摩诃婆罗多 · 章 4.66
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.66.1
दक्षिणामेव तु दिशं हयानुत्तर वाहय ।
पुरा सार्थी भवत्येषामयं शब्दोऽत्र तिष्ठताम् ॥ ४.६६.१ ॥
阿周那说:请在南方的方向上,把马驱向北方。御者啊,这是站在此处的人们的声音,早已存在。
4.66.2
अश्चत्थाम्नः प्रतिरथं प्राचीमुद्याहि सारथे ।
अचिराद्द्रष्टुमिच्छामि गुरुपुत्रं यशस्विनम् ॥ ४.६६.२ ॥
阿周那说:御者啊,向东驱赶到阿湿婆摩的对战之车前。我想尽快见到这位声名远扬的师尊之子。
4.66.3
मोहयित्वा तु तान्सर्वान्धनुर्घोषेण पाण्डवः ।
प्रसव्यं चैवमावृत्य क्रोशार्धं प्राद्रवत्तदा ॥ ४.६६.३ ॥
毗舍衍那说:般度之子以弓弦之声迷惑了他们所有人,从右侧绕行,然后奔逃了半个克罗沙。
4.66.4
यथा सततगो वायुः सुपर्णश्चापि शीघ्रगः ।
तथा पार्थरथः शीघ्रमाकाशे पर्यवर्तत ॥ ४.६६.४ ॥
毗舍衍那说:如同永不停息的风与疾行的金翅鸟,阿周那的战车便在空中迅速回转。
4.66.5
मुहूर्तोपरते शब्दे प्रतियाते धनञ्जये ।
हस्त्यश्वरथपादातं पुरस्कृत्य महारथाः ॥ ४.६६.५ ॥
毗舍衍那说:过了一刻,声音止息,财胜归来,大车将们将象、马、车与步卒置于前列。
4.66.6
द्रोणभीष्ममुखाः सर्वे सैन्यानां जघने ययुः ।
यत्ताः पार्थमपश्यन्तः सहिताः शरविक्षताः ॥ ४.६६.६ ॥
毗舍衍那说:以德罗纳与毗湿摩为首,众人退往军队的后方;戒备着,不见般度之子,身上带着箭伤,一同前行。
4.66.7
दिष्ट्या दुर्योधनो मुक्तः सैन्यं भूयिष्ठमागतम् ।
क्रोशमात्रमतिक्रम्य बलमन्वानयामहे।
यात यत्र वनं गुल्मं नदीमन्वश्मकां प्रति ॥ ४.६६.७ ॥
幸运的是,难敌获救,庞大的军队已经归来。越过一克罗希,我们将把军队带回追击。去那有森林、灌木和阿希摩迦河的地方吧。
4.66.8
अथ दुर्योधनो दृष्ट्वा भग्नं स्वं बलमाहवे ।
अमृष्यमाणः क्रोधेन प्रतिमार्गन्धनञ्जयम् ॥ ४.६६.८ ॥
此时难敌见自己的军队在战斗中溃散,怒不可遏,又去寻找财主(阿周那)。
4.66.9
न्यवर्तत कुरुश्रेष्ठ स्वेनानीकेन संवृतः ।
वार्यमाणो दुराधर्षैर्भीष्मद्रोणकृपैर्भृशम् ॥ ४.६६.९ ॥
库鲁之最被自己的军队包围而返回,无法战胜的毗湿摩、德罗纳和克里帕极力阻拦他。
4.66.10
ततोऽर्जुनश्चित्रमुदारवेगं समीक्ष्य गाण्डीवमुवाच वाक्यम् ।
भोगीन्द्रकल्पं भुवनेषु रूढमभेद्यमच्छेद्यमदाह्यमाजौ ॥ ४.६६.१० ॥
于是阿周那看着这把奇妙、速度高贵的甘狄拔弓,对它说了这些话:它如同蛇王,名闻三界,在战斗中不可穿破、不可斩断、不可焚毁。
4.66.11
इदं त्विदानीमनयं कुरूणां शिवं धनुः शत्रुनिबर्हणं च ।
अत्याशुगं वेगवदाशुकर्तृ अवारणीयं महते रणाय ॥ ४.६६.११ ॥
如今这把弓对库鲁人吉祥,能摧毁敌人,射箭极快、迅猛、即刻奏效而不可阻挡,正适合于一场大战。
4.66.12
प्रदारणं शत्रुवरूथिनीनामनीकजित्संयति वज्रकल्पम् ।
वैधव्यदं शत्रुनितम्बिनीनां मुखप्रदं कौरववंशजानाम् ॥ ४.६६.१२ ॥
它能刺穿敌军,在战斗中击败军队,如同雷电;它使敌人的妇女守寡,使俱卢族女子的脸上充满悲伤。
4.66.13
प्रयाहि यत्रैष सुयोधनो हि तं पातयिष्यामि शरैः सुतीक्ष्णैः ।
आचार्यपुत्रं च सुयोधनं च पितामहं सूतसुतं च सङ्ख्ये ।
द्रोणं कृपं चैव निवार्य सर्वाञ्शिरो हरिष्यामि सुयोधनस्य ॥ ४.६६.१३ ॥
驱车前往苏尤陀那所在之处。我将以极锋利的箭射倒他。挡开师尊之子、苏尤陀那、祖父、御者之子,以及战场上的德罗纳与克利巴,我将斩下苏尤陀那的头颅。
4.66.14
तदुत्तरश्चित्रमुदारवेगं धनुश्च दृष्ट्वा निशिताञ्शरांश्च ।
भीतोऽब्रवीदर्जुनमाजिमध्ये नाहं तवाश्वान्विषहे नियन्तुम् ॥ ४.६६.१४ ॥
于是乌塔罗见到那张威力非凡、迅疾的神弓和锐利的箭,心生恐惧,对阿周那说:“在战场中央,我无法驾驭你的马匹。”
4.66.15
तमब्रवीन्मात्स्यसुतं प्रहस्य गाण्डीवधन्वा द्विषतां निहन्ता ।
मया सहायेन कुतो भयं ते प्रेह्युत्तराश्वानुपमन्त्रयस्व ॥ ४.६६.१५ ॥
于是持甘狄拔神弓、摧毁敌人的阿周那微笑着对摩特耶王之子说:“有我作你的助手,你何来恐惧?前进吧,乌塔罗,催动马匹。”
4.66.16
आश्वासितस्तेन धनञ्जयेन वैराटिरश्वानतुदञ्जवेन ।
विष्फारयंस्तद्धनुरुग्रवेगं युयुत्समानः पुनरेव जिष्णुः ॥ ४.६६.१६ ॥
得到大财阿周那的安慰,毗罗吒之子迅速驱策马匹。胜利者阿周那拉动那张威猛迅疾的神弓,发出弦响,怀着战意再次前进。
4.66.17
गाण्डीवशब्देन तु तत्रतत्र भूमौ निषेदुर्बहवोऽतिवेलम् ।
शङ्खस्य शब्देन तु वानरस्य शब्देन ते योधवराः समन्तात् ॥ ४.६६.१७ ॥
在甘狄拔弓的弦响、海螺之声与猴旗之声中,许多优秀的战士极度惊惶,纷纷四面坐倒在地。
4.66.18
एषोऽतिमानी धृतराष्ट्रपुत्रः सेनामुखे सर्वसमृद्धतेजाः ।
पराजयं नित्यममृष्यमाणो निवर्तते युद्धमनाः पुरस्तात् ॥ ४.६६.१८ ॥
这位极其骄傲、光辉圆满的持国之子站在军阵前方;因不能忍受失败,他心怀战意,又转身向前而来。
4.66.19
तमेव याहि प्रसमीक्ष्य युक्तः सुयोधनं तत्र सहानुजं च ॥ ४.६६.१९ ॥
径直朝他而去,仔细观察并坚定心志——朝那里的苏约达那和他的幼弟而去。
4.66.20
तमापतन्तं प्रसमीक्ष्य सर्वे कुरुप्रवीराः सहसाऽभ्यगच्छन् ।
प्रहस्य वीरः स तु तानतीत्य दुर्योधने द्वौ निचखान बाणौ ॥ ४.६६.२० ॥
众位俱卢勇士见他冲来,立即迎上前去;那位英雄却笑着越过他们,向难敌射出两支箭。
4.66.21
तेनार्दितो नाग इव प्रभिन्नः पार्थेन विद्धो धृतराष्ट्रपुत्रः ।
युयुत्समानोऽतिरथेन सङ्ख्ये स्वयं विगृह्यार्जुनमाससाद ॥ ४.६६.२१ ॥
持国之子被他射中,如发狂的象般痛苦,渴望战斗,亲自与大车将阿周那交锋,并向他逼近。
4.66.22
स भीमधन्वानमुदग्रवेगो धनञ्जयं शत्रुशतैरजेयम् ।
आकर्णपूर्णायतचोदितेन भल्लेन विव्याध ललाटमध्ये ॥ ४.६६.२२ ॥
那位势猛之人,以拉满至耳的弓射出一支婆罗箭,射中了不可被数百敌人战胜的、手持可怖之弓的檀那阇耶的眉心。
4.66.23
स तेन बाणेन समर्पितेन जाम्बूनदाभेन सुसंहितेन ।
रराज पार्थो रुधिरं क्षरन्वै यथैकरश्मिर्भगवान्दिवार्कः ॥ ४.६६.२३ ॥
被那支金色、制作精良的箭射中,阿周那流着血,光芒闪耀,如同天空中只有一道光芒的煌煌太阳。
4.66.24
अथास्य बाणेन विदारितस्य प्रादुर्वभूवास्रमजस्रमुष्णम् ।
सा तस्य जाम्बूनदपुष्पचित्रा मालेव धाराऽभिविराजते स्म ॥ ४.६६.२४ ॥
随后,被箭刺穿的他身上不断涌出温热的鲜血;那血流宛如缀满金花的花环,闪耀夺目。
4.66.25
स तेन बाणाभिहतस्तरस्वी दुयोधनेनोद्धतमन्युवेगः ।
शरानुपादाय विषाग्निकल्पान्विव्याध राजानमदीनसत्वः ॥ ४.६६.२५ ॥
被难敌的箭射中的那位勇猛之人,怒火升腾,取出如毒如火的箭矢,以不屈的勇气射中了国王。
4.66.26
दुर्योधनश्चापि तमुग्रतेजाः पार्थश्च दुर्योधनमेकवीरः ।
अन्योन्यमाजौ पुरुषप्रवीरौ सम समाजघ्नतुराजमीढौ ॥ ४.६६.२६ ॥
威光凛冽的难敌也射击他,唯一的英雄阿周那也射击难敌;在战场上,这两位杰出的人,阿遮弥陀的后裔,彼此相击。
4.66.27
ततः प्रभिन्नेन महागजेन महीधराभेन पुनर्विकर्णः ।
रथैश्चतुर्भिर्गजपादरक्षैः कुन्तीसुतं पाण्डवमभ्यधावत् ॥ ४.६६.२७ ॥
于是毗羯那骑着一头发情的大象,如同山岳一般,率领四辆由象脚护卫守卫的战车,向贡蒂之子般度族冲去。
4.66.28
तमापतन्तं त्वरितं गजेन्द्रं धनञ्जयः कुम्भललाटमध्ये ।
आकर्णपूर्णेन दृढायसेन बाणेन विव्याध भृशं तु वीरः ॥ ४.६६.२८ ॥
英雄财主(Dhanañjaya)以拉到耳边的坚硬铁箭,猛然射穿了这头疾速冲来的象王的额头正中央。
4.66.29
पार्थेन सृष्टः स तु गृध्रपत्रो ह्यापुङ्खदेशं प्रविवेश नागम् ।
विदार्य शैलप्रवरप्रकाशं यथाऽशनिः पर्वतमिन्द्रसृष्टः ॥ ४.६६.२९ ॥
普利塔之子射出的那支鹫羽箭,劈开了那头如巨山般闪耀的大象,直入至箭羽的末端,如同因陀罗投出的金刚杵劈裂山岳。
4.66.30
शरप्रतप्तः स तु नागराजः प्रवेपिताङ्गो व्यथितान्तरात्मा ।
संसीदमानो निपपात भूमौ वज्राहतं शृङ्गमिवाचलस्य ॥ ४.६६.३० ॥
这头象王被箭所灼,四肢颤抖,内心痛苦,渐渐倒下,坠落在地,如同被金刚杵击中的山峰。
4.66.31
निपातिते दन्तिवरे पृथिव्यां त्रासाद्विकर्णः सहसाऽवतीर्य ।
तूर्णं पदान्यष्टशतानि गत्वा विविंशतेः स्यन्दनमारुरोह ॥ ४.६६.३१ ॥
那头象王倒在地上后,毗卡尔纳因恐惧突然下来,迅速走了八百步,登上了毗温希提的战车。
4.66.32
निहत्य नागं तु शरेण तेन वज्रोपमेनाद्रिवरप्रकाशम् ।
तथाविधेनैव शरेण पार्थो दुर्योधनं वक्षसि निर्बिभेद ॥ ४.६६.३२ ॥
普利塔之子以那支如金刚杵、闪耀如山峰的箭杀死了大象,又以同样的另一支箭射穿了难敌的胸膛。
4.66.33
हते गजे राजनि चैव भिन्ने भग्ने विकर्णे च सपादरक्षे ।
गाण्डीवमुक्तैर्विशिखैः प्रभिन्नास्ते योधमुख्याः सहसा प्रजग्मुः ॥ ४.६६.३३ ॥
国王的象被杀,毗迦尔纳被刺中倒下,足卫也已溃散,那些被甘狄拔弓射出的箭所穿透的主要武士,忽然逃走了。
4.66.34
दृष्ट्वैव बाणेन हतं च नागं योधांश्च सर्वान्नृपतिर्निरीक्ष्य ।
रथं समावृत्य कुरग्नवीरो रणात्प्रदुद्राव यतो न पार्थः ॥ ४.६६.३४ ॥
国王见象被箭所杀,又见众武士,便调转战车;那位库鲁族的第一勇士,从战场上逃向没有般度子的方向。
4.66.35
तं भीतरूपं त्वरितं व्रजन्तं दुर्योधनं शत्रुगणावमर्दी ।
अन्वाह्वयद्योद्धुमनाः किरीटी बाणाभिविद्धं रुधिरं वमन्तम् ॥ ४.६६.३५ ॥
毗湿摩之后的敌军摧毁者基利团,渴望战斗,向惊惶疾行的难敌发出挑战;难敌被箭射中,正吐着鲜血。
4.66.36
तस्मिन्महेष्वासवरेऽतिविद्धे धनञ्जयेनाप्रतिमेन युद्धे ।
सर्वाणि सैन्यानि भयार्दितानि त्रासं ययुः पार्थमुदीक्ष्य तानि ॥ ४.६६.३६ ॥
当那位最杰出的大弓箭手在战斗中被无与伦比的财富征者重重射伤时,所有军队在恐惧的折磨下望见般度子,都陷入了惊恐。
4.66.37
ततस्तु ते शान्तिपराश्च सर्वे दृष्ट्वाऽर्जुनं नागमिव प्रभिन्नम् ।
उच्चैर्नदन्तं बलमत्तमाजौ मध्ये स्थितं सिंहमिवर्षभाणाम् ॥ ४.६६.३७ ॥
于是所有寻求和平的人,看见阿周那如发情的象般高声咆哮,站在战斗中疯狂的军队中央,如同牛群中的狮子,都感到惊惧。
4.66.38
गाण्डीवशब्देन तु पाण्डवस्य योधा निपेतुः सहसा रथेभ्यः ।
भयार्दिताः पार्थशराभितप्ताः सिंहाभिपन्ना इव वारणेन्द्राः ॥ ४.६६.३८ ॥
听到甘狄拔弓的弦声,般度的战士们因恐惧而惊慌,被阿周那的箭所灼伤,突然从战车上坠落,如同被狮子扑击的象王。
4.66.39
संरक्तनेत्रः पुनरिन्द्रकर्मा वैकर्तनं द्वादशभिः पृषत्कैः ।
वित्रास्य तेषां द्रवतां समैक्षद्दुःशासनं चैकरथेन पार्थः ॥ ४.६६.३९ ॥
阿周那双眼通红,以因陀罗般的功业,又以十二支箭惊吓了毗伽尔丹那(迦尔纳),并在逃跑的人中看见独自乘一辆战车的难降。
4.66.40
कर्णोऽब्रवीत्पार्थशराभितप्तो दुर्योधनं दुष्प्रसहं च दृष्ट्वा ।
दृष्टोऽर्जुनोऽयं प्रतियाम शीघ्रं श्रेयो विधास्याम इतो गतेन ॥ ४.६६.४० ॥
被阿周那的箭所灼伤的迦尔纳看见难以抵挡的难敌后说道:“阿周那已经现身,让我们赶快回去吧。离开此地,才对我们有利。”
4.66.41
मन्ये त्वया तात कृतं च कार्यं यदर्जुनोऽस्माभिरिहाद्य दृष्टः ।
भूयो वनं गच्छतु सव्यसाची पश्यामि पूर्णं समयं न तेषाम् ॥ ४.६६.४१ ॥
亲爱的,我想你已完成了该做的事,因为今天我们在这里看见了阿周那。愿左手神射手再回森林去吧;我看不到他们的约期已满。
4.66.42
शरार्दितास्ते युधि पाण्डवेन प्रससुरन्योन्यमथाह्वयन्तः ।
कर्णोऽब्रवीदापतत्येष जिष्णुर्दुर्योधनं संपरिवार्य यामः ॥ ४.६६.४२ ॥
被般度之子的箭所折磨,他们在战场上互相呼喊着逃散了。于是迦尔纳说:“胜利者(阿周那)正冲来,让我们围护难敌而去吧。”
4.66.43
सर्वास्त्रविद्वारणयूथपाभः काले प्रहर्ता युधि शात्रवाणाम् ।
अयं च पार्थः पुनरागतो नो मूलं च रक्ष्यं भरतर्षभाणाम् ॥ ४.६६.४३ ॥
精通一切兵器者,如象群之王,在战斗中适时打击敌人;这位般度之子(Pārtha)又回到了我们身边,婆罗多族的雄牛之根必须守护。
4.66.44
समीक्ष्य पार्थं तरसाऽऽपतन्तं दुर्योधनः कालमिवात्तशस्त्रम् ।
भयार्तरूपः शरणं प्रपेदे द्रोणं च कर्णं च कृपं च भीष्मम् ॥ ४.६६.४४ ॥
杜尤陀那见般度之子(Pārtha)迅猛扑来,犹如手持兵器的死神,面露惊惧,便投奔德罗纳、迦尔纳、克里帕和毗湿摩寻求庇护。
4.66.45
तं भीतरूपं शरणं व्रजन्तं दुर्योधनं शत्रुसहो निषङ्गी ।
इत्यब्रवीत्प्रीतमनाः किरीटी बाणाभितप्तं रुधिरं वमन्तम् ॥ ४.६६.४५ ॥
对于以惊惧之态前往寻求庇护的杜尤陀那,那位能忍受敌人、背负箭囊的冠者(Kirīṭī)心中欢喜,对被箭射伤、吐着鲜血的他这样说道:
4.66.46
विहाय कीर्तिं च यशश्च लोके युद्धात्परावृत्य पलायसे किम् ।
न नन्दयिष्यन्ति तवाहतानि तूर्याणि युद्धादवरोपितस्य ॥ ४.६६.४६ ॥
你为何舍弃世间的名声与荣誉,从战场上转身逃跑?被从战斗中拉下的你,为你敲响的乐器也不会令你欢喜。
4.66.47
न भोक्ष्यसे सोऽद्य महीं समग्रां यानानि वस्त्राण्यथ भोजनानि ।
कल्याणगन्धीनि च चन्दनानि युद्धात्परावृत्य तु भोक्ष्यसे किम् ।
सुवर्णमाल्यानि च कुण्डलानि हारांश्च वैडूर्यकृतोपधानान् ॥ ४.६६.४७ ॥
你背离战斗而逃,今日将不能享有整个大地;那么车辆、衣服、食物、香气宜人的檀香、金花环、耳环、项链和琉璃枕头,你又将如何享用?
4.66.48
च्युतरा युद्धान्न तु शङ्खशब्दास्तथा भविष्यन्ति तवाद्य पाप ।
न भोगहेतोर्वरचन्दनं च स्त्रियश्च मुख्या मधुरप्रलापाः ।
युद्धात्प्रयातस्य नरेन्द्रसूनो परे च लोके फलिता न चेह ॥ ४.६६.४८ ॥
罪人啊,你已从战场退走,今日将不再有螺号之声,也没有用于享乐的上等檀香,没有尊贵的女子和她们甜蜜的低语。王子啊,离开战场的你,无论此世还是彼世都不会有果报。
4.66.49
युधिष्ठिरस्यास्मि निदेशकारी पार्थस्तृतीयो युधि च स्थिरोस्मि ।
तदर्थमावृत्य मुखं प्रयच्छनरेन्द्रवृत्तं स्मर धार्तराष्ट्रः ॥ ४.६६.४९ ॥
我是遵从坚战命令的人,第三位的阿周那在战斗中岿然不动。因此不要蒙着脸转身离去,请想想一位国王应有的行为,持国之子啊。
4.66.50
मोघं तवैतद्भुवि नामधेयं दुर्योधनेतीह कृतं पुरस्तात् ।
दुर्योधनस्त्वं प्रथितोसि नाम्ना सुयोधनः सन्निकृतिप्रधानः । ॥ ४.६६.५० ॥
你名为“难降”(Duryodhana)的这个名字,昔日在此大地上赋予你,实为虚名;你以“善战”(Suyodhana)之名闻名,然而你在欺诈上却是首屈一指。
4.66.51
न ते पुरस्तादथ पृष्ठतो वा पश्यामि दुर्योधन रक्षितारम् ।
परीप्स युद्धेन कुरुप्रवीर प्राणान्मया बाणबलाभितप्तान् ॥ ४.६६.५१ ॥
难敌啊,我看不到你身前身后有任何保护者。库鲁英雄啊,请设法以战斗保全你的性命,它正被我箭矢之力所折磨。