摩诃婆罗多 · 章 4.62
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.62.1
एवं विद्राव्य तत्सैन्यं पार्थो भीष्ममुपाद्रवत् ।
त्रस्तेषु सर्वसैन्येषु कौरव्यस्य महात्मनः ॥ ४.६२.१ ॥
如此驱散那支军队后,普利塔之子向毗湿摩冲去。伟大的俱卢族的全军都惊恐万分。
4.62.2
बाणान्धनुषि संधाय चतुरः पाकशासनिः ।
भीष्मं च प्राहिणोद्भीतस्तं द्वाभ्यामभ्यवादयत् ॥ ४.६२.२ ॥
因陀罗之子在弓上搭上四支箭,惶恐地射向毗湿摩,并以其中两支箭击中了他。
4.62.3
तस्य कर्णान्तिकं गत्वा द्वावब्रूतां च कौशलम् ।
सोऽप्याशीरवदद्भीष्मः कौन्तेयो जयतामिति ॥ ४.६२.३ ॥
二人走到他耳边问候平安。毗湿摩也祝福道:"贡蒂之子,愿你获胜。"
4.62.4
नरसिंहमुपायान्तं जिगीषन्तं परान्रणे ।
वृषसेनोऽभ्ययात्तूर्णं योद्धुकामो धनंजयम् ॥ ४.६२.४ ॥
在战场上,渴望征服敌人的人中雄狮Dhanañjaya走来,Vṛṣasena便急速迎战,渴望与之交锋。
4.62.5
वैकर्तनात्मजो वीरः संग्रामे लोकविश्रुतः ।
शौर्यवीर्यादिभिः कर्णाद्बिम्बाद्विम्ब इवोद्धृतः ॥ ४.६२.५ ॥
英雄,伟大的Vaikartana(迦尔纳)之子,因在战斗中的勇武与力量而闻名于世,仿佛是从迦尔纳身上如影像般显现出来的。
4.62.6
आत्मना युध्यतस्तस्य वृषसेनस्य पाण्डवः ।
मुहूर्तं तस्य तद्दृष्ट्वा हस्तलाघवपौरुषे।
तुतोष च ततः पार्थो वृषसेनपराक्रमम् ॥ ४.६२.६ ॥
般度之子看到独自奋战的Vṛṣasena片刻,见其手法娴熟、英勇刚强,便对Vṛṣasena的勇武感到满意。
4.62.7
तस्य पार्थस्तदा क्षिप्रं क्षुरधारेण कार्मुकम् ।
न्यकृन्यद्गृध्रपत्रेण जाम्बूनदपरिष्कृतम् ॥ ४.६२.७ ॥
于是般度之子迅速以禿鷲羽毛、刃如剃刀的箭,斬斷了他鑲金的弓。
4.62.8
अथैनं पञ्चभिर्भूयः प्रत्यविध्यत्स्तनान्तरे ।
स पार्थबाणाभिहतो रथात्प्रस्कन्द्य दुद्रुवे ॥ ४.६२.८ ॥
随后他又以五支箭射中其胸膛正中。被般度之子的箭所伤,他从战车上跳下,逃走了。
4.62.9
दुःशासनो विकर्णश्च शकुनिश्च विविंशतिः ।
आयान्तं भीमधन्वानं पर्यकीर्यन्त पाण्डवम् ॥ ४.६२.९ ॥
难降、毗迦尔纳、沙恭尼与毗文奢提,围住了前来的、持可怖之弓的般度之子。
4.62.10
तेषां पार्थो रणे क्रुद्धः शरैः सन्नतपर्वभिः ।
युगं ध्वजं शरासं च चिच्छेद तरसा रणे ॥ ४.६२.१० ॥
般度之子在战中怒对他们,以节部弯曲的箭,于战阵中迅速斩断了他们的车轭、旗帜和弓。
4.62.11
ते निकृत्तध्वजाः सर्वे छिन्नकार्मुकवेष्टनाः ।
रणमध्यादपययुः पार्थबाणाभिपीडिताः ॥ ४.६२.११ ॥
他们的旗帜被斩落,弓的握柄被切断,个个被般度之子的箭所折磨,从战阵中间退了下来。
4.62.12
ततः प्रहस्य बीभत्सुर्वैराटिमिदमब्रवीत् ।
एतं मे प्रापयेदानीं तालं सौवर्णमुच्छ्रितम् ॥ ४.६२.१२ ॥
于是毗跋蹉笑着对毗罗吒之子说:“现在把那棵高大的金棕榈树给我带来。”
4.62.13
मेघमध्ये यथा विद्युदुज्ज्वलन्ती पुनः पुनः ।
असौ शान्तनवो भीष्मस्तत्र याहि परंतप ॥ ४.६२.१३ ॥
如云中屡次闪耀的闪电,那位是檀努之子毗湿摩。去那里吧,敌人的焚烧者。
4.62.14
अस्राणि तस्य दिव्यानि दर्शयिष्यामि संयुगे ।
घोररूपाणि चित्राणि लघूनि च गुरूणि च ॥ ४.६२.१४ ॥
我将在战斗中向他展示我的神圣武器——形状可怖、奇妙,轻者与重者皆有。
4.62.15
अस्माकं पोषको नित्यमाबाल्यान्मत्स्यभूमिप ।
श्रेयस्कामी सदाऽस्माकं योगक्षेमकरः सदा ॥ ४.६२.१५ ॥
马特斯亚之王啊,他从幼年起便始终是我们的养育者,愿我们安好,始终为我们保障所得与安稳。
4.62.16
तस्याङ्के विर्धितो बाल्ये तद्योत्स्येऽनेन सांप्रतम् ।
अस्माकं धार्तराष्ट्राणां शमकामो दिवानिशम् ॥ ४.६२.१६ ॥
我幼年时曾在他怀中长大,所以如今我将与他作战——他日夜都希望我们与持国之子之间和平。
4.62.17
वैशंपायन उवाच ।
तस्य तद्वचनं श्रुत्वा वैराटिः पार्थसारथिः।
वाहयच्चोदितस्तेन रथं भीष्मरथं प्रति ॥ ४.६२.१७ ॥
毗耶娑之徒说:听了他的话,帕尔塔的御者毗罗陀受他激励,便驱车朝毗湿摩的战车驶去。
4.62.18
तं रथं चोदितं दृष्ट्वा फल्गुनस्य रथोत्तमम् ।
वायुनेव महामेघं सहसाऽभिसमीरितम्।
तं प्रत्ययाच्च गाङ्गेयो रथेनादित्यवर्चसा ॥ ४.६२.१८ ॥
看到法尔古那那辆上等战车被驱驰而来——如大云被风骤然吹动——恒河之子认出了他,乘着如太阳般光耀的战车迎上前去。
4.62.19
आयान्तमर्जुनं दृष्ट्वा भीष्मः परपुंजयः ।
प्रत्युञ्जगाम युद्धार्थी महर्षभमिवर्षभः ॥ ४.६२.१९ ॥
婆罗多见阿周那前来,便是那征服敌军的毗湿摩,渴望战斗,迎上前去,犹如大公牛走向另一头大公牛。
4.62.20
तथा हि गुप्त एतेषां दुराधर्षः पितामहः ।
हन्यमानेषु योघेषु धनंजयमुपाद्रवत् ॥ ४.६२.२० ॥
因为不可战胜的祖父毗湿摩是他们的护卫,他在战士们被杀之际,扑向持财(阿周那)。
4.62.21
प्रगृह्य कार्मुकश्रेष्ठं जातरूपपरिष्कृतम् ।
शरानादाय तीक्ष्णाग्रान्मर्मदेहप्रमाथिनः ॥ ४.६२.२१ ॥
他拿起饰以黄金的最好的弓,取出尖锐的箭,能刺穿身体的要害。
4.62.22
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि ।
शुशुभे स नरव्याघ्रो गिरिः सूर्योत्तरे यथा ॥ ४.६२.२२ ॥
头上撑着白色伞盖,那位人中雄狮犹如日出之后的山峰,光彩照人。
4.62.23
प्राध्माप्य शङ्खं गाङ्गेयो धार्तराष्ट्रान्प्रहर्षयन् ।
प्रदक्षिणमुपावृत्य बीभत्सुं प्रत्यवारयत् ॥ ४.६२.२३ ॥
吹响海螺,使持国之子欢喜,甘伽之子右绕而转,反过来阻挡了毗缚蹉。
4.62.24
तमवेक्ष्य समायान्तं कौन्तेयः परवीरहा ।
प्रत्यगृह्णादमेयात्मा प्रियातिथिमिवागतम् ।
देवदत्तं महाशङ्खं प्रदध्मौ युधि वीर्यवान् ॥ ४.६२.२४ ॥
见他前来,甘蒂之子——敌方英雄的杀者、心量无限者——如迎接贵客一般迎接他;勇猛的他在战阵中吹响了名为提婆达多的大海螺。
4.62.25
तौ शङ्खनादावत्यर्थं भीष्मपाण्डवयोस्तदा ।
नादयामासतुर्द्यां च खं च भूमिं च सर्वशः ॥ ४.६२.२५ ॥
那时,毗湿摩与般度五子的两声螺号极其响亮,使天空、虚空与大地四面八方都回荡起来。
4.62.26
अन्तरिक्षे च जल्पन्ति सर्वे देवाः सवासवाः ।
यदर्जुनः कुरून्सर्वान्प्राकृन्तच्छस्रतेजसा ॥ ४.६२.२६ ॥
天空中的诸神与因陀罗一同说道:阿周那将以箭的光辉斩断所有的俱卢。
4.62.27
कुरुश्रेष्ठाविमौ वीरौ रणे भीष्मधनंजयौ ।
सर्वास्त्रकुशलौ वीरावप्रमत्तौ रणे सदा ॥ ४.६२.२७ ॥
这两位英雄,俱卢中的最优者,毗湿摩与财富者(阿周那),精通一切兵器,在战斗中始终警觉。
4.62.28
उभौ देवमनुष्येषु विश्रुतौ स्वपराक्रमैः ।
उभौ परमसंरब्धावुभौ दीप्तधनुर्धरौ ॥ ४.६२.२८ ॥
两人都以自己的勇武闻名于天神与世人;两人都极其愤怒,手持光芒四射的弓。
4.62.29
समागतौ नरव्याघ्रौ व्याघ्राविव तरस्विनौ ।
उभौ सदृशकर्माणौ सूर्यस्याग्नेश्च भारत ॥ ४.६२.२९ ॥
婆罗多之子啊,这两位人中虎、如虎般迅猛有力者已经相遇;两人的功业都与太阳和火相等。
4.62.30
वासुदेवस्य सदृशौ कार्तवीर्यसमावुभौ ।
उभौ विश्रुतकर्माणावुभौ शूरौ महाबलौ ।
सर्वास्त्रविदुषां श्रेष्ठौ सर्वशस्त्रभृतां वरौ ॥ ४.६२.३० ॥
二人与婆苏提婆(克里希那)相当,与迦尔塔维利耶相等;两人都以功业闻名,都是英雄,力量强大;在精通一切兵器者中为最优,在执持一切武器者中为首。
4.62.31
अग्नेरिन्द्रस्य सोमस्य यमस्य वरुणस्य च ।
अनयोः सदृशं वीर्यं मित्रस्य वरुणस्य च ॥ ४.६२.३१ ॥
二者的勇力与阿耆尼、因陀罗、苏摩、阎摩和伐楼那相当,也与密特拉和伐楼那相当。
4.62.32
को वा कुन्तीसुतं युद्धे द्वैरथेनोपयास्यति ।
ऋते शान्तनवादन्यः क्षत्रियो भुवि विद्यते ॥ ४.६२.३२ ॥
谁能在战场上与昆提之子单独交战?除了三叉童子之子(婆罗多的后裔)之外,大地上还有哪位刹帝利?
4.62.33
इति संपूजयामासुर्भीष्मं दृष्ट्वाऽर्जुनं गतम् ।
तं रणे संप्रहृष्यन्तं दृष्ट्वा देवाः सवासवाः ॥ ४.६२.३३ ॥
见阿周那离去,他们如此尊敬毗湿摩;见他在战斗中极为欢喜,诸神与婆娑婆(因陀罗)一同(赞颂他)。
4.62.34
अथ बहुविधतूर्यशङ्खयोषैर्विविधरवैः सह सिंहनादमिश्रैः ।
कुरुवृषभमपूजयत्कुरूणां बलममराधिपसैन्यसप्रभं तत् ॥ ४.६२.३४ ॥
于是,伴随着各种乐器、海螺和混杂着狮吼的种种声响,他们向俱卢族的公牛(毗湿摩)致敬;俱卢族的这支军队如同天神之主的军队般光彩照人。