Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 4.64

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

4.64.1

भीष्मं विजित्य संग्रामे कुरूणां मिषतां रणे ।
ततो युद्धमनाः प्रायात्पार्थः पञ्च महारथान् ॥ ४.६४.१ ॥

阿周那在战场上战胜了毗湿摩,众俱卢注视之下,他心念战斗,于是向五位大车勇士驰去。

4.64.2

आददानश्च नाराचान्विमृशन्निषुधी अपि ।
संस्पृशानश्च गाण्डीवं भूयः कर्णं समभ्यगाम् ॥ ४.६४.२ ॥

他拿起铁箭,察看两只箭囊,抚摸甘狄拔弓,再次向迦尔纳逼近。

4.64.3

कर्ण यत्तत्सभामध्ये बह्वबद्धं प्रभाषसे ।
न मे युधि समोऽस्तीति तदिदं प्रत्युपस्थितम् ॥ ४.६४.३ ॥

迦尔纳啊,你在朝堂之中大言不惭地说,战场上无人能与我相比,这话如今就摆在你面前了。

4.64.4

एषोऽन्तक इव क्रुद्धः सर्वभूतावमर्दनः ।
अदूरात्प्रत्युपस्थाय जृम्भते केसरी यथा।
न पलायस्व शूरश्चेत्स्थित्वा युध्यस्व फल्गुनम् ॥ ४.६४.४ ॥

此人如同盛怒的死神,毁灭一切众生,已近前来,像狮子一般伸展身体。你若勇敢,就不要逃跑;站定与法尔古那作战。

4.64.5

नाहं बिभेमि बीभत्सोः कृष्णाद्वा देवकीसुतात् ।
पाण्डवेभ्योपि सर्वेभ्यः क्षत्रधर्ममनुव्रतः ॥ ४.६४.५ ॥

我不怕毗跋苏(阿周那),也不怕克里希那,不怕提婆伽之子,甚至不怕所有般度之子;我只是遵循刹帝利的本分。

4.64.6

सत्वाधिकानां शूराणां धनुर्वेदोपजीविनाम् ।
दर्शनाञ्जायते दर्पः स्वरश्च न विषीदति ॥ ४.६४.६ ॥

见到以弓箭之术为生、力量超群的勇士,骄傲便油然而生;而他们的声音也不会颤抖。

4.64.7

पश्यत्वाचार्यपुत्रो मामर्जुनेन समं युधि ।
युध्यमानं सुसंयुक्तं दैवं तु दुरतिक्रमम् ॥ ४.६४.७ ॥

愿师之子看见我在战斗中与阿周那同等作战;然而天命难以逾越。

4.64.8

को दोषः कर्ण शूराणां वाचा साकं हि पौरुषम् ।
विद्यते यदि तल्लोके गुणोत्तरमिहोच्यते ॥ ४.६४.८ ॥

迦尔纳啊,英雄以言语伴随勇武,有何过错?若世间在此称德行更胜者为最优,那便是如此。

4.64.9

युव्यस्व त्वमभीः पार्थं प्रपलायस्व मा रणात् ।
उक्तं वचः स्मरन्कर्ण नाहमित्यादि संयुगे ॥ ४.६४.९ ॥

无畏地与帕尔塔作战,不要逃离战场。迦尔纳啊,请想起你在战斗中所说的话:“我不……”等等。

4.64.10

तं समन्ताद्रथाः पञ्च परिवार्य धनञ्जयम् ।
त इषून्सम्यगस्यन्तो मुमुक्षन्तोपि जीवितात् ॥ ४.६४.१० ॥

五辆战车从四面包围了财主(阿周那)。他们熟练地放箭,仿佛连性命也想舍弃。

4.64.11

ते लाभमिव मन्वानाः क्षिप्रमार्च्छन्धनञ्जयम् ।
शरौघान्सम्यगस्यन्तो जीमूता इव वार्षिकाः ॥ ४.६४.११ ॥

他们以为这是利益,迅速逼近财主,像雨季的云一样密集地倾下箭雨。

4.64.12

बहुभिर्निशितैर्बाणैर्विविधैर्लोमवापिभिः ।
आद्रवन्प्रत्यवस्थाय प्रत्यविध्यन्धनञ्जयम् ॥ ४.६४.१२ ॥

他们以许多锐利、羽饰各异的箭奔跑上前,站到他面前,反过来射击财主。

4.64.13

ततः प्रहस्य बीभत्सुः सर्वशस्त्रभृतांवरः ।
दिव्यमस्त्रं विकुर्वाणः प्रत्ययाद्रथसत्तमान् ॥ ४.६४.१३ ॥

于是,众持武器者中最优秀的比跋苏笑着展现神圣的武器,向最优秀的车战勇士冲去。

4.64.14

यथा रश्मिभिरादित्यः प्रच्छादयति मेदिनीम् ।
एवं गाण्डीवनिर्मुक्तैः शरैः प्राच्छादयद्दिशः ॥ ४.६४.१४ ॥

如同太阳以光芒遍照大地,从甘狄拔弓射出的箭也遮蔽了四方。

4.64.15

न रथानां न नगानां न ध्वजानां न वाजिनाम् ।
अविद्धं निशितैर्बाणैरासीद्द्यूङ्गुलमन्तरम् ॥ ४.६४.१५ ॥

车辆、树木、旗帜与战马,无一不被利箭所穿;其间甚至没有两指宽的空隙。

4.64.16

सर्वे शान्तिपरा योधाः स्वचित्तं नाभिजझिरे ।
हस्तिनोऽश्वाश्च वित्रस्ता व्यवलीयन्त भारत ॥ ४.६४.१६ ॥

所有原本求和平的战士都无法镇定心神;婆罗多啊,象与马因惊恐而四散奔逃。

4.64.17

यथा नलवनं नागः प्रभिन्नः षाष्टिहायनः ।
एवं सर्वानपामृद्गादर्जुनः शस्त्रतेजसा ॥ ४.६४.१७ ॥

如同六十岁的发情大象踏碎芦苇丛林,阿周那以兵器的光辉碾碎了所有人。

4.64.18

गाण्डीवस्य तु घोषेण पृथिवी समकम्पत ।
मनांसि धार्तराष्ट्राणामप्यकृन्तद्धनञ्जयः ॥ ४.६४.१८ ॥

甘狄拔弓一响,大地为之震颤;财富征服者阿周那甚至刺穿了持国之子们的心。

4.64.19

ततो विगाह्य सैन्यानां मध्यं शस्त्रभृतांवरः ।
सारथिं समरे शूरस्त्वभ्यभाषत वीर्यवान् ॥ ४.६४.१९ ॥

于是持兵者中最优秀、勇武的英雄冲入军队中央,在战场上对他的御者说道。

4.64.20

संनियम्य हयानेतान्मन्दं वाहय सारथे ।
आचार्यपुत्रं समरे योधयिष्येऽपराजितम् ॥ ४.६४.२० ॥

御者啊,紧紧控住这些马,慢慢驱赶;我要与在战斗中不可战胜的师子交战。

4.64.21

पुरा ह्येष मया युक्तः स मे भवति पृष्ठतः ।
एवमुक्तेऽर्जुनेनासावश्वत्थामरथं प्रति। ॥ ४.६४.२१ ॥

此前他在我身后。阿周那如此说后,他朝阿输婆摩的战车驶去。

4.64.22

विराटपुत्रो जवनान्भृशमश्वानचोदयत् ।
एषोपयाति बीभत्सुर्व्यथितो गाढवेदनः। ॥ ४.६४.२२ ॥

毗罗吒之子猛烈驱策快马。那位可畏者(阿周那)痛苦而剧烈地疼痛,正迎面而来。

4.64.23

तं तु तत्रैव यास्यामि नासौ मुच्येत जीवितात् ॥ ४.६४.२३ ॥

但我要直接去到他那里;他不会从生命中逃脱。

4.64.24

नासौ भयेन निर्यातो महात्मा पाकशासनिः ।
नैवं भीता निवर्तन्ते न पुनर्गाढवेदनाः ॥ ४.६४.२४ ॥

那位伟大的帝释之子(阿周那)并非因恐惧而出战。这样惊惧且痛苦万分的人,不会转身回来,也不会再来。

4.64.25

यद्येनमभिसंरब्धं पुनरेवाभियास्यसि ।
बहून्यस्त्राणि जानीते न पुनर्मोक्ष्यते भवान् ॥ ४.६४.२५ ॥

若你再次攻击他——他正愤怒——他精通许多兵器;你将不能再脱身。

4.64.26

दिष्ट्या दुर्योधनो मुक्तो दिष्ट्या गावः पलायिताः ।
मुक्तो दिष्ट्या च संग्रामे किं रणेन करिष्यसि ॥ ४.६४.२६ ॥

幸运的是,难敌被释放了,幸运的是,牛群逃散了;幸运的是,你在战斗中得以脱身。那么你还要用这场战斗做什么呢?

4.64.27

क्रोशमात्रमपाक्रम्य बलमन्वानयामहे ।
अन्वागतबलाः पार्थं पुनरेवाभियास्यथ ॥ ४.६४.२७ ॥

我们后退一个克罗沙的距离,把我们的军队召来;军队到达后,你们将再次进攻般度之子。