तदा पार्थं धार्तराष्ट्रस्य रक्षणे ॥ ४.५५.२२ ॥
说罢,俱卢族的毗湿摩便与军队一同在战场上追向普利塔之子,以护卫持国之子。
4.55.23
विक्रोशमात्रं यात्वा तु पार्थो वैराटिमब्रवीत् ।
इषुपातमात्रे सेनायाः स्थापयाश्वानरिंदम ॥ ४.५५.२३ ॥
行进一声呼喊之距后,普利塔之子对毗罗吒之子说:“降敌者啊,请在距离军队一箭之地停住马匹。”
4.55.24
एतदग्रं गवां दृष्टं मन्दं वाहय सारथे ।
याह्युत्तरेण सेनाया गाश्चैव प्रविभज्य च ॥ ४.५५.२४ ॥
“御者啊,牛群的前列已经看见了;请慢慢驱车。前往军队以北,把牛群分开。”
4.55.25
परिक्षिप्य गवां यूथमत्र योत्स्ये सुयोधनम् ।
गच्छन्ति सत्वरा गावः सगोपाः परिमोचय ॥ ४.५५.२५ ॥
我将包围牛群,在此与苏耶陀那作战。牛群和牧人正在迅速离去;请解救他们。
4.55.26
तत्र गत्वा पशून्वीर सगोपान्परिमोचय ।
अन्तरेण च सेनायाः प्राङ्मुखो गच्छ चोत्तर ॥ ४.५५.२६ ॥
英雄啊,去那里,连同牧人一起解救牛群。穿过军队之间,面朝东方前行,乌塔罗。
4.55.27
इमे त्वतिरथाः सर्वे मम वीर्यपराक्रमम् ।
पश्यन्तु कुरवो युद्धे महेन्द्रस्येव दानवाः ॥ ४.५५.२७ ॥
愿这些大车将都看见我在战场上的勇力与威武,如同檀那婆们看见摩献陀罗(因陀罗)的威力。
4.55.28
ततः स रथिनां श्रेष्ठो नाम विश्राव्य चात्मनः ।
निशिताग्राञ्शरांस्तीक्ष्णान्मुमोचांतकसन्निभान् ॥ ४.५५.२८ ॥
于是那位车将中的最优者,报出自己的名字,射出锐利尖端的箭,如同死神一般。
4.55.29
शलभैरिव चाकाशं धाराभिरिव पर्वतम् ।
निरावकाशमभवच्छरैः क्षिप्तैः किरीटिना ॥ ४.५५.२९ ॥
如同天空布满蝗虫、山岳被急流充满,那持冠者所射出的箭矢使空间再无余地。
4.55.30
विकीर्यमाणास्तु शरैस्ते योधा धार्तराष्ट्रिकाः ।
गाश्चैव न च पश्यन्ति पार्थमुक्तैरजिह्मगैः ॥ ४.५५.३० ॥
那些被车子般的箭矢散射的持国之子的战士,连牛群都看不见了,那是帕尔塔所射的直飞之箭。
4.55.31
सा चापि बहुला सेना पार्थबाणाभिपीडिता ।
नापश्यद्विवृतां भूमिं नान्तरिक्षं दिशोपि वा ॥ ४.५५.३१ ॥
那支庞大的军队被般度之子的箭所压迫,既看不见开阔的大地,也看不见天空,甚至看不见方向。
4.55.32
अर्जुनस्तु तदा हृष्टो दर्शयन्वीर्यमात्मनः ।
पीडयामास सैन्यानि गाण्डीवप्रसृतैः शरैः ॥ ४.५५.३२ ॥
此时阿周那欣喜地展示自己的勇力,以从甘狄拔弓射出的箭压迫各路军队。
4.55.33
तेषां नैवापयाने च नाभियाने भवन्मतिः ।
शीघ्रतामेव पार्थस्य पूजयन्तस्तु विस्मिताः ॥ ४.५५.३३ ॥
他们的心思既不在撤退,也不在前进;惊愕之中,只顾赞叹般度之子的迅捷。
4.55.34
चन्द्रावदातं सामुद्रं कुरुसैन्यभयंकरम् ।
ततः शङ्खमुपाध्मासीद्द्विषतां रोमहर्षणम्।
ज्याघोषं तलघोषं च कृत्वा भूतान्यमोहयत् ॥ ४.५५.३४ ॥
随后他吹响了海中生出的白如月光的法螺,令库鲁军恐惧,使敌人毛发竖立;他以弓弦之响和拍掌之声迷惑了一切众生。
4.55.35
तस्य शङ्खस्य शब्देन धनुषो निस्वनेन च ।
शब्देनामानुषाणां च भूतानां ध्वजवासिनाम् ।
वियद्गतानां देवानां मानुषाणां रवेण च ॥ ४.५५.३५ ॥
那海螺的声音,弓弦的轰鸣,栖居于旗帜中的非人众生的声音,以及飘行于天空中的诸神与人类的喧嚷。
4.55.36
ऊर्ध्वं पुच्छं विधून्वाना हेममाणाः समन्ततः ।
गावः सवत्साः संत्रस्ता निवृत्ता दक्षिणां दिशं ॥ ४.५५.३६ ॥
母牛们高举尾巴,四处哞叫,与小牛一同惊恐地转身,朝南方逃去。
4.55.37
ततः स समरे शूरो बीभत्सुः शत्रुपूगहा ।
गोपालांश्चोदयामास गावश्चोदयतेति च ॥ ४.५५.३७ ॥
于是在那场战斗中,勇士比波杜(Bībhatsu),摧毁敌军之人,催促牧人们说:“赶牛!”
4.55.38
उत्तरं चाह बीभत्सुर्हर्षयन्पाण्डुनन्दनः ।
गवामग्रं समीक्षस्व गश्चैवाशु निवर्तय ॥ ४.५५.३८ ॥
般度之子比波杜鼓励优多罗说:“看看牛群的前方,快让牛群调头。”
4.55.39
यावदेते निवर्तन्ते कुरवो जवमास्थिताः ।
याह्युत्तरेण गाश्चैताः सैन्यानां च नृपात्मज ॥ ४.५५.३९ ॥
趁着这些俱卢人急速撤回之际,王子啊,把这些牛往北驱赶,军队也一样。
4.55.40
पश्यन्तु कुरवः सर्वे मम वीर्यपराक्रमम् ।
ते लाभमिव मन्वानाः कुरवोऽर्जुनमाहव। ॥ ४.५५.४० ॥
愿所有俱卢人看见我的勇力与威猛;他们以为得了便宜,便在战场上看着阿周那吧。
4.55.41
दृष्टवा यान्तमदूरस्थं क्षिप्रमभ्यपतन्रथैः ।
हस्त्यश्वपरिवारेण महताऽभिविराजता। ॥ ४.५५.४१ ॥
看见他在不远处离去,他们便驾着战车迅速向他冲来,身边有大量象与马相随,光彩夺目。
4.55.42
योधैः प्रासासिहस्तैश्च चापबाणोद्यतायुधैः ।
तान्यनीकान्यशोभन्त कुरूणामाततायिनाम्। ॥ ४.५५.४२ ॥
手持长矛与利剑的战士,以及举起弓箭与兵器的士兵,使那些进攻的俱卢军队显得分外耀眼。
4.55.43
संसर्पन्त इवाकाशे विद्युत्वन्तो वलाहकाः ।
तानि दृष्ट्वाऽप्यनीकानि निवर्तितरथानि च। ॥ ४.५५.४३ ॥
那些军队仿佛天空中滑行的带电闪的云;看到那些战车已经回转的军队,
4.55.44
पार्थोऽपि वायुवद्धोरं सैन्याग्रं व्यधुनोच्छरैः ।
तां शत्रुसेनां तरसा प्रणुद्य गाश्चापि जित्वा धनुषा परेण। ॥ ४.५५.४४ ॥
阿周那也如风般猛烈,以箭震动了军队的前锋;迅速击退了那支敌军,并以无上的弓也夺回了牛群,
4.55.45
दुर्योधनायाभिमुखं प्रयान्तं कुरुप्रवीराः सहसाऽभ्यगच्छन् ।
गोषु प्रयातासु जवेन मात्स्यान्किरीटिनं प्रीतियुतं च दृष्ट्वा। ॥ ४.५५.४५ ॥
向着难敌前进的俱卢勇士突然前来迎战;牛群迅速离去之时,他们看到摩差人以及充满喜悦的冠者,
4.55.46
पशून्समादाय ततो निवृत्ता गोपाः समस्ताः प्रययुश्च राष्ट्रम् ॥ ४.५५.४६ ॥
于是,所有已返回的牧人赶着牲畜,前往王国去了。