Vedyatra वेदयात्रा
検索

マハーバーラタ · 章 4.6

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

4.6.1

तेऽग्निं प्रदक्षिणं कृत्वा ब्राह्मणं च पुरोहितम् ।
अभिवाद्य ततः सर्वे प्रस्थातुमुपचक्रमुः ॥ ४.६.१ ॥

聖火を右回りに巡り、バラモンと家の司祭に挨拶した後、一同は出発の支度を始めた。

4.6.2

अनुशिष्टोस्मि भद्रं ते नैतद्वक्ताऽस्ति कश्चन ।
कुन्तीमृते मातरं नः पितरं च यशस्विनम् ॥ ४.६.२ ॥

私は教えを受けた。あなたに幸いがあるように。母クンティーと名高い父のほかに、これを私たちに言う者はいない。

4.6.3

यदेवानन्तरं कार्यं तद्भवान्वक्तुमर्हति ।
तारणाय तु दुःखस्य प्रस्थानाय भवाय च ॥ ४.६.३ ॥

この後になすべきことを、あなたが私たちに告げてください——苦しみを越えるために、出立のために、そして幸いのために。

4.6.4

तेषां प्रतिष्ठमानानां धौम्यो मन्त्रानथाजपत् ।
सर्वविघ्नप्रशमनानर्थसिद्धिकरांस्तथा।
ततः पावकमुञ्ज्वाल्य मन्त्रहव्यपुरुस्कृतम् ॥ ४.६.४ ॥

出立する人々のために、ダウミヤは一切の障害を鎮め目的を成就させる真言を唱えた。それから、真言と供物を先に捧げて火を燃え上がらせ、

4.6.5

याज्ञसेनीं पुरस्कृत्य सर्व एव महारथाः ।
प्राद्रवन्सह धौम्येन बद्धशस्त्रा वनाद्वनम् ॥ ४.६.५ ॥

ヤジュニャセーニーの娘(ドラウパディー)を先頭に立て、大戦士たちは武器を結わえて、ダウミヤとともに森から森へと駆け出した。

4.6.6

ते वीरा बद्धनिस्त्रिंशा धनुर्बाणकलापिनः ।
अगच्छन्भीमधन्वानः काम्यकाद्यमुनां नदीम् ॥ ४.६.६ ॥

その英雄たちは剣を結わえ、弓と矢筒を携え、恐るべき弓手となって、カーミャカの森からヤムナー川へと向かった。

4.6.7

उत्तरेण दशार्णानां पाञ्चालान्दक्षिणेन तु ।
अन्तरेण यकृल्लोम्नः शूरसेनांश्च पाण्डवाः ॥ ४.६.७ ॥

パーンダヴァたちは北にダシャールナ族、南にパンチャーラ族を見て、ヤクリッ=ローマンと シューラセーナ族の間を進んだ。

4.6.8

ते तस्या दक्षिणं तीरमन्वगच्छन्पदातयः ।
ततः प्रत्यक्प्रयातास्ते संक्रामन्तो वनाद्वनम् ॥ ४.६.८ ॥

彼らは徒歩でその川の南岸に沿って行き、それから西へ向かい、森から森へと渡っていった。

4.6.9

वसाना वनदुर्गेषु रमणीयेषु धन्विनः ।
पल्वलेषु च रम्येषु नदीनां संगमेषु च ॥ ४.६.९ ॥

弓を持つ彼らは、森の美しい要害や、美しい池のほとり、川の合流点に住んでいた。

4.6.10

द्रुमान्नानाविधाकारान्नानाविधलताकुलान् ।
कुसुमाढ्यान्मनःकान्ताञ्शुभगन्धान्मनोरमान् ॥ ४.६.१० ॥

さまざまな形の木々が、さまざまな蔓に覆われ、花に満ち、心をひきつけ、良い香りがあり、心を楽しませていた。

4.6.11

पार्था निरीक्षमाणाश्च तान्द्रुमान्पुष्पशालिनः ।
जिघ्रन्तः पुष्पगन्धांश्च फलगन्धान्मनोरमान् ॥ ४.६.११ ॥

プリター の息子たちは、花咲く木々を眺めながら、花の香りと心地よい果実の香りを嗅いでいた。

4.6.12

विध्यन्तो मृगजातानि महेप्वासा महाबलाः ।
उपित्वा द्वादशसमा वने परपुरंजयाः ।
लुब्धान्ब्रुवाणा मात्स्यस्य विपयं प्राविशंस्तदा ॥ ४.६.१२ ॥

大弓の使い手であり、大力を持ち、敵の都市を征服したその英雄たちは、鹿の群れを射ながら、森で十二年を過ごした後、猟師と名乗ってマツヤの国に入った。

4.6.13

तत्र धौम्यं महेप्वासाः पाण्डवेया व्यसर्जयन् ।
अग्निहोत्रं परिचरन्सोऽबुद्धोऽवसदाश्रमे ॥ ४.६.१३ ॥

そこで偉大な弓の名手パーンダヴァ兄弟は、ダウミヤを送り出した。彼は火の供犠に仕えつつ、正体を知られぬまま庵に住んだ。

4.6.14

ततस्तेषु प्रयातेषु पाण्डवेषु महात्मसु ।
इन्द्रसेनमुखाश्चैव यथोक्तं प्राप्य निर्वृताः।
रथानश्वांश्च रक्षन्तः सुखमूषुः सुसंवृताः ॥ ४.६.१४ ॥

その後、偉大なパーンダヴァたちが去ると、インドラセーナらは言われた通りに得て満足した。戦車と馬を守りつつ、よく身を隠して幸せに暮らした。

4.6.15

ततो जनपदं प्राप्य कृष्णा राजानमब्रवीत् ॥ ४.६.१५ ॥

やがて国に着くと、クリシュナー(ドラウパディー)は王に語った。

4.6.16

पश्यैकपद्यो दृश्यन्ते क्षेत्रे गोष्ठं समाश्रिताः ।
वृक्षांश्चोपवनोपेतान्ग्रामाणां नगरस्य च ॥ ४.६.१६ ॥

見てください、畑には一列の小道と牛小屋が見え、林を伴う木々が村々や町のものも見えます。

4.6.17

व्यक्तं दूरे विराटम…राजधानी भविष्यति ।
वसामेहापरां रात्रिं बलवान्मे परिश्रमः ॥ ४.६.१७ ॥

明らかに、遠くのヴィラータ……が王都となるでしょう。ここで次の夜を過ごしましょう。私はとても疲れています。

4.6.18

इमां कमलपत्राक्षीं द्रौपदीं माद्रिनन्दन ।
मुहूर्तं परिगृह्यैनां घाहुभ्यां नकुल व्रज ॥ ४.६.१८ ॥

マードリーの子ナクラよ、この蓮華眼のドラウパディーを、しばし腕に抱いて行け。

4.6.19

ततोऽदूरे विराटस्य नगरं भरतर्षभ ।
राजधान्यां निवत्स्यामः प्रमुक्तमिव नो वनम् ॥ ४.६.१९ ॥

バラタの雄牛よ、ヴィラータの都はここから近い。我々はその王都に住むだろう、まるでこの森が我々を解放したかのように。

4.6.20

पूर्वाह्णे मृगयां कृत्वा मया विद्धा मृगा वने ।
अटवी च मया दूरं धृता मृगवधेप्सुना ॥ ४.६.२० ॥

午前に私は狩りをし、森で鹿を矢で射た。鹿を殺そうと望み、私はこの荒野を遠くまで追い込まれた。

4.6.21

विषमा ह्यतिदुर्गा च वेगवत्परिधावता ।
सोहं धर्माभितप्तो वै नैनामादातुमुत्सहे ॥ ४.६.२१ ॥

道は険しく、非常に困難であった。私は速く走ってきた。暑さに焼かれた私は、彼女を抱え上げる勇気がない。

4.6.22

सहदेव त्वमादाय मुहूर्तं द्रौपदीं नय ।
राजधान्यां निवत्स्यामः सुमुक्तमिव नो वनम् ॥ ४.६.२२ ॥

サハデーヴァよ、お前はドラウパディーを連れて暫く導け。我々はその王都に住むだろう、まるでこの森が我々を完全に解放したかのように。

4.6.23

अहमप्यस्मि तृषितः क्षुधया परिपीडितः ।
परिश्रान्तश्च भद्रं ते नैनामादातुमुत्सहे ॥ ४.६.२३ ॥

私もまた渇きと飢えに苦しめられ、疲れ果てている。あなたに幸いあれ。しかし彼女を抱える勇気は私にはない。

4.6.24

एहि वीर विशालाश्च वीरसिंह इवार्जुन ।
इमां कमलपत्राक्षीं द्रौपदीं द्रुपदात्मजाम् ॥ ४.६.२४ ॥

来い、英雄よ、広き目の者よ、英雄の獅子アルジュナのように。この蓮の花びらの目をしたドルパダの娘ドラウパディーのもとへ来い。

4.6.25

परिगृह्य मुहूर्तं त्वं बाहुभ्यां कुशलं व्रज ।
राजधान्यां निवत्स्यामः प्रमुक्तमिव नो वनम् ॥ ४.६.२५ ॥

ユディシュティラは言った。彼女を腕に抱いてしばし、無事に行け。我らは王都に住むであろう、まるで森が我らを解き放ったかのように。

4.6.26

गुरोर्वचनमाज्ञाय संप्रहृष्टो जितेन्द्रियः ।
बाहुभ्यां परिगृह्याथ राजपुत्रीमनिन्दिताम् ।
प्रवव्राज महाबाहुरर्जुनः प्रियदर्शनाम् ॥ ४.६.२६ ॥

ヴァイシャンパーヤナは言った。師の言葉を解し、大いに喜び、感官を制したマハーバーフのアルジュナは、その非難なき王女を両腕に抱き、見て心地よいその女と共に出発した。

4.6.27

जटिलो वल्कलधरः शततूणीधनुर्धरः ।
स्कन्धे कृत्वा वरारोहां बालामायतलोचनाम् । ॥ ४.६.२७ ॥

ヴァイシャンパーヤナは言った。ジャタを結い、樹皮の衣をまとい、百の箙を持つ弓を携えたアルジュナは、美しい腰と長い眼の少女を肩に乗せた。

4.6.28

आनीय नगराभ्याशमवातारयदर्जुनः ॥ ४.६.२८ ॥

ヴァイシャンパーヤナは言った。彼女を町の近くまで連れてきて、アルジュナは彼女を降ろした。