摩诃婆罗多 · 章 4.65
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.65.1
कर्णं पराजितं दृष्ट्वा पार्थो वैराटिमब्रवीत् ।
एतं मां प्रापयेदानीं रथवृन्दं प्रहारिणाम् ॥ ४.६५.१ ॥
毗罗吒之子见迦尔纳被击败,阿周那对他说:「现在把我带到那些攻击者的战车群去。」
4.65.2
यत्र शान्तनवो भीष्मः सर्वेषां नः पितामहः ।
सुयुद्धं काङ्क्षमाणो वै रथे तिष्ठति दंशितः ॥ ४.६५.२ ॥
在那里,大家的祖父、商多努之子毗湿摩披甲立于战车上,渴望一场激烈的战斗。
4.65.3
तालो वै काञ्चनो यत्र वज्रवैडूर्यभूषितः ।
अतीव समरे भाति मातरिश्वप्रकम्पितः ॥ ४.६५.३ ॥
那里有一面金色棕榈旗,镶嵌着金刚石与青金石,在战斗中风吹摇动,光彩夺目。
4.65.4
दारुणं प्रहरिष्यामि रथबृन्दानि धन्विनाम् ।
आदास्याम्यहमेतेषां धनुर्ज्यावेष्टनानि च ॥ ४.६५.४ ॥
我要猛烈攻击那些射手的战车群,甚至夺下他们弓弦上的缠绕之物。
4.65.5
अस्यन्तं दिव्यमस्त्राणि चित्रमुत्तर पश्यसि ॥ ४.६५.५ ॥
乌塔罗啊,你看见我以神圣的武器放箭的奇妙模样。
4.65.6
शतह्रदां जृम्भमाणां मेघस्थां प्रावृषीव च ।
सुवर्णपृष्ठं गाण्डीवं पश्यन्तु कुरवो मम ॥ ४.६५.६ ॥
如雨季云中的闪电,发出百雷般的轰鸣,愿俱卢族人看见我那金背的甘狄拔弓。
4.65.7
दक्षिणेनाथ वामेन कतमेन स्विदस्यति ।
इति मां शत्रवः सर्वे न विज्ञास्यन्ति सारथे ॥ ४.६५.७ ॥
用右手还是左手,他以哪只手射箭——如此,所有敌人都无法认出我,御者啊。
4.65.8
अस्त्रोदकां हयावर्तां नागनक्रां रथह्रदाम् ।
नदीं प्रस्कन्दयिष्यामि परलोकापहारिणीम् ॥ ४.६५.८ ॥
以兵器为水,以战马为漩涡,以象为鳄,以战车为深潭——那条带往他世的河流,我要让它奔涌。
4.65.9
पाणिपादशिरःपृष्ठबाहुशङ्खचराचरम् ।
वनं कुरूणां छेत्स्यामि भल्लैः सन्नतपर्वभिः ॥ ४.६५.९ ॥
以手、足、头、背、臂与海螺,动与不动皆备——库鲁的这片森林,我要以关节弯曲的阔刃箭将其砍伐。
4.65.10
तूणीशयाः सुपुङ्खाग्रा विशिखा दुन्दुभिस्वनाः ।
मया प्रमुक्ताः संग्रामे कुरून्धक्ष्यन्ति सायकाः ॥ ४.६५.१० ॥
藏于箭囊、羽尖精美、声如鼓鸣的箭矢——我在战中射出的这些利箭,将焚烧库鲁人。
4.65.11
ध्वजवृक्षं शरतृणं नागाश्वश्वापदाकुलम् ।
रथसिंहगणैर्युक्तं धनुर्वल्लिसमाकुलम्।
वनमादीपयिष्यामि कुरूणामस्त्रतेजसा ॥ ४.६५.११ ॥
此林以旗为树,以箭为草,充满象、马与野兽,配有车上雄狮之众,弓弦之蔓密布——我要以武器的光辉,将它焚烧,去对付库鲁人。
4.65.12
जयतो भारतीं सेनामेकस्य मम संयुगे ।
शतं मार्गा भविष्यन्ति पावकस्येव कानने ॥ ४.६५.१२ ॥
我独自在战中战胜婆罗多之军时,将为我开出百条道路——正如林中之火有百条路径。
4.65.13
मया चक्रमिवाविद्धं सैन्यं द्रक्ष्यसि केवलम् ।
तानहं रथनीडेभ्यः परलोकाय शात्रवान्।
एकः प्रद्रावयिष्यामि चक्रपाणिरिवासुरान् ॥ ४.६५.१३ ॥
你将看到整支军队如被我的轮盘穿刺般溃散。我一人便从他们的战车座位上把那些敌人送往另一世界,如持轮者驱散阿修罗那样驱散他们。
4.65.14
असंभ्रान्तो रथे तिष्ठन्समेषु विषमेषु च ।
मार्गमावृत्य तिष्ठन्तमपि भेत्स्यामि पर्वतम् ॥ ४.६५.१४ ॥
我站在战车上,无论平地还是险地都不惊慌,即使是挡住道路而立的山,我也将劈开。
4.65.15
अहमिन्द्रस्य संग्रामे द्विषतो बलदर्पितान् ।
मातलिं सारथिं कृत्वा निवातकवचान्रणे ।
हतवान्सर्वतः सर्वान्धावतो युध्यतस्तदा ॥ ४.६५.१५ ॥
在因陀罗的战斗中,我以摩多梨为御者,在战场上杀死了仗恃力量而骄傲的敌对者尼婆多迦婆查。那时,他们奔跑和战斗,我从四面八方把他们全部杀死。
4.65.16
निवातकवचान्हत्वा गाण्डीवास्त्रैः सहस्रशः ।
परं पारे समुद्रस्य हिरण्यपुरमारुजम् ॥ ४.६५.१६ ॥
我以甘提婆弓的箭射杀了成千上万的尼婆多迦婆查,随后攻入大海彼岸的金城希兰亚补罗。
4.65.17
हत्वा षष्टिसहस्राणि रथानामुग्रधन्विनाम् ।
पौलोमान्कालकेयांश्च समरे भृशदारुणान् ।
असुरानहनं घोरान्रौद्रेणास्त्रेण सारथे ॥ ४.६५.१७ ॥
我杀死了六万名凶猛的弓手战车武士,在战斗中杀死了极为可怕的补罗曼人和迦罗刻耶人。御者啊,我以可怖的武器击杀了凶恶的阿修罗。
4.65.18
अहमिन्द्राद्दृढां मुष्टिं ब्रह्मणः क्षिप्रहस्तताम् ।
प्रगाढनिपुणं चित्रमतिवृद्धं प्रजापतेः ॥ ४.६५.१८ ॥
我从因陀罗处得到坚定的握力,从梵天处得到敏捷的手法,从生主处得到深邃、精妙而奇异的技艺。
4.65.19
रौद्रं रुद्रादहं वेद्मि वारुणं वरुणादपि ।
सौर्यं सूर्यादहं वेद्मि याम्यं दण्डधरादपि ॥ ४.६५.१९ ॥
我从楼陀罗处知道暴烈之器,也从伐楼那处知道伐楼那之器;从太阳处我知道太阳之器,也从持杖者阎摩处知道阎摩之器。
4.65.20
अस्त्रमाग्नेयमग्नेश्च वायव्यं मातरिश्वनः ।
अन्यैर्देवैरहं प्राप्तः को मां विषहते पुमान् ॥ ४.६५.२० ॥
我从阿耆尼处得到火器,从摩多利奢梵(风神)处得到风器;也从其他诸神处获得了这些。谁能抵挡我?
4.65.21
अद्य गाण्डीवनिर्मुक्तैःशरौघै रोमहर्षणैः ।
कुरूणां पातयिष्यामि रथवृन्दानि धन्विनाम् ॥ ४.६५.२१ ॥
今日,我将以从甘狄拔弓射出的、令人毛骨悚然的箭雨,击倒俱卢族那些持弓的战车军团。
4.65.22
एवमाश्वासितस्तेन वैराटिः सव्यसाचिना ।
व्यगाहत रथानीकं भीमं भीष्मस्य वाजिभिः ॥ ४.६५.२२ ॥
就这样,被萨维耶萨钦(阿周那)鼓舞的毗罗吒之子(优多罗)驾着马匹,冲入了毗湿摩那可怕的战车大军之中。
4.65.23
रथिसिंहमनाधृष्यं जिगीषन्तं परान्रणे ।
अभ्यधावत्तदैवोग्रो ज्यां विकर्षन्धनञ्जयः ॥ ४.६५.२३ ॥
那时,猛烈的达难闍耶(阿周那)拉紧弓弦,冲向那不可战胜的战车雄狮——他渴望在战场上战胜敌人。
4.65.24
दुःशासनोऽभ्ययात्तूर्णमर्जुनं भरतर्षभः ॥ ४.६५.२४ ॥
婆罗多族的雄牛难降迅速向阿周那冲去。
4.65.25
अन्येऽपि चित्राभरणा युवानो मृष्टकुण्डलाः ।
अभ्ययुर्भीमधन्वानो मौवी पर्यस्य बाहुभिः ॥ ४.६५.२५ ॥
其他身饰华美、耳戴光亮耳环的年轻人,也作为可怕的射手上前,用双臂拉开弓弦。
4.65.26
दुःशासनो विकर्णश्च वृषसेनो विविशतिः ।
अभीता भीमधन्वानं पाण्डवं पर्यवारयन् ॥ ४.६५.२६ ॥
难降、毗迦尔纳、战胜之军与毗毗舍提无所畏惧,将这位可怕的射手般députés般般班度之子团团围住。
4.65.27
तस्य दुःशासनः षष्टिं वामपार्श्वे समार्पयत् ।
अस्यतः प्रतिसन्धाय कुन्तीपुत्रस्य धीमतः ॥ ४.६५.२७ ॥
当智慧的昆提之子搭箭射击时,难降以六十支箭射中他的左侧。
4.65.28
पुनश्चैव स भल्लेन विद्ध्वा वैराटिमुत्तरम् ।
द्वितीयेनार्जुनं वीरं प्रत्यविध्यत्स्तनान्तरे ॥ ४.६५.२८ ॥
随后,他以一支钺箭射穿了毗罗吒之子优怛罗,又以第二支箭射中英雄阿周那的胸膛正中。
4.65.29
तस्य जिष्णुरुदावृत्य क्षुरधारेण कार्मुकम् ।
प्राकृन्तद्गृध्रपत्रेण जातरूपपरिष्कृतम् ॥ ४.६५.२९ ॥
胜利者阿周那转身,以一支利如剃刀的箭、配以秃鹫羽的箭,斩断了他那镶金的弓。
4.65.30
अथैनं पञ्चभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे ।
सोपयातो रथोपस्थात्पार्थबाणाभिपीडितः ॥ ४.६५.३० ॥
于是阿周那用五支箭射中他的胸膛之间,他被般度之子的箭所困扰,便从车座上向前冲来。
4.65.31
सर्वा दिशश्चाभ्यपतद्बीभत्सुरपाराजितः ।
तं विकर्णः शरैस्तीक्ष्णैर्गृध्रपक्षैः शिलाशितैः।
विव्याध परवीरध्नमर्जुनं धृतराष्ट्रजः ॥ ४.६५.३१ ॥
不败的比毗特苏(阿周那)冲向四面八方。于是持国之子毗迦爾那用磨于石上、以秃鹫羽为翎的利箭射中了阿周那——那位杀敌英雄者。
4.65.32
ततस्तमपि कौन्तेयः शरेण नतपर्वणा ।
ललाटेऽभ्यहनद्गाढं स विद्धः प्राद्रवद्भयात् ॥ ४.६५.३२ ॥
于是贡蒂之子也用一支弯曲节的箭重重射中他的前额。他被射中后,因恐惧而逃走。
4.65.33
ततः पार्थमुपाद्रुत्य दुस्सहः सविविंशतिः ।
अवाकिरच्छरैस्तीक्ष्णैः परीप्सन्भ्रातरं रणे ॥ ४.६५.३३ ॥
于是难降与毗温时蒂冲向般度之子,以利箭倾注如雨,欲在战场上保护他们的兄长。
4.65.34
तावुभौ गृध्रपत्राभ्यां निशिताभ्यां धनञ्जयः ।
विव्याध युगपद्व्यग्रस्तयोर्वाहानसूदयत् ॥ ४.६५.३४ ॥
财富征服者(阿周那)以两支秃鹫羽的利箭同时射中二人,并从容不迫地射杀了他们的马。
4.65.35
तौ हताश्वौ तु विद्धाङ्गौ धृतराष्ट्रात्मजावुभौ ।
अभिपत्य रथैरन्यैरपनीतौ पदानुगैः ॥ ४.६५.३५ ॥
持国的那两个儿子,马匹已死,肢体受伤,到达其他战车旁后,被步兵从战场上带走了。
4.65.36
व्यद्रावयदशेषांश्च धृतराष्ट्रसुतांस्तदा ।
विद्राव्य च रणे पार्थो रणभूमिं व्यराजयत् ॥ ४.६५.३६ ॥
此时般度之子(阿周那)驱散了持国的所有儿子,在战斗中将他们击溃,使战场光辉照耀。
4.65.37
किरीटमाली कौन्तेयो लब्धलक्षः प्रतापवान् ।
पातयन्नुत्तमाङ्गानि बाहूश्च परिघोपमान् ॥ ४.६५.३७ ॥
身戴冠饰花环的昆提之子,目标已定,威勇非凡,斩落头颅与如铁杵般的臂膀。
4.65.38
अशेरत महावीराः शतशो रुक्ममालिनः ॥ ४.६५.३८ ॥
数百位佩戴金色花环的大英雄躺卧在那里。
4.65.39
कमलदिनकरेन्दुसन्निभैः सितदशनैः सुमुखाक्षिनासिकैः ।
रुचिरमकरकुण्डलैर्मही पुरुषशिरोभिरथास्तृता बभौ ॥ ४.६५.३९ ॥
大地被那些如莲花、日月般的人头覆盖,白齿、美面、明眸、挺鼻,戴着闪亮的摩羯耳环,显得光彩夺目。
4.65.40
सुनसं चारुदीप्ताश्चं क्लृप्तश्मश्रु स्वलंकृतम् ।
अदृश्यत शिरश्छिन्नमनेकं हेमकुण्डलम् ॥ ४.६५.४० ॥
可见许多被斩断的头颅,鼻梁秀美,耳廓明亮,胡须修剪整齐,装饰华美,戴着金耳环。
4.65.41
एवं तत्प्रहतं सैन्यं समन्तात्प्रद्रुतं भयात् ॥ ४.६५.४१ ॥
如此,那被击溃的军队因恐惧四散奔逃。
4.65.42
अथ दुर्योधनः कर्णः सौबलः शकुनिस्तदा ।
द्रोणश्च द्रोणपुत्रश्च कृपश्चातिरथो रणे ॥ ४.६५.४२ ॥
那时,杜尔约达那、迦尔纳、苏跋罗之子沙恭尼、德罗纳、德罗纳之子,以及战场上的大战车武士克里帕。
4.65.43
सहिता विजयं तत्र योधयन्तो महारथाः ।
विष्फारयन्तश्चापानि बलवन्ति महाबलाः ॥ ४.६५.४३ ॥
在那里,为求胜利而并肩作战的大战车武士,力大无穷的勇士拉开他们强劲的弓。
4.65.44
ततः कीर्णपताकेन रथेनादित्यवर्चसा ।
पुनरावृत्य मार्गस्थं ददृशुर्वानरध्वजम् ॥ ४.६५.४४ ॥
于是,他们驾着光辉如太阳、旗帜散乱的战车返回,看见那站在道路上、旗帜上有猴子的人。
4.65.45
ते महास्त्रैर्महेष्वासाः परिवार्य धनञ्जयम् ।
अभ्यवर्षन्सुसंक्रुद्धा महामेघा इवाचलम् ॥ ४.६५.४५ ॥
那些大弓手以大兵器包围财征(阿周那),怒火万丈地向他倾泻,如同巨云倾注于山岳之上。
4.65.46
शरौघान्सम्यगस्यन्तो जीमूता इव शारदाः ।
युद्धे तस्थुर्महावीर्याः प्रतपन्तः किरीटिनम् ॥ ४.६५.४६ ॥
像秋天的云一样,善射出箭如潮,大勇之士立于战场,炙烤那戴冠者。
4.65.47
इषुभिर्बहुभिस्तूर्णं निशितैर्लोमवापिभिः ।
अदूरात्प्रत्यवस्थाय पाण्डवं समयोधयन् ॥ ४.६५.४७ ॥
以许多锋利、能削发的箭迅速地,站在近处正面相对,他们与般度之子作战。
4.65.48
ततः प्रहस्य बीभत्सुस्तमैन्द्रं पञ्चवार्षिकम् ।
अस्त्रमादित्यसंकाशं गाण्डीवे समयोजयत् ॥ ४.६५.४८ ॥
于是,阿周那(比毗瑟磨)笑着将因陀罗那件已有五年历史、如太阳般耀眼的神箭搭上了甘狄拔弓。
4.65.49
नाक्षणां न च चक्राणां न रथानां न वाजिनाम् ।
अङ्गुलाद्दव्यङ्गुलाद्वापि विवृतं प्रत्यदृश्यत ॥ ४.६५.४९ ॥
车轴、车轮、战车或马匹,哪怕一指或半指之宽,也不见有任何暴露在外。
4.65.50
यथा रश्मिभिरादित्यो वृणुते सर्वतो दिशम् ।
एवं किरीटिना मुक्तं सर्वं प्राच्छादयञ्जगत् ॥ ४.६५.५० ॥
如同太阳以光芒遍照四方,持冠者(阿周那)所放的箭遮蔽了整个世界。
4.65.51
यथा बलाहके विद्युत्पावको वा शिलोच्चये ।
तथा गाण्डीवमभवच्चक्राभुधमिवाततम् ॥ ४.६५.५१ ॥
如云中闪电、石峰上的烈火,拉满的甘狄拔弓便如持轮者(毗湿奴)一般光耀。
4.65.52
यथा वर्षति पर्जन्यो विद्युत्पतति पर्वते ।
विस्फूर्जिता दिशः सर्वा ज्वलद्गाण्डीवमावृणोत् ॥ ४.६५.५२ ॥
如云降雨、雷电击山,四方皆轰鸣震响;燃烧的甘狄拔弓将一切笼罩。
4.65.53
त्रस्ताश्च रथिनःक सर्वे चैन्द्रमस्त्रं विकुर्वति ।
सर्वे शान्तिपरा योधाः स्वचित्तं नाभिजझिरे ।
सहिता द्रोणभीष्माभ्यां प्रमोहगतचेतनाः ॥ ४.६५.५३ ॥
所有车战者都惊恐万分;因陀罗之箭显现时,众战士都寻求安宁,却无法恢复自己的心神——与德罗纳和毗湿摩在一起的他们,都陷入了迷乱昏沉的状态。
4.65.54
तानि सर्वाणि सैन्यानि भग्नानि भरतर्षभ ।
प्राद्रवन्त दिशः सर्वा भयाद्वै सव्यसाचिनः ॥ ४.६५.५४ ॥
婆罗多族的雄牛啊,那些军队全都溃散了,因畏惧左手神射手(阿周那)而向四方逃去。