摩诃婆罗多 · 章 4.67
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.67.1
आहूयमानस्तु स तेन सङ्ख्ये महात्मना वै धृ ।
निवर्तितश्चापि गिराङ्कुशेन गजो मदोन्मत्त इवाङ्कुशेन ॥ ४.६७.१ ॥
他在战场上被那位大智者挑战,便被言语所阻止转身,如同发情狂躁的象被钩子制住一样。
4.67.2
सोमृष्यमाणो वचसाऽभिमृष्टो महारथेनातिरथस्तरस्वी ।
ततः स पर्याववृते रथेन भोगी यथा पादतलाभिमृष्टः ॥ ४.६७.२ ॥
他忍受不了那些言语的侮辱,被大战车手触动,这位迅猛的超级车手便如被脚底踩到的蛇一样,连同战车转身。
4.67.3
ततो दुर्योधनः क्रुद्धो विक्षिपन्धनुरुत्तमम् ।
धृतिं कृत्वा सुविपुलां प्रत्युवाच पऩञ्जयम् ॥ ४.६७.३ ॥
于是愤怒的难敌挥动着优良的弓,保持着极大的镇定,回答了财胜(阿周那)。
4.67.4
सोहमिन्द्रादभिक्रुद्धान्न बिभेमीह भारत ।
भुक्त्वा सुविपुलं राज्यं वित्तानि च सुखानि च।
किमर्थं युद्धसमये पलापिष्ये नरोत्तम ॥ ४.६७.४ ॥
婆罗多啊,我在此即使面对因因陀罗,或极度愤怒之人,也毫不畏惧。享受了广大的王国、财富和快乐之后,人中之杰啊,我在战时为何要逃走?
4.67.5
एवमुक्त्वा महाराजः प्रत्ययुध्यत भारत ।
संन्यवर्तत शीघ्राश्वस्तोत्रार्दित इव द्विपः ॥ ४.६७.५ ॥
说完这些,大王便反击作战,婆罗多啊;那驾着迅捷马匹的人,如被钩子刺痛的象一样转身回去。
4.67.6
आक्रान्तभोगस्तेजस्वी धनुर्वक्र इवोरगः ।
रथं रथेन संगम्य योधयामास पाण्डवम् ॥ ४.६७.६ ॥
如同被压住盘身的威猛之蛇,弯如弓弦,使战车与战车相对,他与般度之子作战。
4.67.7
तं प्रेक्ष्य कर्णः परिवर्तमानं निवृत्य संस्तम्भितसर्वगात्रम् ।
दुर्योधनं दक्षिणतोऽन्वरक्षत्पार्थान्महाबाहुरधिज्यधन्वा ॥ ४.६७.७ ॥
卡尔纳见他旋转晃动、四肢僵直,便折返,手持拉满的弓,从右侧护卫杜尔约提那,抵御般度之子。
4.67.8
गान्धारराजः शकुनिर्निवृत्य द्रौणिश्च सर्वास्त्रविदां वरिष्ठः ।
ररक्षतुः कौरवमभ्युपेत्य पार्थान्नृवीरौ युधि सव्यतश्च ॥ ४.६७.८ ॥
干陀罗王沙恭尼与精通一切兵器者中最杰出的德罗纳之子,折返来到俱卢族人身边,在战斗中从左侧护卫他,抵御般度之子,这两位人中英雄。
4.67.9
भीष्मस्ततः शान्तनवो विवृत्य हिरण्यकक्ष्यांस्त्वरया तुरंगान् ।
दुर्योधनं पश्चिमतो ररक्ष पार्थान्महाबाहुरधिज्यधन्वा ॥ ४.६७.९ ॥
随后,山塔努之子毗湿摩迅速调转金色鞍具的马匹,手持拉满的弓,从后方护卫杜尔约提那,抵御般度之子。
4.67.10
द्रोणः कृपश्चैव विविंशतिश्च दुःशासनश्चैव निवृत्य शीघ्रम् ।
सर्वे पुरस्तात्प्रणिधाय बाणान्दुर्योधनार्थं त्वरिताऽभ्युपेयुः ॥ ४.६७.१० ॥
德罗纳、克里帕、毗因舍提与难降也迅速折返,皆向前射出箭矢,为杜尔约提那急速靠近。
4.67.11
सर्वाण्यनीकानि निवर्तितानि संप्रेक्ष्य पूर्णौघनिभानि पार्थः ।
हंसो महामेघमिवापतन्तं धनञ्जयः प्रत्यपतत्तरस्वी ॥ ४.६७.११ ॥
见所有军队如满溢的洪流般被迫折返,般度之子、敏捷的达南遮耶便迎头扑向他们,犹如天鹅扑向降下的大云。
4.67.12
ते सर्वतः संपरिवार्य पार्थमस्त्राणि दिव्यानि समाददानाः ।
ववर्षुरभ्येत्य शरैः समग्रैर्मेघा यथा भूधरमम्बुवेगैः ॥ ४.६७.१२ ॥
他们从四面包围般若(帕尔塔),取起神圣的兵器,靠近后以完整的箭矢倾泻而下,如乌云以水势倾注于山峦。
4.67.13
ततोऽस्रमस्त्रेण निवार्य तेषां गाण्डीवधन्वा कुरुपुङ्गवानाम् ।
संमोहनं शत्रुसहोऽन्यदस्त्रं प्रादुश्चकारैन्द्रमवारणीयम् ॥ ४.६७.१३ ॥
于是持甘狄拔弓者以一件兵器挡住他们的兵器,又显出另一件因陀罗的、能御敌且不可抵挡的兵器。
4.67.14
ततो दिशश्चानुदिशो निवार्य शरैः सुघोरैर्निशितैः सुपुङ्खैः ।
गाण्डीवशब्देन मनांसि तेषां महाबलं प्रवथयांचकार ॥ ४.६७.१४ ॥
随后,他以极其可怖、锋利、羽翎精美的箭矢遮蔽四方与四隅,以甘狄拔弓的弦响使他们的心意与大力为之战栗。
4.67.15
ततः पुनर्भीमरवं निगृह्य दोर्भ्यां महाशङ्खमुदारघोषम् ।
व्यनादयन्संप्रदिशो दिशः खं भुवं च पार्थो द्विषतां निहन्ता ॥ ४.६७.१५ ॥
随后,杀敌的帕尔塔以双臂握住发出可怖声响、庄严轰鸣的大海螺,使四方、天空与大地回响。
4.67.16
संमोहनास्त्रप्रभवैः शरौघैर्विनष्टदेहाश्च निपत्य योधाः ।
निःसत्ववेगाः कुरुराजसैन्याः कुडयोपमास्तस्थुरनीहमानाः ॥ ४.६७.१६ ॥
由迷惑神兵所生的箭雨毁坏了身体,勇士纷纷倒下;库鲁王的军队失去了气势与冲劲,如墙壁般一动不动地站立着。
4.67.17
ते शङ्खनादेन कुरुप्रवीराः संमोहिताः पार्थसमीरितेन ।
उत्सृज्य चापानि दुरासदानि सर्वे तदा मोहपरा बभूवुः ॥ ४.६७.१७ ॥
被帕尔沙(阿周那)吹响的螺号声所迷惑,库鲁的勇士们丢下难以抵挡的弓,全都陷入了迷惘。
4.67.18
ततो विसंज्ञानि परेषु पार्थः संस्मृत्य संदेशमथोत्तरायाः ।
निर्याहि वाहादिति मात्स्यपुत्रमुवाच यावत्कुरवो विसंज्ञाः ॥ ४.६७.१८ ॥
于是,见敌人昏迷,帕尔沙想起了乌塔拉的嘱托,对摩差王之子说:“下车吧”,趁着库鲁人失去知觉。
4.67.19
आचार्यशारद्वतयोः सुशुक्ले कर्णस्य पीतं रुचिरं च वस्त्रम् ।
द्रौणेश्च राज्ञश्च तथैव नीले वस्त्रे समादत्स्व नरप्रवीर ॥ ४.६७.१९ ॥
老师与沙罗陀瓦塔(克利巴)的洁白衣物,迦尔纳美丽的黄色衣物,德罗纳之子与国王的蓝色衣物——拿起这些吧,人中之雄。
4.67.20
भीष्मस्य संज्ञां तु तथैव मन्ये जानाति मेऽस्त्रप्रतिघातमेषः ।
एतस्य वाहान्कुरु सव्यतस्त्वमेवं प्रयातव्यममूढसंज्ञैः ॥ ४.६७.२० ॥
我想毗湿摩的信号也是如此,因为他知道我对他武器的反制。把他的马往左边赶——应当这样前进,心神不乱。
4.67.21
रश्मीन्समुत्सृज्य ततो महात्मा रथादवप्लुत्य विराटपुत्रः ।
वस्त्राण्युपादाय महारथानां नानाविधान्यद्भुतवर्णकानि ॥ ४.६७.२१ ॥
于是,这位心胸宽广的毗罗吒之子放开缰绳,跃下战车,拾起大车士们的各色华美衣物。
4.67.22
महान्ति चीनांशुदुकूलकानि पट्टांशुकानि विविधानि मनोज्ञकानि ।
हारांश्च राज्ञां मणिभूषणानि सुवर्णनिष्काभरणानि मारिष ॥ ४.६७.२२ ॥
国王们的大件中国丝绸和细麻布衣服,各式迷人的丝绸织物,项链和镶嵌宝石的饰物,金币与金饰,啊,尊者。
4.67.23
माणिक्यबाह्वङ्गदकङ्कणानि अन्यानि राज्ञां मणिभूषणानि ।
वस्त्राण्युपादाय महारथानां तूर्णं पुनः खं रथमारुरोह ॥ ४.६७.२३ ॥
他拿起红宝石、臂钏、臂环和手镯,国王们的其他宝石饰物,以及大车战士们的衣物,迅速重新登上战车。
4.67.24
राज्ञश्च सर्वान्कृतसंनिकाशान्संमोहनास्त्रेण विसंज्ञकल्पान् ।
नासाग्रविन्यस्तकराङ्गुलीकः पार्थो जहास स्मयमानचेताः ॥ ४.६७.२४ ॥
所有国王仿佛列阵待战,却被迷惑之箭弄得失去知觉;帕尔塔把手指放在鼻尖上,心怀笑意地笑了。
4.67.25
ततोऽन्वशात्तांश्चतुरः सदश्वान्पुत्रो विराटस्य हिरण्यकक्ष्यान् ।
ते तद्व्यतीयुर्द्विषतामनीकं श्वेता वहन्तोऽर्जुनमाजिमध्यात् ॥ ४.६७.२५ ॥
于是毗罗吒之子驱使那四匹配有金色鞍带的良马。白色的马载着阿周那,从战场中央穿过敌军的队伍。
4.67.26
तथा प्रयान्तं पुरुषप्रवीरं भीष्मः शरैरभ्यहनत्तरस्वी ।
स चापि भीष्मस्य हयान्निहत्य विव्याध भीष्मं दशभिः पृषत्कैः ॥ ४.६७.२६ ॥
他如此前进时,迅捷的毗湿摩以箭射击这位人中英雄。他也杀死了毗湿摩的马,并以十支细箭射中毗湿摩。
4.67.27
ततोऽर्जुनो भीष्ममपास्य युद्धे विद्ध्वाऽस्य यन्तारमरिष्टधन्वा ।
तस्थौ विमुक्तो रथवृन्दमध्याद्राहुं विदार्येव सहस्ररश्मिः ॥ ४.६७.२७ ॥
于是阿周那在战斗中避开毗湿摩,射穿了他的御者;从众车阵中脱身的不败之弓手屹立,如同劈开罗睺而出的千光太阳。
4.67.28
लब्ध्वा तु संज्ञां पुरुषप्रवीरः पार्थं निरीक्ष्याथ महेन्द्रकल्पम् ।
रणात्प्रमुक्तं पुरुषप्रवीरं स धार्तराष्ट्रस्त्वरितो बभाषे ॥ ४.६७.२८ ॥
恢复知觉后,这位人中英杰看见如因陀罗般的般度之子从战斗中脱身;见此英雄已脱离战阵,持国之子急忙开口。
4.67.29
अयं कथंचिद्भवतो विमुक्तस्तं वै प्रबध्नीत यथा न मुच्येत् ।
तमब्रवीच्छान्तनवः प्रहस्य क्व ते गता बुद्धिरभूत्क्क वीर्यम् ॥ ४.६७.२९ ॥
“此人不知怎地从你手中脱逃;把他绑紧,使他不能再逃。”于是檀努之子笑着对他说:“你的决心去了哪里?你的勇力又在哪里?”
4.67.30
शान्तिं परां प्राप्य यथा स्थितस्त्वमुत्सृज्य बाणांश्च धनुश्च चित्रम् ।
न त्वेव बीभत्सुरलं नृशंसं कर्तुं न पापेऽस्य मनो निविष्टम् ॥ ४.६७.३० ॥
你仿佛已得至高的寂静,抛弃了箭矢与奇妙的弓而站立;然而毗婆特苏(阿周那)不能做残忍之事,他的心不向邪恶。
4.67.31
जह्यान्न धर्मं त्रिदिवस्य हेतोः सर्वे तु तस्मान्न हता रणेऽस्मिन् ।
क्षिप्रं कुरून्याहि कुरुप्रवीर विजित्य गाश्च प्रतियातु पार्थः ॥ ४.६७.३१ ॥
即使为了天界,也不应舍弃法;因此在这场战斗中他们并未全部被杀。库鲁之雄,快去见库鲁人吧;让般度之子阿周那征服牛群后返回。
4.67.32
संमोहनास्त्रप्रतिमोहिताः स्थ यूयं न जानीथ धनापहारम् ।
पश्यामि वस्त्राभरणानि राजन्विराटपुत्रेण समाहृतानि ॥ ४.६७.३२ ॥
你们都被迷惑之箭所困,不知财物已被夺走。国王啊,我看见衣物与饰品已被毗罗吒之子收集起来。
4.67.33
नृपेषु सर्वेषु च मोहितेषु हन्तुं यदीच्छेत्स हनिष्यतीति ।
तदा तु धर्मात्मतया नृवीरो न चाहनद्वो बलभित्तनूजः ॥ ४.६७.३३ ॥
诸王皆已迷乱,若他愿意,本可杀死他们;但因他性情正直,那位人中英雄、因陀罗之子,并未出手。
4.67.34
भाग्येन युष्मानवधीन्न पार्थः संधिं कुरूणामनुमन्यमानः ।
तद्यात यूयं सहसैनिकैस्तैर्हतावशिष्टैर्गजसाह्वयं पुरुम् ॥ ४.६७.३४ ॥
幸运的是,般度之子因接受与库鲁人的和约,没有杀你们。因此,你们与士兵及残存者一同前往名为象城(Gajasāhvaya)的都城。
4.67.35
दुर्योधनस्तस्य निशम्य वाक्यं पितामहस्यात्महितं प्रशस्य ।
अतीतकामो युधि सोऽत्यमर्षी राजा विनिश्वस्य बभूव तूष्णीम् ॥ ४.६७.३५ ॥
难敌听了祖父的这番话,称赞其对自己有利;但因战斗之愿落空而极其愤怒,这位国王深深叹息,沉默不语。
4.67.36
तद्भीष्मवाक्यं हि निशम्य सर्वे धनञ्जयाग्निं च विवर्धमानम् ।
निवर्तनायैव मतिं निदध्युर्दुर्योधनं तं परिरक्षमाणाः ॥ ४.६७.३६ ॥
众人听了毗湿摩的这番话,又见阿周那的火焰般的威力日益增长,便都决意撤回,同时护卫难敌。
4.67.37
तान्प्रस्थितान्प्रीतमनाः समर्थो धनञ्जयः सर्वकुरुप्रवीरः ।
आमन्त्र्य वीरोऽनुययौ मुहूर्तं गाण्डीवघोषेण विनद्य लोकम् ॥ ४.६७.३७ ॥
阿周那见他们出发,心中欢喜,这位有能力、作为众库鲁中最杰出英雄的人,招呼他们,并跟随了片刻,以甘底拔弓的弦声震动世界。
4.67.38
तेषामनीकानि निरीक्ष्य पार्थो विकीर्णयानध्वजकार्मुकाणि ।
गाण्डीवधन्वा प्रहसन्कुरूणां शङ्ख प्रदध्मौ बलवान्बलेन ॥ ४.६७.३८ ॥
阿周那看到他们的军队,战车、旗帜和弓都散落一地,持甘底拔弓的普利塔之子笑着,以力量强大地吹响了他的法螺,向库鲁人示威。
4.67.39
ते शङ्खशब्दं तुमुलं निशम्य ध्वजस्य शब्दं च ततोऽन्तरिक्षे ।
गाण्डीवशब्देन मुहुर्मुहुस्ते भीता ययुः सर्वधनं विहाय ॥ ४.६७.३९ ॥
他们听到法螺的巨大声响,接着又屡屡听到天空中旗帜的声音和甘底拔弓的弦响,惊恐万分,抛下所有财物逃走了。
4.67.40
तानर्जुनो दूरतरं विभज्य धनं च सर्वं निखिलं निवर्त्य ।
आपृच्छ्य तान्दूरमनुप्रयात्वा धनञ्जयस्तत्र कुरून्महात्मा।
गुरूंश्च सर्वानभिवाद्य बाणैर्न्यवर्ततोदग्रमनाः शरैः सह ॥ ४.६७.४० ॥
阿周那将他们驱赶到很远之处,将所有牛群全部夺回,与他们告别,并追随了很长一段距离;然后伟大的财主(Dhanañjaya)以箭向俱卢族及所有长者致敬,怀着昂扬的心情,带着他的箭返回。
4.67.41
पितामहं शान्तनवं महात्मा द्वाभ्यां शराभ्यामभिवाद्य वीरः ।
द्रोणं कृपं चैव कुरूंश्च मान्याञ्शरैश्च सर्वानभिवाद्य सङ्ख्ये।
दुर्योधनस्योत्तमरत्नचित्रं चिच्छेद पार्थो मकुटं शरौघैः ॥ ४.६७.४१ ॥
伟大而英勇的般度之子(Pārtha)以两支箭向祖父、Śantanu之子毗湿摩致敬;又以箭向德罗纳、克里巴及尊贵的俱卢族致敬,在战场上向众人行礼之后,以箭雨切断了杜尔约达那那镶满珍宝的美丽王冠。
4.67.42
अराजवंशस्य किमर्थमेतन्नित्यं न धार्यं मकुटं त्वयेति ।
संपातितं भूमितले सरत्नं प्रीतस्तुतो मात्स्यसुतो बभूव ॥ ४.६७.४२ ॥
“你这没有国王的家族之人,为什么不应当永远佩戴这顶王冠呢?”说罢,马特斯亚之子将连同宝石的王冠掷于地上;他心中欢喜,受到了赞美。
4.67.43
धनञ्जयं नागमिव प्रभिन्नं विजित्य शत्रून्परिवर्तमानम् ।
गास्ता विजित्याभिमुखं प्रयान्तं न शक्नुवन्तः कुरवः प्रयाताः ॥ ४.६७.४३ ॥
财主(Dhanañjaya)战胜敌人,如发情的大象般来回奔驰,又夺回了牛群,迎面而来;俱卢族无法阻挡,于是离去。
4.67.44
धनञ्जयं सिंहमिवात्तशस्त्रं गा वै विजित्याभिमुखं प्रयान्तम् ।
उदीक्षितुं पार्थिवास्ते न शेकुर्यथैव मध्याह्नगतं हि सूर्यम् ॥ ४.६७.४४ ॥
看到手持武器如狮子般的财胜(Dhanañjaya)征服牛群后向前迈进,诸王不敢直视他,正如不能直视正午的太阳。
4.67.45
रक्तानि वासांसि च तानि गृह्य रणोत्कटो नाग इव प्रभिन्नः ।
जित्वा च वैराटिमुवाच पार्थः प्रहृष्टरूपो रथिनां वरिष्ठः ॥ ४.६७.४५ ॥
拿起那些红色的衣物,如在战场上狂怒的发情象,胜利的普利塔之子(阿周那)对毗罗吒之子(优陀罗)说道,他面带喜色,是战车武士中最杰出者。
4.67.46
आवर्तयाश्वान्पशवो जितास्ते याताः परे प्रैहि पुरं प्रहृष्टः ।
उद्धुष्यतां ते विजयोऽद्य शीघ्रं गात्रं तु ते सेवतु माल्यगन्धः ।
माता तु ते नन्दतु बान्धवाश्च त्वामद्य दृष्ट्वा समुदीर्णहर्षम् ॥ ४.६७.४६ ॥
调转你的马匹;你的牛群已被征服,敌人已经离去。欢喜地前往城中。愿今日你的胜利迅速被宣告,愿花环与香料涂于你的身上。愿你的母亲和亲属见到今日满怀喜悦的你而欢欣。