Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 4.60

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

4.60.1

तं पार्थः प्रतिजग्राह वायुवेगमिवाचलः ।
शरजालेन महता वर्षमाण इवाम्बुदः ॥ ४.६०.१ ॥

阿周那如山岳迎接风的疾速般迎战他;他如同降下大雨的云,以庞大的箭网倾泻而下。

4.60.2

तयोर्देवासुरसमः सन्निपातो महानभूत् ।
किरतोः शरजालानि वृत्रवासवयोरिव ॥ ४.६०.२ ॥

两人的交锋如同诸神与阿修罗之战般宏大,他们如蹈弑龙与因陀罗一般撒下箭网。

4.60.3

न स्म सूर्यस्तदा भाति न च वाति समीरणः ।
शरगाढे कृते व्योम्नि छायाभूतमिवाभवत् ॥ ४.६०.३ ॥

那时太阳不再照耀,风也不再吹拂;天空因箭矢密布,仿佛变成了阴影。

4.60.4

महांश्चटचटाशब्दो योधयोर्युध्यमानयोः ।
दह्यतामिव वेणूनामासीत्परमदारुणः ॥ ४.६०.४ ॥

两位战士交战时发出的巨大噼啪声,如同燃烧竹子一般,极其可怖。

4.60.5

हयांस्तस्यार्जुनः सङ्ख्ये कृतवानल्पतेजसाः ।
ते राजन्न प्रजानन्ति दिशं कांचन मोहिताः ॥ ४.६०.५ ॥

阿周那在战斗中使他的马失去力量;大王啊,它们迷乱了,已辨不清任何方向。

4.60.6

ततो द्रौणिर्महावीर्यः पार्थस्य विचरिष्यतः ।
विवरं सूक्ष्ममालोक्य ज्यां नुनोद क्षुरेण सः ॥ ४.६०.६ ॥

于是德罗纳之子,勇力非凡,见阿周那移动时出现一个细小的空隙,便以剃刀形箭头割断了他的弓弦。

4.60.7

तदस्यापूजयन्देवाः कर्म दृष्ट्वाऽतिमानुषम् ।
न शक्तोऽन्यः पुमान्स्थातुमृते द्रौणेर्धनंजयम् ॥ ४.६०.७ ॥

于是诸神见到他这超人的功绩,都赞叹他;除了德罗纳之子,没有其他人能够抵挡达南遮耶。

4.60.8

ततो द्रौणिर्धनुर्व्यस्य व्यपक्रम्य नरर्षभः ।
पुनरप्यभ्यहन्पार्थं हृदये कङ्कपत्रिभिः । ॥ ४.६०.८ ॥

于是德罗纳之子拉满弓后退开,那人中之牛又用鹭羽箭射中了帕尔塔的胸膛。

4.60.9

ततः पार्थो महाबाहुः प्रहसन्स्वनवत्तदा ।
योजयामास च तदा मौर्व्या गाण्डीवमोजसा ॥ ४.६०.९ ॥

于是大臂的帕尔塔放声大笑,随即用力将甘地拔弓架上弓弦。

4.60.10

तं दृष्ट्वा ऋद्धमायान्तं प्रभिन्नमिव कुञ्जरम् ।
ऋद्धः समाह्वयामास द्रौणिर्युद्धाय भारत ॥ ४.६०.१० ॥

德罗纳之子见他愤怒地冲来,犹如发情的象,便怒气冲冲地向他挑战参战,婆罗多啊。

4.60.11

ततोऽर्धचन्द्रपाहृत्य तेन पार्थः समाहतः ।
चिच्छेद तस्य चापं च सूतं चाश्वं च तेजसा ।
विव्याध निशितैश्चापि शरैराशीविपोपमैः ॥ ४.६०.११ ॥

于是帕尔塔被他的半月箭射中,便以其光辉斩断了他的弓、御者和马,并用如毒蛇般锐利的箭也射穿了他。

4.60.12

सोऽन्यं रथं समास्थाय प्रत्यायाद्रथिपुङ्गवः ।
वारणेनेव मत्तेन मत्तो वारणयूथपः ॥ ४.६०.१२ ॥

他登上另一辆战车又回来了——是车战者中的最优秀者,犹如发狂的象群首领面对发狂的象。

4.60.13

ततः प्रववृते युद्धं पृथिव्यामेकवीरयोः ।
रणमध्ये द्वयोरेव सुमहद्रोमहर्षणम् ॥ ४.६०.१३ ॥

于是大地上两位独战的英雄之间展开了战斗,在战阵中央,对二人而言都极其令人毛骨悚然。

4.60.14

तौ वीरौ कुरवः सर्वे ददृशुर्विस्मयान्विताः ।
युध्यमानौ महात्मानौ द्विरदाविव संगतौ ॥ ४.६०.१४ ॥

所有的俱卢人满怀惊异地看着那两位英雄交战,两位大勇者如同两头相遇的象一般。

4.60.15

तौ समाजघ्नतुर्वीरौ परस्परजयैषिणौ ।
शरै राशीविषाकारैर्ज्वलद्भिरिव पावकैः ॥ ४.६०.१५ ॥

那两位英雄彼此求胜,用如毒蛇般、如燃烧之火般的箭互相射击。

4.60.16

अक्षयाविषुधी दिव्यौ पाण्डवस्य महात्मनः ।
तेन पार्थो रणे शूरस्तस्थौ गिरिरिवाचलः ॥ ४.६०.१६ ॥

伟大的般遮婆有两个不竭的神圣箭囊;凭借它们,英雄普利塔之子在战场上屹立不动,如同山岳。

4.60.17

अश्वत्थाम्नः पुनर्बाणाः क्षिप्रमभ्यस्यतो रणे ।
जग्मुः परिक्षयं शीघ्रमभूत्तेनाधिकोऽर्जुनः ॥ ४.६०.१७ ॥

阿湿婆陀摩在战场上快速地反复放箭,他的箭很快便耗尽了;因此阿周那变得更为优胜。